________________
१८८
संस्कृतनिबन्धशतकम् उपसंहारः-बृहदारण्यकोपनिषदि स्त्रीपुरुषौ एकस्यैवात्मनो द्वौ भेदौ वर्येते । स्त्री चाकाशेनोपमीयते ।
स्त्रीपूमांसौ संपरिष्वक्तौ, स इममेवात्मानं द्वेधाऽपातयत्, ततः पतिश्च पत्नी चाभवताम् । अयम् आकाशः स्त्रिया पूर्यते । बृहदा० १-४-३
यजुर्वेदे नारीणां गौरवास्पदत्वं स्वीक्रियते । 'तस्मै नमन्तां जनयः सुपत्नीः' ( यजु० १२.३५ )। ऋग्वेदे इडा मानवस्याध्यापिकारूपेण वर्ण्यते । 'इडामकृण्वन् मनुषस्य शासनीम्' ( ऋग्० १-३१-११ ) । अथर्ववेदे स्त्रियाः समस्तपरिवारसुखसन्धातृत्वं प्रतिपाद्यते ! 'सुमंगली प्रतरण गृहाणां सुशेवा पत्ये श्वशुराय शंभूः' ( अथर्व० १४-२-२६ ) । ऋग्वेदे ( १८०-१०२-२) मुद्गलानी-नाम्न्याः स्त्रियाः शौर्य वर्ण्यते । सा शत्रुसेनाम् अजयत् । एवमेव ऋग्वेदे (१-११२-१०) विश्पलाया युद्धे शौर्य वर्ण्यते । एवं विज्ञायते यत् प्राचीनभारते नारीणां स्थानं महत्त्वपूर्णम् आसीत् ।