SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नालम्बते दैष्टिकतां न निषीदति पौरुषे २७३ न्मनसेत्यादिशति वेदः। पथाऽनेनैवाभीप्सितमखिलं सिध्यति सताम् । 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' ( यजु० ४०।२)। या काऽपि सिद्धिरभीष्टा, साऽविकला शक्यते लब्धुमुद्यमेनैवेति चेच्चेतसि क्रियते तहि नालभ्यं किंचिदस्ति जगति । अतः साधूक्तम्-'उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः' । 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः' । अध्यवसायिन एव साहाय्यमाचरति विभुरपि । यथा चोक्तम्-'उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्'। __ पक्षद्वयस्य बलाबलत्वविवेचनेन सिध्यत्यदो यत् सुविचार्य कृतमवदातं कर्म साधयति साध्यमिह जगति । तदेव च संस्काररूपेणावशिष्टं दैवमिति भवति, प्रवर्तयति च भाविकर्मजातम् । अत उभयस्याश्रयणं न्याय्यम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy