SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ संस्कृतनिबन्धशतकम् शक्तिहि सर्वोदयस्य मूलम् । सा दुःखविभावरी स्वप्रखरांशुभिः सद्यः संहरति । अत उच्यते-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ धैर्यधना हि साधवः। ते सम्पदि न हृष्यन्ति, न च विपदि विषीदन्ति । अतः सुखदुःखे समे कृत्वा प्रवर्तेत । सम्पदि विपदि च महतामेकरूपतैव लक्ष्यते । यथा चोच्यते-'उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता' । अतः सम्पदि न हृष्येत्, न च विपदि विषीदेत् । विपदि धैर्यमाधाय चेतसि स्वीयं कर्तव्यमतिवाहयेत् ॥
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy