________________
७३. संस्कृतभाषाया महत्त्वम् (१. भारते भातु भारती; २. भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती; ३. संस्कृताध्ययनस्य मुख्यप्रयोजनानि )।
ऋषीणामाद्यानां गहनमननावाप्तसुयशाः
श्रतीनां शास्त्राणां निखिलगण-तत्त्वार्थनिलया। पुरातत्त्वाधारा सकलभव-ज्ञानाधिविभवा
__ जयेद् दैवी वाणी त्रिभुवनमनोज्ञा बुधप्रिया ( कपिलस्य )
संस्कृतस्य स्वरूपम्-किं नाम संस्कृतमिति जिज्ञासितं चेत् परिष्कृतं, परिशुद्धं, व्याकरणादिदोषरहितं यत् तत् संस्कृतम् । प्राचीनः ऋषिभिर्मुनिभिश्च भाषागतदोषपरिष्कारेण, अपशब्दादिदोषवारणेन या परिष्कृता भाषा व्यवहृतिमानीता सैव संस्कृतभाषा-नाम्ना सम्बोध्यते, प्रशस्यते, आद्रियते च । 'विद्वांसो हि देवाः' विद्वज्जनव्यवहृता चेयं भाषा। सैव देवभाषा, देववाणी, गीर्वाणवाणी, गीर्वाणगीरित्यादिभिर्नामधेयः व्यवह्रियते। इयमेव भाषा विकृतिमापन्ना प्राकृतभाषापदमुपगतवती। सेयं भाषा भारतीयानां प्राणरूपिणी, जीवनोन्नायिका, सत्पथप्रदर्शिनी, आचारविचारप्रवर्तिनी, कर्तव्याकर्तव्यबोधिनी, लोकद्वयहितसम्पादिनी च ।
संस्कृतस्य विपुलं साहित्यम-भारतवर्षस्य समस्तमपि प्राचीनं वाङमयं संस्कृतभाषामाश्रित्यैवावतिष्ठते । निखिलमपि वैदिक वाङ्मयं, रामायणं, महाभारतं, पुराणानि, स्मृतिग्रन्थाः, दर्शनानि, धर्मग्रन्थाः, महाकाव्यानि, काव्यानि, नाटकानि, गद्यकाव्यानि, गीतिकाव्यानि, आख्यानसाहित्यम्, नीतिग्रन्थादयश्च संस्कृतभाषायामेवोपलभ्यन्ते । न केवलमेतदेव, व्याकरणं, काव्यशास्त्रं, गणितं, ज्योतिषम्, आचारशास्त्रं, काव्यशास्त्रम्, आयुर्वेदः, धनुर्वेदः, वास्तुकलाशास्त्रम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्, ऐतिह्यम्, छन्दःशास्त्रम्, कोशग्रन्थाश्च संस्कृतभाषाया गौरवमभिवर्धयन्ते । ज्ञानस्य विज्ञानस्य न तादृशं किमप्यङ्गम्, यन्नैवोपलभ्यते संस्कृतभाषायाम् । प्राचीनानाम् ऋषीणां, महर्षीणां, कवीनां, तत्त्वज्ञानाम् अनारतश्रमस्यैव फलमेतद् यदीदृशं विपुलं संस्कृतवाङ्मयं दृष्टिपथमुपयाति ।
__ संस्कृतस्य पुरा लोकव्यवहारः-प्राचीनभारतीयसाहित्यानुशीलनेन स्फुटमेतदवगम्यते यद् ईसवीयसंवत्सरात् पूर्वं गीर्वाणगीरियं जनसाधारणे व्यवहृताऽभूत् । न केवलं विद्वज्जनव्यवहृतभाषारूपेणैवेयं प्रायुज्यत, अपितु लौकिकानामपि व्यवहारास्पदमभूत् । निरुक्तकारो यास्कः संस्कृतं 'भाषा' ( व्यवहारभाषा) इति निरूपयति । पाणिनिकृतसूत्राण्यपि एतदेव समर्थयन्ते । यथा-दूराह्वाने प्लुतत्वम्, प्रत्यभिवादे अन्तिमस्वरप्लुतत्वं च । पाणिनिना वैदिकलौकिकभाषयोः