SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषाया महत्त्वम् विभेदो छन्दस्-भाषा- - शब्दयोः प्रयोगेण विधीयते । एतेन व्यवहृतभाषारूपेण संस्कृतस्य प्रयोगो लक्ष्यते । प्राचाम्, उदीचाम्, इत्यादिभिः प्रयोगैश्च संस्कृतभाषाया प्राच्यादिभेदोऽवगम्यते । महामुनिना पतञ्जलिना 'सर्वे देशान्तरे' इत्यत्र विविधप्रदेशेषु प्रयुज्यमानानां संस्कृतशब्दानां निदर्शनानि प्रस्तूयन्ते । महाभाष्ये सूतशब्दव्युत्पत्तिविषये सूतवैयाकरणयोविवादः कस्य न मनोरञ्जनमावहति । सूतो वैयाकरणं निर्भर्त्सयन्नाह - ' प्राप्तिज्ञो देवानां प्रियः, न त्विष्टिज्ञः, इष्यते एतद् रूपम्' ( महा० २|४|५६ ) । २४५ रामायणकाले, महाभारतकाले च संस्कृतभाषैव लोकव्यवहृतिभाषा - भूदिति पाश्चात्त्यैरपि निर्विवादम् ऊररीक्रियते । हनुमान् अशोकवाटिकायां सीतां प्राप्य संस्कृतम् आश्रित्यैव विवक्षति - 'वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ' ( वा० सुन्दरकाण्ड ३०।१७ ) । बौद्धकविरश्वघोष: प्राकृतभाषां परित्यज्य बुद्धचरित -सौन्दरनन्द- काव्यद्वयं संस्कृतभाषायामेव निरमिमीत । द्वितीयशताब्दी ईसवीयादारभ्य एकोनविंशतितमशताब्दी यावत् सर्वेऽपि शिलालेखाः प्रायेण संस्कृतभाषाश्रया एव । राज्ञो भोजस्य काले संस्कृतस्य प्रचुरः प्रचारो लोकविदित एव । कविबिल्हणः कश्मीरदेशजनारीणां संस्कृतभाषाज्ञानं तत्प्रयोगञ्च प्रमाणयति । मैकडानल-कीथ - विण्टरनित्स - पाल डायसन - विण्डिश- हर्टल - प्रभृतयः पाश्चात्त्यविद्वांसोऽपि न केवलं पुराकाले एव, अपितु अद्यावधि संस्कृतभाषायाः सजीवत्वम्, व्यवहृतित्वं च साधयन्ति । संस्कृतस्य महत्त्वं गौरवं च --- संस्कृतभाषाया महत्त्वं न केवलं भारतीयैरेव अपितु पाश्चात्त्यैरपि साह्लादमङ्गीक्रियते । विश्वस्य प्राचीनतमं साहित्यमत्रैवोपलभ्यते । अत्र वैदिकसाहित्यं, मुख्यतः ऋग्वेदः, विशेषत उल्लेखमर्हति । विश्वस्य प्राचीनतमायाः संस्कृतेः सभ्यतायाश्च यथार्थावगमाय संस्कृमेवैकं साधनम् । विश्वसंस्कृतेराधारशिला संस्कृतवाङ्मये एव प्राप्यते । तन्मूलकमेव विश्वसंस्कृतेः तुलनात्मकमध्ययनं प्रस्तूयते । संस्कृते ज्ञान - विज्ञानकला-संस्कृति-धर्मं-दर्शन - अर्थशास्त्र - व्याकरण - काव्यशास्त्र - आयुर्वेदादि - विषयेषु यथा विपुलं प्राचीनं वाङ्मयमुपलभ्यते न तावदन्यत्र कस्यामपि भाषायाम् । मैकडानलमतानुसारं समग्र सभ्यताया मूलं संस्कृतवाङ्मय एव निहितम् । मानवजातिविकासाध्ययनार्थं मूलस्रोतस्त्वेन भारतीयं वाङ्मयं ग्रीकसाहित्या - पेक्षया गुरुतरम् । धर्मदर्शनयोः क्षेत्रे संस्कृतस्य उत्कर्षः सर्वातिशायी । अध्यात्मशास्त्रानुशीलनाय, काव्यतत्त्वज्ञानाय, नीतितत्त्वावबोधाय, आचार शिक्षासंग्रहाय, प्राचीनविधानज्ञानाय, गणित - ज्योतिष - अर्थशास्त्र - कामशास्त्र सङ्गीतनृत्याभिनयादिकलानां सूक्ष्मातिसूक्ष्मज्ञानाय संस्कृतवाङ्मयमेवैकं शरणम् । विश्वप्रेम- विश्वबन्धुत्व - विश्व संस्कृत्यादीनाम् आधारतत्त्वज्ञानार्थं संस्कृतस्यानुशीलनमनिवार्यम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy