SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ७६. शिक्षा मनोविज्ञानम् ( Educational Psychology) ( १. शिक्षा-दर्शनम्, २. शिक्षाया उद्देश्यम् ) सत्याचार-विचारशिक्षणपरा सर्वाङ्गिकीमुन्नति छात्राणां विदधद् विवेक-विनयाचार-प्रचारकधीः। चारित्र्योन्नतिसाधिका गुणगणैः सारल्यसंसाधिका लोकेषु प्रचरेत् सुशिष्यजनिदा शिक्षा सदा कामधुक् ॥ (कपिलस्य) शिक्षायाः प्राचीनतम रूपम्-शिक्षायाः प्राचीनतम रूपम् अथर्ववेदे प्राप्यते । तत्र शिक्षाया उद्देश्यं गुरुशिष्य-सम्बन्धादिकं च विस्तरशो निरूप्यते । तत्र ज्ञान-सम्पन्नत्वस्य चिन्तनशक्तेश्च महत्त्वं प्रतिपाद्यते । ज्ञानेन सह संयमस्य धारणाशक्तेश्च महत्त्वं निर्दिश्यते । वेदानुकूलाचरणम् अनिवार्यत्वेनादिश्यते। पुनरेहि वाचस्पते देवेन मनसा सह । अथर्व० १-१-२ । वाचस्पतिनि यच्छतु मय्येवास्तु मयि श्रुतम् । अथर्व० १-१-३ संश्रतेन गमेमहि मा तेन विराधिषि ॥ अथर्व०१-१-४ अथर्ववेदे छात्रस्य ब्रह्मचर्यपालनम् अनिवार्यत्वेनादिश्यते । आचार्यस्य दुर्धर्षत्वम्, संयमित्वम्, शीलवत्त्वं च प्रशस्यते । तत्र 'समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुम् उपगच्छेदिति' पद्धतिराश्रीयते । आचार्यों ब्रह्मचर्येण ब्रचारिणमिच्छते । अथर्व०११-५-१७ आचार्यो मृत्युवरुणः सोम ओषधयः पयः । अथवं० ११-५-१४ ब्रह्मचर्यति समिधा समिद्धः काष्णं वसानो दीक्षितो दीर्घश्मश्रः। । अ० ११-५-६ गुरु-शिष्य-सम्बन्ध-विवेचनायां स्फुटमेतद् निर्दिश्यतेऽथर्ववेदे यद् आचार्योऽध्येतृषु मातृवत् पितृवच्च स्निह्यति व्यवहरति च। आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः । अथवं० ११-५-३ तद् ब्रह्मचारी प्रायच्छत् स्वान् मित्रोऽध्यात्मनः । अ० ११-५-१५ श्रमस्तपश्च छात्रस्य शस्त्रद्वयम् । तपःश्रमाभ्यां सर्वं लोकं स पूष्णाति । ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपति । अ० ११-५-४ शिक्षाया उद्देश्य विविच्यते तर्हि वेदेषु शिक्षोद्देश्यरूपेण अध्यात्मज्ञानम्, आस्तिक्यम्, शारीरिक-वाचिक-मानसिक-हार्दिक-बौद्धिक-समुन्नतिः प्रतिपाद्यते । एवं सर्वविधसमुन्नत्याऽन्तेवासी सर्वदेवाधिवासः सम्पद्यते । ब्रह्मचारी ब्रह्म भ्राजद बिति तस्मिन् देवा अधिविश्वे समोताः। प्राणापानौ जनयन्नाद् व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् । अ० ११-५-२४
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy