________________
संस्कृतनिबन्धशतकम्
. (१२) कालाविच्छिन्नत्वम्-भारतीयदर्शनानि वैदिककालाद् आरभ्य अद्यावधि अविच्छिन्नरूपेण प्रवहन्ति । सेयं दर्शनधारा पुण्यसलिलाया भागीरथ्या धारेवाविच्छिन्ना भारते विराजते। पाश्चात्त्यदर्शनानाम् ईसवीयसंवत्सरात् सप्तमशताब्दीपूर्वं प्रसृताऽपि धारा काले काले विच्छेदमाप, पुनरुद्भूता च ।
(१३) विचार-स्वातन्त्र्यम-भारतीयदर्शनेषु विचारस्वातन्त्र्यं प्रतिपदम् उपलभ्यते । खण्डनं मण्डनं वा स्यात्, हेयम् उपादेयं वा स्यात्, विरुद्धम् अविरुद्धं वा स्यात्, यदि युक्तियुक्तं विचारपूर्ण वा किंचिद् उपस्थाप्यते तद् विदुषां विचारपथम् आरोहति । न पूर्वग्रहमात्रेण किंचित् तिरस्क्रियते ।
( १४ ) व्यापकम् ईक्षणम्-सत्यान्वेषणं दर्शनानां लक्ष्यम् । अतो न भारतीयदर्शनेषु संकुचिता दृष्टिरुपलभ्यते । अस्वीकार्यमपि परपक्षं सयुक्तिकं समुपस्थाप्य युक्तिप्रमाणपुरःसरं तन्निराकरणं क्रियते ।
(१५) अनुभूतिमूलकत्वम्-भारतीयदर्शनानि स्वानुभूतिजन्यानि विद्यन्ते । सर्वत्रैवानुभूते: प्राधान्यं वरीवति । 'आत्मानं विद्धि' इत्याश्रित्य स्वानुभूतीनां प्रकाशनं दर्शनेषूपलभ्यते ।
(१६ ) विवेचन-प्राधान्यम्-भारतीयदर्शनेषु विवेचनात्मकतायाः प्राधान्यं लक्ष्यते । यदेव किंचित् प्रतिपाद्यं स्यात् तत् सयुक्तिकं सप्रमाणं परीक्ष्यैव हेयम् उपादेयं वा जायते, न प्रतिज्ञामात्रेण । अत एव भारतीयदर्शनानि दर्शन-जगति रत्नवद् बहुमूल्यानि आकल्पन्ते ।
(१७) समाजोत्थापन-भावना-भारतीयदर्शनेषु समाजस्य संस्कृतेश्च समुत्थापनस्य महती कामना दृश्यते । दर्शनेषु तथाविधानां तत्त्वानां समवायः स्याद् येन सामाजिकी सांस्कृतिको च समुन्नतिः संभाव्येत । अतएवानेके दर्शन- . काराः समाजसुधारकरूपेण प्रथिताः सन्ति ।
( १८ ) समन्वयभावना संश्लेषणात्मकत्वं च-भारतीयदर्शनेषु समन्वयभावना प्रमुखा वर्तते । विविधानि दर्शनानि एकस्यैव पादपस्य विविधशाखारूपेण परिगण्यन्ते, तत्र समन्वयश्चावलोक्यते। दर्शनेषु विविधविज्ञानानाम् एकत्रावस्थापनस्य समीकरणस्य च प्रयासो निरीक्ष्यते । '
एवं भारतीयदर्शनानि विवेचनगाम्भीर्येण, आलोचनाचातुर्येण, गूढार्थनिरीक्षणेन, संवेदनशीलानुभूतिप्रकर्षेण, सत्यान्वेषणानुरागित्वेन, तत्त्वार्थग्रहणप्रवणेक्षणेन, समन्वयभावनया, मनःस्थित्यनुशीलनेन, अतीतानुरागित्वेन, अध्यात्माभिमुख्येन, पुरुषार्थचतुष्टयसाधकत्वेन, जोवनोन्नायकत्वेन, दुःखत्रयविनाशपूर्वक-ब्रह्मसाक्षात्कारकरणत्वेन समेषामपि सुधियां समाति समधिगच्छन्ति । .