________________
८१. ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः
(मुहुर्त ज्वलितं श्रेयो न च धूमायितं चिरम् ) । तेजस्विताया महत्त्वम्-सूक्तिमुक्तयमुपलभ्यते महाकवे रवेः कृती किरातार्जुनीये । कविरिहोपदिशति तेजस्विताया मानितायाश्च महत्त्वम् । प्रज्वलितमग्निमाक्रमितुं नोत्सहते धृष्टोऽपि कश्चित्, परं भस्मनां पुजं लघुरपि जनः प्रभवत्याक्रमितुम् । कोऽत्र भेदः ? प्रदीप्तोऽग्निर्दाहगुणसमवेतस्तेजसा समन्वितश्च प्रभवति दग्धुं निखिलं जगदिदम् । तत्तेजस्तनोति साध्वसमतुलं स्वान्तेऽपि सन्त्रासकस्य । न धृष्णोति धृष्टोऽपि धाष्टर्यमाधातुं मनसि कृशानुधर्षणस्य । भस्मानि तु निस्तेजांसि । नानुभवन्ति तानि मानावमानम् । अतस्तेषां धर्षणं शक्यम् । एवमेव मानिनोऽपि सहर्षम् असून उज्झन्ति, न तु स्वतेजस्त्यजन्ति । अतो निगद्यते भारविणा
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः। अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः॥
किराता० २-२० जीवनस्य साफल्यम्-किं नाम जीवनम् ? किं नाम पुरुषत्वम् ? के गुणास्ते ये जीवनं साफल्यं लम्भयन्ति, पुरुषे पौरुषश्चादधति ? तदेव जीवनं येन स्थास्नु यशश्चीयते, सुखमुपभुज्यते, शान्तिः स्थिरीक्रियते । तदेव पुरुषत्वं यत्र तेजः स्वाभिमानिता पौरुषं च प्राधान्येनाश्रयं लभन्ते । तेजस्विता मानिता गुणार्जनं श्रीसंग्रहश्चेति गुणाः सर्वेषामेव जीवनानि सफलयन्ति, पुरुषे पौरुषमाविष्कुर्वन्ति च । भारविलंक्षयति पुरुषत्वं यन्मानित्वमेव प्रधानं पुरुषस्य लक्षणम्, मान-विहीनो न नरः । विजहाति चेन्मानं स तृणवदगण्यः, निरर्थक च तस्य जन्म ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते । कि० ११-६१
जन्मिनो मानहीनस्य तृणस्य च समा गतिः। कि० ११-५९
स्वाभिमानस्य गौरवम्-मानश्चेदभीप्सितः, कस्तदवाप्त्युपायः ? भारविस्तदवाप्तिसाधनमभिदधाति तेज इति ।
'स्थिता तेजसि मानिता' (कि० १५-२१)। तेजस्वितागुणमेवावष्टभ्य मानिता प्रवर्तते प्रवर्धते च । यत्र तेजस्विता तत्रैव यशः श्रीगंणगणाश्च । तेजस्विनो हि विराजन्ते तरणिवदाभया । ते दुष्करमपि सुकरम्, दुर्गममपि सुगमम्, दुर्लभमपि सुलभम्, दुःसहमपि सुसहं सम्पादन्ति । न तेषां वयो विचार्यते । बाल एव रामः खरदूषणवधं विधातुमशकत् । अत आह कालिदासः-'तेजसां हि न वयः समीक्ष्यते' ( रघु० ११-१)। यश्च तेजसा परिहीयते परिक्षीयते