________________
७७. अभिनवभारते संस्कृतम् (१. भारतीयभाषासु संस्कृतस्य योगदानम्; २. संस्कृतसाहित्यं
तत्प्रवृत्तयश्च; ३. संस्कृतं राष्ट्रभाषा भवितुमर्हति ) अभिनवभारते संस्कृतम्-अभिनवभारते यद्यपि गीर्वाणवाण्याः न तादृशी समुन्नतिः प्रगतिर्वा, तथापि निश्चप्रचम् एतद्वक्तुं सुकरं यत् संस्कृतवाङ्मयं साम्प्रतमपि जीवति, जिजीविषति च । यद्यपि न विक्रमादित्य-भोजादिवत् राजाश्रयित्वम्, तथापि तपःपूताः संस्कृतरक्षणकचेतसः नानाविधाधिव्याधिक्लेशसम्पीडिताः, वृत्त्यभावादिदोषविषण्णाः, स्वाभिमानकधनाः सन्ति तादृशाः ब्रह्मऋणानण्यलन्धुकामाः, बलिदानभावोद्दीप्तमानसाः विपश्चितः. येऽनवरतं संस्कृतकाव्यादिनिर्माणतत्पराः पत्रपत्रिकादिसम्पादनसंलग्नाः संदृश्यन्ते । समासतोऽत्र वर्तमानसमये क्रियमाणं कार्य विवियते प्रस्तूयते च'
संस्कृतकाव्यकाराः-वर्तमानसमयेऽपि केचन विद्वत्तल्लजाः काव्यरसलिप्सवो दृश्यन्ते । यथा-यतीन्द्रजीवनचरितकारः शिवकुमारशास्त्री, भारतपारिजात-पारिजातापहार-पारिजातसौरभादिकारः भगवदाचार्यः, दयानन्ददिग्विजयकारः अखिलानन्द-शर्मा, मुनिचरितामृतकारो दिलीपदत्तशर्मोपाध्यायः, भारतानुवर्णनकारः रामावतार-शर्मा, अलिविलाससंलापकारः गङ्गाधरशास्त्री तैलङ्गः, दयानन्ददिग्विजयकारो मेधाव्रत-कविरत्नः, चन्द्रोपालम्भवर्णनकारो रघुनाथ-शास्त्री, प्रतापविजयकारो मथुराप्रसाद-शास्त्री, स्वराज्यविजयकारो द्विजेन्द्रनाथ-शास्त्री, बोधिसत्त्वचरित-गुरुगोविन्दसिंह-महाकाव्यकारो डॉ० सत्यव्रतशास्त्री, राष्ट्रगीताञ्जलिकारो डॉ० कपिलदेव-द्विवेदी, सीताचरितकारो डॉ० रेवाप्रसाद-द्विवेदी, गांधीगौरव-लालबहादुरशास्त्रिचरितबंगलादेशादिकारो रमेशचन्द्र-शुक्ल-प्रभृतयो विशेषतोऽत्र उल्लेखमर्हन्ति ।।
संस्कृतनाटककाराः-वर्तमाननाटककृत्सु प्राधान्येन उल्लेख्याः सन्तिसावित्रीचरित-ध्रुवाभ्युदय-पार्वतीपरिणयादिकारः शङ्करलालमहामहोपाध्यायः, छत्रपतिसाम्राज्य-प्रतापविजय-संयोगितास्वयंवरकारो मूलशङ्करमाणिकलालयाज्ञिकः, सामवतादिकारो अम्बिकादत्त-व्यासः, बङ्गीयप्रताप-शिवाजीचरितादिकारो हरिदाससिद्धान्तवागीशः, वीरप्रताप-गांधीविजय-भारतविजयादिकारो मथुराप्रसाद-दीक्षितः, यां चिन्तयामि-प्राणाहुतीकारो वेलणकरः, परिवर्तनकारो डॉ० कपिलदेव-द्विवेदिप्रभृतयः ।
१. विस्तृत विवरणार्थं द्रष्टव्यम्-लेखककृत-संस्कृत सा० समीक्षात्मक इतिहास, पृष्ठ
२५४, २६३, ४४२, ४५३, ५०६, ५२१, ५६०-५७० ।