SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१८ संस्कृतनिबन्धशतकम् धैर्यस्याश्रयणेन लाभाः-प्रतिदिनं संलक्ष्यते यद् भानुस्ताम्र एवोदेति, ताम्र एव चास्तमेति, तथैव धीरा वीराश्च संपत्तौ विपत्तौ च समत्वं भजन्ते । उक्तं च संपत्तौ च विपत्तौ च महतामेकरूपता। उदये सविता रक्तो रक्तश्वास्तमये तथा ॥ पंचतन्त्र० २-७ गीतायामपि एतदेव प्रतिपाद्यते यद् हर्षशोकयोः समत्वबुद्धिरेव सर्वदुःखविनाशिका । यो न हृष्यति न च द्वेष्टि स एव प्रभुप्रियः । यो न हृष्यति न द्वेष्टि न शोचति न काइ क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ गीता १२-१७ अतएव सम्पदि हर्षाभावो विपदि विषादाभावो महात्मनां लक्षणं गण्यते । महाकविना कालिदासेनापि एतदेव समर्थ्यते यद् विषमायां परिस्थिती यो न मुह्यति, किंकर्तव्यविमूढतां च न भजते स एव धीरः । उक्तं च संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ हितो० १-३२ विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः। कुमारसंभव धैर्य हि मानवस्य नैसर्गिको धर्मः। यत्र धैर्य न तत्रावसादो विषादोऽधीरत्वं वा। नाग्निशिखाऽधःकृताऽपि अधोमुखत्वं भजते । 'प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः' ( शिशु० १-२) । उक्तं च. कर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमाष्टम् । अधोमुखस्यापि कृतस्य वह्नधिः शिखा याति कदाचिदेव ॥ हितो० २-६९ धैर्य गुणोत्कर्षाय-लोके धोरा एव विजयं लभन्ते, वसुधां विजयन्ते च । धीरा एव जना विश्वस्य साम्राज्यं स्वीकुर्वते, धीरा एव जगतः प्रकाशस्तम्भाः। धीरैरेव धार्यते धरित्री। धीरैरेव राष्ट्र श्री-वृद्धिौरवावाप्तिश्च । नहि धीराणां कृते किंचिद् असाध्यम् । धीरास्तु असाध्यमपि साध्यम्, दुर्लभमपि सुलभम्, दुर्जयमपि सुजयम्, दुष्करमपि सुकरं विदधति । धीराणां कृते जलधिः कुल्यायते, पातालं स्थलीयते, सुमेरुश्च वल्मीकायते । अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ सुभाषितावलि २२७० परेशोऽपि धीराणां धैर्यध्वसं विधातं न क्षमः । कामं गिरयश्चलन्तु, परं धीराणां मनो निश्चलं सुस्थिरं च । चलन्ति गिरयः कामं युगान्तपवनाहताः। कृच्छेऽपि न चलत्येव धीराणां निश्चलं मनः ॥ सु० रत्न०, पृ० ७७ .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy