________________
५१. भारतीयसंस्कृतौ नारीणां स्थानम् (१. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः,
२. भारतीयसमाजे महिलानां गौरवम् ।) स्त्रीणां संमानास्पदत्वम्-वैदिकसाहित्यस्यानुशीलनेन विज्ञायते यद् वैदिककाले स्त्रीणां स्थानम् अतीव गौरवास्पदम् आसीत् । स्त्री गृहिणी, गृहस्वामिनी, सहधर्मिणी इत्यादिभिर्विशेषणैः संबोध्यते स्म । पत्नीरूपेण सा गृहस्वामिनीपदम् अलमकरोत् । श्वशुर-श्ववादिषु तस्या अधिकारो मन्यते स्म । 'सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञो अधि देवृषु' (ऋग्० १०-८५-४६)। 'जायेदस्तम्' जाया एव अस्तं गहमित्यर्थः, इति ऋग्वेदे प्रतिपाद्यते । एतदेव संस्कृतेऽपि समर्थ्यते यद्-'न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते'।।
ऋग्वेदे कन्यानां शिक्षाया व्यवस्था निर्दिश्यते । पुत्रवत् तासामपि उपनयनादिसंस्कारा अभवन् । वेदाध्ययनेऽपि तासामधिकारोऽङ्गीक्रियते स्म । गृहस्थजीवन-संबद्धविषयेषु तासां योग्यत्वम् अभीष्टमासीत् । वैदुष्यमासाद्य ता यज्ञादिकर्मणि, विद्याविवादे, मन्त्रदर्शनकर्मण्यपि च प्रावर्तन्त । ऋग्वेदे बहव्यो मन्त्रदर्शिका ऋषिकाः स्मर्यन्ते । तत्र काश्चन ऋषिकाः सन्ति-श्रद्धा कामायनी, शची, यमी, इन्द्राणी, अदितिः, जुहूर्ब्रह्मजाया, अपाला, आत्रेयी, शश्वती, आंगिरसी, विश्ववारा, लोपामुद्रा, रोमशा ब्रह्मवादिनी, घोषा, उर्वशी, सूर्या सावित्री, गोधा, सिकता निवावरी-प्रभृतयः । मन्त्रदर्शनेन तासां गौरवं वैदुष्यम् आदर्शरूपत्व च परिलक्ष्यते ।
स्त्रीणाम् अधिकाराः-नारी पुरुषस्य सहयोगिनीरूपेणावर्तत । सा पुरुषैः सह यज्ञादिकर्माणि समपादयत् । न केवलं सा यज्ञादावेव पुरुषसांनिध्यम् अशिश्रियत्, अपि तु भीषणे समरेऽपि सा सेनानीत्वम् अलंचकार ।
संहोत्रं स्म पुरा नारी समनं वाव गच्छति । अथर्व० २०-१२६-१०
इन्द्राण्येतु प्रथमाजीतामुषिता पुरः। अथर्व० १-२७-४
वेदेषु स्त्री न 'अबला' इति मन्यते । सा सुवीरा, शूरपत्नी, इन्द्रपत्नी, इत्यादिभिः पदैर्गौरवेणो ष्यते । सा दुर्जनं कामुकं धृष्टं च सुवीरेव शूरपत्नीव धर्षयति घातयति च।
अवीरामिव मामयं शरारुरभि मन्यते ।
उताहमस्मि वीरिणीन्द्रपत्नी० । अथर्व० २०-१२६-९ स्त्रियाः सौभाग्यवतीत्वं सहृदयत्वम् उद्यमित्वं च प्रशस्यते ।
न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् । अथर्व० २०-१२६-६