SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ७०. छात्राणां राजनीती प्रवेशः ( छात्रा राजनीतिश्च ) उपक्रमः-छात्राणां राजनीती प्रवेशः स्याद् न वेति, विषयोऽयं न केवलं भारते, अपि तु विश्वस्मिन् जगति प्रतिराष्ट्र समस्यारूपेण प्रचरति । विषयेऽस्मिन् प्रचुरो विवादो विदुषाम् । तत्र विविधा विप्रतिपत्तिः, विभिन्नानि मतानि, विविधाः सैद्धान्तिकाश्च प्रश्नाः पुरतः समुपस्थाप्यन्ते । विषयेऽस्मिन् नकमत्यं विपश्चितां वर्तते, वतिष्यते च । विषयोऽयं शाश्वतविवादास्पदम् । छात्राणां कर्तव्यम्-विषयेऽस्मिन् समेषामपि सुधियाम् ऐकमत्यं यत् छात्राणाम् अध्ययनं प्रमुखं कर्म । विद्योपादानम्, शिक्षाग्रहणम्, गुणार्जनम्, चरित्रोन्नतिः, शारीरिक-मानसिक-आत्मिक-नैतिक बलाधानम्, हृष्टत्वम् पुष्टत्वम्, सद्गुणसम्पन्नत्वं च सदेव छात्रेष्वभीष्यते । पञ्चविंशति-वर्षं यावद् ब्रह्मचर्याश्रमकालो विद्याध्ययनकालश्च । विद्याध्ययनकाले सद्गुणेष्वभिरुचिः, अध्ययने प्रवृत्तिः, गुणार्जनेऽभिनिवेशश्च प्रशस्यते काम्यते च । तस्मिन् काले विषयान्तर-व्यपक्षेपस्तेषाम् अध्ययनम् सर्वविधाम् उन्नतिं च निरुणद्धि । अतो ये केऽपि विषयाः स्युः, ततो ध्यानं निवर्त्य स्वकर्मण्येव छात्राः प्रवर्तेरन् ।। ___ साम्प्रतिको स्थिति:--सत्यमेतद् यद् गुणाजनं विद्याग्रहणं चारित्रिकोन्नतिश्च छात्राणां प्रमुखं कर्तव्यम् । परं को न जानाति देशस्य विदेशस्य वा साम्प्रतिकी लोकस्थितिम् । नहि साम्प्रतं प्राक्कालवद् जीवने निश्चिन्तता, धनधान्यावाप्तिः, सुखसौविध्यम्, अनासक्तत्वम्, सर्वविषयविनिवृत्तिश्च । न केवलं भारतेऽपि तु समग्रेऽपि भुवने शान्तिभृगतृष्णेव वरीवति । क्षुत्-पिपासासन्तापः संतापयति जीवनमखिलं भुवनं निखिलं च । अन्न-वस्त्राद्यभावः समग्रविश्ववद् भारतमपि अतितरां शोषयति ग्लपयति च । वृत्त्यभावः, आजीविका-साधनानाम् अभावः, भक्ष्य-वस्तूनाम् अभावः, जीवनोपयोगि-वस्तूनां दुरवापता च कं न प्रेरयति जीवनोद्दश्यानां पुनर्मूल्याङ्कने समयानुकूल-गतिविधि-संचालने च। छात्राणामपि पुरत एताः समस्या जीवनाङ्गत्वेन समुपतिष्ठन्ते । छात्रा राजनीतो प्रवेशं कुर्युवेति प्रतिपदं प्रतिविद्यालयं प्रतिमहाविद्यालयं प्रतिविश्वविद्यालयं च चर्चाविषयो विचारविनिमयविषयश्च । सर्वतोऽवलोक्यते यद् राजनीतिजुषामेव सर्वत्र प्राधान्यम् । ये राजनीती प्रवेशं लभन्ते, कृत्येन अकृत्येन दुष्कृत्येन वा नेतृत्वं भजन्ते, तेषामेव राज्यसंचालने राष्ट्रसंचालने च प्राधान्यम् । राजनीतिविरहितस्य जनस्य मनेरिव जीवनम, निवृत्तिप्रधानम् एकान्तवासप्रमुखं च । सर्वत्र नेतृणामेव गतिः प्रगतिः सद्गतिश्च । नेतारो
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy