SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ९४. चिन्ताविषघ्नं रसायनम् (नास्ति चिन्तासमो व्याधिः ) चिन्तायाः स्वरूपम्-समग्रसुखनिधानेन भगवता जगदीशेन सृष्टि विदधता न जाने केन हेतुना मानवानां दुःखमूला चिन्ता-नामेयं काचिदपूर्वा पिचाशी समुत्पादिता। सेयं नराणां रक्तपायिनी, आधि-व्याधि-मूला, शरीरसंतापयित्री, मनोदाहिका, काचिद् राक्षसी । या न केवलं रुधिरपानेनैव तृप्तिम् अधिगच्छति, अपि तु अहर्निशं यावज्जीवं च विविधरूपाणि गृहीत्वा छायेव मानवम् अनुसरति । केचन सुखार्थिनः सुखलिप्सया, धनार्थिनो धनकाम्यया, क्षुधापीडिता धान्यार्थम्, ऋणग्रस्ता आनण्यार्थम्, अपुत्राः पुत्रार्थम्, अशिक्षिताः शिक्षार्थम्, गतविभवाः पुनर्विभवलाभार्थम्, अनिष्टग्रस्ता इष्टप्राप्त्यै च चिन्ताकुला दृश्यन्ते । येन केनापि प्रकारेणैकदा कृतवसतिरियं चेतःसू बलाद निःसार्यमाणापि, तिरस्कृतापि, ताड्यमानापि, पीड्यमानापि, बहुशो निर्भत्सितापि स्वाश्रयं नोज्झति । चिन्ता चितयैव समं शाम्यति । सेयं साम्यवाद-प्रतिष्ठापिकेव निर्धनं सधनं च, निर्गणं सगुणं च, अविद्याग्रस्तं विद्या-वैभव-भास्वरं च, कुलीनम अकुलीनं च, अन्त्यजम अग्रजन्मानं च, देशस्थं विदेशस्थं च, कलाविदं विज्ञान-भानु-प्रद्योतितान्तःकरणं च समदृष्टया निरीक्षमाणा रात्रिन्दिवं व्याकुलयति उत्पीडयति च । शुष्कं वृक्षं वह्निरिव, सच्छिद्रं पोतं सलिलमिव, पत्रसंचयं दवाग्निरिव, तृणाच्छन्नं गृहं मातरिश्वेव, निराशा-व्याकुल-मानसं मानवं विनाशयति चिन्तासमुत्थो जातवेदाः। चिन्ताया मूलमभावः-अभावश्चिन्ताया मूलम् । इष्टप्राप्ति-द्रविण-सुखाद्यभावोऽस्या मूलम् । यत्रेवाभावानुभवस्तत्रैव चिन्तायाः सदनम् । सैषा आश्रयाशो वह्निरिव यमेवाश्रयते तमेव भस्मसाद् विदधाति । अतः सुकरमेतद् वक्तुम्'नास्ति चिन्तासमो व्याधिः, नास्ति चिन्तासमो रिपुः । नास्ति चिन्तासमं दुःखं नास्ति चिन्तासमं भयम् ।' 'चिन्ता जरा मनुष्याणाम्'। नीरोगमपि प्रसन्नमानसमपि मानवं चिन्ताऽन्तः प्रविश्य व्याधिग्रस्तं निष्प्रभं शोकसन्तप्तं च विदधाति । सेयं न केवलं शोक-दुःख-लानि-ईर्ष्या-रूक्षता-असहिष्णुता-नैराश्यक्रोधादीनां मानसिक-दुःखानामेव मूलम्, अपि तु हृद्रोग-रक्तचाप-मधुमेहअनिद्रा - शिरोवेदना-पक्षाघात - मलावरोधादीनां व्याधीनामपि मुख्यं कारणम् । सूक्तं केनापि-'स्वच्छन्दं चरतो नरस्य हृदये चिन्ताज्वरो निर्मितः ।' चिन्ता मूलमनर्थानाम-चिन्तया नरो निश्चेष्टो जडश्च संजायते । यत्र यत्रैव जडत्वं निश्चेष्टता वा, तत्र तत्र दुःखावाप्तिः । प्रवहमानं सलिलं निर्दोषं निर्मलं पावनं मधुरं च भवति, तथैव चिन्ताविरहितं सोत्साहं प्रगतिशीलं च २०
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy