SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ महर्षिदयानन्दः २१५ योगदानमभूदिति ऐतिह्यविद्भिनिश्चप्रचं प्रतिपाद्यते । सत्यार्थप्रकाशे स्फुटं तेन प्रतिपाद्यते यद् निकृष्टमपि स्वराज्यं श्रेयोवहादपि परकीयाद् राज्या श्रेयस्करम् । _ 'कोई कितना हो करे, परन्तु जो स्वदेशीय राज्य होता है, वह सर्वोपरि उत्तम होता है। अथवा मतमतान्तर के आग्रह-रहित, अपने और पराये का पक्षपातशून्य, प्रजा पर पिता-माता के समान कृपा, न्याय और दया के साथ विदेशियों का राज्य भी पूर्ण सुखदायक नहीं है।' सत्यार्थप्रकाश, अष्टम समुल्लास, पृष्ठ १४५ भारतीय-गौरव-संरक्षणार्थमेव स 'कृण्वन्तो विश्वमार्यम्' इत्यघोषयत् । संस्कृतभाषायाः प्रचारः प्रसारश्च तस्य जीवनस्योद्देश्यम् । वैदिकी दृष्टिमवष्टभ्य यज्ञस्य महत्त्वम्, पशुबलिविरोधम्, सन्ध्योपासनादीनाम् उपयोगित्वम्, निराकारस्येश्वरस्योपासनम्, वेदविरुद्धत्वाद् मूर्तिपूजाया निराकरणम्, पश्चयज्ञानां षोडशसंस्काराणां चावश्यकरणीयत्वं प्रत्यपादयत् ।। हिन्दु-धर्मान्तर्गत-कुरीतीनाम्, अन्धविश्वासानां च यावज्जीवनं विरोधम् अशिक्षयत् । स एव हिन्दु-धर्म-विघटनं न्यरोधयत् । शुद्धि-आन्दोलनं प्रवत्यं यवन-ईसु-मतानुयायिनामपि शुद्धि विधाय तान् वैदिकधर्मे अदीक्षयत् । एवं वैदिकधर्मस्य श्रेष्ठत्वं प्रत्यपादयत् । उपसंहारः-एवं महर्षेः कार्यानुशीलनेन स्फुटमेतद् अवगम्यते यत् स क्रान्तदर्शी, निर्भीकः, निःस्वार्थः, धर्मपरायणः, परार्थंकधीः, दीन-हीन-पतितरक्षकः,शोषितपोषकः, नारीसंमान-संवर्धकः, वैदिकधर्मप्रतिष्ठापकः, गवां रक्षकः, गुरुकुलशिक्षा-पद्धति-प्रवर्तकः, मूर्तिपूजा-अवतारवादादि-दोष-संहारकः, समाजोनायकः, राष्ट्रियचेतनाप्रबोधकः, आर्यजातिप्राणरूपः, अहिंसा-सत्य ब्रह्मचर्यमूर्तिः, कुरोतिनिरोधकः, यज्ञादिप्रवर्तकः, भारतोन्नतिसाधकश्च कश्चन महात्मा महायोगी महापुरुषश्चासीत् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy