________________
भारतीयसंस्कृतौ नारीणां स्थानम्
१८७
१
च । तदभावे न कुलश्रीवृद्धिः । अतएव मनुना व्यादिश्यते यद् यत्र दम्पत्योः सामञ्जस्यं परस्पर-सन्तुष्टिश्च तत्रैव कल्याणाधिवास : २ । स्त्रियो हि रत्न - स्वरूपाः, अतः स्त्रीरत्नं दुष्कुलादपि ग्राह्यम् । स्त्रिया महत्त्वं प्रेक्ष्यैव मनुनोच्यते यत् स्त्रियो रत्नानि विद्या धर्मश्च यत्रैव प्राप्येरन्, तत एवादेयानि ।
रामायण-महाभारतकाले नारीणां स्थितिः - रामायणे महाभारते च स्त्रीणां शिक्षायाः सुव्यवस्थाऽवलोक्यते । रामायणे कौशल्या तारा च ' मन्त्रविदो ' कथ्येते । सन्ध्यां कुर्वन्त्या जानक्या वर्णनं प्राप्यते । रामायणे उत्तररामचरिते च आत्रेयी वेदान्तविद्यानिष्णाता श्रूयते । महाभारते सुलभा वेदान्तविद् वर्ण्यते । द्रौपदी च 'पण्डिता' कथ्यते । स्त्रीणां संगीतनृत्यादिकलानां शिक्षणं वर्ण्यते । अर्जुन उत्तरां तद्गृहे एव संगीतनृत्यादिकम् अध्यापयामास । रामायणेSपि एकपत्नीव्रतं प्रतिपाद्यते । अतएव सीतापरित्यागानन्तरं न रामो विवाहा - न्तरं विदधे । महाभारते भार्याया अकारणं परित्यागो निन्द्यते । " महाकाव्यकाले स्त्रीणां गौरवं प्रतिष्ठितम् आसीत् । तत्र स्त्रियाः पुरुषाद् अनन्यरूपत्वं च निर्दिश्यते ।१° साऽर्धाङ्गरूपिणी प्रियतमा सखी च गण्यते । ११ मातृरूपेण सा भूमेरपि गुरुतरा । १२ मातृक्लेशकारी न क्वचित् सुखं लभते । १३ महाभारते सा 'अवध्या' इति वर्ण्यते । १४ महाभारते वर्ण्यते यत् सत्कृता नार्येव साक्षात् लक्ष्मीर्भवति । १५
१. स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् ।
तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ मनु० ३-६२ २. सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।। मनु० ३-६०
३. स्त्रीरत्नं दुष्कुलादपि । मनु० २-२३८
४. स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः । मनु० २-२४०
५. रामा० २-२०- ७५
६. रामा० ५-१५-४८ ।
०
७.
तेभ्योऽधिगन्तुं निगमान्तविद्यां । उत्तरराम० २-३
८. न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । रामा० ७ ९७-७
९. महाभारत १२-२७८-३६; १२-५८-१३
१०. अनन्यरूपाः पुरुषस्य दाराः । रामा० ४-२४-३४
११. महा० १-७४-४०
१२. माता गुरुतरा भूमेः । महा० ४-३१३-७० १३. महा० १३७-४
१४. महा० १-१५८-३२
१५. महा० १३-८१-१५