________________
२०६
संस्कृतनिबन्धशतकम् चिकित्साक्षेत्रे एक्स-रे-अल्ट्रावायलेट रेज-प्रभृतीनाम् आविष्कारात् नव्या सृतिरेव समुद्भूता। विज्ञान-साहाय्येनैव हृदय-परिवर्तनम्, अङ्गपरिवर्तनम्, स्त्रीपुरुषलिङ्गपरिवर्तनम्, असाध्यरोगोपशमनम्, सर्वमप्येतद् अश्रुतपूर्व प्रत्यक्षीक्रियते।
इजीनियरिंग-क्षेत्रेऽपि तादृश्येवापूर्वा चमत्कृतिनिरीक्ष्यते । युद्धसामग्रीविषये तु एटमबम-हाइड्रोजन बम-नापाम बम-मेगाटन बम-टैंक-मेरीन-सबमेरीनमशीनगन-राडार-राकेट-प्रभृतीनाम् आविष्काराद् युद्धप्रक्रियायाम् आमूलचूलं परिवर्तनं संलक्ष्यते । एवंविधैराविष्कारैः क्षणेनैव किमपि नगरम्, कोऽपि देशः स्वकीयः परकीयो वा, सुदूरावस्थेनैव अग्निसात्, भस्मसात्, जलसात्, प्रलयसाद् वा कपार्यते । एवं विज्ञायते यद् विज्ञानेन किमप्यपूर्वमेव जगदिदं विहितम् ।
विज्ञानस्य दोषाः-यदि विज्ञानस्य दोषा विविच्यन्ते विश्लिष्यन्ते चेत् तर्हि दोषपक्षोऽपि तथैव प्राबल्यं धत्ते । तत्रापि बहु निगदितुं शक्यम् । यथैव महदुपकृतं मानवसंसृतेविज्ञानेन, तथैव प्रभूतमपकृतमपि । तत्र समासतः केचन दोषा उपस्थाप्यन्ते।
विज्ञानेन जीवनम् असंयतम्, चरित्रहीनम्, धर्महीनम्, स्वास्थ्यहीनम्, मनोबलहीनम्, इच्छाशक्तिहीनम्, आधि-व्याधि-ग्रस्तम्, चिन्ता-सहस्र-निचितम्, व्याधि-सहस्रोपचितम्, कर्मठताविरहितम्, सालसं च व्यधायि । धर्माभावे, आस्तिक्यबुद्धयभावे, चारित्रिकोत्कर्षाभावे च कीदृशी समुन्नतिः, कीदृशो वा विकास इति न शक्यं वर्णयितुम् । रोगोपशमनार्थ सत्स्वपि सहस्रशो भेषजेषु रोगाः सुरसाराक्षसीमुखवद् वर्धन्ते ।
विज्ञानप्रभावेण तथा जीवने प्रतिस्पर्धा वृद्धिमुपागता, यथा प्रतिस्पर्धायामेव जीवनं राष्ट्र समाजो वा संक्षयमुपैति । वैज्ञानिके विकासे सदाचारस्य सहानुभूतेः शीलस्य विनयस्य च स्थानमेव नोपलभ्यते । धीरत्वम्, वीरत्वम्, आस्तिक्यम्, तपःपूतत्वम्, स्नेह-श्रद्धा-भक्तयः, सदाचारश्च तुषार-पात-हतकमलानीव म्लायन्ते, हीयन्ते, विनश्यन्ति च ।।
वैज्ञानिकेऽस्मिन् युगे धनिनो धनवत्तराः, निर्धना निर्धनतराश्च संलक्ष्यन्ते । आस्तिक्यस्य, पावनत्वस्य, सद्वृत्तत्वस्य च नामान्यपि विलुप्यन्ते । भौतिकोन्नतिलिप्सायां सत्यां विश्वशान्तेः, विश्वप्रेम्णः, विश्वधर्मस्य, विश्वकल्याणादिकस्य च स्वान्तसंस्कर्वी सर्वोदयप्रवणा पूता भावनैव न मानसपाटलं जागरयति । तत्प्रभावेणैव वर्णेषु वर्गेषु जातिषु समाजेषु राष्ट्रषु च प्रतिस्पर्धा, शत्रुत्वभावना, परसंहारचिन्ता, परार्थनाशनपूर्वकं स्वार्थसाधनकामना, चानुदिनं समेधते।
विद्युतः प्रयोगादुपयोगाच्च मृतानां म्रियमाणानां च संख्या भूयसी । विज्ञानमेतद् मानवं दानवत्वेन पर्यणमयत् । तत्प्रभावाद् अनुरागस्थाने विद्वेषि