SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ९६. सत्संगतिः कथय किं न करोति पुंसाम् ( १. सतां सद्भिः संग ः कथमपि हि पुण्येन भवति; २. संसर्गजा दोषगुणा भवन्ति; ३. सतां संगो हि भेषजम्; ४. सतां हि संगः सकलं प्रसूयते; ५. संगः सतां किमु न मङ्गलमातनोति । ) सत्संगतिः - सतां सज्जनानां संगतिः सत्संगतिरित्यभिधीयते । लोके सत्संगतेस्तथाविधं महत्त्वं यथा निर्गुणोऽपि सगुणः, क्रूरोऽपि सहृदयः, अधर्मात्मापि धर्मात्मा, पापावृतचेता अपि सत्कर्मनिष्ठः, अज्ञानावृतलोचनोऽपि ज्ञानप्रभाप्रदीप्तः, सकलङ्कोऽपि निष्कलङ्कः संजायते । कियन्तो न दुराचाराः पापिष्ठा अधर्मप्रवणाश्च सतां संगतिमवाप्य दुर्गुणगण-परिहीणाः साध्वाचारभूषितान्तः करणाः पूतात्मानश्च समवर्तिषत । संगतिरेव मानवं तद्रूपेण विपरिणमयति । सतां संगः सततं गुणायैव, दुर्जनसंगतिश्चाजस्रं दोषायैव । यस्य यादृशैः संगतिः, तस्य तादृश्येव परिणतिः । अतएवोच्यते संसर्गजा दोषगुणा भवन्ति । ------ होयते हि मतिस्तात होनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्व विशिष्टताम् ॥ हितोप० प्र० ४२ सत्संगते महत्त्वम् - सत्संगत्यैव नीचोऽपि गुणगौरवं धते । पद्मात्रस्थितं सलिलं मुक्ताफलाभां धत्ते । विष्णुहस्तगतः शङ्खस्त्रिभुवने महिमानम् आसादयति । मलयाचल - सुरभिणा तत्रस्थं काष्ठजातमपि चन्दनायते । तद्वत् सज्जनसंगत्या दुर्जनोऽपि सज्जनायते । उक्तं च 1 महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारिधत्ते मुक्ताफलश्रियम् ॥ ॥ पंचतंत्र ३-५९ सज्जन संगतिर्यथा शान्ति तनुते, न तथा सुधांशुरपि । न केवलं सज्जनानां संगतिरेव, अपि तु तेषां दर्शनेनैव दुरितात्ययः पापविनाशनं च । साधवस्तीर्थभूताः । तीर्था दूरस्थाः, सन्तश्चाविदूरस्थाः । सन्तः सद्यः फलप्रदाः । अतः सतां दर्शनमपि सकलमिष्टं जनयति । साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ शुक्र० ६८ - १ चन्दनं चन्द्रश्च द्वयमपि शैत्यं जनयतः । परं द्वयमप्यतिशय्य साधुसंगतिरपूर्वमेव शैत्यं सौख्यं शान्ति चाविर्भावयति । चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ॥ सु० २० पृ० ८६
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy