________________
२७०
संस्कृतमिबन्धशतकम् कीतिर्यस्य स जीवति–सन्तः सदैव श्रेयस्करमाचक्षते यश एव । विनश्वरे जगति यश एवेकं स्थास्तु । यशसे एव जीवन्ति म्रियन्ते च साधवः । यश एव परमं धनं मन्वते मानिनः । उच्यते च
___ 'यशोधनानां हि यशो गरीयः'; 'कोतिर्यस्य स जीवति'।
श्रीरनुयाति तादृशान् मानिनो यशस्विनश्च । मानिनो गत्वरैरसुभिः स्थायि यशश्चिचीषन्ति । तथोक्तं भारविणा
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः।
अधिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ कि० २-१९
अवधेयमिह चैतत् । ये हि मानिनो मानमेव प्रधानतो गणयन्ति, न ते जात्वभिलषन्ति श्रियम् । श्रियमवमत्य मानमाद्रियन्ते । मानस्य सम्पदश्चैकत्रावस्थानं सुदुर्लभम् । तदुच्यते भारविणा
न मानिता चास्ति भवन्ति च षियः । किराता० १४-१३
मुहर्त ज्वलितं भेयो०-तेजोऽवाप्तये सम्पद्यतेतरामावश्यकता गुणाजनस्य । नान्तरेण गुणसंग्रह मानिता तेजस्विता वा संभवति । गुणार्जनं मूलं मानितायास्तेजस्वितायाश्च । गुणेरेवावाप्यते यशो महिमा च । गुणैरेव गौरवावाप्तिरादरास्पदत्वं च । उक्तं च भारविणा-'गुरुतां नयन्ति हि गुणा न संहतिः' ( कि० १२-१०)। गुणार्जनस्य महत्त्वमन्यत्रापि श्रूयते ।।
'गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्' । भवभूतिरपि गुणानामेव पूज्यत्वमाचष्टे, न तु वय आदीनाम् । 'गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः' ( उत्तर० ४-११)। गुणेरेव स्थायिनी कीर्तिः सुलभा, शरीरं तु गत्वरम् । यशःसिद्धयै एव सिध्यन्ति साधूनां सच्चरितानि । तदुच्यते
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ हितोपदेशः १-४९ तेजस्विन एव नामाभिनन्दन्ति रिपवोऽपि। स एव सत्यं पुंशब्दाभिधेयः।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् । किराता० ११-७३
क्षणमपि तेजःसहितं जीवितं श्रेयो न च चिरं सावमानम् । तेजस्वितैव तत्त्वं जीवितस्य । अतः साधूच्यते
मुहूर्त ज्वलितं श्रेयो न च धूमायितं चिरम् । महाभारत