SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ५९. चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः (१. वर्णव्यवस्था; २. जाति-प्रथाया दोषाः) का नाम वर्णव्यवस्था-वैदिककालाद् आरभ्य भारतेऽस्मिन् वर्णव्यवस्था प्रसरीसति । वर्णशब्देन किम् अभिप्रेतम्, इति जिज्ञासायां 'वर्णो वृणोते.' (निरुक्त ) । मानवः स्वजीवन-निर्वाहाथं यां कामपि वृत्तिम् आश्रयते, तदनुसारमेव तस्य वर्णनिर्णयः । प्रवृत्तिवैविध्यम् अनुरुध्य मानवशरीर-समालोचनपूर्वकं चातुर्वर्ण्यव्यवस्था प्रवर्तिता। . मानव-शरीरं चतुर्धा विभक्तुं शक्यते-१. शिरोभागः, ज्ञानेन्द्रियमनोबुद्धिसमन्वितः; २. हस्ती, ग्रहण-दानादान-रक्षण-साधनभूतो; ३. उदरप्रधानो मध्यभागः, पाचनक्रियासंबद्धोऽशितमन्नं रक्तादिरूपेण परिवर्त्य शरीरस्थितिसाधकश्च; ४. पादो, गमनागमनादिसाधको शरीरस्थितिप्रवृत्तिप्रवर्तको च। एवमेव राष्ट्र समाजोऽपि चतुर्धा विभज्यते । १. ब्राह्मणो ज्ञानकायंसंबद्धः, २. क्षत्रियो रक्षाकायंसंबद्धः, ३. वैश्यः कृषिवाणिज्यादि-संबद्धः, ४. शूद्रः शुश्रूषाकार्यसंबद्धश्च । एतदेवाभिप्रेत्य ऋग्वेदे यजुर्वेदेऽथर्ववेदे गीतायां च चातुर्वण्र्यम् उल्लिख्यते। ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः। ऊरू तवस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ यजु० ३१-११ चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥ गीता ४-१३ ब्राह्मणस्य कर्तव्यम्-मनुस्मृती गीतायां च ब्राह्मणस्य कर्तव्यं निर्दिश्यते यद् अध्ययनम्, अध्यापनम् , यजनम, याजनम्, दानम्,प्रतिग्रहः, शम-दम-शौचक्षान्ति-क्षमा-आजवादि-गुणयुक्तत्वम्, ज्ञान-विज्ञानयोः समुत्कृष्टत्वं च ब्राह्मणस्य कर्तव्यम् । अध्यापनमध्ययनं यजनं याजनं तथा। घानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥ मनु० १-८८ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ गीता १८-४२ क्षत्रियस्य कर्तव्यम्-प्रजानां संरक्षणम्, दानम्, यजनम्, अध्ययनम्, विषयेष्वनासक्तिः, शौर्यम्, धैर्यम्, दाक्ष्यम्, युद्धेऽपलायनम्, दानम्, प्रभुत्वं च क्षत्रियाणां कर्तव्यम् अवधार्यते। प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समादिशत् ॥ मनु० १-८९
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy