________________
भारतीय-शिक्षापद्धती अपेक्षिताः परिष्काराः
२५१ संपत्स्यते । (५) अनुपयोगि-विषय-निःसारणम्-शिक्षाक्रमे, प्रधानतो विद्यालयीय-शिक्षाक्रमे, बहवोऽनुपयोगिनो विषयाः पाठ्यत्वेन निर्धार्यन्ते । तेषां पाठ्यक्रमाद् निःसारणम् आवश्यकम् । यथा-उर्दू-भाषाध्ययनम्, त्रिभाषाफार्मलाप्रयोग-रूपेणानिवार्यत्वेन आंग्लभाषाध्ययनं दाक्षिणात्यभाषाध्ययनं वा । साम्प्रतं विद्यालयेषु शिल्पविषयाणां शिक्षणं केवलं मनोरञ्जनायैव भवति ।
___ राष्ट्रिय-दृष्टयाऽपेक्षिताः परिष्काराः-(१) राजनीति-निष्कासनम्छात्रसंघ-माध्यमेन छात्रेषु राजनीतिरारोप्यते । अनिच्छन्तोऽपि छात्रा नेतवर्गेण विश्वविद्यालयादिषु स्ववाद-प्रचारार्थ प्रेर्यन्ते, तदर्थं धनव्ययश्च विधीयते, एतत् सर्वथा गर्हणीयम् । (२) देशभक्ति-भावोदयः-छात्रेषु देशभक्ति-भावोदयाय शिक्षानिदेशकैर्न किश्चिद् निर्दिश्यते । फलस्वरूपम् अधीतिनो विद्यार्थिनो देशभक्तिभावना-शून्याः संलक्ष्यन्ते । (३) क्रीडादीनां सुव्यवस्था-छात्राणां क्रीडा-विषये नाभिरुचिर्जागर्यते । क्रीडायोग्यता-विरहितं जीवनं निष्फलं निरर्थकं च।
सामाजिकदृष्टयाऽपेक्षिताः परिष्काराः-(१) श्रम-महत्त्व-शिक्षणम्आधुनिक-शिक्षायां शारीरिक-श्रम-महत्त्वं न शिक्ष्यते, न च प्रशस्यते । अतएव स्वावलम्बनभावोऽपि न जागति । शारीरिक-परिश्रमे, क्षेत्रादिषु कार्यकरणे, स्वच्छता-कार्य-संपादने गौरवमेवावगन्तव्यम् । न च तत्र लज्जायाः किंचित् कारणम् । एवं महात्मनो गान्धेः सिद्धान्तम् अनुसृत्य श्रममहत्त्वं शिक्षणीयम् । (२) जातीय-दोष-निराकरणम्-केचन विद्यालया महाविद्यालयाश्च ब्राह्मणक्षत्रिय-वैश्यादि-वर्ग-विशेषम् आश्रित्य संचाल्यन्ते । एतत् सर्वथा दोषावहम् । सम्प्रदाय-भावनयापि प्रवर्तिता आङ्ग्ल-यवनादि-विद्यालया देशोन्नती बाधकाः, सम्प्रदाय-विष-प्रवेशेन च दोषम् आतन्वते ।
आर्थिक-दृष्टयाऽपेक्षिताः परिष्काराः-(१) शिक्षाया अर्थकरीत्वमशिक्षाया अर्थकरीत्वम् अनिवार्यम् । याऽधीतिनां जीविकानिर्वाहं वृत्तिव्यवस्था च न साधयति, न सा शिक्षा श्रेयसे । (२) विश्वविद्यालयेषु छात्रप्रवेशनियन्त्रणम-विश्वविद्यालयेषु येऽध्ययनरुचयः, व्युत्पन्नाः, विविधशास्त्रदक्षाः, त एव प्रवेश्याः। तत्र च विषयविशेषज्ञताम् अनुरुध्याध्यापनव्यवस्था स्यात् । केवलम् उपाधिप्राप्त्यर्थं छात्रप्रवेशो न स्यात् । ( ३ ) औद्योगिक प्रशिक्षणम्विद्यालयेषु तथा औद्योगिकं यान्त्रिकं हस्तकलाविषयकं विविधकला-विषयकं शिक्षणं स्यात्, यथा कुटीरोद्योगे लघुद्योगे च छात्राणां ज्ञानम् उपयुज्येत । एवं वृत्ति-समस्या कथंचिद् निराकतुं शक्यते । (४) न करणिकोत्पादनम्करणिक ( क्लर्क, बाबू )-वर्गस्योत्पादनं न शिक्षाया उद्देश्यम् । (५) शिक्षायाः स्वल्पव्ययसाध्यत्वम्-साम्प्रतिकी शिक्षा तथा व्ययसाध्या, यथा निर्धनानां सामान्यजनानां चोच्चशिक्षा-ग्रहणं सुदुष्करमेव । एतद्दोषनिराकरणं शिक्षाशास्त्रिभिश्चिन्तनीयम् ।