SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शिक्षा मनोविज्ञानम् २५५ भौतिकवादापेक्षयाऽध्यात्मप्रवणत्वम् अध्यात्मप्राधान्यं च शिक्षाया जीवनस्य च लक्ष्यं मन्यमानाः शिक्षाक्षेत्रे सादरं स्मर्यन्ते । वास्तविकं सुखं तु मानसिकमेव । विचारवादिनां मतं यद् आध्यात्मिकता विचारवादो वा वास्तविक तथ्यम् । तत्रैव शाश्वत-सत्यादीनां समावेशः । तन्मतानुसारम् इयं विचारसृष्टिनिवस्य आध्यात्मिक-प्रकृतेरेवाभिव्यक्तिः । एतदेव भारतीयैः समर्थ्यते यत्-- मन एव मनुष्याणां कारणं बन्धमोक्षयोः । पंचदशी । महात्मा बुद्धो धम्मपदे धर्मस्य विचारस्य चाधाररूपेण मनसो महत्त्वं प्रतिपादयति । मनोपुवंगमा धम्मा मनोसेट्रा मनोमया। मनसा चे पठेन भासति वा करोति वा । ततो नं दुक्खमन्वेति चक्कं व वहतो पदं । धम्म० १-१ शिक्षाया यथार्थवादि-स्वरूपम्-डेवेनपोर्ट-महोदयस्याभिमतं यत् शिक्षा नैतिक-शिक्षा-दानेन सममेव अर्थकरी जीवनोपयोगिनी च स्यात् । यथार्थवादसमर्थकेषु मल्कास्टर-महोदयः शिक्षाया उद्देश्यं बालकस्य सर्वाङ्गीण विकासं मन्यते । शिक्षा च मातृभाषामाध्यमेन स्यात् । शिक्षाशास्त्री फ्रांसिस बेकनमहोदयः केवलं पुस्तकोय-शिक्षाया निकृष्टत्वं प्रदर्श्य शिक्षायाः पूर्ण-व्यावहारिकीकरणं समर्थयते । शिक्षायाः लक्ष्यं यत् मानवः शिक्षामवाप्य प्रकृतौ स्वाधिकारं संस्थापयेत्, मानवं च समाजहितकरं निर्मातं साहाय्यम् आचरेत् । जर्मनशिक्षाशास्त्री राटेक-महोदयः समर्थयते यद् मातृभाषामाध्यमेनैव विज्ञानविषयाणां कलाविषयाणां चाध्यापनं कार्यम् । रटनक्रिया परिहार्या । वस्तुज्ञानम् अनुभवमूलकं परीक्षण-मूलकं च स्यात् ।। कमीनियस-महोदयः शिक्षाया उद्देश्यं प्रतिपादयति यद् ज्ञान-विज्ञानद्वारा मानव-हृदये नैतिक-धार्मिक-भावनानां समुद्बोधनं स्यात् । मानवजीवनस्य लक्ष्यम् ईश्वर-सान्निध्यम् अवाप्य आनन्दानुभूतिः स्यात् । स मातभाषाऽध्ययनम् आवश्यकं मनुते । स बालानां ताडनादिकमपि गर्हयति । स समर्थयते यत् शिक्षायाः सर्वजनीनत्वं स्यात् । वर्ग-विभेद-परिहार-पूर्वकं शिक्षासुविधायां साम्यं स्यात् । मनोवैज्ञानिक-पद्धत्या तथा शिक्षणं स्याद् यथा तत्रत्यं वातावरणं तादृशं मधुरं स्निग्धम् आकर्षकं च स्याद्, येन बालाः स्वयमेव विद्यालयं जिगमिषवो भवेयुः । कमीनियस एव सर्वप्रथमं सार्वजनिक-शिक्षायाः प्रचारकोऽभूत् । शिक्षाशास्त्रिणः स्पेन्सर-महोदयस्याप्यभिमतं यत् शिक्षा बाह्याभ्यन्तरावस्थयोः साम्यं सामञ्जस्यं च संस्थापयेत् । थार्नडाइक-महोदयो मनुते यत् शिक्षा
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy