SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५४ संस्कृतनिबन्धशतकम् आचार्यस्य कर्तव्यरूपेण निर्दिश्यते यत् स छात्रेष्वाचारं ग्राहयेत् । सदाचारं शिक्षयेत्, व्युत्पत्तिम् आदधीत, ज्ञान-समृद्धि निष्पादयेत्, दुर्गुणगणवारणपुरःसरं सद्गुणान् आदध्याद् । इन्द्रो ह भूत्वासुरांस्ततह । अथर्व० ११-५-७ आचार्यः कस्मात् ? आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा। निरुक्त १-५-४ तैत्तिरीयोपनिषदि गुरु-शिष्य-सम्बन्धमाश्रित्य प्रोच्यते यद्-- . आचार्यः पूर्वरूपम्। अन्तेवास्युत्तररूपम् । विद्या सन्धिः। प्रवचनं सन्धानम् । इत्यधिविद्यम् । तैत्तिरीयो० १-३-३ छात्राणां शम-दमादि-गुणयुक्तत्वं प्रतिपाद्यते। विद्यायाश्च श्रीवर्धकत्वं शिष्यते। दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तैत्ति० १-४-२,३ सत्य-तपोदम-शमादिभिः सहैव स्वाध्यायः प्रवचनं चानिवार्यत्वेनानुशिष्यते । अतएव दीक्षान्तोपदेशे आचार्योऽन्तेवासिनम् अनुशास्ति-- सत्यं वद । धर्म चर। सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् । तैत्ति० १-११-१ वैशेषिकदर्शने 'यतोऽभ्युदय-निःश्रेयस-सिद्धिः स धर्मः' इत्येनेन धर्मलक्षणेन सदैव शिक्षाया उद्देश्यम् अभ्युदयस्य निःश्रेयसस्य चावाप्तिनिर्दिश्यते । 'विद्ययाऽमृतमश्नुते' 'सा विद्या या विमुक्तये' 'ऋते ज्ञानात् न मुक्तिः' इत्यादिभिः सुभाषितैः, 'सा शिक्षा या ब्रह्मगतिप्रदा' इति शङ्कराचार्यवचनेन चाध्यात्मज्ञानावाप्तिर्मोक्षाधिगमश्च शिक्षाया लक्ष्य निर्धार्यते । शिक्षा-विषये पाश्चात्त्यविदुषां मतम्--सुकरात-महोदयस्याभिमतं यद् व्यक्तिगतभेद-वारणेन सार्वभौम-सत्यज्ञानं शिक्षाया उद्देश्यम् । स शिक्षा व्यष्टेः समष्टेश्च समुन्नतिसाधनं मनुते । प्लेटो-महोदयः शिक्षाया उद्देश्यरूपेण सच्चरित्रता-विनय-संस्कृति-सभ्यता-गुणग्राहिता-कलाप्रियत्वादि-गुणानां समन्वयं करोति । अरस्तू-महोदयः संस्तौति यत् सा शिक्षा साधीयसी याऽध्यात्मदर्शनेन सममेव लोक-व्यवहार-दर्शनस्यापि सामञ्जस्यं साधयेत् । शिक्षा उदात्तभावोद्दीपनेन सहैव आत्मनश्च परिष्काराय स्यात् । शिक्षायाम् आदर्शवादस्य प्रवर्तकाः पाश्चात्त्यशिक्षाशास्त्रिणो वर्तन्तेप्लेटो (अफलातून )-दकार्ते-बर्कले-फिरद्धे-हीगेल-काण्ट-प्रभृतयः। एते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy