________________
२८२
संस्कृतनिबन्धशतकम् संहतिः श्रेयसी पुंसाम्-संहतेबलेनैव तृणानि रज्जुभावं समासादयन्ति । ततश्च गजेन्द्रोऽपि बध्यते । जल-बिन्दु-समूह एव नदीत्वं सागरत्वं चाप्नोति । रजःकणसमूह एव महापर्वतरूपं धत्ते । तन्तुसमूह एव सुदृढ-पटरूपेण परिणमति । अतएवोच्यते-संहतिः श्रेयसी पुंसाम् । संहतेमहत्त्वं नीतिशास्त्रकारैः प्रतिपाद्यते यद्
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ हितो० १-३४ ।
यत्रैवैकताया अभावो विरोधो वैषम्यं च, तत्र कार्यस्यासिद्धिः क्षयो नाशो विनाशो हानिरधोगतिर्वा लक्ष्यते । अतों महाभारते प्रोच्यते
न वै भिन्ना जातु चरन्ति धर्म, न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति, न वै भिन्नाः प्रशमं रोचयन्ति ॥
अतएव संबन्धिनो ज्ञातयः सुहृदश्च न विरोध्याः। तुरैरपि परित्यक्तास्तण्डुला न प्ररोहन्ति । उक्तं च
संहतिः श्रेयसी पुंसां स्वकुलरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ हितो० १-३५
संघे शक्तिः कलो युगे यदि साम्प्रतं भुवनेऽवलोक्यते चेत् तहि सर्वत्रैव आर्थिक सामाजिके औद्योगिके राष्ट्रिय राजनीतिके शैक्षिके च क्षेत्रे संघस्य महत्त्वं प्रेक्ष्यते । आर्थिकक्षेत्रे श्रमिकाणाम् , व्यवसायिनाम्, शिल्पिनाम्,चर्मकाराणाम, नापितानाम, रिक्शा-चालकानाम्, मोटरचालकानाम्, प्रकाशकानाम्, लेखकानाम्, औद्योगिकानाम्, बैंक-कर्मचारिणाम, मिलश्रमिकाणां च शतशः संघा दृष्टिपथमुपयान्ति । सामाजिकक्षेत्रे छात्राणाम्, लेखकानाम्, साहित्यिकानाम्, कलाकाराणाम्, महिलानां च विविधाः संघाः समीक्ष्यन्ते श्रूयन्ते च । राष्टिरक्षेत्रे विविध-वाद-प्रवर्तकाः संघा दृग्गोचरताम् उपगच्छन्ति, यथा-समाजवादिनाम्, साम्यवादिनाम्, शोषितानाम्, कृषकाणाम, लोकतन्त्रादिवादिनां विविधाः संघाः कस्य न श्रुतिपथमवतरन्ति । एवमेव कांग्रेस-जनसंघ-भारतीय लोकदल-भारतीयक्रान्तिदल-समाजवादि-साम्यवादि-प्रभृतयोऽनेके राजनीतिकसंघाः प्रचरन्ति । नाटो-सीटो-प्रभृतयो देशसंघाः, संयुक्त राष्ट्र-संघश्च विश्वदेशसंघाः प्रावर्तन्त। संयुक्तराष्ट्रसंघो विश्वहितचिकीर्षया विश्वदुःखपरिजिहीर्षया च प्रवर्तितः संघः।
लोके एकाकिनो जनस्य बालस्य स्थविरस्य वा न तथा शक्तिसंपुष्टं गौरवास्पदं च वचनम्, यथा तत् सर्वत्राद्रियेत । कार्यसाधनक्षमत्वं संहतो एकतायां