________________
२५८
संस्कृतनिबन्धशतकम्
गद्यकाव्यकाराः—गद्यकाव्यपरम्पराऽपि अविच्छिन्नाऽवलोक्यते । तत्र प्राधान्येनोल्लेख्या गद्यकृतः सन्ति — मन्दारमञ्जरीकारो विश्वेश्वरपाण्डेयः, शिवराजविजयकारो अम्बिकादत्तव्यासः, प्रबन्धमञ्जरीकारो हृषीकेशभट्टाचार्यः, कथापञ्चक-ग्रामज्योतिः-कथामुक्तावली - प्रभूतिकृत् पण्डिताक्षमाराव, कौमुदी - कथा कल्लोलिनीकारो रामशरण त्रिपाठी, विद्वच्चरितपञ्चककारो नारायणशास्त्री खिस्ते, कुमुदिनीचन्द्रकारो मेधाव्रताचार्यः, लोकमान्यतिलकचरितकारो वामनकृष्ण चित्तले, प्रतापचम्पूकारो दिलीपदत्तशर्मा, गांधीचरितकारो भागवताचार्य:, सेतुयात्रानुवर्णनकारो गणपतिशास्त्री कलाकौमुदीकारो रामावतार शर्मा, गांधीचरितकारः चारुदेवशास्त्री च ।
पत्रपत्रिकाः – संस्कृतभाषायामद्यत्वेऽपि काश्चन साप्ताहिक - पाक्षिकमासिक - प्रेमासिक- पाण्मासिक वार्षिक पत्रपत्रिकाः प्रकाश्यन्ते । ताश्च प्रचुर - प्रचाराः । तद्यथा- - भवितव्यम् (नागपुरम् ), गाण्डीवम् ( बाराणसी), संस्कृतमञ्जूषा ( कलिकाता), गुरुकुल-पत्रिका ( कांगड़ी, हरिद्वार: ), भारतीयविद्या ( बम्बई), भारतोदय: ( गुरुकुल म० वि०, ज्वालापुरम् ), सङ्गमनी ( प्रयागः ), ब्रह्मविद्या ( मोडियार ), सरस्वती-सुषमा (संस्कृत वि० वि०, वाराणसी), सागरिका ( सागर वि० वि० ), पुराणम् (वाराणसी), संस्कृतप्रतिभा ( नई दिल्ली ) ।
शोधसंस्थानानि – संस्कृते प्राच्य - पाश्चात्त्य - वेज्ञानिक पद्धतिमाश्रित्य प्रायः सर्वेषु विश्वविद्यालयेष्वनुसन्धानकार्यं प्रवर्तते । प्रतिवर्षं बहवो शोधच्छात्राः डॉक्टरोपाधिभिर्विभूष्यन्ते । एतदतिरिक्तं भण्डारकर - शोधसंस्थानम् ( पूना ), विश्वेश्वरानन्द - शोध संस्थानम् ( होशियारपुर ), काशिराज- शोध संस्थानम् (वाराणसी), गङ्गानाथ झा शोध संस्थानम् (प्रयाग), इत्यादीनि संस्थानानि शोधकार्यं प्रसारयन्ति, प्रोत्साहयन्ति च । निर्णयसागर - वेङ्कटेश्वर - स्वाध्यायमण्डल - आयं साहित्यमण्डल - वेदवाणी - गीता प्रेस-प्रभृतयः संस्कृत वाङ्मयप्रसारकार्ये बहुमूल्य साहाय्यमाचरन्ति ।
भारतीय भाषासु संस्कृतस्य योगदानम् - नास्ति कापि भारतीय भाषा या संस्कृतवाङ्मयमुपेक्ष्व जीवितुं क्षमा । प्रायशः सर्वा अपि संस्कृतनिष्ठाह्मीलिपिसमुद्गता एव भारतीयभाषालिपयः । आर्यभाषाणां व्याकरणमपि संस्कृतभाषाव्याकरणाश्रयत्वं द्योतयते । सर्वास्वपि आयं द्रविड- परिवारभाषासु संस्कृतशब्दानां बाहुल्यमवलोक्यते । क्वचित् षष्टिप्रतिशतं क्वचिच्चाशीतिप्रतिशतं संस्कृतशब्दप्रयोगाः प्रवर्तन्ते । भाषाणां तुलनात्मकाध्ययनेऽपि संस्कृतस्यैव प्राधान्यम् अवगम्यते । संस्कृतवाङ्मयं सम्यगनुशीलितं चेत् न तादृशी काप्यन्या भारतीयाऽऽर्यभाषा या स्वल्पेनैव कालेनाधिगन्तुं न पार्येत । हिन्दीभाषा तु