________________
१२७
काव्येषु नाटकं रभ्यम् न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला।
नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ नाट्य० १-११७ नाटयस्य महत्त्वं नाट्यशास्त्रे भरतेन सविस्तरं व्याख्यायते । तद्यथा
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद् भविष्यति ॥ ना० १-११५ धयं यशस्वमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद् भविष्यति ॥ नाट्य० १-११६
उत्तमाधममध्यमानां सर्वेषामपि नृणां हितोपदेशकारि धृतिदं विनोदजनकम् आनन्दप्रदं चैतद्भविष्यति ।
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ नाट्य० १-११३
नाटकानां महत्त्वम्-नाटये न कोऽपि भावो विषयो वाऽवशिष्यते । सर्वेऽपि रसा अत्र निबद्धाः । यथास्थानं पुरुषार्थचतुष्टयं चतुवर्गो वाऽत्र संगृह्यते ।
क्वचिद् धर्मः क्वचित् क्रीडा क्वचिदर्थः क्वचिच्छमः। क्वचिद् हास्य क्वचिद् युद्धं क्वचित् कामः क्वचिद् वधः॥
नाट्य०१-१०८ अत्र लोकवृत्तम् अनुसृत्य नानाभावा विषयाश्चोपस्थाप्यन्ते । नानाभावोपसंपन्नं नानावस्थान्तरात्मकम् ।
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ नाट्य० १-११२
अत्र क्वचिद् वैदिकी शिक्षा, क्वचित् ऐतिह्यम्, क्वचिद् आख्यानम्, क्वचिदाचारविचार-शिक्षा, क्वचित् कर्तव्योद्बोधनं च समाविश्यते ।
वेदविद्येतिहासानाम् आख्यानपरिकल्पनम् ।। विनोदकरणं लोके नाटयमेतद् भविष्यति ॥ ना० १-१२२ श्रुतिस्मृतिसदाचार-परिशेषार्थ-कल्पनम् । विनोदजननं लोके नाटयमेतद् भविष्यति ॥ नाट्य० १-१२३
न केवलमेतदेव, अपि तु नाटयं सर्वेषामपि अभीष्टं साधयति । यस्य यदेवाभीष्टं तस्य तदेव प्रापयति । यस्य यद्विषयिकाऽभिरुचिः स तत्र तद्विषयिकी सामग्रीम् उपलभते । तद्यथा-धर्मनिष्ठानां कृते धर्मचर्चा, विषयिणां कृते विषयोपभोगः, अज्ञानां कृते ज्ञानोपदेशः, सुधियां ज्ञानवर्धनम्, धनिनां विलासः, अर्थाथिनाम् अर्थोपार्जनसाधनम् । सूक्तं भरतेन
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुविनीतानां मत्तानां दमनक्रिया ॥ ना० १-१०९ क्लीबानां धाष्र्यजननम् उत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ नाटय० १-११०