________________
संस्कृतिः संस्कृताश्रया
१८३
. तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः॥ ( मनु० १।१०८)
लोके विषयासक्तिः मानवविनाशकारिणी । घृतप्रदीप्तो वह्निरिव विषयोपभोगो दोषायैव प्रवर्तते । अतो विषयासक्तियोपेक्ष्या च
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ (मनु० २।९४ )
मातृपितृगुरुशुश्रूषा सन्ततं कल्याणकारिणी। सा चतुर्विधां श्रियमावहति । अत एव मनुना संस्तूयते
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ ( मनु० २।१२१) •