________________
२०७
विज्ञानस्य लाभा दोषाश्च त्वम्, सहानुभूतिस्थाने परापकृतिः, चारित्रिकशिक्षास्थाने दुश्चरित्रत्वम्, विनयशीलादि-स्थाने धाष्ट्यं च प्रवर्तते ।
संहारकास्त्राणाम् अणुबमप्रभृतीनाम् आविष्कारात् सकलं जगत् चिन्ताग्रस्तम् आतङ्कितं क्षुब्धं च वरीवति । साम्प्रतिकं विज्ञानं बालिश-करगतखड्ग इव न तथा लाभाय यथा विनाशाय हानाय च, न तथा सुखदं यथा दुःखदम्, न तथा चिन्तात्राणं यथा चिन्ताजननम्, न तथा विकासाय यथा विनाशाय प्रवर्तते । यन्त्रादीनि मानवोपकरणानि सहायत्वेन सेवकत्वेन च प्रवर्तितानि साम्प्रतं मानव-स्वामित्वमेव भजन्ते ।।
__ उपसंहारः-विज्ञानं तीक्ष्णम् आयुधमिव उभयमपि साधयितुं शक्नोतिशत्रुनाशनम् आत्मनाशनं च । यदि विज्ञाने धर्मः, आस्तिक्यम्, सद्वृत्ताचरणम्, परार्थचिन्तनं च संगृह्यन्ते तर्हि विज्ञानस्य दोषा अपि गुणत्वेन, दूषणमपि भूषणत्वेन, दुर्गुणा अपि सद्गुणत्वेन, दुःखानि च सुखत्वेन परिणंस्यन्ते। .