________________
२१०
संस्कृतनिबन्धशतकम् वर्णव्यवस्थाया औचित्यं सुव्यवस्थितत्वं चावगम्यते । अतएव गीतायां प्रतिपाद्यते यद् नहि लोके किंचिद् वस्तु गुणत्रयव्यपेतम् । सर्वं त्रिगुणात्मकमेव ।
न तदस्ति पथिव्यां वा दिवि देवेष वा पुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणः॥ गीता १८-४० गुणकर्मानुसारं वर्णव्यवस्था-वर्णव्यवस्था परीक्ष्यते चेत् सा गुणकर्मानुसारं प्रावर्तत । यः कश्चन तत् कर्म कुर्यात् स तं वर्णम् आश्रयेत् । स्वकर्मणैव ब्राह्मणो वैश्यत्वं शूद्रत्वं चापद्यत । एवमेव सत्कर्माण्यनुरुध्य शूद्रोऽपि ब्राह्मणत्वं प्रपेदे । नहि वर्णव्यवस्था जन्मानुसारिणी जन्ममूला च । अतएव मनुना कर्मानुसारं वर्णविपर्ययो निर्दिश्यते
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्।
क्षः याज्जातमेवं तु विद्याद् वैश्यात् तथैव च ॥ मनु० १०-६५ मनुना स्फुटं निर्दिश्यते यद् वेदम् अनधीयानो ब्राह्मणः सपरिवारः शूद्रत्वम् आपद्यते।
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥ मनु० २-१६८
आपस्तम्बधर्मसूत्रेऽप्येतदेव विशदीक्रियते यद् धर्मचर्यया वर्णोत्कर्ष लभते, अधर्मचर्यया च वर्णापकर्षम् ।
धर्मचर्यया जघन्यो वर्णः पूर्व पूर्व वर्णमापद्यते जातिपरिवृत्तौ । अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ।
आपस्तम्ब० १-२ जातिप्रथाया दोषाः-वर्णव्यवस्थैव स्वस्थानात् प्रच्युता परस्ताद् जातिप्रथाम् आपन्ना। तदा च जन्ममूलकमेव जातेविभाजनं संपन्नम् । एतदत्रावधेयं यद् वर्णव्यवस्थाया मूलं वृत्तिः कर्म गुणो वाऽवर्तत । जातिप्रथायाश्च मूलं जन्ममात्रम् । सेयं जातिप्रथा सर्वविधदोषसंवलिता लक्ष्यते । तत्र गुणकर्मणोः प्राधान्याभावाद् विद्वषाः, उच्चावचत्वभावना, वर्णसांकर्यम्, सजातीय-विजातीय-विरोधाः, स्पृश्यास्पृश्यत्वदोषः, सग्धिसपीत्यादौ उत्कृष्टत्वापकृष्टत्वादिजघन्य-विचार-चर्चा । एवंविधा भूयांसो दोषाः संप्रवर्तन्ते । अतएव भारतीयैवैदेशिकैश्च विद्वद्भिर्जातिप्रथा सर्वदोषालयेति निन्द्यते गोते च । एवं विज्ञायते यद् वर्णव्यवस्था समाजोन्नतिसाधिका लोकहितकारिणी वैज्ञानिकी चास्ति । जातिप्रथा नूनं दोषावहा कलङ्कास्पदा च ।