________________
८३. आशा बलवती राजन् शल्यो जेष्यति पाण्डवान्
( आशा हि परमं ज्योतिः) आशायाः स्वरूपम्-का नामाशा ? कथं चाचरतीयं विप्रियं सुप्रियं वा सर्वस्य लोकस्य ? अस्ति किमावश्यकता जीवने आशाया उपादानस्य परिहारस्य वा? उपादत्ता चेत् किमिति किंचित् साधयति साध्यमिह जगति ? निरस्ता चेत् किं सुफला विफला कुफला वा भवति ? आशाया नामग्राहेण समकालमेव समुपतिष्ठन्ते बहवोऽनुयोगाः। ते क्रमशोऽत्र विविच्यन्ते। तेषामौचित्यमनौचित्यं वाऽवधारयिष्यते सयुक्तिकम् । प्राक् ताबद् विचार्यते-का नामाशा ? आ समन्ताद् अश्नुते व्याप्नोति मानवानां चेतांसीत्याशा। आङ्पूर्वकादश्धातोरच्प्रत्ययेनेतद् रूपं निष्पद्यते ।
वैदिकवाङ्मये आशावादः-वेदेषूपलभ्यते सर्वत्राशावादस्य प्रवाहः । श्रुतयो मुहुर्मुहुरादिशन्ति मानवम् आशाम् अवलम्ब्य समुन्नत्यै समृद्ध्यै प्रगत्यै च-( क ) वयं स्याम पतयो रयीणाम् ( यजु० १०-२०), (ख ) अग्ने नय सुपथा राये ( यजु० ४०-१६ ), (ग) कृधी न ऊर्ध्वान् चरथाय जीवसे ( ऋ० १-३६-१४ ), (घ ) अदीनाः स्याम शरदः शतम् ( यजु० ३६-२४ ), (ङ) भूत्यै जागरणम्, अभूत्यै स्वपनम् ( यजु० ३०-१७), (च) उच्छ्रयस्व महते सौभगाय ( अथर्व० ३-१२-२), (छ) मयि देवा दधतु श्रियमुत्तमाम्० ( यजु० ३२-१६ ), ( ज ) मह्यं नमन्तां प्रदिशश्चतस्रः ( ऋ० १०-१२८-१)। आशैव जीवने धृति स्फूर्ति शक्तिं चादधाति । तामाश्रित्यैव सर्वविधा समुन्नतिः सुलभा ।
आशाया महत्त्वम्-आशा नामैषा मानवजीवनस्यास्ति आधारशिला । मानवजीवने यः संचारः प्रगतिरुद्गतिरुन्नतिर्वाऽवलोक्यते, तस्य मूलत्वेनाशायाः संचार एव जीवनेऽवगन्तव्यः । यदि नाम न स्यादाशा जीवने तत्प्रेरकत्वेन, न स्याज्जीवनं प्रगतिशीलम्, उन्नतिपथम् आरूढम्, अभ्युन्नतं च । आशा नाम जीवनेऽनुपमा स्फूर्तिप्रदायिनी काचिदपूर्वा शक्तिः । सैव मुमूर्षावपि जीवनाशां संचारयति । सैव वीरे वीराभिमानित्वम्, शूरे शौर्यम्, विदुषि वैदुष्यम्, धीरे धैर्यम्, साधी साधुत्वं च प्रसारयति । सैव दीने हीने खिन्ने विषण्णे विपन्नेऽपि च धैर्यमादधाति, दुःसहदुःखसहनशक्ति चाविष्करोति चेतसि । नेराश्यस्य घोरायां तमिस्रायामपि सेषाऽऽविर्भावयति जीवनशक्तिप्रदं जाज्वल्यमानं ज्योतिः । न ज्योतिरेतच्चला चपलेव क्षणभङ्गुरम् । जागत्यंदोऽहनिशं शान्तेऽपि स्वान्ते साधकस्य । ज्योतिरेतदेव प्रेरयति मुमुखं मोक्षाधिगमाय, साधकं साधनासिद्ध्यै, वाग्मिनं वाग्-वैशारद्याय, गुणिनं गुणग्रहणाय, विपश्चितं विद्यावैभवाय, कवि