SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०९ पापुर्ववं नया सृष्टं गुणकर्मविभागशः शौर्य तेजो प्रतिक्ष्यिं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ गीता १८-४३ महाकविना कालिदासेन 'क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः' ( रघु० २-५३ ) इत्यत्र क्षतेः विपदो वा रक्षणं क्षत्रियस्य कर्तव्यमित्यभिधीयते। वैश्यस्य कर्तव्यम्-वैश्यस्य कर्तव्यं निर्दिश्यते-पशूनां रक्षणम्, दानम्, यजनम्, अध्ययनम्, व्यापारः, वाणिज्यम्, कुसीदवृत्तिः कृषिश्चेति । पशूनां रक्षणं दानमिज्याऽध्ययनमेव च। वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ मनु०१-९० कृषि-गौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । गीता १८-४४ शूद्रस्य कर्तव्यम्-शूद्रस्य शिल्पकार्यम्, सर्वेषां वर्णानां च शुश्रूषणं कर्तव्यम् अभिधीयते।। एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । सर्वेषामेव वर्णानां शुश्रूषामनसूयया ॥ मनु० १-९१ परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ गोता १८-४४ वर्णव्यवस्थाया उपयोगिता-वर्णव्यवस्था परीक्ष्यते चेद् गीताया वचनमेतत् समर्थयते यत् चातुर्वण्यं गुणकर्मानुसारमेव प्रवृत्तम् । विभाजनस्य किं कारणम् ? क आधार इत्यनुयोगे प्रोच्यते यद् मानवेषु केचन नैसर्गिकाः सहजाश्च गुणदोषा उपलभ्यन्ते । तन्मूलकमेव प्रवृत्तिवैविध्यम् । प्रवृत्तिभेदाच्च वृत्तिभेदाः। वृत्तिभेदाच्च वर्णभेदः । वर्णभेदाच्च क्रियाभिन्नत्वम् । अतएव गीतायां निगद्यते ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। ___ कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥ गीता १८-४१ वर्णव्यवस्थाया वैज्ञानिकत्वम्-दार्शनिकदृष्टया, मनोवैज्ञानिकदृष्टया, वैज्ञानिकदृष्टया च समाजः पर्यालोच्यते चेत् तर्हि चतुर्विधा प्रवृत्तिर्मानवानां संलक्ष्यते । १. सत्त्वप्रधाना, २. सत्त्वरजोमिश्रिता, ३. रजस्तमोमिश्रिता, ४. तमःप्रधाना च। प्रकृतेर्गणत्रयात्मकत्वात् प्रकृतिविकृतावपि गुणत्रयसमन्वयो निर्विवादः। 'सत्त्वं लघु प्रकाशकम्' (सांख्यकारिका १३ )। एवं ये सत्त्वगुणोपेता ज्ञानविज्ञानप्रवणा आध्यात्मिकता-आस्तिक्यादिगुणसंवीताश्च ते ब्राह्मणाः । 'उपष्टम्भकं चलं च रजः' ( सांख्य० १३)। रजोगुणे प्रेरकत्वं क्रियाशीलत्वं च । अतो ये सत्त्वरजोमिश्रितास्ते क्षत्रियाः। 'गुरु वरणकमेव तमः' (सांख्य० १३) । तमोगुणे आवरकत्वं क्रियाराहित्यं च । एवं ये रजस्तमोमिश्रितास्ते वैश्याः। ये सर्वथा तमःप्रधानास्ते शूद्राः । एवं दार्शनिकदृष्टया
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy