________________
३०४
संस्कृतनिबन्धशतकम् शुश्रूषन्ते साधूनामुपदिष्टम्, क्रियाविलम्बम् अन्तरायान्तरणमवगच्छन्ति, क्षिप्रकारित्वं च श्रियः साधनं गणयन्ति । एवंविधयाऽऽत्मविडम्बनया विप्रलब्धास्तेऽतिरभसकारित्वाद् न केवलं विपत्पारावारे एव निमज्जन्ति, अपितु सर्वलोकस्योपहास्यतामवाप्य दुःखदुःखेन कालमतिवाहयन्ति । केचन हतबुद्धित्वाद् अज्ञानतमःप्रसरेण पीड्यमाना यथैवोपदिश्यते परैस्तथैवाचर्यते तैः । न ते स्वविवेकोपयोगेन साध्वसाधु वा निर्णेतुमध्यवस्यन्ति । परिणतिस्तु तस्य विपदुपताप एव । अतो निगदितं कालिदासेन-- 'सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेयबुद्धिः॥
मालविकाग्नि० १-२ विवेकमूलाः प्रवृत्तयः-विवेकमूल: सुविचारश्चेदाश्रीयते आश्रयत्वेन, नह्यसाध्यमिह किञ्चिज्जगति । प्रत्यहं समीक्ष्यते सर्वस्यां संसृतौ देशैरनेकैः स्वराष्ट्रोद्धाराय प्रवर्त्यमाना विविधा योजनाः। भारतेऽति पञ्चवर्षीया योजनाः प्रयुक्तचराः प्रयुज्यमानाः प्रयोक्ष्यमाणाश्चावेक्ष्यन्ते । विवेकमूलत्वादेवैतासां साफल्यमिष्यते संभाव्यते च । विपश्चितोऽपि विवेकजीवित्वात् जीवनस्य कार्यक्रमं विमृश्यावधारयन्ति । अध्यवसायावसिक्तेन मनसा मुहुर्मुहुर्यतमानास्ते स्वाभीप्सितमाश्रयन्ते ।
अविमश्यकारित्वं दःखाय-भारतीयैतिशमीक्ष्यते चेत तत्राप्यविचार्यकारित्वादेव विविधा विपदो वीक्ष्यन्ते । दाशरथी रामः सुर्वणमृगं प्रेक्ष्याविचार्यकारित्वादेव तमन्वधावत् । तत्कृत्यं च तस्य जानकीहरणत्वेन परिणेमे । गुरुलाघवमविमृश्यव रावणोऽपि सीताहरणे प्रवृत्तो निधनमवाप्तश्च सबान्धवः । अविवेकमाश्रित्यैव दुर्योधनोऽपि सच्यग्रमात्रभप्रदानेऽपि कार्पण्यं भेजे । तद्विपाकत्वेन महाभारतसमरे सपरिवारः सपरिजनः स्वेष्टजनसहितः सकलामवनि विहाय दिवमशिश्रियत् । अतो विचार्यैव कृतिरनुष्ठेया। अतिरभसत्वं च विपन्मूलकमिति परिहरणीयम् ।