SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ३५. काव्येषु नाटकं रम्यम् श्रव्यं सहृदयास्वाद्यं नाट्यं दृश्यगुणोन्नतम् ।। हुन्नेत्ररञ्जनात् प्रेयो रसभावविबोधकृत् ॥ ( कपिलस्य ) 'कलासीमा काव्यम'-'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इत्याभाणकम् उद्दिश्य प्रयोजनमूलैव सर्वेषां प्रवृत्तिः । काव्ये नाट्ये च सैव प्रवृत्तिः सुलभा। काव्यादेरध्ययनस्य किं प्रयोजनमिति जिज्ञासितं चेद् रसास्वाद आनन्दानुभूतिर्वा तत्प्रयोजनम् । काव्यं हि सुललितभाषानिबद्धत्वात् कल्पनाप्रचुरत्वाद् मनोभावाभिव्यञ्जकत्वात् प्रसादमाधुर्यादिगुणसमन्वितत्वाद् अलंकारालंकृतत्वाद् रसप्रवाहपरीतत्वात् कलात्मकत्वाच्च सर्वेषामपि सूधियां चेतांसि आवर्जयति । विविधकलाप्रख्यापनाद् रुचिर-गुणालंकारसहितत्वाद् विद्वन्मनोमोहनत्वाच्च ‘कलासीमा काव्यम्' इति सादरम् उद्घोष्यते । यादृशी कल्पनामूला चेतःप्रसादिनी रुचिरा भावाभिव्यक्ति: काव्ये, न तथान्यत्र । अतएव कैश्चिद् निःसंकोचम् उदीर्यते यत् 'मेघे माघे गतं वयः' । तत्र स्वानुभूतेः प्राकाश्येन विविधशास्त्रावगाहिज्ञानेन च सर्वाङ्गीणत्वं जीवनोद्देश्यस्य साफल्यं च । ___ काव्यस्य भेदाः-तच्च काव्यं द्विधा विभज्यते-दृश्यं श्रव्यं च । श्रव्यं काव्यं-काव्य-महाकाव्य-गीतिकाव्यादिभेदेन बहुविधम् । दृश्यं काव्यम् अभिनेयं भवति । तत्र च नटादौ रामादिस्वरूपारोपो भवति । अतो दृश्यं काव्यं 'रूपकम्' इत्युच्यते । उक्तं च विश्वनाथेन दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । दृश्यं तत्राभिनेयं तदरूपारोपात्तु रूपकम् ॥ सा० दर्पण ६-१ अवस्थानुकृतिर्नाट्यम् । रूपकं तत्समारोपात् ॥ दशरूपक १-७ 'वस्तु नेता रसस्तेषां भेदकः' ( दशरूपक १-११)। धनञ्जयानुसारं नाटके तत्त्वत्रयं प्रमुखम् । तदाश्रितं च नाटकस्य विभाजनम् । अत्र नाटके रसस्य महत्त्वम् उररीक्रियते । रसनिष्पत्त्यै आनन्दोपलब्ध्यै च नाटकानां रचना। नाटकानां रम्यत्वम्-'काव्येषु नाटकं रम्यम्' इति नाटकानां रम्यत्वं जिज्ञासितं चेत् स्वानुभूत्यैव तेषां महत्त्वं स्फुटीभवति । काव्यं श्रव्यम् , अध्ययनाध्यापनादि-द्वारा तस्य तत्त्वार्थबोधः। श्रवणद्वारा तत्र रसनिष्पत्तिः । नाटकेषु तु अभिनयादिप्रदर्शनाद् वेशभूषाद्यलंकरणात् प्राकृतिकदृश्यसंयोजनात् आङ्गिकवाचिकाद्यभिनयसंमिश्रणात् नृत्यगीतलास्यविलासात् न केवलं सचेतसामेव रसास्वादो मनस्तोषश्च, अपि तु आबालवृद्धं शिक्षितानाम् , अशिक्षितानाम् , नराणां नारीणां चानन्दावाप्तिर्मनोरञ्जनं च । सकलेऽपि भुवने नाटयानां प्रसिद्धरेतदेव मूलम् । उक्तं च भरतेन
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy