________________
संस्कृतनिबन्धशतकम् सुखसाधनस्वरूपा च यावदियं नोल्लङ्घते स्वीयां मर्यादाम् । मर्यादातिक्रमे तु सर्वमेव दुःखात्मकतां भजते इत्यत्र न कस्यापि विपश्चितो विप्रतिपत्तिः । एतच्चेतसि कृत्वैव क्रियते कोविदैराशायास्तिरस्क्रिया, संतोषस्य च सत्क्रिया । उच्यते च___बाशा हि परमं दुःखं नैराश्यं परमं सुखम्।।
न स्याज्जात्वाशाया वशंवदः, अपि त्वाशामेव वशंवदां विदधीत । आशा चेद् वशगा तहि सर्वोऽपि लोको वशगो भवेत् ।। अत उच्यते
आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ सू० र०, पृ० ७६
आशावशगस्य न भवति मोक्षः स्थविरत्वेऽपि । अतः साधूच्यते शंकराचार्येण चर्पटमंजर्याम्
'अङ्ग गलितं पलितं मुण्डं दशनविहीनं जातं. तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥' 'कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः।'
तदेवं सिध्यत्यदो यत् तृष्णात्वेन नाश्रयेदाशाम् । आशां वशगां विधायक तामाश्रित्य च साधयेत् सकलं साध्यम् ।