SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सत्संगतिः कथय किं न करोति पुंसाम् ३१३ सत्सङ्गाद् भवति हि साधुता खलानां • साधूनां नहि खलसंगमात् खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ चाणक्यशतक १२-७ सत्संगतिः कथय किं न करोति पुंसाम्-नहि सत्संगतेर्महत्त्वं वर्णयितुं शक्यम् । सत्संगतिः सकलमपि दुःसाध्यं साध्यं विदधाति । निखिलमभीष्टं पूरयति, भावोन्नतिम् आदधाति, मौढ्यं निराकरोति, वाचि सत्यं सिञ्चति, मानोन्नतिं कुरुते, पापान्यपहन्ति, मनः परिष्करोति, यशः सूते । कि नास्ति यन्न सत्संगत्या साध्यम् । सत्यं सत्संगतिः कामदुधैव । उक्तं च जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्ष तनोति कीति सत्संगतिः कथय किं न करोति पुंसाम् ॥ नीतिशतक २३ उपसंहारः-ऐतिह्येऽप्यवलोक्यते यत् सत्संगतिमाश्रित्य निर्गुणा गुणिनः, अधार्मिका धार्मिकाः, अशिक्षिताः शिक्षिताः, दुराचाराश्च सदाचारा अभूवन् । श्रीरामचन्द्र-संपर्कम् अवाप्य विभीषणो हनुमान् सुग्रीवश्च महिमानं लेभिरे, रामकृष्णपरमहंस-संगतिमासाद्य स्वामि-विवेकानन्दः, स्वामिविरजानन्दसंगतिम् अवाप्य महर्षिर्दयानन्दश्च गुणगौरवं दधुः ।। महता पुण्येनैव सतां संगोऽवाप्यते। सतां संगो हि भेजषवत् सर्वदोषनिवारकः । संतां संगो निखिलम् अभीष्टं साधयति । सतां संगः सर्वविधं सौभाग्यं मङ्गलं क्षेमं चावहति । सतां संगः किं न चिकीर्षितम् ईप्सितं च साधयति । अत एवोच्यते ‘सतां हि संगः सकलं प्रसूयते' ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy