________________
२३६
संस्कृतनिबन्धशतकम् च प्रभवति । राष्ट्र-संघस्य बहवो निर्णया न पाल्यन्ते शक्तिमद्भिः प्रमुखैर्राष्ट्रिः । तदर्थं राष्ट्रसंघस्य गौरवाभिवृद्धिरपेक्ष्यते, यथा तन्निर्णयोऽस्खलितरूपेण संपाल्येत।
___ अशान्तेर्मुलं स्वार्थलिप्सा, स्वार्थपरता च । एवम् अभावग्रस्तानां देशानां साहाय्य-व्यपदेशेन पारतन्त्र्यं विधीयते । एतद्दोषवारणार्थ राष्ट्राणां कृते स्वावलम्बनम् एवेकं साधनम् । विज्ञानस्य दुरुपयोगोऽपि अशान्तेमलम् । यदि विज्ञानेन सहाध्यात्मं न संबद्धं स्यात् तर्हि विज्ञानं दोषायैव। ईसु-महोदय आजीवनं शान्त्यर्थ प्रायतत । परं तदनुयायिनः स्वप्नेऽपि न शान्ति कामयन्ते । विश्वासस्य प्राधान्यम् अपास्य तैः साम्प्रतं तर्कस्यैव प्राधान्यम् उररीक्रियते । परम् आवश्यकता वर्तते तर्क-निरोधस्य, विश्वास-संस्थापनस्य च । सर्वविधाऽपि हिंसा अशान्तेजननी । हिंसायाः परित्यागेनैव विश्व शान्तिः संभवति । निरस्त्रीकरणमपि विश्वशान्तिसंस्थापनार्थम् उपयोगि। सर्वोदय-भावना, 'वसुधैव कुटुम्बकम्' इति भावना, परहित-निरतत्व-कामना च छद्म-प्रपञ्च-कूटनीत्यादीनां निःसारणपूर्वकं विश्वशान्ति बद्धमूलां सुदृढां च विधातुं प्रभवन्ति । .