SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ८७. आर्जवं हि कुटिलेषु न नीतिः ( १. शठे शाठ्यं समाचरेत; २. मायाचारो मायया बर्तितव्यः, ३. मृदुर्हि परिभूयते ।) शठेषु आर्जवं न हिताय-आर्जवं साधुत्वम्, ऋजुता, विनयाश्रिता च पद्धतिनिगद्यते । लोके द्विविधा प्रवृत्तिर्मानवानाम्, साधुत्वमूला असाधुत्वमूला च । साधुत्वमूला प्रवृत्तिः सद्भावान् संचारयति, सद्गुणान् प्रबोधयति, किन्तु असाधुत्वमूला प्रवृत्तिः असाध्वाचरणे, परार्थघाते, स्वार्थसाधने, स्तेयादिना धनसंग्रहे, विषादिप्रयोगेण परस्वहरणे च प्रेरयति । असाधुवृत्तयो जनाः स्वस्य देशस्य च घोरम् अहितं विदधति । एतादृशा एव दुर्वत्ता दुराचारा वश्चकाः पापाचाराश्च शठशब्देन गृह्यन्ते । तथाविधा नरा देश-समाज-राष्ट्रादीनाम् अवनतेः कारणानि । एते कण्टकवद् यत्र कुत्रापि स्थिता दोषजातमेव प्रवर्तयन्ति । एतेषां हननं ताडनं निष्कासनं नियन्त्रणं परिपीडनं च शास्त्रकारैरादिश्यते । तथाविधेषु करुणा दया आजवं वा न कथमपि हिताय प्रवर्तते । शठे शाठ्यं समाचरेत्-नीतिशास्त्रकारैरनुमोद्यते यद् यस्मिन् यो यथा वर्तते, तस्मिन् तथैव वर्तितव्यम् । साधुस्वभावः साधुस्वभावेनोपगन्तव्यः, खलो दुर्जनो वा मायाचारेण अपकारेण निग्रहेण वोपगम्यः । महाभारतेऽतएव यथायोग्यव्यवहार आदिश्यते । यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिस्तथा वर्तितव्यं स धर्मः। मायावारो मायया वर्तितव्यः, साध्वाचारः साधुना प्रत्युपेयः॥ महा० महाभारते साहसिका जना आततायिनो गण्यन्ते । यथा-गृहादिदाहकः, विषप्रदः, वधकर्ता, धनहर्ता, स्त्रीहर्ता च । अग्निदो गरवश्चैव शस्त्रोन्मत्तो धनापहः। क्षेत्रदारहरश्चैतान् षड् विद्यावाततायिनः ॥ मनु० आततायिनमायान्तं हन्यादेवाविचारयन् ॥ मनु० ८-३५० - आततायिनां वधे न कश्चन दोषो गण्यते । आततायिनम् आगच्छन्तमेव हन्यात् । आततायिनां वधादिः, साहसप्रवृत्तस्य च शासनं राज्ञः प्रथमं कर्तव्यम्, न च तान् उपेक्षेत । न केवलमेतदेव, अपि तु शठ-निग्रहार्थ शस्त्रग्रहणं द्विजातीनां कृते आदिश्यते । आत्मरक्षार्थम्, स्त्री-विप्रादिरक्षार्थ शठं निघ्नन् जनो न दोषभाग् भवति ।। आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तोच, धर्मेण घ्नन् न दुष्यति ॥ मनु० ८-३४९
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy