SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ संस्कृतनिबन्धशतकम् रुदीर्यते । ब्रह्मैव सत्यम्, सत्यं च ब्रह्मात्मकम् इति सुकरं वक्तुम् । अतएव ईश्वरस्य स्वरूपनिर्देशात्मके सच्चिदानन्दशब्दे सत्-शब्दः प्राङ निर्दिश्यते । छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च सत्यमेव ब्रह्म ति प्रतिपाद्यते, तदेव च जिज्ञासितव्यम् । सत्यं ब्रह्मेति, सत्यं ह्येव ब्रह्म । बृहदा० ५-४-१ सत्यं त्वेव विजिज्ञासितव्यम् । छान्दोग्यो०७-१६-१ पायथागोरस ( Pythagoras )- महोदयोऽपि सत्यं ब्रह्मेति ( Truth is God ) प्रतिजानीते। महाभारते अश्वमेधसहस्रादपि सत्यस्य वैशिष्टयं व्याचक्ष्यते। अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते ॥ महा० महात्मा कबीरदासोऽपि सत्यं परं तप इति भणति । यत्र सत्यं तत्र ब्रह्मणोऽवस्थितिः । 'सांच बराबर तप नहीं, झूठ बराबर पाप । जाके हिरदय साँच है, ताके हिरदय आप' ॥ तुलसीदासोऽपि 'नहि असत्य सम पातक दूजा' इत्यभिदधान एतदेव समर्थयते । एवान्स-महोदयः सत्यं जगतः संस्थापकरूपेण गुरुत्वाकर्षकरूपेण च प्रतिपादयति Truth is the gravitation principle of the universe, by which it is supported and in which it inheres. सत्ये सर्व प्रतिष्ठितम सत्येनैव जगदेतद् धार्यते । सत्याश्रयेणैव जगति विश्वासस्य प्रेम्णः श्रद्धायाः सद्भावनायाश्च समवस्थितिः। सत्यं जनं पापात् त्रायते, दुखाद् मोचयति, बन्धनाद् रक्षति च । यत्र-यत्र सत्यं तत्र-तत्र यशो दाक्षिण्यं सात्त्विकत्वं पावनत्वं श्रीः सौख्यं च । एवं जगति न तत् किंचिद् यत् सत्येन दुरवापम् । सत्येनैव जगतः स्थितिः। उक्तं च-'गोभिविप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः । अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ।' सत्यं ब्रूयात् प्रियं ब्रूयात्०–सत्याश्रयणेऽपि न तत्र अप्रियत्वं संपृक्तं स्यात् । सत्यमपि प्रियत्वेन माधुर्येण च समन्वितं स्यात् । तथैव सत्यस्य प्रतिष्ठा । मनुना साधु निर्दिश्यते यत् प्रियमेव सत्यं भाषितव्यम्, प्रियमपि नानृतेन संपृक्तं स्यात् । सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयाद्, एष धर्मः सनातनः॥ मनु० ४-१३८ । एतदेव 'सूनृत'-शब्देनापि अभीष्यते-'प्रियं च सत्यं च वचो हि सूनतम्' । सूनृत-वचनस्य महत्त्वं भवभूतिना वर्ण्यते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy