________________
२७२
संस्कृतनिबन्धशतकम् सहस्रमपि वितथं स्यात् । भाग्येऽनुकूले दोषा अपि गुणत्वमायान्ति । उक्तं च'गुणोऽपि दोषतां याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते' । दुःखानि सुखानि च भाग्यानुसारमेव सम्भवन्ति । उच्यते च'भाग्य-क्रमेण हि धनानि भवन्ति यान्ति' । दैवानुसारमेव मनुष्यस्य बुद्धिवृत्तिरपि सम्पद्यते । विधिश्चाघटितघटनापटुर्घटितस्य विघटने च दक्षः । 'अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति' । सिद्धिरसिद्धिश्च दिष्ट्यनुरूपमेव परिणमतः ।
नियतेः कर्मायत्तत्वम् अवितथमेतद्यद् दैवं फलति, सिद्धिश्च दैवाधीना। परन्त्ववगन्तव्यमेतद् यत् पूर्वकृतकर्मपरिपाक एव दैवमिति नान्यत् । यदि सुनिश्चितमेतदवधारितं तर्हि भाग्यमनुकूलयितुं भवतितरामावश्यकता सुविचारितस्य कर्मणः, कठिनस्य श्रमस्य च । अत एवावितथमाह श्रीकृष्णो गीतायाम्-'नियतं कुरु कर्म त्वम्, कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः' । कर्म च कर्मफलासक्ति विहायैव कार्यम् । तदेव साफल्यं लम्भयति । 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भर्मा ते सङ्गोऽस्त्वकर्मणि' । सत्फलं तपसा श्रमेण सुचरितेन च लभ्यम् । तदेव च परिणमति काले । 'भाग्यानि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथैव वक्षाः' । भाग्याद् गुरुतरं कर्म, तदेव फलति, तदेव चोपास्यम् । 'नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति'।
शिरसि लिखितं लङ्घति कः-जगति समेषामपि सत्त्वानां नैसर्गिकीयमभिवाञ्छा यत् स्याद् दुःखास्यात्ययः सुखाधिगमश्च । का नु वरीयसी सृतिरिह स्वीकार्या साध्यमेतत् साधयितुम् । शान्तेन स्वान्तेन चिन्त्यते चेत्तर्हि पुरुषार्थमन्तरा न साधनान्तरं दृष्टिपथमुपयाति । धीरा वा, वीरा वा, मनीषिणो वा, वाग्वैभवसम्पन्ना वाग्मिनो वा, कविताकामिनीकान्ताः कविवरा वा, सर्वेऽपि पौरुषमाश्रित्यैवाभीष्टां सिद्धिमधिजग्मुः। अकर्मण्यताऽऽलस्यं पौरुषहीनत्वं दैष्टिकता वाऽत्र प्रत्यवायरूपेणावतिष्ठते । यद्यस्ति हार्दिकी सुखलिप्सा, अभीष्टमात्महितं, चिकीर्षितं परहितं, काङ्कितं कुलहितं, वाञ्छितं विश्वहितं, समीहितं समाजसुखं वा तर्हि आलस्यं नाम रिपुरपनेयश्चेतसोऽपहरणीयाऽकर्मण्यताऽपहस्तयितव्यं चापौरुषत्वम् ।
पौरुषस्य प्राधान्यम्-उद्यम उद्योगोऽध्यवसायो वा मानवस्यानुपमो बन्धुः, यमवष्टभ्य यदभिलषितं तदधिगम्यते। तथा चोच्यते-'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति'। योगवासिष्ठेऽप्यभिधीयते-'पौरुषाद् दृश्यते सिद्धिः पौरुषाद् धीमतां क्रमः' । यावज्जीवं जीवः कर्मनिरतोऽध्यवसायपरश्च स्यात्, कर्मफलासक्तिं च परिहरे