________________
८५. संघे शक्तिः कलौ युगे
(संहतिः श्रेयसी पुंसाम् ) संघस्योपयोगित्वम्--जगति प्रतिपदम् अवलोक्यते यत् संघेनैव कार्यसिद्धिः संपद्यते । एकम् उद्देश्य लक्ष्यीकृत्य बहूनां लोकानाम् एकत्वभावनया कार्यकरणं संहतिः, एकता, संगठनम्, संघो वाऽभिधीयते। संघः संहतिः एकता वा स गुणो वर्तते यो व्यक्ती समाजे राष्ट्र चापूर्वी चमत्कृतिम् आदधाति । संघबलेनैव समाजो देशश्च उन्नतिपथम् अधिरोहतः । संहतिमूला शक्तिनं केनापि व्यवच्छेत्तुं संधर्षयितुं वा पार्यते।।
__ संहतेमहत्त्वम्-वैदिकं वाङ्मयम् अनुशील्यते निरीक्ष्यते चेत् तत्रैकत्वभावनायाः सहयोगस्य सामञ्जस्यस्य च महत्त्वं प्रतिपाद्यते । ऋग्वेदेऽन्तिमसूक्ते एकतायाः संहतेश्च महत्त्वं निर्दिश्यते । तत्रादिश्यते यत् समेत्य समवायरूपेण वा गमनं वचनं चिन्तनं मननं मन्त्रणं वा श्रेयसे भवति । उक्तं च
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ॥ समानो मन्त्रः समितिः समानी, समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ समानी व आकूतिः समाना हृदयानि वः। . समानमस्तु वो मनो यथा वः सुसहासति ॥ ऋग्० १०. १९१. २-४
अथर्ववेदे सामञ्जस्यस्य द्वेषाभावस्य पारस्परिकसहयोगस्य एकलक्ष्यतायाश्चादेशः प्राप्यते । गौर्यथा वत्से स्निह्यति, तथैव पारस्परिकं सौहार्द स्यात् । रथेऽरा इव समाजे सहयोगं कुर्वन्तो लोका अभ्युदयं लभेरन् । तेषां भोजनस्थानं जलपानस्थानं चैकरूपं स्यात् । एवम् एकोद्देश्यत्वे सति समाजोन्नतिः राष्ट्रोन्नतिश्च संपत्स्यते ।
सहृदयं सांमनस्यमविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत जातं वत्समिवाघ्न्या ॥ अथर्व० ३-३०.१ समानी प्रपा सह वोऽन्नभागः, समाने योक्त्रे सह वो युनज्मि । सम्यञ्चोऽग्नि सपर्यतारा नाभिमिवाभितः ॥ अथर्व० ३-३०-६
संघस्य लोकोपयोगित्वम्-जीवने प्रतिपदं संघस्योपयोगिता प्रेक्ष्यते । यत्र यत्र संघस्तत्र तत्र बलं शक्तिमत्त्वं च । पराधीनता-पाश-निगडितस्य भारतस्य भारतीयानाम् एकतया सहयोगेन च स्वातन्त्र्यलाभः । एकताया अभावादेव भारतं पराधीनता-पाश-निबन्धनम् आससाद । महात्मनो गान्धेर्नेतृत्वे लोकैकत्वभावोदयेन पराधीनता-पाश-छेदनं समजायत ।