SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५२ संस्कृतनिबन्धशतकम् . नैतिक-दृष्टयाऽपेक्षिताः परिष्काराः-(१) आचारशिक्षा-सत्य-ब्रह्मचर्यादि-महत्त्वशिक्षणम् अनिवार्य स्यात् । अन्तरेण नैतिकशिक्षां जीवनं पाशविकम् आसुरं च प्रवर्तेत । (२) मातृवत् परदारेषु-परयोषित्सु मातृवत् परकन्यासू च भगिनीवद् व्यवहरणं शिक्ष्यते चेत् तहि बहवः समस्याः स्वयमेव समाधास्यन्ते। (३) भोग-विलासिता-निराकरणम्-यथायथा वर्धते विषयभोगेप्सा, तथा तथा जीवनं दोषम् अन्वेति । विषय-भोगेच्छा-वृद्धिरेव छात्रेषु अनैतिकतायाः चारित्र्यभ्रंशस्य च मलम् । (४) गुरु-शिष्य-संबन्ध:-गुरुशिष्याणां सम्बन्धस्तथाविधः स्याद् यथा द्वावेव अन्योन्य-हित-सम्पादन-पूर्वक सामञ्जस्यं सम्पादयेताम् । 'सह नाववतु सह नौ भुनक्तु । सह वीयं करवावहै ।' साम्प्रतं गुरु-शिष्ययोर्न तथा सामञ्जस्यमिति चिन्त्यम् । ___सांस्कृतिक दृष्ट्याऽपेक्षिताः परिष्काराः-(१) सांस्कृतिकदृष्टिः-छात्रेषु सांस्कृतिकदृष्ट्या विकासः स्याद् येन धर्माभिरुचिः, चरित्रोन्नती अभिरुचिः, विविध-नृत्य-गीत-वादत्रादि-कलासु प्रवृत्तिः, विनयादि-गुण-समन्वयश्च स्यात् । सांस्कृतिकोन्नति संपन्नैव शिक्षा श्रेयसे स्यात् । (२) यन्त्रीकरणत्यागःछात्राणां यन्त्रवत् संचालनं स्नेह-सौहार्दादि-गुण-व्यपेतत्वात् तेष प्रेम-करुणादिहीनत्वं जनयति । न तादृशी शिक्षा श्रेयसे, लोकहिताय च।। संस्कृतभाषा-दृष्टयाऽपेक्षिताः परिष्काराः-(१) आर्षपद्धतेरुन्नयनम्-प्राचीना आर्षपद्धतिः सर्वथोपेक्ष्यते त्यज्यते चेति राष्ट्र-गौरवप्रतिकूलम् । गुरुकुलानां शिक्षापद्धती यथा आचारस्य, ब्रह्मचर्यस्य, सात्त्विकतायाः, गुरुशिष्य-सद्व्यवहारस्य, चारित्रिकोन्नतेश्च समन्वयः, तथा न आधुनिकशिक्षा-पद्धतौ। (२) पाश्चात्त्य-प्रभाव-त्यागः-भारतीय-शिक्षा-पद्धती पाश्चात्त्यप्रभावो यथा यथा वर्धते तथैवेयं पद्धतिर्दोषपूर्णत्वम् उपैति । पाश्चात्त्यप्रणाली, आंग्ल-भाषा-संरक्षणम्, बाह्याडम्बरश्च यथा पाश्चात्त्यदेशानुकलं न तथा भारतदेशानुकलं, भारतगौरवानुरूपं च । लार्ड-मैकालेप्रभृतीनां शिक्षाविषयकं मतं भारतगौरवभ्रंशाय भारतीय-संस्कृति-ध्वंसाय च । (३) संस्कृत-पाठशालादीनाम् अनुपेक्षणम्--प्राचीन-पद्धतिम् अनुसत्य प्रवर्तिताः संस्कृतपाठशालाः संस्कृतमहाविद्यालयादयः सपत्नीकसुता इवोपेक्ष्यन्ते, दारिद्रयानल-संधुक्षिताश्च संप्रेक्ष्यन्ते । त्रिभाषा-फार्मला तु संस्कृतभाषायाः समूलोन्मूलनायैव समजनि। एतदनुसारं संस्कृतस्य शिक्षाक्रमे स्थानमेव सुदुष्करम् । (४) धार्मिक-प्रन्थाध्ययनम्--धार्मिकग्रन्थानाम् अध्ययनं चारित्रोन्नतिसाधनं सांस्कृतिकसमुत्कर्षार्थं च । वेद-गीता-रामायणमहाभारतोपनिषदादीनां संकलिता महत्त्वपूर्णाः सन्दर्भा अनिवार्यत्वेन पाठयाः स्युः। तादृशाः सन्दर्भाः सांस्कृतिकाभ्युदयाय लोकहिताय चारित्रिकोन्नत्यै च भविष्यन्ति । •
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy