________________
२१२
संस्कृतनिबन्धशतकम् संमिश्रयैनं प्रादात् । ततश्च स ३० अक्टूबर, १८८३ ईसवीये मङ्गलवासरे दीपावलि-पर्वणि ज्ञानराशिर्यतीश्वरोऽयं भौतिकं शरीरं विहाय यशःशेषताम् अयात् ।
कृतयः तस्य प्रथिततमाः कृतयः सन्ति-ऋग्वेदभाष्यम्, यजुर्वेदभाष्यम्, ऋग्वेदादिभाष्यभूमिका, सत्यार्थप्रकाशः, संस्कारविधिः, गोकरुणानिधिः, व्यवहारभानुः, आर्याभिविनय-प्रभृतयः । तत्र नैरुक्तप्रक्रियाम् आश्रित्य कृतं वेदभाष्यं वेदानां गौरवं सर्वज्ञाननिधानत्वं च प्रतिष्ठापयति । सत्यार्थप्रकाशो विश्ववाङ्मयस्य प्रकाशस्तम्भः । सोऽयं स्वसिद्धान्तसमर्थनेन परपक्षनिरसनेन चाभुवनं प्रथतेतमाम् ।
समाजसुधारको राष्ट्रोद्धारकच-भारतवर्षे समाजसुधारकेषु महर्षिदयानन्दो मूर्धन्यः। तस्य समाजसुधारकार्येषु सर्वोत्कृष्टत्वं पाश्चात्त्यैरपि मनीषिभिः साह्लादम् उद्घोष्यते । स महर्षिरेव जन्ममूलां जातिप्रथां निरस्य गुणकर्मानसारं वर्णव्यस्थां वेदाभिमताम् अघोषयत् । समाजे प्रचलितं बद्धमूलम् अनर्थमूलं च सर्वविधमपि पाषण्डं प्रपञ्चम्, धार्मिकमन्धानुकरणम्, अन्धविश्वास भूतप्रेतादिप्रवादं च निराकरोत् । मूर्तिपूजैषा सर्वविधायाः पाषण्डपरम्पराया आधारभूतेति निर्णीय, अस्या वेदविरुद्धत्वं चावगत्य, युक्ति-प्रमाण-पुरःसरं मूर्तिपूजाम् अखण्डयत् । मृतानां पितृणां श्राद्ध-तर्पणादिविधिरपि वेदविरुद्ध एवेति स प्रत्यपादयत् । मातृशक्तेरुन्नतिमन्तरेण न देशोन्नतिः संभवतीति विचारंविचारं स्त्रीशिक्षायां बलं न्यधात् । स एव स्त्रीशिक्षायाः सर्वप्रथमप्रचारकत्वेनाभिनन्द्यते । स आर्षपद्धतिमनुसृत्य गुरुकुलसंस्थापनासमकालमेव कन्यागुरुकूलपद्धतिमपि प्रावर्तयत् । अस्पृश्योद्धारविषये स महात्मनो गान्धेरग्रदूतः । स वालविवाहम् अहितकरमिति निश्चित्य न्यषेधयत् । विधवाविवाहम्, विधवाश्रमम्, अनाथालयादिकं च प्रावर्तयत् ।
राष्ट्रभाषाया हिन्दीभाषाया अपि प्रवर्तने तस्यापूर्व योगदानम् । गुर्जरदेशीयोऽपि सन्, संस्कृतभाषानिष्णातोऽपि सन्, लोकहितभावनया आर्यभाषां हिन्दीभाषामेव लेखनस्य प्रचारस्य च माध्यमं चक्रे । हिन्दीभाषाप्रचारे आर्यसमाजस्य यथा योगदानम्, न तथाऽन्यस्य कस्यचिदपि समाजस्य । स वेदाध्ययनम् आर्याणां परमकर्तव्यम् अमन्यत । अतएव स वेदाध्ययने तीव बलं न्यधात् । वेदा एवार्यजातेः प्रमाणत्वेन संमान्या ग्रन्थाः सन्ति, इत्येवं सोऽघोषयत् ।
भारते शिक्षाप्रसारे तन्मतमनुरुध्य प्रवर्तितानां डी० ए० बी० कालेजप्रभृतीनां महत्त्वपूर्ण योगदानम् । राष्ट्रियता-जागरणेऽपि तस्य विशिष्टं योगदानम् । १८५७ ईसवीये संजातायां राष्ट्रियक्रान्तौ तस्य महर्षेः परोक्ष