________________
भारतीयसंस्कृतौ नारीणां स्थानम्
१८५ स्त्री यथावसरं संसद्यपि भाषणादिकं ध्यदधात् । 'वशिनी त्वं विदथमा वदासि' ( अथर्व० १४-१-२०)। सा गार्हपत्यकर्मणि जागरूकाऽभूत्, पुत्रादिलाभेन समृद्धि चागच्छत् । ( अथर्व० १४-१-२१, ७-३५-१)
स्त्रीणां कर्तव्यम्-स्त्रीणाम् आचारशुद्धिः, जागरूकत्वम्, सुसन्ततियुक्तत्वं चाभीष्यते । 'शुद्धाः पूता योषितो यज्ञिया इमाः' (अथर्व० ६-१२२-५ )। सुसन्तानोत्पत्त्या राष्ट्रहितसंपादनमपि स्त्रीणां कर्तव्यम् । 'इदं राष्ट्र पिपृहि सौभगाय' ( अ ० ७-३५-१ )। अथर्ववेदे स्त्रीगुणानामपि वर्णनं प्राप्यते । ( अ० १.१४. १-४ )। तत्र स्त्रीगुणा वर्ण्यन्ते यत् सा तेजोवती, कुलपा, पतिहितकारिणी, मृदुभाषिणी, सरला, अक्रोधना, पतिव्रता, आज्ञाकारिणी, प्रसन्नचित्ता च स्यात् ।
पत्याऽविराधयन्ती ( अ० २-३६-४)। जाया पत्ये मधुमती वाचं वदतु शान्तिवाम् ( अ. ३-३०-२)। पत्युरनुव्रता भत्वा सं नास्वामृताय कम् (अ० १४-१-४२)।
सा पतिव्रता स्यात्, न च पत्या विरोधम् आचरेत् । मधुमती वाचम् उदीरयेत् । पत्युर नुव्रता स्यात् । त्रुटयर्थं प्रायश्चित्तम् आचरेत् । पतिपरिवारार्थं मङ्गलकारिणी शुश्रषापरा सुखदा च स्यात् । यज्ञं कुर्यात् । पत्या सहाग्निहोत्रम् आचरेत् । पातिव्रत्यम् आचरन्ती सोम्यस्वभावा दयालुश्च स्यात् । दम्पत्योः हृदयसामञ्जस्यं स्यात् । प्रजावती वीररुर्देवकामा स्योनेमग्नि गार्हपत्यं सपर्य।
___ अ० १४-२-१८ यतनुचा मिथुना या सपर्यतः । अथर्व० २०-२५-३
सं वां भगासो अग्मत सं चित्तानि समु व्रता । अथर्व० २-३०-२
पुरा ना : शृङ्गारमकुर्वन्, आभूषणानि चाधारयन् । 'चक्षुरा अभ्यञ्जनम्' ( अ० १४.-१-६ )। यज्ञाद्यवसरेषु स्त्रियः सुवसनाः सालंकाराश्च संमिलिता अभूवन् । 'सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता' ( अ० १४१-७)। बहिर्गमनादौ भाषणादिषु च न तत्र पारतन्त्र्यम् आसीत् । तासां चारित्रिक स्तरमपि उत्कष्टत्वमभजत । नहि धृष्टोऽपि ता धर्षयितुं क्षमोऽभूत् । ( अ० २०-१२६-९)।
गोभिलगृह्यसूत्रे ( प्रपाठक २) कन्यानाम् उपनयनसंस्कारो वेदाध्ययनं गायत्रीमन्त्रपाठः च निर्दिश्यन्ते। काश्चन आजन्म ब्रह्मचर्यव्रतम् अपालयन् । ता ब्रह्मवादिन्यो धर्मोपदेशिकाश्च समभूवन्, यथा घोषा अपालाप्रभृतयः । पितृसम्पत्तावपि तादृशीनां ब्रह्मचारिणीनां पुत्रवत् समानाधिकारी विज्ञायते । १. विशदविवेचनार्थ द्रष्टव्यम्-लेखककृत-अथर्ववेदकालान संस्कृति-अध्याय ३