________________
७५. भारतीय-शिक्षापद्धतौ अपेक्षिताः परिष्काराः
(भारतीय-शिक्षा-पद्धत्या गुणदोषविमर्शः) अज्ञानान्धतमःप्रणोदप्रवणा लोकोपकृत्येकदृक् पाषण्डादिनिवारणकमतिदा मोदावहा मानिनाम् । सद्वृत्तेन विवर्धिताखिलगुणा या शस्यते ज्ञानिषु
या देहात्ममनोविकासरुचिरा शिक्षाऽस्तु सा श्रेयसे ॥ (कपिलस्य) शिक्षायाः स्वरूपम्--शिक्षा कीदृशी स्यात् ? इति प्रश्नः प्राक्कालादेव विचार-चर्चा-विषयः । 'सा शिक्षा या विमुक्तये', 'या लोक-परलोकोभयसाधनी स विद्या'।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते । अथर्व० ११-५-१७ ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापति परमेष्ठिनं विराजम् । गर्भो भूत्वाऽमृतस्य योनाविन्द्रो ह भूत्वाऽसुरांस्ततह ॥ अथर्व० ११-५-७
इत्यत्र जितेन्द्रियत्वं सर्वोत्कृष्ट-गुण-संपन्नत्वं दुश्चरित्रादिवारणं शिक्षाया उद्देश्यं निरूप्यते । एवं यया सर्वाङ्गीणा समुन्नतिः संजायते सा शिक्षा ।
भारतीय-शिक्षा-पद्धत्या गुणा दोषाश्व--साम्प्रतिकी भारतीया शिक्षापद्धतिः वर्गादिभेदम् अनाश्रित्य सर्वजनसुलभेत्येव भारतीयशिक्षा-पद्धतेर्गुणः । अपरतो दोषाश्चेद् लक्ष्यन्ते तर्हि शिक्षा-पद्धतिरियं विविधासाध्यरोग-ग्रस्ता। तत्र प्रधानत्वेनोल्लेख्या दोषाः सन्ति--१. आस्तिक्य-धार्मिकता-चरित्र-जितेन्द्रियत्व-ब्रह्मचर्य-सत्यभाषणादि-गुणानाम् उपेक्षा । २. स्वार्थबुद्धेः, असंयमस्य, अनैतिकतायाश्चाप्रतिहतः प्रसारः । ३. शिक्षा-पद्धतेर्दोषात् परीक्षाणां दोषाकुलत्वम् । ४. परीक्षाविधेर्दूषिता प्रणाली। ५. उपाधीनाम् अवमूल्यनम् । ६. वृत्ति-प्राप्ति-समस्योत्पादनम् । ७. दूषित-राजनीतेः प्रवेशः । ८. श्रमेश्रमकार्ये वाऽरुचिः । ९. शिक्षाया अर्थकरीत्वाभावः ।।
शैक्षिकदृष्ट्याऽपेक्षिताः परिष्काराः--(१) शैक्षिक-स्तरोन्नयनम्-- शिक्षास्तरे सर्वतोऽवनतिरवलोक्यते । वैदेशिक-शिक्षा-पद्धति-स्तर-दृष्ट्या भारतीय-शिक्षास्तरोऽवनततमो विज्ञायते । विशेषतश्च विज्ञान-इंजीनियरिंगमेडिकल-टेक्निकल-विषयेषु । शिक्षा-स्तरोन्नयनं विना न शिक्षा श्रेयसे भविष्यति । (२) शिक्षणपद्धतौ परिष्कारः--वर्तमान-शिक्षापद्धतौ न तथा विषयबोधे बलम् आधीयते, यथा रटन-पद्धतौ । विषयबोधम् अन्तरेण न तत्त्वार्थावगमः। (३) परीक्षापद्धतौ परिष्कारः--परीक्षा-पद्धतौ आमूलचूलं परिवर्तनम् इष्यते। साम्प्रतिकी परीक्षा-पद्धतिर्योग्यता निर्धारणं विहाय, येन केनापि प्रकारेण साधुना असाधुना वापायेन परीक्षोत्तरणम्, तत्र च योग्य-श्रेणीप्रापणं समर्थयते । (४) शोध-प्रवृत्युद्भावनम्--छात्रेषु विषयान् प्रति स्वाभाविकी अभिरुचिः उदियात्, येन जीवने तस्य तत्त्वावगाहित्वं गम्भीराध्ययनं च संपद्येत । पल्लवग्राहि-पाण्डित्यं न स्वकल्याणाय न च देशकल्याणाय