________________
विद्याधनं सर्वधनप्रधानम्
३०९ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥
भर्तृ० नीति० २० किं किं न साधयति कल्पलतेव विद्या--विद्या मानवस्य किं किं न साधयति ? अपि तु कल्पलतेव सर्वसुखसाधिका, सर्वगुणप्रदा, सर्वाभीष्टसंधात्री च । सैषा मातृवत् संरक्षिका, पितृवत् सत्पथप्रदर्शिका, कान्तावत् सुखदा मनोरञ्जिका च, कीर्तिप्रदा, वैभवदायिनी, दुर्गुणगणनाशेन मनसः पावयित्री च । सर्वमनोरथपूरणात् सेयं कल्पलतया उपमीयते।
मातेव रक्षति पितेव हिते नियुङ्क्ते, कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीति, कि कि न साधयति कल्पलतेव विद्या॥
भोजप्रबन्ध ५ श्रियः प्रदुग्धे विपदो रुणद्धि, यशांसि सूते मलिनं प्रमाष्टि। संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः॥
विद्धशालभंजिका १-८ सा विद्या या विमुक्तये-किं नाम विद्याया लक्ष्यमिति विविच्यते चेत् तर्हि विद्यायाः परमं लक्ष्यं विद्यते भौतिक सुखसाधनेन सममेव पापावलेपनिरसन-पुरःसरं मुक्तेः संसाधनम् । यदि न स्याद् विद्या मुक्तेः साधनं तर्हि तदवाप्तिरपि न श्रेयसे न च सुखाय स्यात् । यया मोक्षाधिगमः सैव विद्या । उपनिषत्सु सैव परा विद्येति प्रकोय॑ते । अतएव भूयो भूयो निदिश्यते-'सा विद्या या विमुक्तये' । विद्यैव ज्ञानावाप्ति-साधनम् । ज्ञानेनैव ब्रह्मपथस्य साधु दर्शनात् तदभिमुखत्वम्, तेन च मोक्षाधिगमः । एतदेवाभिप्रेत्य प्रोच्यते--'ऋते ज्ञानान्न मुक्तिः' । गीतायामपि भगवता कृष्णेनैतदेव समर्थ्यते यद् यथा समिद्धो वह्निः समिधो भस्मसाद् विधत्ते, तथैव ज्ञानाग्निः सर्वकर्माणि विनाशयति भस्मावशेषं च विधत्ते । उक्तं च
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ गीता ४-३७