Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003336/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमसुनाणि (सटीकं) भाग:-२ संशोधक सम्पाटकर मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ artoornacoome yonimoonmobanandnesdomarati o n बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरुभ्योनमः HABAR आगम सुत्ताणि (सटीक भाग-२ सूत्रकृताङ्गसूत्रम् RPMRUERARMAama -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/ म आगम श्रुत प्रकाशन है - : संपर्क स्थल :: "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं १३. ४ थी मंझिल, व्हायसेन्टर, खानपुर. अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रम् सूत्रकृताङ्गसूत्रस्य विषयानुक्रमः मूलाङ्काः-८०६, नियुक्ति गाथाः-२०५ मूलाङ्काः विषयः पृष्ठाङ्क: मूलाङ्काः विषयः पृष्ठाङ्क: १६ १३४ १४८ -८८ प्रथमः श्रुतस्कन्धः | १२ |-२४६/ उद्देशकः ४ यथास्थित- | १०६ अध्ययनं-१ समयं | अर्थप्ररूपणं १-२७ उद्देशकः-१ पञ्चमहाभूतः, १७ प अध्ययनं-४ स्त्रीपरिज्ञा ११३ आत्माद्वैत, देहात्म, अकारक, | -२९९ उद्देशकः-१-२ स्त्री परिषहः | ११७ आत्मषष्ठ एवं अफलवादः अध्ययन-५ नरकविमक्तिः |-५९ | उद्देशकः२ नियति, अज्ञान, | ३७ |-३२६ उद्देशकः-१ नरकवेदना १४० ज्ञानं एवं क्रिया - वादः |-३५१ उद्देशकः-२ चतुर्गतिभ्रमणं -७५ उद्देशकः-३ जगत्कर्तृत्व, | ४९ / 0 अध्ययन-६ वीरस्तुतिः १५४३ त्रैराशिक एवं अनुष्ठान वादः ३८० महावीरप्रमोः गुणवर्णनम् उद्देशकः-४ लोकवादः, ५७ | 0 | अध्ययन-७ कुशील परिभाषा | १६५ असर्वज्ञवादः, अहिंसा, -४१० हिंसा एवं तत् कर्मफलं, चर्या आदि बोधि दुर्लभत्वम्, | D अध्ययनं-२ वैतालीयं । स्वसमय-परसमय वर्णनम्, -११० उद्देशकः-१ मनुष्यभवस्य आहार विधिनिषेधः दुर्लभ , मोहादि निवृत्तिः | अध्ययन ८ वीर्य प्रथमंमहाव्रतम्, आटि --४३६ | धीर्यस्यभेदवर्णनम्, बाल |-१४२ / उद्देशकः-२ परिपह- कषाय- | १ एवं पण्डित वीर्यम् जयः परिग्रह परिचयादि- 10 | अध्ययन धर्म १८९ निषेधः, समितिवर्णनम् ४७२ | धर्म स्वरूपं, हिंसाटि पञ्च |--१६४ उद्देशकः-३ मुक्तिहेतुः, कस्य ल्यागस्य उपदेशः महाव्रतमाहात्म्यं, कर्म फल अनाचार न्यागः, गंवर एवं निर्जगदिः प्रयच्याविधान अध्ययन- उपसर्गः MOअअयनं १० समाधि: --१८ उद्देशकः १ प्रतिकूल उपसर्गः ५ - ४१.६ प्राणानिपातादि-विरमणं. ....३ दशकः - अनुकल उपसगः आधारमाहार श्रीगंगांतः -२२४ उद्देशकः-३ परवादी बचनात निटानादेःनिषेधः, एकत्यादि |आत्मिकदुःखं 'भावनाम्यरूपम ६४ १७७ ८१ मा Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः २४९ -६०६ मूलाङ्काः विषयः पृष्टाङ्कः मूलाङ्काः | विषयः पृष्टाङ्क: ॥ अध्ययनं-११ मार्ग: २११, 9 | अध्ययनं २ क्रियास्थानं -५३४ | मोक्षमार्गः, विरतिउपदेशः, 1-६७४/ त्रयोदशक्रियास्थानानि |-भाव समाधिः | अध्ययन-३ आहारपरिज्ञा | अध्ययनं-१२ समवसरणं | २२५/-६९९/ विविध वनस्पतिकायस्थ -५५६ | अज्ञानादि-वाद, भवभ्रमण हेतुः उत्पत्ति, एवं तस्य अनासक्ति-उपदेशः, आहारविधिः, 0 अध्ययनं-१३ यथातथ्यं जीवोत्पत्तिः, तस्य आहार -५७९ मोक्ष एवं बन्धस्वरूपम्. | एवं शरीर वर्णनम् | मदत्यागौपदेशः, 0 अध्ययनं-४ प्रत्याख्यानं । ३९१ 0 अध्ययनं १४ ग्रन्य: ।२६१-७०४ा अप्रत्याख्यान स्वरूपम्, अपरिग्रह ब्रह्मचर्यादि उपदेशः प्रत्याख्यान हेतुः षड्प्रश्नोत्तर विधिः, भाषाविवेकः जिवनिकाय हिंसा विरमणं सूत्रस्यउच्चारणं एवं अर्थ अध्ययनं-५ आचारश्रुतं प्रतिपादनं -७३७ अनेकान्त वचनप्रयोगअध्ययनं-१५, आदानं ।२७३, करणम्, जीव अजिव आदि उपायाः, भवभ्रमण तत्वस्य अस्तित्व स्वीकारः निषेध हेतुः अध्ययनं-६ आर्द्रकीयं ४१८ अध्ययनं-१६ गाथा |२८४ --७९२ | गोशालक एवं आर्द्रकुमारस्य -६३२ अनगार स्वरूप परस्पर वार्ता, शाक्य भिक्षु द्वितीयः श्रुतस्कन्धः २९० सार्धम् आर्द्रकुमारस्थ संवादः अध्ययनं १ पुण्डरिक अध्ययन- नालंदीयं -६४७ पुण्डरिक उद्धरण दृष्टान्तः |-८०६| पेढालपुत्र एवं गौतम स्य एवं तदभावस्य कथनं, परस्पर वार्ता । देशात्मपञ्चमहाभूत-कारणिकआदि वाद कथन ४०२ ६ ki माध a Serving jinshasan 083466 gyanmandir@kobatirth.org Page #5 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रम् - - सूत्रकृताङ्गसूत्रम् - सटीकं - - - - मूलम् + नियुक्तिः + वृत्तिः - - - - - - - Page #6 -------------------------------------------------------------------------- ________________ he આર્થિક અનુદાતા - - - - -પ.પૂ, માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ. સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પ૩ આચાર્યદેવ 1 શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજયશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ. પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સદ્ગહસ્થ તરફથી નકલ એક. - પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-અચલગચ્છાધિપતિ પ.પૂ. આ.ભ. શ્રી ગણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સામ્બીશ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નાકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રયારાધકો સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જેન ચં. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એફ. - - - - - - - - - - Page #7 -------------------------------------------------------------------------- ________________ - - - પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ. ના પરમ વિનેયા સા. શ્રી સમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. પ.પૂપ્રશમરસનિમગ્ના સાધ્વી શ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વી શ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વેચાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવતી પ.પૂજય વેયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટાભાષી છે સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણતંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદયા પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. પ.પૂ. વૈયાવૃજ્યકારિકા સાથ્વીથી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ. ના સુવિનિતા સા. શ્રી કલ્પપ્રશાશ્રીજી તથા | કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાઋજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો- જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત સ્કમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ उपोद्घात् निर्युक्तिः नमो नमो निम्पल दंसणस्स - पंचम गणधर श्री सुधर्मास्वामिने नमः २ सूत्रकृताङ्गसूत्रम् (सटीकं) द्वितीयं अङ्गसूत्रम् (मूलम् + श्री भद्रबाहुस्वामी कृ त् नियुक्ति + श्री शिलाङ्का चार्य रचित वृत्ति युक्तं ) ॥ १ ॥ स्वपरसमयार्थसूचकमनन्तगमपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य ॥ ॥ २ ॥व्याख्यातमङ्गमिह यद्यपि सूरिमुख्यैर्भक्तया तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वाञ्छति पथा शलभो न गंतुम् ? ॥ ॥३॥ मय्वज्ञां व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य । मत्तोऽपि यो मन्दमतिस्तथाऽर्थी, तस्योपकाराय ममैष यत्नः ॥ वृ. इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभं मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामग्राद्युपेतेनार्हर्शनम् अशोषकर्मोच्छित्तये यतितव्यम्, कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिकाद्दोषक्षयात्, सचार्हन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेय, आगमश्च द्वादशाङ्गादिरूपः सोऽ प्यार्यरक्षितमिश्रैरैदंयुगीनपुरुषानुग्रहबुद्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः, तत्राचारा चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्ग व्याख्यातुमारभ्यत इति । 1 ननु चार्थस्य शासनाच्छास्त्रमिदं शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्कारादिरूपम्, अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच न मङ्गलाभिधानं, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणं, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा निर्युक्तिकार एवात्र भावमलमभिधातुकाम आह नि. [१] तित्थयरे य जिणवरे सुत्तकरे गणहरे य नमिऊणं । सूयगडस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥ वृ. गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चार्द्धेन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थं प्रयोजनादित्रयमिति, तदुक्तम् - || 9 || “उक्तार्थं ज्ञातसंबन्धं, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥ Page #9 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/-1-1-1नि. [१] तत्र सूत्रकृतस्येत्यभिधेयपदं, नियुक्ति कीर्तयिष्ये इति प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्ति, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः, तदुक्तम् - ॥१॥ "शास्त्र प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ।। इति समुदायार्थ।।अधुनाऽवयवार्थकथ्यते-तत्र तीर्थं द्रव्यभावभेदाद्दिधा, तत्रापिद्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थंतुसम्यगदर्शनज्ञानचारित्राणि,संसारार्णवादुत्तारकत्वात्, तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानत्वेति क्रिया । तत्रान्वेषामपि तीर्थकरत्वसंभवेतद्वयवच्छेदार्थमाह-'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्वयवच्छेदार्थमाह-वराः-प्रधानाः चतुस्त्रिंशदतिशयसमन्वितत्वेन, तान्नत्वेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्वत्वेनोपकारित्वात्, विशिष्टविशेषणोपादानंच शास्त्रस्य गौरवाधानार्थं, शास्तुःप्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः ।अर्थस्य सूचनात्सूत्रं, तत्करणशीलाः सूत्रकराः, तेच स्वयंवुद्धादयोऽपि भवन्तीत्यत आह-- ___ गणधरास्तांश्च नत्वेति, सामान्याचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गौतमादय एवेह विवक्षिताः । प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचितौ । कत्वाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षत्वात्तामाह-स्वपरसमयसूचनं कृतमनेनेतिसूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति। 'नियुक्ति कीर्तयिष्ये' इति योजनयुक्ति-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिसम्यगर्थप्रकटनमितियावत्, निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं, युक्तशब्दलोपानियुक्तिरिति, ता 'कीर्तयिष्यामि' अभिधास्य इति ।। इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं, तच्च ‘इहापसदे'त्यादिनेषदभिहितमिति, तदनन्तरं निक्षेपः, स च त्रिविधः, तद्यथा॥१॥ ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौधनिष्पन्नै निक्षेपेऽङ्गं, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति । तत्र तत्त्वभेदपर्यायाख्ये' त्यतः पर्यायप्रदर्शनार्थं नियुक्तिकृदाहनि. [२] सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई॥ वृ.सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्येकार्थिकानि, तद्यथा-सूतम् उत्पन्नमर्थरूपतया तीर्थकृ म्यः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेणतत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा 'सूचाकृत'मिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति साम्प्रतं सूत्रकृतपदयोर्निक्षेपार्थमाहनि. [३] दव्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिनिबद्धे य कत्थादी। नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं Page #10 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्तिः कापासिकं, आदिग्रहणादण्डजवालजादेहणं, भावसूत्रं तु 'इह' अस्मिन्नधिकारे सूचकं ज्ञानंश्रुतज्ञानमित्यर्थ, तस्यैव स्वपरार्थसूचकत्वादिति । तच्च श्रुतज्ञानसूत्रं चतुर्द्धा भवति, तद्यथासंज्ञासूत्रं संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं । तद्यथा-"जे छेए सागारियं न सेवे, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथाद्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह--इति, यदिवा 'उत्पादव्ययध्रौव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा बुद्धिज्जत्ति तिउहिजेत्यादि, जातिनिबद्धं तु चतुर्द्धा, तद्यथा-कथनीयं कथ्यमुत्तराध्य यनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं-छन्दोनिबद्धं, तथा गेयं यत् स्वरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययन 'अधुवेअसासयंमिसंसारंभिदुक्खपउराए' इत्यादि । इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्गाथामाहनि. [४] करणं च कारओ य कडं च तिण्हपि छक्कनिक्खेवो । दव्वे खित्ते काले भावेण उ कारओ जीवो।। वृ. इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येकं नामादि षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यत्वात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धत्वादनाश्त्य द्रव्यादिकं दर्शयति। "दव्वे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायतेस क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यस्मात्सूत्रस्य गणधरः कारकः, एतश्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अनुभावे'त्यादौ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्त्वा द्रव्यादिकरणनिक्षेपार्थं नियुक्तिकृदाहनि. [५] दव्वं पओगवीसस पओगसा मूल उत्तरे चेव। उत्तरकरणं वंजण अत्थो उ उवक्खरो सव्वो ।। वृ. 'द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्अनुष्ठानं द्रव्यकरणं, तत्पुनर्द्विद्याप्रयोगकरणं विनसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविध-मूलकरणमुत्तकरणं च, तत्रोत्तरकरणं गाथापश्चार्द्धन दर्शयति उत्तरत्रकरणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करणदण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यतेतदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः । पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहनि. [६] मूलकरणं सरीराणि पंच तिम कण्णखंधमादीयं । दबिंदियाणि परिणामियाणि विसओसहादीहिं ।। १. मूलकरणमौदारिकादीनिशरीरणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-- ‘सीसमुरोयर पिट्ठी दो बाहू उचचा य अटुंग'त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु ___ Page #11 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/-1-1-नि. [६] स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावानौत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम् । उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाथुत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्थेन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभि पाटवाघापादनमुत्तरकरणमिति । साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह-- नि. [७] संघायणे य परिसाडणा व मीसे तहेव पडिसेहो। पडसंखसगडथूणाउड्ढतिरिच्छादिकरणं च ।। वृ. संघातकरणम् आतानवितानभूततन्तुसंधातेनपटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिष्वकरणं-स्थूणादेरूतिरश्चीनाद्यापादनमिति ॥ प्रयोगकरणमभिधाय विम्रसाकरणाभिधित्सयाऽऽहनि. [८] खंधेसुदुप्पएसादिएसु उब्भेसु विन्जुभाईसु । निफन्नगाणि दव्वाणि जाण तं वीससाकरणं ॥ वृ. विनसाकरणं साद्यनादिभेदात्रि, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानवेधेनावस्थानम, अन्योऽन्यसमाधानाश्रयणाच्चसत्यप्यनादित्वेकरणत्वाविरोधः, चपिद्रव्याणां चद्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा। बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलधुशब्दरूपइति, तत्र बन्धः स्निग्धरूक्षत्वात्, गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामःखण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादेस्वरूपप्रतिपादकं चेदंगाधाद्वयम्, तद्यथा ॥१॥ 'खंडेहि खंडभेयं पयरमेयं जहब्भपडलस्स। चुण्णं चुण्मियभेयं अनुतडियं वंसवक्कलियं ।। ॥२॥ दुर्भुमि संमारोहे भेए उक्केरिया य उक्केरं। वीससपओगमीसगसंधायविओग विविहगमो ।। वर्णपरिणामः पञ्चानांश्वेतादीनां वर्णानांपरिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, ताश्चेमाः॥१॥ 'जइ कालगमेगगुणं सुक्किलयंपि य हविज्ञ बहुयगुणं ।' __ परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ।। ॥२॥ जइ सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं ॥ ॥३॥ जइ सुकं एक्कगुणं कालगदबपि एक्कगुणमेव । ___ कावोयं परिणामंतुल्लगुणत्तेण संभवइ । ॥४॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो। एकत्तीसं भंगा सव्वेवि य ते मुने यव्वा॥ Page #12 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्तिः ॥४ ॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । ___ संठाणाण य भणिओ संजोगेणं बहुविगप्पो ।। एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा ताल्चोष्ठपुटव्यापाराघभिनिवर्तयश्च, अन्येऽपिच पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी - ॥१॥ छाया य आयवो वा उज्जोओ तहय अंधकारो य। एसो उ पुग्गलाणं परिणामो फंदणा चेव ।। ॥२॥ सीया नाइपगासा छावा नाइच्यिा बहुविगप्पा । उण्हो पुणप्पगासो नायव्वो आयवो नाम ।। ॥३॥ नवि सी नवि उण्हो समो पगासो य होइ उज्जोओ। ___ कालं मइलं तमंपिय वियाण तं अंधयारंति ।। दव्वस्स चलण पप्फंदणा र सा पुण गई उ निद्दिठा । वीससपओगमीसा अत्तपरेणं तु उभओवि ।। तथाऽभेन्द्रधनुर्विधुदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानितद्विनसाकरणमिति गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽहनि. [९] न विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावण्णं उच्छुकरणमादियं बहुहा ।। वृ. 'क्षि निवासगत्योः अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तञ्चावगाहदानलक्षणमाकाशं, तेनचावगाहदानयोग्येन विना न किञ्चिदपि कर्तुशक्यत इत्यतः क्षेत्रेकरणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृतमाकाशमुत्पादिते विनष्टमिति । यदिवा 'व्यञ्जनपर्यायापन्नं' शब्दद्वाराऽऽयातम् ‘इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति । साम्प्रतं कालकरणाभिधित्सयाऽऽहनि. [१०] कालो जो जावइओ जं कीरइ जंमिमि कालंमि । ओहेण नामओ पुण करणा एक्कारस हवंति ।। वृ.कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,यद्वा-यत्यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि । नि. [११] बंव च बालवं चेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा ।। Page #13 -------------------------------------------------------------------------- ________________ १० सूत्रकृताङ्ग सूत्रम् 91-1-1-/ नि. [१२] नि. [१२] सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ।। नि. [१३] चाउद्दसि रत्तीए सउणी पडिवजए सदा करणं । तत्तो अहक्कम खलु चउप्पयं नाग किंसुग्धं ।। वृ. एतद्गाथात्रयं सुखोनेयमिति। नि. [१४] भावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु ।। वृ. भावकरणमपि द्विधा-प्रयोगविनसाभेदात्, तत्र जीवाश्रितंप्रायोगिकंमूलकरणंपञ्चानां शरीराणां पर्याप्ति, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवःस्ववीर्यजनितेन प्रयोगेण निष्पादयति। उत्तरकरणंतुगाथापश्चार्द्धनाह-उत्तरकरणंक्रमश्रुतयौवनवर्णादिचतूरूपं, तत्रक्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽपरकलापरिज्ञानरूपश्चेति, यौवनकरणकालकृतो वयऽवस्थाविशेषो रसायनाद्यापादितो वेति, तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद् विशिष्टवाद्यापादनमिति, एतञ्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति । इदानीं विनसाकरणाभिधित्सयाऽऽह-- - नि. [१५] वण्णादिया य वण्णादिएसुजे केइ वीससामेला । तेहुंति थिरा अथिरा छायातवदुद्धमादीसु॥ वृ. 'वर्णादिका' इति रूपरसगन्धस्पर्शा ते यदाऽपरेष्वपरेषां व स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विनसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्चक्षणावस्थायिनः, सन्ध्यारागाभ्रेन्द्रधनुरादयो भवन्ति, तथा छायात्वेनातपत्वेन च पुद्गलानां विनसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनाच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति । साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽहनि. [१६] मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे। ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ वृ. 'श्रुते पुनःश्रुतग्रन्थेमूलकरणमिदं त्रिविधेयोगे' मनोवाकायलक्षणे व्यापारेशुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यायानावस्थितैर्ग्रन्थरचना विधीयते, लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात् करिशुभध्यायित्व-मवसेयम् । इह तु सूत्रकृतस्य तावत्स्वसमयत्वेन शुभाध्यवसायेन च प्रकृतं, यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति । तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेस्तं दर्शयितु कामो नियुक्तिकृदाहनि. [१७] ठिइअनुभावे बंधणनिकायणनिहत्तदीहहस्सेसु । __ संकमउदीरणाए उदए चेदे उवसमे य॥ वृ. तत्र कर्मस्थिति प्रति अजधन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, Page #14 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्तिः ११ तथाऽनुभावोविपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बन्धद्भिः तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्धस्थितिकाः कर्मप्रकृतीहसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीबध्यमानासु संक्रायमद्भिः , तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदयेवर्तमानैः, तथावेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमे'त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गब्धमिति । साम्प्रतं स्वमनषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आहनि. [१८] जोऊण जिनवरमतं गणहारी काउ तक्खओवसमं। अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं ।। वृ. 'श्रुत्वा' निशभ्य जिनवराणां-तीर्थकराणां मतम्-अभिप्रायं मातृकादिपदं 'गणधरैः' गौतमादिभिकृत्वा तत्र' ग्रन्थरचने क्षयोपशमं, तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभाव: शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति । इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिाषितं ? कुत्र वा गणधरैर्दब्धमित्येतदाहनि. [१९] वइजोगेण पभासियमनेगजोगंधराण साहूणं। तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥ वृ. तत्र 'तीर्थकृद्भि' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थ प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः, तत्र योगः-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते । तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थं निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य ‘स्वाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया लट्लिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति ।। पुनरन्यथा सूत्रकृतनिरुक्तमाह- । नि. [२०] अक्खरगुणमितसंघायणा ए कम्मपरिसाडणाए य। तदुभययोगेण कयं सुत्तमिणं तेण सूत्तगडं । वृ.अक्षराणि-अकारादीनि तेषांगुणः-अनन्तगमपर्यायवत्त्वमुञ्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात्, मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थ, अक्षरगुणस्य वा मत्या-बुद्धया संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया । तथा कर्मणां-ज्ञानावरणादीनांपरिशाटना-जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्ग कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यमं कुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापञ्चार्धेन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटना योगेन च, यदिवा वाग्योगेन मनोयेगेन च कृतमिदं सूत्रं तेन सूत्रकृतमिति । इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्तामिधित्सयाऽऽह Page #15 -------------------------------------------------------------------------- ________________ १२ सूत्रकृताङ्ग सूत्रम् १/-1-1-1नि, [२१] नि. [२१] सुत्तेण सुत्तिया चिय अत्था तह सूइया य जुत्ता-य। तो बहुविहप्पउत्ता एय पसिद्धा अणादीया ।। वृ.अर्थस्य सूचनात्सूत्रं तेन सूत्रेण केचिदर्था साक्षात्सूत्रिता-मुख्यतयोपात्ताः, तथाऽपरे सूचिताअर्थापत्त्याक्षिप्ताः साक्षादनुपादानेऽपिदध्यानयनचोदनयातदाधारानयनचोदनावदिति, एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षटस्थानपतिता भवन्ति, तथा चोक्तम् - ॥१॥ “अक्खरलंभेण समा ऊणिहाया हुंति मत्तिविसेसेहिं । तेऽविय मईविसेसे सुयनाणऽब्तरे जाण ॥" तत्रये साक्षादुपात्तास्तान् प्रति सर्वेऽपितुल्याः, ये पुनः सूचितास्तदपेक्षयाकश्चिदनन्तभागाधिकमर्थं वेत्त्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, तथा चाभिहितम्-"तेऽविय मईविसेसे" इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपि केचनार्था सन्ति? येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थानपतितत्वमुद्देष्यते, बाढं विद्यन्ते, यतोऽभिहितम् । ॥१॥ “पन्नवेणिज्जा भावा अनंतभागो उ अनभिलप्पाणं । पन्नवणिज्जाणं पुण अनंतभागो सुयनिबद्धो॥ यतश्चैवंततस्ते अर्थाआगमे बहुविधं प्रयुक्ताः-सूत्रैरुपात्ताः केचन साक्षात्केचिदर्थापत्त्या समुपलभ्यन्ते, यदिवा क्वचिद्देशग्रहणंक्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्तेअर्थाप्रतिपाद्यन्ते तानिसाक्षात्केचितपत्त्या समुपलभ्यन्ते, यदिवाक्वचिद्देशग्रहणंक्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्तेअर्था प्रतिपाद्यन्ते तानि पदानिप्रकर्षेण सिद्धानि प्रसिद्धानिन साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' इत्येतन्निराकृतं वेदितव्यमिति । साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह प्रथमः श्रुतस्कन्धः । नि. [२२] दो चेव सुयक्खंधा अल्झयणाईच हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंग। वृ. द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, तेचैवं भवन्तिप्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयोद्वौँ द्वौ तथैकादशस्वेक सरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवो द्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गादिगुणमङ्गं, षटत्रिंशत्पदसहपरिमाणमित्यर्थ ।। साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्न निक्षेपाभिधित्सयाऽऽहनि. [२३] निक्लेवो गाहाए चउव्विहो छविहो य सोलससु। निखेवो य सुयंमि य खंधे यचउब्विहो होइ॥ Page #16 -------------------------------------------------------------------------- ________________ १३ वृ. इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्ञ्चतुर्विधो निक्षेपः, नामस्थापनेप्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य 'मितिकृत्वा, नो आगमतस्तु त्रिधा ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च11911 "सत्तट्ठतरू विसमे ण से हया ताण छट्ट नह जलया । गाहाए पच्छद्धे भेओ छट्टोत्ति इक्ककलो ।” इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात्, तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वंदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य । षोडशकस्यापि नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तिं सचित्तादिनि षोडश द्रव्याणि, क्षेत्र षोडशकं षोडशाकाशप्रदेशाः, कालषोडशकं षोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वादिति । श्रुतस्कन्धयोः प्रत्येक चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ साम्प्रतमध्ययनानां प्रत्येकमर्थाधिकारं दिदर्शयिषयाऽऽह नि. [२४] ससमयपरसमयपरुवना य नाऊण बुज्झणा चेव । संबुद्धस्सुवसग्गा धीदोसविज्जणा चेव ॥ उवसग्गभीरुणो धीवसस्स नरएसु होज्ज उववाओ । एव महप्पा वीरो जयमाह तहा जएञ्जाह ॥! परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । नाऊण वीरियदुगं पंडियवीरिए पयट्टेइ ॥ धम्मो समाहि मग्गो समोसढा चउसु सव्ववादीसु । सगुणदोसणा गंधमि सदा गुरुनिवासो ॥ आदानिय संकलिया आदानीयंमि आदयचरितं । अप्परगंथे पिंडियवयणेणं होइ अहिगारो ॥ नि. [२५] नि. [२६] नि. [२७] नि. [२८] वृ. तत्र प्रथम्राध्ययने स्वसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे त्वयमर्थाधिकारः, तद्यथाउपसर्गासहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः । श्रुतस्कन्धः - 9, अध्ययनं उद्देशक: - 'एवमिति' अनुकूलप्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधत्त यूयमिति शिष्याणामुपदेशो दीयते सप्तमे त्विदभिहितं, तद्यथा - निशीला - गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता । येन साधुना स परित्यक्तनिशीलकुशील इति, तथा सुशीला उद्युक्तविहारिणः संविग्नाः-संवेगमग्रास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे त्वेतव्यतिपाद्यते, तद्यथा-ज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति । Page #17 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् 9/-/-//नि. [२८] नवमे अर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितो धर्म कथ्यते, दशमे तु समाधि प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्ग कथ्यते, द्वादशे त्वयमर्थाधिकारः, तद्यथा'समवसृता' अवतीर्णा व्यवस्थिताश्चतुर्षु मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्टयुत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्य शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशेत्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयं, तद्यथा आदीयन्ते गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरर्थैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहित्तः सोऽत्र 'पिण्डितवचनेन' संक्षिप्तामिधानेन प्रतिपाद्यत इति । ॥ १ ॥ १४ गाहासोलगाणं पिंडत्यो वण्णिओ समासेणं । इत्तो इक्कं पुण अज्झयणं कित्तयिस्सामि ।। तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशंनिक्षेपावसरमा नीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षडूप आवश्यकादिष्वेव प्रपञ्चितः, शास्त्रीयोऽप्यानुपूर्वीनाम प्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोढैव, तत्रानुपूर्वादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, तत्रैतदध्ययनमानुपूर्वादिषु यत्र यत्र समवरति तत्र तत्र समवतारयितव्यं, दशविधायामानुपूर्वा गणनानुपूर्वा समवतरति, सापि त्रिधा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति । तत्रेदमध्ययनं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्व्या तु चिन्त्यमानस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छ्गतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूर्व्या तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा तत्र ॥१॥ एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ – प्रस्तारानयनोपायस्त्वयम् - पुव्वाणुपुवि हेट्ठा समयाभेएण कुण जहाजे । उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे ॥ गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमान् ॥ अयं श्लोकः शिष्यहितार्थं विव्रियते तत्र सुखावगमार्थं षट्पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं षट्पदानि स्थाप्यानि, एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणित मुच्यते तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे ह्यते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां ॥१॥ ॥१॥ Page #18 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं उद्देशक: पङ्क्तीनामन्त्यपङ्कतौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधचतुष्कन्त्रिकद्विकैककानां प्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपङ्कतौ सप्त शतानि विंशत्युत्तराणि भवन्ति । एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तद्विंशत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशति, तावन्तस्तावन्तश्च पञ्चकचतुष्कन्त्रिकद्विकैककाः प्रत्येकं पञ्चमपङ्कत्तौ न्यस्याः यावद्विंशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमङ्कं मुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताञ्चतुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपङ्कावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हते षट् लभ्यन्ते, तावन्तश्चतुर्थपङ्कौ चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पङ्क्तिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हते द्वौ लभ्येते, तावन्मात्री त्रिकी तृतीयपङ्कतै शेषं पूर्ववत्, शेषपङ्कितद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति । $ - ५५ तथा नाम्नि षड्विधनाभ्रयवतरति, यतस्तत्र षड् भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात् । प्रमाणमधुना प्रमीयतेऽनेनेति प्रमाणं तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्रास्याध्ययनस्य क्षायोपशभिकभावव्यवस्थितत्वाभावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभेदाद् द्विधा । समयाध्ययनस्य च क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्त्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्द्धा, तत्रास्यागमप्रमाणे समवतारः । सोऽपि लौकिकलोकोत्तरभेदाद द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वा त्रैविध्यं, (अस्य त्रिपरूत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरस्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः,गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्यचेदानीं पृथक्त्वानुयोगे नास्तिसमवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मूढनइयं सुयं कालियं तु न नया समोरयंति इहं । अपुहुत्ते समायारो नत्थि पुहत्ते समोयारो ॥ १ ॥ तथा “आसज्जउसोयारं नए नयविसारउ वूया," संख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि कालिकद्दष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरमाणु संख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथा: संख्येया वेढा : संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते सा च स्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं निर्युक्तिकृद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा - ओधनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, Page #19 -------------------------------------------------------------------------- ________________ _सूत्रकृताङ्ग सूत्रम् 9/-/-//नि. [२८] तत्रौधनिष्पत्रेऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पन्ने तु समय इति नाम, तनिक्षेपार्थं नियुक्तिकार आह अध्ययनं -१ - "समयः" नि. [२९] नामं ठवणा दविए खेत्ते काले कुतित्यसंगारे । कुलगणसंकरगंडी बोद्धव्वो भावसमए य ॥ वृ. नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयनं परिणतिविशेषः स्वभाव इत्यर्थ, तद्यथा - जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तत्वं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्यावसरो द्रव्यस्योपयोगकाल इति, तद्यथावर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वस्ते गुडश्चान्ते ॥ 119 11 १६ - क्षेत्रसमयः - क्षेत्रम् - आकाशं तस्य समयः-स्वभावः, यथा - एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएजा । लक्खसएणवि पुन्ने कोडिसहस्संपि माएजा ॥ - 119 11 यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्गयो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगार:- संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारनुसारेण गृहीतहरिशवो वलदेवः प्रतिबोधित इति, कुलसमयः कुलाचारो यथा शकानां पितृशुद्धि आभीरकाणां मन्थनिकाशुद्धि, गणसमयो यथा मल्लानामयमाचारो-यथा यो ह्यनाथो भल्लो म्रियते स तैः संस्क्रियते, पतितश्चयित इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समयः एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो यथा शाक्यानां भोजनावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम् अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमुपन्यास इति । साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह नि. [३०] नि. [३१] पंचभूय एकम्प य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छट्टो अफलवादी || बीए निर्यइवाओ अन्नाणिय तहय नाणवाईओ । कम्मं चयं न गच्छइ चउव्विहं भिक्खुसमयंमि ॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ । किछुवमा य चउत्थे परप्पवाई अविरएसु ।। नि. [३२] वृ. अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडर्थाधिकार आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि - पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - उद्देशकः - च महाभूतानि इत्यमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽ द्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवश्च तज्जीवः कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः । तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः । तथाऽऽत्मा षष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । १७ - तथाऽफलचादीति न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽधिकारइति । द्वितीयोदेश के चत्वारोऽर्धाधिकाराः, तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयम्-उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये' शाक्यागमे इति चतुर्थोऽर्थाधिकारः । - चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम्-अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थ, यथामातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञाकेवलेन मनसा पर्यालोचनं, तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा रणभीर्या - गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म नोपचीयते, तथा स्वप्नभोजने तृप्तयभाव इति । तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथा-आधाकर्मगतविचारस्तद्भोजिनां च दोषीपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीत्वोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा-अविरतेषु गृहस्थेषुयानि कृत्यानि - अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः 'परप्रवादी' परतीर्थिक उपभीयत इति । इदानीमनुगमः, स च द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा निक्षेप निर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्यनुगमश्च । तत्र उपोद्घातनिर्युक्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः, तञ्चेदम्- 'उद्देसे निद्देसे य' इत्यादि । सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् -: अध्ययनं -१ उद्देशकः-१ : बुज्झिजत्ति तिउट्टिज्जा, बंधणं परिजाणिया । किमाह बंधणं वीरो, किंवा जाणं तिउट्टई ।। पू. (१) वृ. अस्य संहितादिक्रमेण व्याख्या- बुध्येतेत्यादि, सूत्रमिदं सूत्रकृतादौ वर्तते, अस्य चाचारङ्गेन सहायं संबंधः, तद्यथा आचाराङ्गेऽभिहितम्- 'जीवो छक्कायपरूवणा य तेसिं वहेण बंधोत्ति' इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाञ्चिद्वादिनां ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात्, जैनानां तुभाभ्यां निश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोट्येदित्येनेन च क्रियोक्ता, तत्रायमर्थो'बुध्येत' अवग्छेत् बोधं विदध्यादित्युपदेशः । 22 Page #21 -------------------------------------------------------------------------- ________________ १८ सूत्रकृताङ्ग सूत्रम् १/१/१/१ किंपुनस्तबुध्येतातआह-'बन्धनं वध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतयाव्यवस्थाप्यत इति बन्धन-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयोवा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यत क्रियां दर्शयति-तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'त्रोटयेद्' अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहितेजम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपे विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीरः' तीर्थकृत् ?, किंवा ‘जानन्' अवगच्छंस्तद्बन्धनं त्रोटयति ततो वा त्रुट्यति?, इति श्लोकार्थ : बन्धनप्रश्नस्वरूपप्रश्नविर्वचनायाहमू. (२) चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अनुजाणाइ, एवं दुक्खा न मुच्चइ ।। वृ. इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्यतच्चित्तवत-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत-कनकरजतादि, तभयरूपमपिपरिग्रहं परिगृह्य 'कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थ, यदिवा कसनं कसः-पिग्रहग्रहणबुद्धया जीवस्य गमनपरिणाम इतियावत्। तदेवं स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्टप्रकारकर्मतत्फलं वा असातोदयादिरूपंतस्मान मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम् -- ॥१॥ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेवतावदितिनप्रशान्त्युनयः यशःसुखपिपासितैरयमसावनअॅत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ।। ॥२॥ (तथा च) “द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि व्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापस्य वा सो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।। तथा च परिग्रहेष्वप्राप्तनटेषु काङ्क्षशोकौ प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाबन्धनान्न मुच्यत इति परिग्रहवतश्चावश्यंभाव्यारम्भरतस्मिंश्च प्राणातिपात इति दर्शयितुमाहमू. (३) सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए। हणतं वाऽनुजाणाइ, वेर वड्ढइ अप्पणो॥ दृ.यदिवा-प्रकारान्तरेणबन्धनमेवाह-'सयंतीत्यादि', सपरिग्रहवानसंतुष्टोभूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतस्ततः 'स्वयम्' आत्मना 'त्रिभ्यो' मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा 'पातयेत्' च्यावयेन 'प्राणान्' प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी॥१॥ ‘पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ १२ तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति घ्नतश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिःप्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरंवर्धयति, ततश्चदुःखपरम्परारूपान्धनान मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति पुनर्बन्धनमेवाश्रित्याह-- जस्सिं कुले समुप्पन्ने, जेहिं वा संबसे नरे। ममाइ लुप्पई बाले, अन्ने अन्नेहि मुच्छिए ।। वृ. 'जस्सि' मित्यादि, 'यस्मिन्' राष्ट्रकूटादौ कुले जातो 'यैर्वा' सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृभ्रातृभगिनि भार्यावयस्यादिषुममायमितिममत्ववान् स्निह्यन् 'लुप्यते' विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यमनुष्यामरलक्षणे संसारेभ्रम्यमाणो बाध्यते-पीड्यते। कोऽसौ ? - बालः' अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषुच 'मूर्छितो' गृद्धोऽध्यु-पपन्नो, ममत्ववहुल इत्यर्थ, पूर्वतावन्मातापित्रोस्तदनुभार्यायां पुनः पुत्रादौ स्नेहवानिति साम्प्रतं यदुक्तं प्राक् 'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाहमू. (4) वित्तं सोयरिया चेव, सव्वमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा तिउट्टइ। वृ. 'वित्तं द्रव्यं, तच्च सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद् वित्तादिकं संसारान्तर्गतस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतोन त्राणाय' रक्षणाय भवतीत्येतत् ‘संख्याय' ज्ञात्वा तथा जीवितंच' प्राणिनां स्वल्पमिति संख्याय-ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया तुसचित्तचित्तपरिग्रहप्राण्युपधातस्वजनस्नेहादीनिबन्धनस्थानानि प्रत्याख्याय 'कर्मणः सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात्रुट्यति, कर्मणः पृथग्भवतीत्यर्थअध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽहमू. (६) एए गंथे विउक्कम्म, एगे समणमाहणा। अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ।। वृ. 'एतान्' अनन्तरोक्तान् ग्रन्थान् ‘व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः' बद्धाः, एके, न सर्वे इति संबन्धः ।ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोभिहितः तद्यथा-जीवास्तित्वे सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्यात्वा- विरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाधुपायेन, मोक्षसद्भावश्चेत्येवमादिकः तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्हदुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन् सिता-बद्धाः स्वसम- येष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति, यथासुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं - व्यवस्थिताः-सत्त्वरजस्तमसां साम्यावस्था प्रकृति, प्रकृतेर्महान्, महतोऽहङ्कारः तस्माद्गणश्च षोडशकः ।। तस्मात्षोडशकादपि पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः Page #23 -------------------------------------------------------------------------- ________________ २० सूत्रकृताङ्ग सूत्रम् १/9/१/६ द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्था' इति, तथा नैयायिकाः-प्राणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसका:चोदनालक्षणो धर्मो, न च सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाद्यतिरिक्तोजीवाख्यः पदार्थो, नापि पुण्यपापेस्तइत्यादि।एवंचाङ्गीकृत्यैते लोकायतिकाः मानवाः' पुरुषाः ‘सक्ता' गृद्धाअध्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः॥१॥ एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।। एवंतेतन्त्रान्तरीयाः स्वसमयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तंग्रन्थार्थमज्ञातपरमार्था समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः-संबद्धाः कामेषु च सक्ता इति साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽहमू. (७) संति पंच महब्भूया, इहमेगेसिमाहिया। पुढवी आउ तेऊ वा वाउ आगासपंचमा ।।। वृ, 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वात्महत्त्वविशेषणम्, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, ‘इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् ‘आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्हिस्पत्यमतानुसारिभिराख्यातानि-स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्रोतुं शक्यानि। ननु च साङ्ख्यादिभिरपि भूतान्यभ्युपगातान्येव, तथाहि सांख्यास्तावदेवमूचुः-सत्त्वरजस्तमोरूपाप्रधानान्नमहान्, बुद्धिरित्यर्थ, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते, स चायम्-पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वाक्पाणिपा दपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि,एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति ॥ __तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा-पृथिवीत्वयोगात्पृथिवी, साच परमाणुलक्षणा नित्या, द्वयणुकादिप्रक्रमनिष्पत्रकार्यरूपतया त्वनित्या, चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्या परिमाणपृथकत्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽप्त्वयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्श शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच रूपस्पर्शसंख्या- परिमाणपृथकत्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्ववेगाख्यैरेकादशभिर्गुणैर्गुणवत् । Page #24 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ तत्ररूपशुक्लंभास्वरंच, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्यापरिमाणपृथकत्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभाषिकी संज्ञा एकत्वात्तस्य, तञ्च संख्यापरिमाणपृथकत्वसंयोगविभागशब्दाख्यैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गंचेति, एवमन्यैरपिवादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ?, उच्यते सांख्यादिभिर्हि प्रधानात्साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगभ्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ।। एएपंच महब्भूया, तेब्मो एगोत्ति आहिया। अह तेसिं विनासेणं, विनासो होइ देहिणो ।। वृ.यथा चैतत् तथादर्शयितुमाह-एए पंच महब्भूया' इत्यादि, एतानि' अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यान 'तेभ्यः' कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथा हि एवं प्रमाणयन्ति । न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकं, तनेन्द्रियेण साक्षादर्थस्य सम्बन्धाभावाद्यभिचारसंभवः, सति च व्यभिचारसंभवे सशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम् -- “हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । ____ अनुमानप्रधानेन, विनिपातो न दुर्लभः ॥" अनुमानंचात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति सत्मात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात्, घटादिवादिति । तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेवचैतन्याभिव्यक्ति, जलस्य बुबुदाभिव्यक्तिवदिति। केषाञ्चिल्लोकायतिकानामाकाशस्यापि भूतत्वेनाभुयपगमाद्भूतपञ्चकोपन्यासो न दोषायेति। ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह-अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यांतर्ध्वं तेषामन्यतमस्य "विनाशे' अपगमे वायोस्तेजश्चोभयोर्वा ‘देहिनो' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इतिव्यपदेशःप्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति अत्र प्रतिसमाधानार्थं नियुक्तिकृदाहनि. [३३] पंचण्हं संजोए अन्नगुणाणं च चेयणाइगुणो। पंचिंदियठाणाणं न अन्नमुणियं मुणइ अन्नो॥ वृ. 'पञ्चानां पृथिव्यादीनां भूतानां संयोगे' कायाकारपरिणामेचैतन्यादिकः आदिशब्दात् भाषाचक्रमणादिकश्चगुणोन भवतीतिप्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्यह्यः, सुलभत्वात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते Page #25 -------------------------------------------------------------------------- ________________ २२ सूत्रकृताङ्ग सूत्रम् १/१/१/८ नि. [३३] तत्किं तेषां संयोगेऽपि स्वातन्त्र्यंएवाऽऽहोस्वित्परस्परापेक्षया पारतन्त्र्ये इति?, किंचातः?,न तावत्स्वातन्त्र्ये यत आह–'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहिआधारकाठिन्यगुणापृथिवी द्रवगुणा आपः पक्तगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति। यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनमेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थ, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाश्चैतन्याख्यो गुणः सिद्धयतीति, प्रयोगस्त्वत्र-भूतसमुदायः स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्म, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं, तदात्मगुणो भविष्यति न भूतानामिति । __ अस्मिन्नैव साध्ये हेत्वन्तरमाह- पश्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनघ्राणचक्षुश्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि-अवकाशस्तेषां चैतन्यगुणाभावान भूतसमुदाये चैतन्यम्, इदमत्र हदयं लोकायतिकानां हि अपरस्य द्रष्टुरनभ्यपगमादिन्द्रियाण्येव द्रष्टिणि, तेषां च यानि स्थानानि-उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि, तद्यथा-श्रोत्रेन्द्रियस्याकाशंसुषिरात्मकत्वात्, घ्राणेन्द्रियस्यपृथिवी तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रुपत्वात्, एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगश्चात्र-नेन्द्रियाण्युपलब्धिमन्ति, तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्ध तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेत्वन्तरमाह ‘नअन्नमुणियंमुणइअन्नो'त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येवापरस्य द्रष्टुरभावाद् द्रष्टऋणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पञ्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं, तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोगः पुनरेवं-न भूतसमुदाये चैतन्यं, तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृह्णीतमप्यन्यो गृह्णीयादेवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् इष्टमिष्टं वेति । ननु च स्वातन्त्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्म संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मुद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्यदोषस्यावकाश इति?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते-यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते,। तत्र विकल्पयामः-किमसौं संयोगः संयोगिभ्यो भिन्नोऽभिन्नो वा?,भिन्नश्चेत्षष्ठभूतप्रसंगो, नचान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकंभवतांप्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमेचतेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो Page #26 -------------------------------------------------------------------------- ________________ २३ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः - १ संयोगः, तत्राप्येतच्चिन्तनीयं-किं भूतानि प्रत्येकंचेतनावन्त्यचेतनावन्ति वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धि तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्ति, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदित्यादिना । यदप्यत्रोक्तं-यथामद्यानेष्वविद्यमानाऽपि प्रत्येकं मदशक्ति समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषु या च यावतीच शक्तिरुपलभ्यते, तथाहि-किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां सद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशिक्षितस्योल्लापः । तथाहि-मृतकायेशोफोपलब्धेर्नवायोरभावः, कोथस्य चपक्तिस्वभावस्यदर्शनानाग्नेरिति, अथ सूक्ष्मः कश्चिद्वायुविशेषोऽगिर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किञ्चिदेतत् तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धः, अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपिजडत्वमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानोनायंचैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यतेचायं शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमेवैक'मित्यादि, तत्र प्रतिविधीयते-यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिकमित्येतदनुपासितगुरोर्वचः, तथाहि-अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चिप्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद, अनुभूतप्रत्यक्षव्यक्तिवत्, नचताभिरेवप्रत्यक्षव्यक्तिभिस्वसंविदिताभिपरं व्यवहारयितुमयमीशः, तासां स्वसंविन्निष्ठत्वात् मूकत्वाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाकः कथं नोन्मत्तः स्याद् ?, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा - नानुमानं प्रमाणं, विसंवादकत्वाद्, अनुभूतानुमानव्यक्तिवदिति, एतच्चानुमानम्, अथ परप्रसिधैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते?, परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेद्, तदप्यसाम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते?,यो ह्यज्ञोगुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्नमाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि वलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति?,नतावत्प्रत्यक्षेण प्रतिषेधः कर्तुंपार्यते, यतस्तत्प्रत्यक्ष प्रवर्तमानं वा तनिषेधं विदध्यान्निवर्तमानं वा?, न तावत्प्रवर्तमानं, तस्याभावविषयत्वविरोधात्, नापि निवर्तमानं, यतस्तच्च नास्तितेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्ति संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वाता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । Page #27 -------------------------------------------------------------------------- ________________ २४ सूत्रकृताङ्ग सूत्रम् १/१/१/८ नि. [३३] तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणन्तरमभ्युपगतम्, अन्यथा कथां परावबोधाय शास्त्रप्रणयनमकारि चार्वाकणेत्यलमतिप्रसङ्गेन।तदेवंप्रत्यक्षादन्यदपिप्रमाणमस्ति, तेनात्मा सेत्स्यति, किंपुनस्तदिति चेद, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हि नसाक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या त्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयं ।। तथाअस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात्, पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत, तथाऽऽत्माअर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात, गवाक्षोपरमेऽपितवारोपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत्, तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपितदुपलब्धार्थस्मरणात, गवाक्षोपरमेऽपि तद्दवारोपलब्धार्थस्मर्तृदेवदत्तवत्, तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्लादिक्रियाणांसद्भाव इति, अतः सामर्थ्यादवसीयते-अस्तिभूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यपत्तिरभ्यूह्या, तस्यास्त्विदं लक्षणम्। ॥१॥ प्रमाणषट्कविज्ञातो, तत्रार्थो नान्यथाभवन् । अदृष्टं कल्पयेदन्यं, साऽर्थापत्तिरुदाह्यता ।। तथाऽगमादप्यस्तित्वमवसेयं, स चायमागमः-"अस्थि मे आया उववाइए" इत्यादि । यदिवाकिमत्रापरप्रमाणचिन्तया?,सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन पटादिप्रत्यक्षवत्, तथाहिं-अहं सुख्यहं दुःख्येवमाद्यहंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदंशरीरंपुराणंकर्मेतिच शरीराभेदेन निर्दिश्यमानत्वाद्, इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं 'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदिति, एतदप्यसमीचीनं, हेतोरसिद्धत्वात, तथाहि-नभूतानांकार्यं चैतन्यं, तेषामतद्गुणत्वात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम्। ननुच किंज्ञानाधारभूतेनात्मना ज्ञानाद्भिन्नेनाश्रितेन?, यावता ज्ञानादेवसर्वसंकलनाप्रत्ययादिकं सेत्स्यति,किमात्मनाऽन्तर्गडुकल्पनेति, तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूनचेतन: कायाकारपरिणतैः सह संबन्धेसति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवंव्यवस्थिते किमात्मना कल्पितेनेति?,अत्रोच्यते, नह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते तथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणेसतिपरविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात्मया पञ्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद्, एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात्, न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति । सचन सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानत्वात्, घटवत्। नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वपात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात्, त्वक्पर्यन्तशरीरव्यापित्वेन Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशकः - १ चोपलभ्यमानगुणत्वात्, तस्मात्स्थिदम्-उपात्तशरीरत्वक्पर्यन्तव्याप्यात्मेति, तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वे मूर्तेन कर्मणासंबन्धो न विरुध्यते, कर्मसंबंधाच्च सूक्ष्मबादरैकेन्द्रियाद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यत्वे च नारकतिर्यमनुष्यामरगतिपरिणामाभावः स्यात् । तस्मात्स्यादनित्यः स्यान्नित्य आत्मेत्यलमतिप्रसङ्गेन साम्प्रतमेकात्माद्वैतवादमुद्देशार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह जहा य पुढवीथूमे, एगे नाणाहि दीसइ। एवं भो! कसिणे लोए, चिन्नू नाणाहि दीसइ ।। वृ.६ष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, सच भिन्नक्रम एके इत्यस्यानन्तरं द्रष्टव्यः पृथिव्येव स्तूपः पृथिव्या वास्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमूदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, एवम्' उक्तरीत्या ‘भो' इति परमान्त्रणे, कृस्नोऽपि लोकः-चेतनाचेतनरूपएको विद्वान् वर्तते, इदमत्र हृदयं-एक एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तता चोक्तम् । ॥१॥ “एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।। तथा 'पुरुष एवेदं ग्नि' सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यहूरे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य बाह्यतः' इत्यात्माद्वैतवादः अस्योत्तरदानायाहमू. (१०) एवमेगेत्ति जप्पंति, मंदा आरंभनिस्सिआ। एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ ।। वृ. 'एव'मिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् ‘एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते इत्याह-'मन्दा' जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वंच तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात, तथाहि-यद्येक एवात्मा स्यानात्मबहुत्वं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः ‘एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे निश्रिताआसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः ‘कृत्वा' उपादाय 'स्वयम्' आत्मना 'पापम्' अशुभप्रकृति-रूपमसातोदयफलं तीव्रदुःखंतदनुभवस्थानं वा नरकादिकंनियच्छतीति, आर्षत्वाद्बहुवचनार्थे एकवचनमकारि, ततश्चायमर्थो-निश्चयेन यच्छन्त्यवश्यंतया गच्छन्तिप्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद् । अपित्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायनामपितीव्रदुःखाभिसंबंधः स्याद्, एकत्वादात्मन इति, न चैतदेवंश्यते, तथाहि-यएष कश्चिवसमजसकारीसएवलोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतत्वे आत्मनो बन्धमोक्षाद्यभावः तथा Page #29 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/१/१० प्रतिपाद्यप्रतिपादकविवेकाभावाच्छाप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात्प्राक्तन्येव निर्युक्तिकृद्गाथाऽत्र व्याख्यायते, तद्यथा- पञ्चानां पृथिव्यादीनां भूतानामेकन्त्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धि स्यात्, न चैवं, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद्, एकस्मादात्मनोऽभिन्नत्वात्, तथा पञ्चेन्द्रियस्थानानां-पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्यद्येक एवात्मा स्यादिति साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाहमू. (99) पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ । संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥ वृ. तजीवतच्छरीरवादिनामयमभ्युपगमः यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्येवा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः 'कृत्स्नाः' सर्वेऽप्यात्मान एवमवस्थिताः, ये ‘वाला' अज्ञा ये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, नह्येक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहुत्वमार्हतानामपीरमेवेत्याशङ्कयाह- 'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि २६ कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति 'पिच्चा न ते संती'ति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह- 'नत्थि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः । तदयमर्ध-'न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिन उपपातेन निर्वृत्ता औपपातिका-भवाद्भवान्तरगामिनो न भवन्तीति तात्पर्यार्थ, तथाहि तदागमः- “विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति, ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरचादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न इत्ययं विशेषः एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाहनत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे । मू. (१२) सरीरस्स विनासेनं, विनासो होइ देहिणो ।। वृ. 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति 'अतः' अस्माल्लोकात् परः' अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः- 'शरीरस्य' कायस्य 'विनाशेन' भूतविघटनेन 'विनाशः ' अभावो ‘देहिन’ आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्चार्थे बहवो ध्टान्ताः सन्ति, तद्यथा यथा जलबुद्बुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्गात्रमेव सर्वं नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मात्रं विहाय नान्तः सारभूतः कश्चिदात्माख्यः Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ २७ पदार्थ उपलभ्यते, यथा वाऽलातंभ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्पम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदायेप्रादुर्भवतीति, तथा यथाऽऽदर्श स्वच्छत्वाप्रतिबिम्बितोबहिस्थितोऽप्यर्थोऽन्तर्गतोलक्ष्यते, नचासौतथा, यथा चग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातधाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्तिं समुत्पादयतीति। अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्राऽऽदर्शेषु चिरन्तनटीकायां चाटत्वान्नोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति?, अत्रोच्यते, स्वभावात्, तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवतिधूपाद्यामोदंच, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स ताग्विधावस्थाविशेष इत्येवं स्वभावाजगद्वैचित्र्यं, तथा चोक्तम् --- ॥१॥ “कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ।। इति तज्जीवतच्छरीरवादिमतं गतम् इदानीमकारकवादिमताभिधित्सयाऽऽहमू. (१३) कुव्वं च कारयं चेव, सव्वं कुव्वं न विजई। एवं अकारओ अय्या, एवं ते उ पगभिआ ।। वृ. कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चाभूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानु- पपत्ति, अत एव हेतोः कारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्चशब्दोऽतीतानागतकर्तृत्व-निषेधको द्वितीयः समुच्चयार्थ, ततश्चात्मान स्वयं क्रियायांप्रवर्तते, नाप्यन्यप्रवर्तयति, यद्यपिच स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन भुजिक्रियां करोति तथाऽपि समस्तक्रियाकर्तृत्वं तस्य नास्ती---त्येतदर्शयति___'सव्वं कुव्वं न विजइ'त्ति 'सर्वां परिस्पन्दादिकांदेशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा साङ्क्षयनिदर्शने' इति । एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भिताः' प्रगल्भवन्तो धाय॑वन्तः सन्तोभूयोभूयस्तत्र तत्रप्रतिपादयन्ति, यथा-"प्रकृति करोति, पुरुष उपभुङ्के, तथा वुद्धध्यवसितमर्थं पुरुषश्चेतयते" इत्याद्यकारकवादिमतमिति साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराहमू. (१४) जे ते उ वाइणो एवं, लोए तेसिं कओ सिया?| तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ।। वृ.तत्रयेतावच्छरीराव्यतिरिक्तात्मवादिनः एव मितिपूर्वोक्तया नीत्या भूताव्यतिरिक्त Page #31 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/१/१४ मात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तम्- 'यथा न शरीरादिन्नोऽस्यात्मेति, तदसङ्गतं, यतस्तठप्रसाधकं प्रमाणमस्ति, तञ्चेदम्-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताराकारं तत्तद्विद्यमानकर्तृकं दृष्टं, यथा घटः, यच्चाविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापक निवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं दृष्टं यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्ति यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, सच तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्यमान आदाता - ग्राहको द्दष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादात्ताग्राहः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्व संहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुबन्धतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सत्त्वा औपपातिका' इति, तदप्ययुक्तं, यतस्तदहर्जातबालकस्य यः स्तनाभिलाषः सोऽन्यामिलाषपूर्वकः, अभिलाषत्वात्, कुमाराभिलाषवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञान वत् । तथाहि तदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावन्नोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, सथान्यविज्ञानपूर्वकः, तञ्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं 'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती' ति, तत्राप्ययमर्थो 'विज्ञानधनो' विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थाये 'ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्द्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । २८ तथा यदुक्तं धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तत्वेनोपन्यस्तं तदपि तद्भोक्तृ कवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्यापुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यतिरिक्तस्य परलोकयायिनः सूरभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रख्यापयन्ति इत्यलमतिप्रसङ्गेन शेषं सूत्रं विव्रियतेऽधुनेति । तदेवं 'तेषां' भूतव्यतिरिक्तात्मनिह्नववादिनां योऽयं 'लोकः' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदारिद्यादिगत्या जगद्वैचित्रयलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत्' कयोपपत्त्या घटेत ? आत्मनोऽनभ्युपगमात्, न कथञ्चिदित्यर्थ, ‘ते च' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किञ्चन Page #32 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ २९ कारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तमइवतमो-दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसित्वाद्यातनास्थानं तस्माद्-एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः । किमिति ? यतस्ते 'मन्दा' जडा मूर्खा, सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे-व्यापारे निश्चयेन नितरांवाश्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तज्जीवतच्छरीरवादिमतंनियुक्तिकारोऽपि निराचिकीर्षुराह-'पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तरोक्त श्लोको भूयोऽपि व्याख्यायते । येएते अकारकवादिन आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपत्राः तेषां य एष 'लोको जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यअनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः' कस्माद्धेतोः स्यात्?, न कथञ्चित्कुतश्चित्स्यादित्यर्थ, ततश्च हटेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं-निकृष्टं यातनास्थानं यान्ति, किमिति ?, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहनि. [३४] को वेएई अकयं? कयनासो पंचहा गई नथि। देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ वृ. आत्मनोऽकर्तुत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते ? , तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभूयेत तथा सत्यकृतागमकृतनाशापत्ति स्यात्, ततश्च एककृतपातकेन सर्वप्राणिगणोदुःखितः स्यात् पुण्येन च सुखी स्यादिति, नचैतद् इष्टमिष्टं वा, तथा व्यापित्वा- नित्यत्वाच्चात्मनः ‘पञ्चधा' पञ्चप्रकारा नारकतिर्यङ्मनुष्यामरमोक्षलक्षणा गतिर्न भवेत् ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशनु-सारयमनियमाद्यनुष्ठानं, तथा ॥१॥ “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः" इत्यादि सर्वमपार्थकमाप्नोति तथा देवमनुष्यादिषु गत्यागती न स्यातां, सर्वव्यापित्वादात्मनः, तथा नित्यवाच विस्मरणाभावा- जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणात् 'प्रकृति करोति पुरुष उपभुङ्के इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियात्वादिति, अथ 'मुद्राप्रतिबिम्बोदय- न्यायेन भोग'इतिचेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाङ्मात्रत्वात्, प्रतिबिम्बोदयस्या पिच क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किञ्चिदेतदिति । ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणा-स्माभिः सक्रियत्वमिष्यते, किं तर्हि ?, समस्तक्रियावत्त्वे सतीत्येतदाशङ्कय नियुक्तिकृदाहनि. [३५] नहु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । नादुद्धथोवदुद्धत्तणे नगावित्तणे हेऊ॥ Page #33 -------------------------------------------------------------------------- ________________ 30 सूत्रकृताङ्ग सूत्रम् १/१/१/१४ नि. [३५] वृ. 'न हु' नैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एवमात्मनोऽपिसुप्ताद्यवस्थायां यद्यपि कथञ्चिनिष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इतिव्यपदेशमर्हति, तथा स्तोकफलत्वमपिनवृक्षाभावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोऽपि क्रियावानेव, कदाचिदेषामतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनोन धनित्वव्यपदेश मास्कन्दति, एवमात्माऽपि स्वल्पक्रियत्वादकिय इति, एतदप्यचारू, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चोऽत्रोपगम्यते समस्तपुरुषापेक्षया वा?, तत्र यद्याद्यः पक्षः तदासिद्धसाध्यता, यतः सहादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपिधनवानेव, तथाऽऽत्मापि यदि विशिष्टसामोपतपुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगभ्यतेन काचिक्षतिःसामान्यापेक्षयातुक्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं, एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतून गोत्वाभावं साधयतः, उक्तन्यायेनैव दार्शन्तिकयोजना कार्येति । साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाहमू. (१५) संति पंच महब्भूया, इहमेगेसि आहिया । आयछटो पुणो आहु, आया लोगे य सासाए । वृ. सन्ति विद्यन्ते ‘पञ्चमहाभूतानि' पृथिव्यादीनि 'इह' अस्मिन्संसारे 'एकेषां वेदवादिनां सांख्यानांशैवाधिकारिणां च, एतद् आख्यातम् आख्यातानि वा भूतानि, तेच वादिन एवमाहुःएवमाख्यातवन्तः, यथा 'आत्मषष्ठानि' आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयति आत्मा 'लोकश्च पृथिव्यादिरूपः शाश्वतः' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वं, पृथिव्यादीनांचतद्रूपाप्रच्युतेरविनश्वरत्वमिति शाश्वतत्वमेव भूयः प्रतिपादयितुमाहमू. (१६) दुहओ न विनस्संति, नो य उप्पज्जए असं। सव्वेऽपि सव्वहा भावा, नियत्तीभावमागया । वृ. 'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः तथा च ते ऊचुः । ॥१॥ जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातश्च नच ध्वस्तो, नश्येत्पश्चात्स केनच ? || यथा च वैशेषिकाणांलकुटादिकारणसानिध्ये विनाशःसहेतुकः,तेनोभयरूपेणापिविनाशेन लोकात्मनो विनाशइति तात्पर्यार्थः, यदिवा-दुहओ त्तिद्विरुपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यप्तेजोवाय्वाकाशानि स्वरूपापरित्यागतया नित्यानि, 'न कदाचिदनीशंजगदि तिकृत्वा, आत्माऽपिनित्य एव, अकृतकत्वादिभ्यो हेतुभ्यः, तथा चोक्तम् ॥१॥ "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ।। Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - १ . ॥२॥ अच्छेद्योऽयभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ।। एवं च कृत्वा नासत्पद्यते, सर्वस्य सर्वत्र सद्भावाद असति च कारकव्यापारभावात सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिस्यादिति, तथा चोक्तम् - ॥१॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात्। शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥ एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात्, यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्यात्, नावश्यमेतदर्थिना मृत्पिण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृत्वा सर्वेऽपि भावाः पृथिव्यादय आत्मषष्ठाः 'नियतिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम् - "नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई'त्यादिप्राक्तन्येव गाथा, सर्वपदार्धनित्यत्वाभ्युपगमेकर्तृत्वपरिणामोन स्यात्, ततश्चात्मनोऽकर्तृत्वेकर्मबन्धाभावस्तदभावाच्च को वेदयति?, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थ एवं सति कृतनाशः स्यात्, तथा असतश्चोत्पादाभावेयेयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात्, ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोति, यच्चोक्तं 'सदेवोत्पद्यते तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत्न तर्हि सर्वदा सदिति, तथा चोक्तम् । ॥१॥ “कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् ॥ तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादश्चेत्यवधार्य, तथा चामिहितम् - ॥१॥ “सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।। (इति) ॥१॥ तथा “नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। __ मृदभेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ।। साम्प्रतं बौद्धमतै पूर्वपक्षयन्नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाहमू. (१७) पंच खंधे वयंतेगे, बाला उ खणजोइणो। ___अन्नो अनन्नो नेवाहु, हेउयं च अहेउयं ।। वृ 'एके केचन वादिनोबौद्धाः पञ्च स्कन्धान्वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखाचेति वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्राहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५ । Page #35 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/१/१७ न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः परमनिरूद्धः कालः क्षणःक्षणेन योगः-संबन्धः क्षणयोगः स विद्यते येषां तेक्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थ, तथाचतेऽभिदधति-स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा? __ यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायांप्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपधेनवा?,नतावक्रमेण, यतो कस्याअर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वणवो विद्यते वा न वा ?, यदि विद्यते किमिति क्रमकरणं ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा?, यदि क्रियते किं पूर्वस्वभावपरित्यानापरित्यागेन वा यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किं सहकार्यपेक्षया ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्यकश्चिदतिशयः क्रियतेनवा?, यदि क्रियते किं पूर्वस्वभावपरित्यागेनापरित्यागेन वायदि परित्यागेन ततोऽतदवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावत्किं सहकार्यपेक्षया?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं, यतः - ॥१॥ 'अपेक्षेत परं कश्चिद्यदि कुर्वीत किञ्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते ॥ अथतस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानि, अथासौ नित्यो यौगपद्येनार्थक्रियांकुर्यात् तथा सतिप्रथमक्षणएवाशेषार्थक्रियाणां करणाद्वितीयक्षणेऽकर्तृत्वमायातं,तथाच सैवानित्यता, अथतस्यतत्स्वभावत्वात्ताएवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदासाम्प्रतं, कृतस्य करणाभावादिति, किंचद्वितीयादिक्षणसाध्या अप्या प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति ।अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम्॥१॥ “जातिरेव हि भावानां, विनाशे हेतुरिष्यते। यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च?,॥ ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः, तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति, एतच्चानुपासितगुरोर्वचः, तथाहि-मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते?, किमत्र प्रष्टव्यम् ? अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति?, तत्र यदि पर्युदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं-घटात्पटादि सोऽभाव इति, तत्र Page #36 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशकः - १ ३३ मू. (१८) भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किञ्चिद्घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमर्थो-विनाशहेतुरभावं करोति, किमुक्तं भवति?।। ____ भावंनकरोतीति, ततश्च क्रियाप्रतिषेध एक कृतः स्यात्, नचघटादेः पदार्थस्य मुद्गरादिना करणं, तस्य स्वकारणैरेव कृतस्वात्, अथ भावाभावोऽभावस्तंकरोतीति, तस्यतुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः ?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वभवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति - ___ 'अन्नो अनन्नो' इति ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तोयथा च चार्वाकाभूताव्यतिरिक्तंचैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादितइतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्वान्नित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति । तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आउ तेऊय, तहा बाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥ वृ.पृथिवी धातुरापश्चधातुस्तथा तेजो वायुश्चेति,धारकत्वात्पोषकत्वाच धातुत्वमेषाम्, ‘एगओत्ति' यदैते चत्वारोऽप्येकाकारपरिणतिं बिभ्रति कायाकारतयातदाजीवव्यपदेशमश्नुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तद्यतिरिक्त आत्माऽस्ती"ति, “एवमाहंसु यावरेत्ति' अपरेबौद्धविशेषा एवम् आहुः' अभिहितवन्तइति, क्वचिद् ‘जाणगा' इति पाठः, तत्राप्ययमों 'जानका' ज्ञानिनोवयं किलेत्यभिमानाद्गिदग्धाः सन्त एवमाहुरिति संबन्धनीयम्। अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तु सर्वात्मना नष्टत्वात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनोनित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति । अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा 'को वेए'ईत्यादि व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वद्वयाख्येयेति, तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीतिचेत् तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत्, पूर्वक्षणएवउत्तरक्षणेवासना माधाय विनयतीति चेत्, तथा चोक्तम् - ॥१॥ “यस्मिन्नेव हि संताने, आहिता कर्मवासना। फलं तत्रैव संधत्ते, कार्पासे रक्तता यथा ॥ अत्रापीदं विकल्प्यते-सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा ?, यदि व्यतिरिक्ता वासकत्वानुपपत्ति, अथाव्यतिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे Page #37 -------------------------------------------------------------------------- ________________ ३४ सूत्रकृताङ्ग सूत्रम् १/१/१/१८ सुखदुःखानुभवाभावः स्याद्, अस्तिच सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानांस्वविषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययोन स्यात्, आलयविज्ञानाभविष्यतीतिचेदात्मैवतर्हिसंज्ञान्तरेणाभ्युपगत इति। तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम् - ॥१॥ इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः।। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ।। (तथा) ॥१॥ “कृतानि कण्यतिदारूणानि, तनूभवन्त्यात्मनि गर्हणेन । _प्रकाशनात्संवरणाच तेषामत्यन्तमूलोद्धरणं वदामि ।। इत्येवमादि, तथा यदुक्तं क्षणिकत्वं साधयता यथा पदार्थ' कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वे'त्यादि, तत्रनित्येऽप्रच्युतानुत्पन्नस्थिरैकस्वभावे कारकाणां व्यापारभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताऽभिहितं.'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापियोगपद्येनेति' तत्क्षणिकत्वेऽपिसमान, यतः क्षणिकोऽप्यक्रियायां प्रवर्तमानःक्रमेण योगपद्येन वाऽवश्यंसहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः ‘सामग्रीजनिका, न ह्येकं किञ्चिदितितेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुपार्यते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानांच परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवनित्य एव कारणेभ्यः पदार्थ समुत्पद्यत इति द्वितीय पक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं -- किंक्षणक्षयित्वेनानित्यत्वमाहोस्वित्परिणामानित्य तयेति ?, तत्र क्षणक्षयित्वे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति ?, अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं,ततोऽसौपूर्वक्षणो विनष्टोवोत्तरक्षणंजनयेदविनष्टोवा?, नतावद्विनष्टः, तस्यासत्त्वाज्जनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गपत्तेः, पूर्वक्षणो विनश्यंस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोन्नामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टैचैककालताऽऽश्रिता, तथाहि - योऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोविनाशोत्पादयोयोगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति, तद्धर्मताऽनभ्युपगमेचविनाशोत्पादयोरवस्तुत्वापत्तिरिति। यच्चोक्तम्-'जातिरेव हि भावानामि'त्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावानां-पदार्थानामभावे हेतुः, ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातत्वादुत्पत्त्यभावः, अथोत्पत्त्युत्तरकालंविनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति उत्पत्तिक्रियाकाले तस्याभूतत्वात्पश्चाश्च भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं?, विनाशहेत्वभाव इति चेत्, यत उक्तं -'निर्हेतुत्वाद्विनाशस्य स्वभावादनुबन्धिते'ति, एतदप्ययुक्तं, यतो घटादीनां मुद्गरादिव्यापारानन्तरमेव विनाशो भन्न लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तं, तथाहि-अभाव इतिप्रसज्यपर्युदास विकल्पद्वयेन योऽयंविकल्पितः पक्षद्वयेऽपिच दोषःप्रदर्शितः सोऽदोषएव, यतःपर्युदासपक्षे कपालाख्यभावान्तरकरणेघटस्य च परिणामानित्यतया तद्रूपतापत्तेः Page #38 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: - १ - ३५ कथं मुद्गरादेर्घटादीन् प्रत्यकिञ्चित्करत्वं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रिया प्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णां मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्रं, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्देन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेर्विनाश इति विनाशस्य सहेतुकत्वमवस्थितम्, अपिच कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थं धावश्यमभावचातुर्विध्यमाश्रयणीयं तदुक्तम्"कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे । प्रध्वंसस्य चाभावस्य प्रच्यवेऽनन्ततां व्रजेत् ॥ 119 11 सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे इत्यादि । तदेवं क्षणिकस्य विचाराक्षमत्यात्परिणामानित्यपक्ष एव ज्यायानिति । एवञ्च सत्यात्मा परिणामी ज्ञानधारो भवान्तरयामी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि तथा सहेतुकोऽपि नारकतिर्यङमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्द्धातुकमात्रं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलचादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाह पू. (१९) अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चई । वृ. 'अगारं' गृहं तद् 'आवसन्तः ' तस्मिंस्तिष्ठन्तो गृहस्था इत्यर्थ, 'आरण्या वा' तापसादयः, 'प्रव्रजिताश्च' शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा- 'इदम् ' अस्मदीयं दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वादेकवचनं सूत्रे कृतं, तथाहि पञ्चभूततञ्जीवतच्छरीरवादिनामयमाशयः - यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुञ्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः - 119 11 “तपांसि यातंनाश्चित्राः, संयमो भोगवञ्चनम् । अग्निहोत्रादिकं क्रम, बालक्रीडेव लक्ष्यत ।।" इति, सांख्यादयस्तु मोक्षवादिन एवं संभवायन्ति यथायेऽस्मदीयं दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिरतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति इदानीं तेषामेवाफलवादित्वाविष्करणायाह पू. (२०) मू. (२१) ते नावि संधि नच्चा णं, न ते धम्णविओ जणा । जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ।। ते नावि सिंधिं नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥ Page #39 -------------------------------------------------------------------------- ________________ ३६ सूत्रकृताङ्ग सूत्रम् १/१/१/२२ मू. (२२) मू. (२३) ते नावि संधिं नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ।। ते नावि संधि नञ्चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥ ते नावि संधि नञ्चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ।। ते नाव संधि नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ।। मू. (२४) मू. (२५) वृ. ते पच्चभूतवाद्याद्या: 'नापि' नैव सन्धिं छिद्रं विवरं, स च द्रव्यभावभेदाद्दवेघा, तत्र द्रव्यसन्धिः कुद्ध्यादेः भावसन्धिश्च ज्ञानावरणादि कर्मविवररूपः तमज्ञात्वा ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा अबुध्ध्वैव ते वराका दुःखमोक्षार्थम्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च यदिवासन्धानं सन्धिः - उत्तरोत्तर पदार्थ परिज्ञानं तदज्ञात्वा प्रवृत्ता इति यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो - निपुणा 'जनाः' पञ्चभूतास्तित्वादिवादितो लोक इदि, तथाहि क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्मं प्रतिपादयन्ति, यत्फलाभावाच्च तेषामफलवादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्तयवसानेन दर्शयति- 'येते त्विति' तुशब्दश्चशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'आघो' भवौघः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः । तथा च न ते वादिनः संसार गर्भ जन्म दुःख मारा दि पारगा भवन्तीति। ॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहनाणाविहारं दुक्खाई, अणुहोति पुणो पुणो । संसारचक्कवालंमि, मच्छुवाहिजराकुले ॥ मू. (२६) मू. (२७) उच्चावयाणि गच्छंता, गब्भमेस्संति नंतसो । नायपुत्ते महावीरे, एवमाह जिनोत्तमे ॥ - तिबेमि । वृ. 'नानाविधानि ' बहुप्रकाराणि 'दुःखानि ' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि नरकेषु करपत्रदारणकुम्भीपाकतप्तायः शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृ डादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चामियोग्येष्यार्किल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेषूत्तर श्लोकार्थेष्वायोज्यम, शेषं सुगमं यावदुद्देशकसमाप्तिरिति । नवरम् 'उच्चावचानी' ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशोनिर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ब्रवीम्यहं तीर्थकराज्ञया, न स्वमनीषिकया, स चाहं ब्रवीमि येन मया तीर्थङ्करसकाशाच्छ्रुतम्, एतेन च क्षणिकवादिनिरासो द्रष्टव्यः । अध्ययनं -१ उद्देशकः-१ समाप्तः Page #40 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः - २ - -: अध्ययनं-१ उद्देशकः-२ : वृ. उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते, तस्य चायमभिसंबन्धः - इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्याध्ष्टिमतान्युपदर्श्य निराक्रियन्ते । अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तत्र त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदर्श्यतेतदेवमनेकसंबंधेनायातस्यास्योद्देशकस्य चत्वार्युनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्मू. (२८) आधायं पुण एगेसिं, उववण्णा पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥। वृ. अस्य चानन्तरपरम्परसूत्रैः संबन्धो वक्तव्यः, तत्राननतरसूत्रसाब धोऽयम्-इहानन्तरसूत्रे इदमभिहितं यथा पञ्चभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽ सद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्मापचयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झेझे' त्यादि, तेन च सहायं संबन्धः । तत्र बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तद्बुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं सम्बन्धो लगनीय इति तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनाऽर्थ प्रतन्यते पुनः शब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां पुनरेकेषामेतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्ती' ति ख्यातेर्धातोर्भावे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी ततश्चायमर्थ-तैर्नियतिवादिभि पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा - 'उपपन्ना' युक्त्या घटमानका इति, अनेन च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च पृथक् पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः ?, तदाह- 'जीवाः' प्राणिनः सुख-दुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभव निहुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदस्माभिर्नापलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, विलुप्यन्ते' उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः, ततश्चौपपातिकत्वमप्यस्माभिस्तेषां न निषिध्यते इति श्लोकार्थः तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यत्तैर्नियतिवादिभिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह मू. (२९) मू. (३०) ३७ न तं सयं कडं दुक्खं, कओ अन्नकडं च णं । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥ सयं कडं न अन्नेहिं, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं ॥ Page #41 -------------------------------------------------------------------------- ________________ ३८ सूत्रकृताङ्ग सूत्रम् १/१/२/३० वृ. यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं चा न तत् ‘स्वयम्' आत्मना पुरुषकारेण ‘कृतं' निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्यं, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत् ‘ण मित्यलङ्कारे तथाहि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समानेपुरुषाकारेसति फलप्राप्तिवैसद्दश्यंफलाप्राप्तिश्चनभवेत्, कस्यचित्तुसेवादिव्यापाराभावेऽपि विशिष्टफलावातिश्यत इति, अतोन पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ?, नियतेरेवेति, एतञ्च द्वितीयश्लोकान्तेऽभिधास्यतेनापिकालः कर्ता, तस्यैकरूपत्वाचगति फलवैचित्र्यानुपपत्तेः, कारणभेदेहि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेऽपिसुखदुःखेन भवतः,यतोऽसावीश्वरो भूर्तोऽभूतों वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रियत्वम्, अपिच __ यद्यसौरागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकतॆव,अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्यापि सुखदुःकादिकर्तृत्वानुपपत्ति, यतोऽसौ स्वभावः पुरुषाद्भिन्नोऽभिन्नोवा?, यदि भिन्नोनपुरुषाश्रिते सुखदुःखे कर्तुमलं, तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदेपुरुषएव स्यात्, तस्य चाकर्तुत्वमुक्तमेव नापि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषादिमिमभिन्नं वा भवेत् ?, अभिन्नं चेत्पुरुषमात्रतापत्ति कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्किं सचेतनमचेतनं वा ?, यदि सचेतनमेकस्मिन् काये चैतन्यद्वयापत्ति, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादनंप्रति कर्तृत्वमिति, एतच्चोत्तरत्र व्यासेन प्रतिपादयिष्यत इत्यलं प्रसङ्गेन तदेवं सुखं “सैद्धिकं' सिद्धौ-अपवर्गलक्षणायां भवं यदिवा दुःखम्-असातोदयलक्षणमसैद्धिकं सांसारिकं । यदिवा उभयमप्येतत्सुखं दुःखं वा, स्रक्चन्दनाङ्गनाधुपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिकं, तथा 'असैद्धिकं' सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितबाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकं । -तदेवदुभयमपिनस्वयं पुरुषकारेण कृतंनाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति 'पृथक्जीवाः' प्राणिन इति । कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति-“संगइयंति" सम्यक्खपरिणामेन गति- यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगति-नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्ये, ‘इह' अस्मिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं तेषामयमभ्युपगमः, तथा चोक्तम् - ॥१॥"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।। एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह Page #42 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशकः - २ पू. (३१) एवमेयाणि जंपंता, बाला पंडिअमाणिणो । निययानिययं संतं, अयाणंता अबुद्धिया ॥ वृ. 'एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि ' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'बाला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमितित एवमुच्यत ? इति तदाह-यतो निययानिययं संतमिति' सुखादिकं किञ्चिन्नियतिकृतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम् आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतमेवकान्तेनाश्रयन्ति, अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका बुद्धिरहिता भवन्तीति, तथाहि आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति - तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाच्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किञ्चिदनियतिकृतं च- पुरुषकारकालेश्वरस्वभावकर्मादिकृतं तत्र कथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्, - . 119 11 ३९ "न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? " यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं तददूषणमेव, यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽष्टकृतः, तदपि चास्माभिः कारणत्वेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्प फलाद्युद्भवो न सर्वदति, यच्चोक्तं, 'कालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणं यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्वयापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामचिगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्यापि कथञ्चित्कर्तृत्वमेव, तथाहि आत्मन उपयोगलक्षणत्वमसंख्येयप्रदेशत्वं पुद्गलानां च मूर्तत्वं धर्माधर्मास्तिकाययोर्गतिस्थित्युषष्टम्भकारित्वममूर्तत्वं चेत्येवमादि स्वभावापादितं यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृत्वमभ्युपगतमेतदपि स्वभावापादितमेवेति । तथा कर्मापि कर्तृ भवत्येव तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथञ्चिञ्चात्मनोऽभिन्नं, तद्वशाच्चात्मा नारकतिर्यङ्गनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वम्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् । पू. (३२) एवमेगे उपासत्था, ते भुजो विप्पगब्भिआ । " एवं उवट्टिआ संता, न ते दुक्खविमोक्खया ।। वृ. तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शनायाह- 'एव 'मिति पूर्वाभ्युपगमसंसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः Page #43 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रम् १/१/२/३२ पुनस्ते इति दर्शयति-युक्तिकदम्बकाबहिस्तिष्ठन्तीति पार्श्वस्थाःपरलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयऱ्या, यदिवा-पाश इव पाशः कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणंतत्र स्थिताः पार्श्वस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पावस्याः पाशस्था वा द्रष्टव्या इत्यादि। 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता' धाष्टोपगताः परलोकसाधकासु क्रियासु प्रवर्तते, धाश्रियणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासुप्रवर्तनादिति, ते पुनः ‘एवमप्युपस्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असभ्यकप्रवृत्तत्त्वानात्मानं दुःखाद्विमोचयन्ति ।गता नियतिवादिनः साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह-- मू. (३३) जविणो मिगा जहा संता, पिरताणेण वजिआ। असंकियाइं संकंति, संकिआईअसंकिणो । वृ. यथा-'जविनो' वेगवन्तः सन्तो 'मृगा' आरण्याः पशवः परि-समन्तात्त्रायते-रक्षतीति परित्राणं तेन वर्जिता-रहिताः, परित्राणविकला इत्यर्थः । यदिवा-परितानं-वागुरादिबन्धनं तेन तर्जिता-भयंग्राहिताः सन्तो भयोद्घान्तलोचनाः सभाकुलीभूतान्तःकरणाः सम्यविवेकविकला 'शङ्कास्णि शंका संजाता येषुयोग्यत्वात्तानि शङ्कितानि-शङ्कायोग्यानि-वागुरादीनितान्यशङ्किनः तेषु शङ्गामकुर्वाणाः, “तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण सम्बन्धः पुनरप्येतदेवातिमोहाविष्करणायाहमू. (३४) परियाणिआणि संकता, पासिताणि असंकिणो। अन्नाणभयसंचिग्गा, संपलिंति तहिं तहिं ।। वृ. परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढत्वाद्विपर्यस्तबुद्धयः,त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशङ्कःन तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यगव्याप्तावशीकृताः, शङ्कनीयमशङ्कनीयंवा तथा परित्राणोपेतंपाशाद्यनर्थोपितंवा सम्यग्विवेकेनाजानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने। __'संपर्ययन्ते' सम्-एकीभावेन परि-समन्तादयन्ते यान्ति वा,गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तंप्रसाध्य नियतिवादाघेकान्ताज्ञानवादिनो दार्शन्तिकत्वेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयंच नियत्यज्ञानवादमेकान्तं न शकन्ते, "ते' एवंभूताः परित्राणाहेऽप्यनेकान्तवादे शङ्कां कुर्वाणा युक्त्याऽघटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन् गृहन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु सपर्ययन्तइति पूर्वदोषैरतुष्यन्नाचार्यो दोषान्तरदित्सया पुनरपिप्राक्तनदृष्टान्तमधिकृत्याऽऽहमू. (३५) अह तं पवेज्ज बझं, अहे बज्झस्स वा वए। मुछेज पयपासाओ, तंतु मंदे ण देहए। वृ. 'अथ' अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्ध-बन्धनाकारेण व्यवस्थितं वागुरादिकं Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं -१, उद्देशकः - २ वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत, तस्य वध्यार्देईन्धनस्याधो (वा) गच्छेत्, ततएवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिबन्धनं तस्मान्मुच्येत ! यदिवा पदं-कूटं पाशः-प्रतीतस्ताभ्यां मुच्येत, कचित्पदापाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं मन्दो' जडोऽज्ञानावृतोन देहती तिन पश्यतीति ।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहमू. (३६) अहिअप्पाऽहियपन्नाणे, विसमंतेनुवागते । सबद्धे पयपासेणं, तत्थ घायं नियच्छइ॥ वृ. स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् ‘विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति एवं दृष्टान्तं प्रदर्श्य सूत्रकार एव दान्तिकमज्ञानविपाकं दर्शयितुमाहमू. (३७) एवं तु समणा एगे, मिच्छदिट्ठी अनारिआ। असंकिआई संकंति, संकिआई असंकिणो ।। वृ. एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एकेन सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येषामज्ञान- वादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्या' आराधाताः सर्वहेयधर्मेभ्य इति आर्यान आर्या अनार्या अज्ञानवृतत्वादसदनुष्ठायिन इतियावत् । अज्ञानावृतत्वं च दर्शयति-'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयणानि, अशङ्किनोमृगा इवमूढचेतसस्तत्तदाऽऽरभन्ते तद्यदनाय संपद्यन्त इति शङ्कनीयाशङ्कनीयविपर्यासमाहमू. (३८) धम्मपन्नवणा जा सा, तंतु संकति मूढगा। आरंभाइं न संकंति, अविअत्ता अकोविआ॥ वृ.धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तांतु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ? यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 'अकोविदा' अपण्डिताःसच्छास्त्रा-वबोधरहिता इति ।। तेच अज्ञानावृता यन्त्राप्नुवन्ति तदर्शनायाहमू. (३९) सव्वप्पगं विउक्कसं, सव्वं नूमं विहूणिआ। अप्पत्तिअंअकम्मसे, एयमझु मिगे चुए। वृ. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको-लोभस्तं विधूयेति सम्बन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कर्षो-मान इत्यर्थ, तथा 'नूमंति माया तां विधूय, तथा 'अप्पत्तियं ति क्रोधं विधूय, कषायविधून-नेनचमोहनीयविधूननभावेदितं भवति, तदपगमाच्चाशेषकर्माभावः प्रतिपादितो भवतीत्याह। 'अकर्माश' इति न विद्यते कर्माशोऽस्येत्यकर्माशः, सचाकर्मीशो विशिष्टज्ञानाद्भवति Page #45 -------------------------------------------------------------------------- ________________ ४२ सूत्रकृताङ्ग सूत्रम् १/१/२/३९ नाज्ञानादित्येव दर्शयति- 'एनमर्थं कर्माभावलक्षणं मृग इव मृगः - अज्ञानी 'चुए' त्ति त्यजेत्, विभक्तिपरिणामेन वा अस्मादेवंभूतादर्थात् च्यवेत् भ्रश्येदिति भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽहमू. (४०) जे एयं नाभिजाणंति, मिच्छदिट्ठी अनारिया । मिगा वा पासबद्धा ते, घायमेसंति नंतसो ॥ वृ. ‘ये’ अज्ञानपक्षं समाश्रिता ‘एनं' कर्मक्षपणोपायं 'नजानन्ति' आत्मीयासद्ग्रहग्रहग्रस्ता मिथ्याष्टयोऽनार्यास्ते भृगा इव पाश बद्धा "घातं विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्गक्रियानुष्ठानात्, 'अनंतशः' अविच्छेदेनेत्यज्ञान्वादिनो गताः इतानीमज्ञानवादिनां दूषणोद्विभावविषया स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाहमाहणा समणा एगे, सच्चे नाणं सयं वए। सव्वलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ मू. (४१) वृ. एके केचन ब्राह्मणविशेषाः तथा 'श्रमणाः' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविर्भावकं परस्परविरोधेन व्यवस्थितं 'स्वकम्' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वात्सत्यानि, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति । सर्वस्मिन्नपि लोके ये 'प्राणाः प्राणिनो न ते किञ्चिनापि सम्यगपेतवाचंच्यं 'जानन्ती'ति विदन्तीति ।। यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति ध्ष्टान्तद्वारेण दर्शयितुमाह सू. (४२) मिलक्खू अमिलक्खुरस, जहा वृत्ताणुभासए । न हेउं से विजाणाइ, भासिअं तऽनुभासए । वृ. यथा ' म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य ग्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, नच 'हेतुं' निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति । एवं ध्ष्टान्तं प्रदर्श्य दान्तिकं योजयितुमाह मू. (४३) एवमन्नाणिया नाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खुव्व अबोहिया ।। वृ. यथा म्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा ‘अज्ञानिकाः' सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणातू निश्चयार्थ न जानन्ति, तथाहि ते स्वकीयं तीर्थकरं सर्वज्ञत्वेन निर्द्धार्य तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्दर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञ सर्वज्ञं जानाती' ति न्यायात्, तथा चोक्तम् - 119 11 “सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गभ्यते कथम् ? ॥" एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, 'अबोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - २ ४३ श्रेय इति। एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावदुरुतरदोषसंभवः, तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ।। __ एवमज्ञानवादिमतमनूचेदानीं तद्दूषणायाहमू. (४४) अन्नाणियाणं वीमंसा, अन्नाणे न विनियच्छइ। अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? || वृ.न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दत्वाद्वा मत्वर्थीयः, गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम्-अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं 'विमर्श' पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञान विषये न नियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत्, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेतज्ज्ञानं सत्यमुतासत्यमिति?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतोविमर्शस्तेषां नबुध्यते, एवंभूतस्यपर्यालोचनस्यज्ञानरूपत्वादिति __ अपिच-तेऽज्ञानवादिन आत्मनोऽपि ‘परं' प्रधानमज्ञानवादमिति 'शासितुम्' उपदेष्टुं 'नालं' न समर्था, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कृतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानामज्ञानवादमुपदेष्टुमलं-समर्थ । भवेयुरिति ? । यदप्युक्तं-'छिन्नमूलत्वात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिकं,' तदप्ययुक्तं, यतोऽनुभाषणमपि ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं परचेतोवृत्तीनांदुरन्वयत्वादज्ञानमेव श्रेय इति,' तदप्यसत्, यतोभवतैवाज्ञानमेव श्रेय इत्येवंपरोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्यैरप्यभ्यधायि ॥१॥ “आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ।। तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासनेकर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाहमू. (४५) बने मूढे जहा जंतू, मूढे नेयाणुगामिए। दोवि एए अगकोविया, तिव्वं सोयं नियच्छइ ।। वृ. 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः प्राणी दिकपरिच्छेदं कर्तुमसर्थ स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा द्वावपि अकोविदौ सम्यगज्ञानानिपुणौ सन्तौ 'तीव्रम्' असह्य स्रोतो' गहनं शोकं वा 'नियच्छतो' निश्चयेन गच्छतः-प्राप्नुतः, अज्ञानावृतत्वात् । एवं तेऽप्यज्ञान- वादिन आत्मीयं मार्ग शोभनत्वेन निर्धारयन्तः परकीयं चाशोभनत्वेन जानानाः स्वयं मूढाः सन्तः परानपि मोहयन्तीति अस्मिन्नेवार्थे दृष्टान्तान्तरमाहमू. (४६) अंधो अंधं पहं निंतो, दूरमद्धानु गच्छइ । आवझे उप्पहं जंतू, अदुवा पंथानुगामिए।। वृ.यथाअन्धः स्वयमपरमन्धंपन्थानंनयन् ‘दूरमध्वानं विवक्षितादध्वनः परतरंगच्छति, तथोत्पथमापद्यते जन्तुरन्धः अथवा परं पन्थानमनुगच्छेत्, न विवक्षितमेवाध्वानमनुयायादिति ।। एवं दृष्टान्तं प्रसाध्य दान्तिकमर्थं दर्शयितुमाह Page #47 -------------------------------------------------------------------------- ________________ ४४ सूत्रकृताङ्ग सूत्रम् १/१/२/४७ एवमेगे नियायट्ठी, धम्ममाराहगा वयं। अदुवा अहम्ममावजे, न ते सव्वजुयं वए। वृ. 'एव'मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायट्टी'त्ति नियागो-मोक्षः सद्धर्मो वा तदर्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षाभावः,तएवं प्रवर्तमाना अधर्म' पापमापद्येरन्, संभावनायामुत्पन्नेन लिङप्रत्ययेनैतदर्शयति-एतदपरं तेषामनर्थान्तरं संभाव्यते यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति। ____ अपिच-तएवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वै प्रकारैऋजुः-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जुः-संयमः सद्धर्मो वा तं सर्वर्जुकं ते न व्रजेयुः' न प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, तेच भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथाजीवादयो ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तषष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्था, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यःसदसदवक्तव्य इत्येतैः सप्तमिप्रकारैर्विज्ञातुंनशक्यन्ते, नचविज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति?। किंवातेन ज्ञातेन?,असन्जीवइति कोवेत्ति? किंवातेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्तविकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथासतीभावोत्पत्तिरिति कोजानाति? किंवाऽनयाज्ञातया?, एवमसतीसदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो-न कस्यचिद्विविष्टं ज्ञानमस्ति योऽतीन्द्रियान्जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति?, तस्मादज्ञानमेव श्रेय इतिपुनरपि तदुषणाभिधित्सयाऽऽहमू. (४८) एवमेगे वियकाहिं, नो अन्नं पञ्जुवासिया। अप्पणो य वियकाहिं, अयमंजूहिं दुम्मई ॥ वृ. 'एवम्' अनन्तरोक्तया नीत्या एके-केचनाज्ञानिका 'वितर्काभिः' मीमांसाभिः स्वोत्प्रेक्षिताभिरसत्कल्पनाभि परम् अन्यमार्हतादिकंज्ञानवादिनं 'नपर्युपासते'नसेवन्तेस्ववलेपग्रहग्रहस्ताः वयमेव तत्त्वज्ञानाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयैर्वितकैरेवमभ्युपगतवन्तो। यथा 'अयमेव' अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्ग 'अंजूरिति निर्दोषत्वाव्यक्तः-स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथाव्यितार्थाभिधायित्वात्, किमिति (ते) एवमभिदधति? – “हि'यस्मादर्थे यस्मात्ते 'दुर्मतयो' विषर्यस्तबुद्धय इत्यर्थः । Page #48 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २ साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽह - मू. (४९) एवं तक्काइ साहिता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुति, सउणी पंजरं जहा। वृ. 'एवं पूर्वोक्तन्यायेन 'तर्कया' स्वकीयविकल्पनया ‘साधयन्तः प्रतिपादयन्तो धर्मेक्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते पापे अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुंवा मिथ्यात्वाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतद्यवस्थितंतथा तेन त्रोटयान्तिअपनयन्तीति, अत्र दृष्टान्तमाह - यदा पारस्थःशकुनि पञ्जरंत्रोटयितुं-पञ्जरबन्धनादात्मानं मोचयितुंनालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहमू. (५०) सयं सयं पसंसंता, गरहंता परं वयं।। जे उतत्य विउस्संति, संसारं ते विउस्सिया।। वृ. 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो' वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्वं वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, तेऽपि नित्यस्य क्रमयोगपद्याभ्या-मर्थक्रियाविरहात्साङ्ख्यान, एवमन्येऽपिद्रष्टव्याइति।तदेवं 'ये' एकान्तवादिनः, तुरवधारणे मिन्नक्रमश्च । ___ 'तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषुदर्शनेषुप्रशंसांकुर्वाणाः परवाचंच विगर्हमाणा विद्वस्यंते' विद्वांस इवाऽऽचरन्ति, तेषु वा विशेषेणोशन्ति-स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसारं' चतुर्गतिभेदेन संसृतिरूपं विविधम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताःसंबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थ ।। साम्प्रतं यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे 'कर्मचयंन गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह अहावरं पुरक्खायं, किरियावइदरिसणं । कम्मचिंतापणहाणं, संसारस्स पवडणं ।। दृ. 'अथे' त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् ‘आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शन' क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, किंभूतास्ते क्रियावादिन इत्याहकर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्तातस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः क्वचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयपरम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ।। __ यथा च ते कर्मचिन्तातो नष्ठास्तथा दर्शयितुमाहमू. (५२) जाणं काएणऽणाउट्टी, अबुहो जंच हिंसति । पुट्ठो संवेदइ परं, अवियत्तं खु सावजे ।। वृ. यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' Page #49 -------------------------------------------------------------------------- ________________ ४६ सूत्रकृताङ्ग सूत्रम् १/१/२/५२ आकुट्टनमाकुट्टः स विद्यतेयस्यासावाकुट्टी नाकुट्टयनाकुट्टी, इदमुक्तं भवति-योहि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानांछेदनभेदनादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयोन भवतीत्यर्थ, तथा अबुधः' अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावन्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा 'चतुर्विधंकर्मनोपचीयतेभिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं च शब्देनोपात्तं तत्रेरणमीर्या - गमनं तत्सम्बन्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति - पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यप्राणिव्यापदनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति-स्वप्न एव लोकोक्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकं, तदपिन कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्तयभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदानांद्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम् - ॥१॥ "प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा॥ किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयोन भवत्येव? भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह-'पुढो तितेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन चचतुर्विधेनापिकर्मणा ‘स्पृष्ट' ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवस्पर्शानन्तरमेव परिशटतीत्यर्थ, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवंचकृत्वातद् 'अव्यक्तम् अपरिस्फुटं,खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन-गर्येण वर्तते तत्परिज्ञोपचितादिकर्मेति॥ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह-- मू. (५३) संतिमे तउ आयाणा, जेहिं कीरइ पावगं। अभिकम्मा य पेसा य, मणसा अनुजाणिया ।। वृ. सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति-यैरादानैः क्रियते' विधीयते निष्पाद्यते 'पापकं' कल्मषं, तानि चामूनि, तद्यथा'अभिक्रम्ये ति आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्घाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकंकर्मादानं, तथाऽपरंचप्राणिघाताय प्रेष्यं समादिश्ययप्राणिव्यापादनं तद्दितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्त तीयं कर्मादानं । परिज्ञोपचितादस्यायं भेदः-तत्र केवलं मनसा चिन्तमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिधाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेतिदर्शयितुमाह Page #50 -------------------------------------------------------------------------- ________________ ४७ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २ मू. (५४) एते उतउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निव्वाणमभिगच्छइ ।। वृ.तुरवधारणे, ‘एतान्येव पूर्वोक्तानित्रीणि व्यस्तानिसमस्तानिवाआदानानि यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत इति, एवं चस्थितेयत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रतिनविद्यन्तेतथा 'भावविशुद्धया' अरक्तद्विष्टबुध्ध्याप्रवर्तमानस्य सत्यपिप्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः । तदभावाञ्च निर्वाणं' सर्वद्वन्द्वोपरतिस्वभावम् ‘अभिगच्छति' आभिमुख्येन प्राप्नोतीति भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहमू. (५५) पुत्तं पिया समारब्भ, आहारेज्ज असंजए। भुंजमाणो य मेहावी, कम्मणा नोवल्लिप्पइ ।। वृ. 'पुत्रम्' अपत्यं 'पिता' जनकः ‘समारभ्य' व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्ट: 'असंयतो' गृहस्थस्तपिशितं भुञ्चाानोऽपिचशब्दस्यापिशब्दार्थत्वादिति, तथा 'मेघाव्यपि' संयतोऽपीत्यर्थ, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते' नाश्लिष्यत इति । यथा चात्र पितुः पुत्र व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मवन्धो भवतीति साम्प्रमेतद्दूषणायाहमू. (५६) मनसा जे पउस्संति, चित्तं तेसिं न विजइ। अणवञ्जमतहं तेसिं, न ते संवुडचारिणो ।। वृ. ये हि कुतश्चिन्निमित्तात् ‘मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति तेषां' वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽपि अनवा' कर्मोपचयाभाव इति, तत् तेषाम् ‘अतथ्यम्' असदर्थाभिधायित्वं, यतो न ते संवृतचारिणो, मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचयेकर्तव्येमन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयभावोऽभिहितः, ततश्चयत् यस्मिन् सति भवत्यसतितुन भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापिकायचेष्टारहितस्याकारणत्वमुक्तं, सत्यमुक्तम्, अयुक्तं तूक्तं, यतो भवतैव एवं भावशुद्धया निर्वाणमभिगच्छती'तिभणतामनस एवैकस्य प्राधान्यमभ्यधायि, तधाऽन्यदप्यभिहितं। ॥१॥ “चित्तमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ।। -तथाऽन्यैरप्यभिहितं॥१॥“मतिविभव! नमस्तेयत्समत्वेऽपिपुंसां, परिणमसि शुभांशै कल्मषांशैस्त्वमेव । नरकनगर वहँ प्रस्थिताः कष्टमेके, उपचितशुभशकल्या सूर्यसंभेदिनोऽन्ये तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथेपिथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तत्वादबन्धक एव, तथा चोक्तम् - Page #51 -------------------------------------------------------------------------- ________________ ४८ सूत्रकृताङ्ग सूत्रम् १/१/२/५६ “उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए। वावज्जेज कुलिंगी मरेज तंजोगमासज्ज ।। ॥२॥ ने य तस्स तन्निमित्तो बन्धो सुहमोऽविदेसिओ समए । अणवज्जो उपयोगेण सव्वभावेण सोजम्हा ।। वृ. स्वप्नान्तिकऽप्यशुद्धचित्तसद्भावादीषद्बन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति। तदेवं मनसोऽपिक्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान'मित्यादि तत्सर्वं प्लवत इति, यदप्युक्तं-पुत्रं पिता समारभ्ये' त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्वया पादयति, एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ?, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोऽत्रेति।यदपिचतैः क्वचिदुच्यते-यथा परव्यापादितपिशितभक्षणे परहस्ताऽऽ. कृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तप्रलपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम् । ॥१॥ “अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः ।। यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमे तैरकारिति। तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवंतदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति मू. (५७) इच्चेयाहि य दिहिहिं, सातागारवणिस्सिया। सरणंति मन्नमाणा, सेवंती पावगंजणा ॥ वृ.अधुनैतेषां क्रियावादिनामनर्थपरम्परांदयितुमाह-'इत्येताभि' पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्युपगमैस्ते वादिनः 'सातगौरवनिःश्रिताः' सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् इति एवंमन्यमाना विपरीतानुष्ठानतया सेवन्ते'कुर्वते पापम्' अवद्यम्, एवंव्रतिनोऽपि सन्तोजना इव जनाः प्राकृतपुरुषसध्शा इत्यर्थः। मू. (५८) जहा अस्साविणिं नावं, जाइअंधो दुरुहिया। इच्छई पारमागंतुं, अंता य विसीयई॥ दृ.अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्वतितच्छीलावाआविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य 'पारं' तटम् 'आगन्तुं' प्राप्नुमिच्छत्यसौ, तस्याश्चानाविणीत्वेनोदकप्लुतत्वात् 'अन्तराले जलमद्य एव विषीदति' वारिणि निमज्जति तत्रैव च पञ्चत्वमुपयातीति। मू. (५९) एवं तु समणा एगे, मिच्छदिट्ठी अणारिया। संसारपारकंखी ते, संसारं अणुपरियति तिबेमि ।। वृ. साम्प्रतं दार्शन्तिकयोजनार्थमाह-एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्या स्वदर्शनानुरागेण 'संसारपारकाङ्क्षिणों मोक्षाभिलाषुका अपि सन्तस्ते Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २ चतुर्विधकर्मचयानभ्युपगमेनानिपुणत्वाच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति। अध्ययनं-१ उद्देशकः-२ समाप्तः -: अध्ययनं-१ उद्देशकः-३:द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः-अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुद्दष्टयः प्रतिपादितास्तदोषाश्च तदिहापितेषामाचारदोषः प्रदीत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावयासरखलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम्मू. (६०) जंकिंचि उ पूइकडं, सड्ढीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ।। वृ. अस्य चानन्तरसूत्रेण सहायं संबन्ध-इहानन्तरोद्देशकपर्यन्तसूत्रेऽभिहितम्, ‘एवं तु श्रमणा एके इत्यादि, तदिहापि संबध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतंभुआनाः संसारंपर्यटन्तीति, परम्परसूत्रेत्वभिहितं पुज्झिज्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तदुध्येतेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धोयोज्यः । अधुनासूत्रार्थ प्रतीयते-'यत्किञ्चिदितिआहारजातंस्तोकमपि, आस्तांतावाभूतं, तदपि पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तांतावदाधाकर्म, तदपि न स्वयंकृतम्, अपि तु 'श्रद्धावता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं, तच्च सहान्तरितमपि यो भूज्जीत' अभ्यवहरेदसौ 'द्विपक्ष' गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽसेवते, एतदुक्तं भवति एवंभूतमपि परकृतमपरागन्तुकयत्यर्थ निष्पादितं यदाधाकर्मादि तस्य सहान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुनानस्य द्विपक्षसेवनमापद्येति, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेवचोपभुञ्चते?,तेच सुतरां द्विपक्षसेविनो भवन्तीत्यर्थ, यदिवा-'द्विपक्ष'मिति ईर्यापथः सांपरायिकं च, अथवा । पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीनयत्यपूर्वाश्चादत्ते, तथा चागमः-“आहाकम्मंणं भुञ्जमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अठ्ठकम्मपयडीओ बंधइ, सिढिलबंधबद्धाओ घणियबंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, इस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूध्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थ:। मू. (६१) तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे । वृ. इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह-'तमेव' आधाकर्मोपभोगदोषम् 'अजानाना' विषमः-अष्टप्रकारकर्मबन्धो भव Page #53 -------------------------------------------------------------------------- ________________ ५० सूत्रकृताङ्ग सूत्रम् १/१/३/६१ कोटिभिरपि दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्याः' पृथुरोमाणो विशालःसमुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका:- बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे' समुद्रवेलायां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः सन्त । पू. (६२) उदगस्स पभावेणं, सुक्क सिग्धं तमिति उ । ढकेहि य कंकेहि य, आमिसत्येहिं ते दुही ॥ वृ. उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आभिषग्रध्नुभिर्टङकैः कश्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिर्भत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं ' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः । पू. (६३) एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, दातमेस्संति नंतसो ॥ वृ. एवं दृष्टान्तमुपदर्श्य दान्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः ' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्त्तमानमेव सुखम् आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव 'घातं ' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः ' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वर्ति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह मू. (६४) इणमन्त्रं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ।। , वृ. ‘इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान' मिति मोहविजृम्भणम्'इह' अस्मिन् लोके एकेषां न सर्वेषाम् 'आख्यातम्' अभिप्रायः, किं पुनस्तदाख्यातमिति ? तदाह-देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थ, देवैर्वा गुप्तोरक्षितो देवगुप्तो देवपुत्रो वेत्येवमार्दिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति । यू. (६५) ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए । वृ. तयेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च तेसर्वमिदं विमत्यधिकरणभावापनं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति Page #54 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः . ३ साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति दृष्टान्तोऽयं, यद्यसंस्थानविशेषवत्तत्तबुद्धिमत्कारणपूर्वकं दृष्ट, यथा देवकुलकूपादीनि, संस्थानविशेषवच्च मकराकरनदीधरा-धरधराशरीरकरणादिकंविवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवतीत्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकंधर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्योधर्म, कार्यत्वादघटादिवत्, तथा स्थित्वा प्रवृत्तेर्वा, वास्यादिवदिति । __ तथाऽपरे प्रतिपन्ना यथा-प्रधानादिकृतो लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच गणः षोडशक: तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानी'त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणास्वभावादिकं गृह्यते, ततश्चायमर्थस्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतोलोको मयूराङ्गरुहवदित्यादिभिकारणैः कृतोऽयंलोको 'जीवाजीवसमायुक्तो' जीवैःउपयोगलक्षणैः तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपिलोकं विशेषयितुमाह-सुखम् आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यांसमन्वितोयुक्त इति मू. (६६) सयंभुणा कडे लोए, इति वुत्तं महेसिणा। __ मारेण संधुया माया, तेण लोए असासए । वृ.किंच-‘सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः-विष्णुरन्यवा, सचैकएवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूदू 'इति' एवंमहर्षिणा 'उक्तम्' अभिहितम्, एवंवादिनो लोकस्य कर्तारमभ्युपगतवन्तः अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयीति मारो व्यधायि, तेन मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्यव्यापत्तिरस्ति, अतोमायैषा यथाऽयंमृतः, तथा चायं लोकः अशाश्वतः' अनित्यो विनाशीति गम्यते अपि च-- मू. (६७) माहणा समणा एगे, आह अंडकडे जगे। ___ असो तत्तमकासी य, अयाणंता मुसं वदे ॥ वृ. 'ब्राह्मणा' धिग्जातयः 'श्रमणाः' त्रिदण्डिप्रभृतयः ‘एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतंअण्डाज्जातमित्यर्थ, तथाहि तेवदन्ति-यदान किञ्चिदपि वस्त्वासीत्-पदार्थशून्योऽयंसंसारः तदा ब्रह्माऽप्स्वण्डमसृजत्, तस्माच्च क्रमेण वृद्धात्पश्चादिवधाभावमुपगतादूवधिोविभागोऽभूत्, तन्मध्ये च सर्वा प्रकृतयोऽभूवन्, एवं पृथिव्यतेजोवाय्वाकाशसमुद्रसरित्पर्वमकराकरनिवेशादिरांस्थितिरभूदिति, तथा चोक्तम् "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ।। एवंभूते चास्मिन् जगति 'असौ' ब्रह्मा, तस्य भावस्तत्त्वं-पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । तेच ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति Page #55 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/३/६७ अन्यथाचस्थितंतत्त्वमन्यथाप्रतिपादयन्तीत्यर्थ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाहमू. (६८) सएहिं परियाएहिं, लोयंबूया कडेति य । तत्तं तेन विजाणंति, न विनासी कयाइवि।। वृ. 'स्वकैः' स्वकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषःअयंलोकः कृत इत्येवम् 'अब्रूवन्' अभिहितवन्तः तद्यथा-देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तनिष्पादितमाययाम्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभिरुपत्तिभि प्रतिपादयन्तियथाऽस्मदुक्तमेव सत्यं नान्यदिति, तेचैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थं यथावस्थितलोकस्वभावं नाभि जानन्ति' नसम्यक्विवेचयन्ति, यथाऽयंलोको द्रव्यार्थतयान विनाशीतिनिर्मूलतः कदाचन, नचायमादितआरभ्यकेनचित् क्रियते, अपि त्वयंलोकोऽभूभवतिभविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसंगतम्, यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, नचाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति, अपि च - किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेत्तत्किं स्वतऽन्यतो वा?, यदि स्वत एवोत्पन्नस्तथा सति तल्लोकस्यापिस्वतएवोत्पत्ति किं नेष्यते?,अथान्यत उत्पन्नःसन्लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादित्वानोत्पन्न इत्युच्यते, इत्येवंसति लोकोऽप्यनादिरेवास्तु को दोषः?, किंच-असावनादि सनित्योऽनित्यो वास्यात्?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान कर्तृत्वम्, अथानित्यस्था सति स्वत एवोत्पत्त्यनन्तरं विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति?, तथा किममूर्तो मूर्तिमान् वा?, यद्यमूर्तस्तदाऽऽकाशवदकर्तव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति । देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमत्वादिति । तथा यदुक्तम् - ___'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं, कार्यत्वाद्, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्तयसिद्धेः, कारणपूर्वकत्वमात्रेण तुकार्यव्याप्तं, कार्यविशेषोपलब्धी कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैवभवति, नचात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत्युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, नत्वेवंसरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीत इति, नन्वत एवघटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्यबुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्यात् मृद्विकारत्वाद्वल्मीकस्यापि घटवत्कुम्भकाराकृति स्यात्, तथा चोक्तम् - “अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । ___घटादेः करणासिद्धयेद्वल्मीकस्यापि तत्कृति॥ इति, तदेवं यस्यैवसंस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव Page #56 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - ३ ५३ विशिष्टः कर्तोपलक्ष्यतेनेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति?, नैतदास्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानिरईष्टकल्पनास्यात्, तथा चोक्तम् ॥१॥ "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे। असंबद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते ? ।। तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच-देवकुलावटादीनां यः कर्ताससावयवोऽव्याप्यनित्यो ईटः, तदृष्टान्तरसाधितश्चेश्वर एवंभूतएव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्वयाप्तयसिधेर्नानुमानमिति, अनयैव दिशा स्थित्वाप्रवृत्त्यादिकमिपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमत्वादिति।यदपिचोक्तं प्रधानादिकृतोऽयंलोक' इति, तदप्यसंगतं, यतस्तप्रधानं किंमूर्तममूतंवा?, यद्यमूर्तं नततो मकराकरादेर्मूर्तस्योद्भवो घटते, नह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्ताभूर्तयोः कार्यकारमविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं ? न तावत्स्वतो लोकस्यापि तथोत्पत्ति प्रसङ्गात्, नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाधनादिभावेनाऽऽस्ते तल्लोकोऽपि किं नेष्यते?, अपिच-सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्याधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानन्महदादेरुत्पत्तिरिति, अपिच - अचेतनायाः प्रकृतेः कथं पुरुषार्थं प्रतिप्रवृत्ति? येनाऽऽत्मनो भोगोपपत्त्या सृष्टिस्यादिति, प्रकृतेरयं स्वभाव इतिचेदेवंतर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽप्यस्तु, किमदृष्टप्रधानादिकल्पनयेति? अथादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपगम्यमानो नः क्षतिमातनोति, तथाहि-स्वो भवः स्वभावःस्वकीयोत्पत्ति, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं नियतिकृतोऽयंलोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते, यच्चाभ्यधायि-'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्त भवति?, किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते ?, तद्यदि स्वतन्त्रभवनाभ्युपगमस्तलोकस्यापि भवनं किं नाभ्युपेयते ?, किं स्वयम्भुवा?, अथानादिस्ततस्तस्यानादित्वे नित्यत्वं, नित्यस्य चैकरूपत्वाकर्तत्वानुपपत्ति, तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्ति, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता, मूर्तामूर्तादिविकल्पाश्च प्राग्वदायोज्या इति । __ यदपि चात्राभिहितं-'तेन मारः समुत्पादि, स च लोकं व्यापादयति', तदप्यकर्तृत्वस्याभिहितत्वाप्रलापमात्रमिति। तथा यदुक्तम् 'अण्डादिक्रमजोऽयंलोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेषाभूवन तथा लोकोऽपि भूत इत्यभ्युपगमेन काचिद्बाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डसृजति तावल्लोकमेव कस्मान्नोत्पादयति?,किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ?, एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पम्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुरवादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः, तथाब्राह्मणानां कठतैत्तिरुयककलापादिकश्च भेदो न स्याद्, ___ Page #57 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/३/६८ एकस्मान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद्, भावे वा स्वादिग्रहणापत्ति स्याद्, एवमाद्यनेकदोषदुष्टत्वादेवं लोकोत्पत्ति भ्युपगन्तव्या। ततश्च स्थितमेतत्-त एवंवादिनोलोकस्यानाद्यपर्यवसितस्योवधिश्व तुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाघोलोकस्य स्थालाकारसंख्यद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्रकासरोव॑लोकस्य धर्माधर्माकाशपुद्गलजी-वात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्यापादितद्रव्यसतत्व- स्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तोमृषा वदन्तीति इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानित्वं प्रसाध्य तत्फलदिदर्शयित्वाऽऽहमू. (६९) अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवरं ।। वृ. मनोऽनुकूलं मनोज्ञं-शोभनमनुष्ठानं मनोज्ञममनोज्ञम्-असदनुष्ठानं तस्मादुत्पाद:प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्, एवकारोऽवधारणे, स चैवं संबन्धीयःअमनोज्ञसमुत्पादमेव दुःखमित्येवं विजानीयात्' अवगच्छेत्याज्ञः, एतदुक्तं भवतिस्वकृतासदनुष्ठानादेव दुःखस्योदभवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादे१खस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'कथं' केन प्रकारेण दुःखस्य संवरं दुःखप्रतिधातहेतुज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, तेचनिदानमेव नजानन्ति, तच्चाजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते?, यत्नवन्तोऽपिच नैवदुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एव जन्मजरामरणेष्टवियोगाद्यनेकदुःखबाताध्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाहमू. (७०) सुद्धे अपावए आया, इहमेगेसिमाहिये। पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई। वृ. 'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणिपूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यवस्थितानितेएवंवदन्ति-यथाऽयमात्मा 'शुद्धो' मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलको मोक्षे अपापको भवतिअपगताशेषकर्मा भवतीत्यर्थ, इदम् ‘एकेषां गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धत्वाकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा श्लिष्यते, इदमुक्तं भवति तस्य हि स्वशासनपूजामुपलभ्यान्यशासनपराभवंचोपलभ्य क्रीडोत्पद्यते-प्रमोदः संजायते, स्वशासनन्यक्कारदर्शनाच्च द्वेषः ततोऽसौ क्रीडाद्वेषाभ्यामनुगतान्तरात्माशनैः शनैर्निर्मलपटवदुपभुज्यमानोरजसामलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति, अस्यांचावस्थायां सकर्मकत्वात्तु तीयसश्यवस्थो भवति ।। Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - ३ मू. (७१) इह संवुडे मुनी जाए, पच्छा होइ अपावए। वियडंबु जहा भुजो, नीरयं सरयं तहा।। वृ. किंच-'इह' अस्मिन् मनुष्यभवे प्राप्तः सन्प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः सन्पश्चादपापो भवति-अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्चाल्य मुक्त्वस्थो भवति, पुनरपि स्वशासनपूजादर्शनान्निकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुवद्-उदकवन्नीरजस्कं सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्कं-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च - "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्वत्वच्छासनप्रतिहतेष्विह मोहराज्यम् इति -अधुनैतद्दूषयितुमाहमू. (७२) एतानुवीति मेघावी, बंभचेरेण ते वसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ।। वृ. 'एतान्' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेघावी' प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-ते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ‘ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरन्निति, तथाहि-तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धोभवति, एवं चावश्यंतद्दर्शनस्य पूजयातिरस्कारेण वोभयेन वाभाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः शुद्धयभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथावस्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्पात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः । तद्वशाच्च संसारावतरणमित्यर्थ, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यगज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरावादाख्यातारः-शोभनत्वेन प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥ मू. (७३) सए सए उवट्ठाणे, सिद्धिमेव न अन्नहा! ____ अहो इहेव वसवत्ती, सव्वकामसमप्पिए ।। वृ. पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह-ते कृतवादिनः शैवेकदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थान-स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादि तस्मिन्नेव सिद्धिम्' अशेषसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैव दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि वेदन्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुक्तवन्त इत्येवमन्येऽपियथास्वंदर्शनान्मोक्षमार्गप्रतिपादयन्तीति, अशेषद्वन्दोपरम्लक्षणायाः सिद्धिप्राप्तेरधस्तात्। Page #59 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/३/७३ प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्यसद्भावो भवतीति दर्शयति-आत्मवशे वर्तितुं शीलमस्येति वशवर्तीवशेन्द्रिय इत्युक्तं भवति, न ह्यसौ सांसारिकैः स्वभवैरभिम्यते, सर्वे कामा-अभिलाषा अर्पिताःसंपत्रा यस्य स सर्वाकामसमर्पितो, यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियात्, तथाहि-सिद्धेरारादष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति तद्यथा-अणिमालघिमामहिमाप्राकाम्यमीशित्वं वशित्वंप्रतिघातित्वंयत्रकामावसायित्वमिति। तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चावशेषद्वन्द्वोपरम-लक्षणा सिद्धिर्भवतीति दर्शयितुमाहमू. (७४) सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ।। वृ.येह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपांसिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागंकृत्वा सिद्धाश्च' अशेषद्वन्द्वरहिताअरोगाभवन्ति, अरोगग्रहणं चोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवम् ‘इह' अस्मिन् लोके सिद्धिविचारे वा ‘एकेषां' शैवादीनामिदम् ‘आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेवपुरस्कृत्य' मुक्तिमेवाङ्गीकृत्य ‘स्वकीये आशये' स्वदर्शनाभ्युपगमे ‘ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूलायुक्तीः प्रतिपादयन्ति, नराइव नराः-प्राकृतपुरुषाःशास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्ति प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्तीति, तथा चोक्तम् - ॥१॥ आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ।। मू. (७५) असंवुडा आदीयं, भमिहिंति पुणो पुणो। कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया ।। तिबेमि।वृ. साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिताअपि असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्पस्माकंलाभ इन्द्रिया०नुरोधेन सर्वविष-योपभोगादू, अमुत्रमुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्मपाशावशापि ताः पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि -- नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणासिद्धिरवाप्यते, याऽप्यणिमाघष्टगुणलक्षणैहिकी सिद्धिरभिधीयतेसाऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, ताऽपिचतेषांबालतपोऽनुष्ठानादिना स्वर्गावाप्ति साऽप्येवंप्राया भवतीति दर्शयति-'कल्पकालं' प्रभूतकालम् ‘उत्पद्यन्ते' संभवन्ति आसुराः- असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? - 'किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-१ उद्देशकः-३ समाप्तः Page #60 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - ४ ५७ -अध्ययनं-१ उद्देशक:-४:उक्तस्तृतीयोद्देशकः, अधुनाचतुर्थसमारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोद्देशके ऽध्ययनार्थत्वात्स्वपरसमयवक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशकेतीथिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (७६) एते जिया भो! न सरणं, बाला पंडियमानिनो। हिचा णं पुवसंजोगं, सिया किचोवएसगा। वृ. अस्य चानन्तरसूत्रेण सहायं सम्बन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसगैं, परम्परसूत्रसंबन्धस्त्वयम्-आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपिबुध्येत-यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गे कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते 'एत' इति पञ्चभूतैकात्मतज्जीवतच्छरीरादिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च भो' इति विनेयामन्त्रणम् एवं त्वं गृहाणयथैते तीथिका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवितुमर्हन्तिन किच्चित्त्रातुंसमर्था इत्यर्थ, किमित्येवं?,यतस्ते बालाइव बालाः, यथाशिशवः सदसद्विवेकवैकल्पाद्यत्किञ्चनकारिणोभाषिणश्च,तथैतेऽपिस्वयमज्ञाःसन्तःपरानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो 'जत्थ बालेऽवसीयइत्ति 'यत्र' अज्ञाने 'बालः' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्तेन कस्यचित्राणायेति। यच्च तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति - ___हित्वा' त्यक्त्वा,णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्वजनादिभि संयोगस्तं त्यक्त्वा किल वयंनिसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिताःबद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तंगच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया' इति आर्षत्वाद्बहुवचनेन व्याख्यायते 'स्यु' भवेयुः कृत्यं-कर्तव्यंसावद्यानुष्ठानंतप्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः-संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यथः- . मू. (७७) तंच भिक्खू परिन्नाय, वियं तेसुन मुच्छए। ___ अनुक्कस्से अप्पलीणे, मझेण मुनि जावए । वृ. एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-'त' पाखण्डिकलोकमसदुपदेशदानाभिरतं परिज्ञाय' सम्यवगम्ययथैते मिथ्यात्वोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हितायालं नान्यस्मै इत्येवं पर्यालोच्यभावभिक्षु संयतो विद्वान् विदितवेद्यः ते 'न मूर्छयेत्' न गायं विदध्यात्, न तैः सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थाना- नामन्य Page #61 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/४/७७ तमेनाप्युत्सेकमकुर्वन्तथा अप्रलीनः' असंबद्धस्तीर्थिकेषुगृहस्थेषुपार्श्वस्थादिषुवा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् ‘मुनि' जगत्रयवेदी 'यापयेद् आत्मानं वर्तयेत्, इदमुक्तं भवति-तीर्थकादिभि सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसां परिहरत मुनिनाऽऽत्मा यापयितव्य इति । किमिति ते तीर्थकास्त्राणाय न भवन्तीति दर्शयितुमाहमू. (७८) सपरिग्गहा य सारंभा, इहमेगेसिमाहियं। अपरिग्गहा अनारंभा, भिखू ताणं परिव्बए। वृ. सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूर्छावन्तः सपरिग्रहाः, तथा सहारम्भेणजीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजित्वात्सारम्भाः-तीर्थकादयः, सपरिग्रहारम्भकत्वेनैव च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह' परलोकचिन्तायाम् एकेषां केषाञ्चिद् 'आख्यातं' भाषितं, यथा किमनया शिरस्तुण्डमुण्डनादिकया क्रियया?, परं गुरोरनुग्राहत्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति। ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहाः' न विद्यते धर्मोपकरणाहते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, तेचैवंभूताः कर्मलधवः स्वयंयानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमस्तान् 'भिक्षु'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं' शरणं परि-समन्ताव्रजेद-गच्छेदिति । मू. (७९) कडेसु घासमेसेजा, विऊ दत्तेसणं चरे। अगिद्धो विष्पमुक्को अ, ओमाणं परिवजए। वृ.कथंपुनस्तेनापरिग्रहेणानारम्भेणचवर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थ ये निष्पादिता ओदनादयस्ते कृताउच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थ, अनेन च षोडशोद्गमदोषपरिहारः सूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः-आहारस्तमेवभूतम् अन्वेषयेत्' मृगयेत्याचेयेदित्यर्थ, तथा विद्वान्' संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यनिःश्रेयसबुद्धया दत्तमिति, अनेनषोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषहितेआहारेस भिक्षु एषणां ग्रहणैषणां चरेद्' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यं । तथा 'अगृद्धः' अनध्युपपन्नोऽमूर्छितस्तस्मिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैषणादोषाः पञ्च निरस्ता अवसेयाः,सएवम्भूतोभिक्षुपरेषामपमानं-परावमदर्शित्वं परिवर्जयेत्' परित्यजेत्, नतपोमदंज्ञानमदंच कुर्यादितिभावः। एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किञ्चुवमा य चउत्थे' इत्येतादादानी परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाहमू. (८०) लोगवायं निसामिञा, इहमेगेसिमाहिये। विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥ वृ. लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' श्रृणुयात् जानीयादित्यर्थ, तदेव दर्शयति-'इह' अस्मिन्संसारे एकेषां' Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं. १, उद्देशकः - ४ केषाञ्चिदिदम् ‘आख्यातम् अभ्युपगमः । तदेव विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति-अन्यैः-अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः। मू. (८१) अनंते निइए लोए, सासए न विणस्सती। अंतवं निइए लोए, इति धीरोऽतिपासइ ।। वृ. तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहिं-यो यागिह भवे स तागेव परभवेऽप्युत्पद्यते, पुरुषःपुरुषएवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निरवधिक इतियावत्,तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोकइति । तथा शश्वद्भवतीति शाश्वतोद्यणुकादिकार्यद्रव्या-पेक्षयाऽश्वद्भवन्नपिन कारणद्रव्यं परमाणुत्वं परित्यजतीति तथा न विनश्यतीति दिगात्माका-शाद्यपेक्षया।तथाऽन्तोऽस्यास्तीत्यन्तवान्लोकः, सप्तद्वीपावसुन्धरेतिपरिमाणोक्तेः, स च ताईकपरिमाणो नित्य इत्येवं "धीरः' कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका' इत्येवमादिकं नियुक्तिकं लोकवादं निशामयेदिति किंचमू. (८२) अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सव्वत्थ सपरिमाणं, इति धीरोऽतिपासई ।। वृ.न विद्यते परिमाणम्' इयत्ता क्षेत्रतः कालतोवा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत, एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्॥१॥ “सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। __ इति, ‘इह' अस्मिल्लोके एकेषां' सर्वज्ञापह्नववादिनाम् ‘ददमाख्यातम्' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालंचा परिच्छेद्यं कर्मतापन्नमाश्रित्यसह परिमाणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते ब्रुवते-दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः । मू. (८३) जे केइ तसापाणा, चिट्ठति अदु थावरा । परियाए अस्थि से अंजू, जेण ते तसथावरा ।। वृ.अस्यचोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः प्राणाः'प्राणिनः सत्त्वाः 'तिष्ठन्ति' सत्वमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यागस्मिन् जन्मनि मनुष्यादि सोऽन्यस्मिन्नपि जन्मनि तागेव भवतीति, ततः स्थावराणां त्रसानां च ताशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठा Page #63 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/४/८३ नादिकाः क्रियाः सर्वा अप्यनर्थिका आपघेरन् । लोकेनापि चान्यथात्वमुक्तं, तद्यथा _ “सवैएषशृगालोजायतेयः सपुरीषो दह्यते" तस्मात्स्थावरजङ्गमानांस्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति।तथा 'अनन्तोनितयश्चलोकः' इतियदभिहितं, तत्रेदमभिधीयतेयदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित्क्षति, अथानच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यतेतन्न घटते, तस्याध्यक्षबाधितत्वात् न हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति। तथाशश्वद्वनकार्यद्रव्यस्थाऽऽकाशात्मादेश्वाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति।। तथा यदुक्तम्-'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वा'दित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तदग्राहकप्रमाणाभावादिति। तथा यदप्युक्तम्-'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिस्ततत्कृतविशिष्टानुष्ठानात्?, तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगविराहादिभिव्यापता लोकाभवेयुः, तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वयेसत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता?, स्वकृतानुष्ठानंच निष्फलमापद्यतेत्येवं यत्किञ्चिदेतदिति। तथा 'श्वानोयक्षा इत्यादियुक्तिविरोधित्वादनाकर्णनीयमिति।यदपिचोक्तम्-'अपरिमाणं विजानाती'ति, तदपि न घटामियति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत्, तथाहितस्यकीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्वमेष्टव्यं । तथा यदुक्तं-'स्वापबोधविभागेनपरिमितंजानाती'त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति यदपि च कैश्चिदुच्यते-यथा 'ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशी विद्येते 'न कदाचिदनीद्दशं जगदि ति वचनात्। तदेवमनन्तादिकं लोकवादंपरिहत्यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयतिये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन तेत्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते असाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽप्नुवन्ति, नपुनर्योयागिह सताध्गेवामुत्रापि भवतीत्ययं नियम इति अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽहमू. (८४) उरालं जगतो जोग, विवजासं पलिंति य। सव्वे अकंतदुक्खा य, अओसव्वे अहिंसिता। वृ. 'उराल'मिति स्थूलमुदारं जगत' औदारिकजन्तुग्रामस्य 'योग' व्यापारंचेष्टामवस्थाविशेषमित्यर्थ, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् Page #64 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः - ४ - ६१ 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेर्बालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्याक् प्राक् तागेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । अपि च 'सर्वे' जन्तव आक्रान्ता-अभिभूता दुःखेन शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते, अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयं । यदिवा-सर्वेऽपिजन्तवः ‘अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्त दुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथात्वदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥ एवं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ।। मू. (८५) वृ. किमर्थं सत्त्वान् न हिंस्यादित्याह - खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं ' न्याय्यं यत् कञ्चन प्राणिजातं स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत्, तेन न मृषा ब्रूयान्नादत्तं गृह्णीयान्नाब्रह्माऽऽ सेवेत न परिग्रहं परिगृह्णीयान्न नक्तं भुञ्जीतेत्येज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्विजानीयात्, यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादि न विधेयमेवेति एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आहमू. (८६) वुसिए य विगयगेही, आयाणं सरक्खए । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ।। बृ. विविधम्- अनेकप्रकारमुषितः - स्थितो दशविधचक्रवालसामाचार्यां व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धि साधुः, एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत्, यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति 'चर्यासनशय्यासु' चरणं चर्या - गमनं, साधुना हि सति प्रयोजने युगमात्रष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं, तथा शय्यायां वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोषरहितमन्वेषणीयमिति । मू. (८७) एतेहिं तिहिं ठाणेहिं, संजए सततं मुनी । उक्कसं जलणं नूमं, मज्झत्थं च विगिंचए । वृ. पुनरपि चारित्रशुध्धर्थं गुणानधिकृत्याह - एतानि - अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा- ईर्यासमितिरित्येकं स्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानं, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानांर्थ च प्रविष्टस्य भाषण - संभवा भाषासमिति- राक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापना Page #65 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१/४/८७ समितिरप्यायातेत्येतच्च तृतीयं स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा 'सततम्' अनवरतम् 'मुनि' सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षो-मानः ।, तथाऽऽत्मानं चारित्रं वा ज्वलयति दहतीति ज्वलनः क्रोधः, तथा 'नूम' मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये - अन्तर्भवतीति मध्यस्थो - लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायांस्तद्विपाकाभिज्ञो मुनि सदा 'विगिंचए 'त्ति विवेचयेद्- आत्मनः पृथक्कुर्यादित्यर्थ । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपक श्रेण्यामारुढो भगवान् क्रोधादीनेव संज्चलनान क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुल्लङ्घयादौ मानस्योपन्यास इति ?, अत्रोच्यते, माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति । पू. (८८) ६२ समिए उ सया साहु, पंचसंवरसंवुडे । सिएहि असिए भिक्खू, आमोक्खाय परिव्वएज्जासि । त्तिबेमि ॥ वृ. तदेवं मूलगुणानुत्तरगुणाँश्चोपदर्थ्याधुना सर्वोपसंहारार्थमाह- तुरवधारणे, पचिभिः समितिभि समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः । तथा गृहपाशादिषु सिता बद्धाः अवसक्ता गृहस्थास्तेष्वसितःअनवबद्धस्तेषुमूर्च्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिह्यमानो भिक्षुः- भिक्षणशीलो भावभिक्षु : 'आमोक्षाय' अशेषकर्मापगलक्षणमोक्षार्थ परि-समन्तात् व्रजेः- संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः इति अध्ययनसमाप्तौ ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि न स्वमनीषिकयेति । 119 11 I अध्ययनं -१ उद्देशकः-४ समाप्तः - गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः । “सव्वेसिंपि नयाणं बहुविधवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरगुणट्ठिओ साहु ॥ अध्ययनं -१ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य प्रथम अध्ययन टीका परिसमाप्ता । अध्ययन-२ वैतालिय " बृ. उक्तं समयाख्यं प्रथममध्ययनं साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने स्वसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि । तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि 'नांऊण बुज्झणा चेवे' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति, Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः - नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [३६] वेयालियंमि वेयालगो य वेयालणं वियालणियं । तिन्निवि चउक्कगाइं वियालओ एत्थ पुण जीवो ।। वृ. तत्र प्राकृतशैल्या वेयालियमिति ४ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्त्रयं सन्निहितं, तद्यथा -- कर्ता करणं कर्म चेति, अतस्तदर्शयति-विदारको विदारणं विदारणीयंच, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि, अत्रचनामस्थापने क्षुण्णे, द्रव्यविदारकोयो हिद्रव्यंकाष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः, साधुरिति करणमधिकृत्याऽऽहनि. [३७] दव्वं च परसुमादी दंसणणाणतवसंजमा भावे। दव्वं च दारुगादी भावे कम्मं वियालणियं॥ वृ. नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं भवति, विदारणीयंतुनामस्थापने अनाध्त्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति । साम्प्रतं ‘वेतालिय'मित्येतस्य निरुक्तं दर्शयितुमाह-- नि. [३८] वेयालियं इह देसियंति वेयालियं तओ होइ । वेयालियं तहा वित्तमस्थि तनेव य निबद्धं ॥ वृ. इहाध्ययनेऽनेकधाकर्मणांविदारणमभिहितमितिकृत्वैतदध्ययनं निरुक्तिवशाद्विदारक ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं-वैतालीयंछन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयं, तस्य चेदं लक्षणम्॥१॥ वैतालीयं लगनैधनाः षडयूक्तादेऽटौ समे च लः। न समोऽत्र परेण युज्यते नेतः षट्च निरन्तरा युजोः॥ __ -साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाहनि. [३९] कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं । ___ अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया॥ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्त्पन्नदिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्त्तिनोपहतरष्टनवतिभि पुत्रैः पृटेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामङ्गारदाहकदृष्टान्तं प्रदर्श्वन कथञ्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययन 'कथितं' प्रतिपादितं। तऽप्येतच्छ्रुत्वा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निसारतां च ज्ञात्वा मत्तकरिकर्णवञ्चंपतमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाज्ञैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति । अत्र ‘उद्देसे निद्देसे य' इत्यादि सर्वोऽप्युपोद्घातो भणनीयः । साम्प्रतं उद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाहनि. [४०] पढमे संबोहो अनिच्चया य वीयंमि मानवजणया । अहिगारो पुण भणिओ तहा तहा वहुविहो तत्थ ।। Page #67 -------------------------------------------------------------------------- ________________ ६४ सूत्रकृताङ्ग सूत्रम् १/२/-/ नि. [४१] नि. [४१] उद्देसंमि यतइए अन्नाणचियस्स अवचओ भणिओ। वज्जेयव्यो य सया सुहप्पमाओ जइजणेणं ।। वृ. तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशकेमानोवर्जनीय इत्ययमाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति,। तृतीयोद्देशके अज्ञानोपचितस्य कर्ममोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन चसुखप्रमादोवर्जनीयः सदेति। साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम् -अध्ययनं-२ उद्देशक:-१:मू. (८९) संबुज्झह किं न बुज्झह?, संबोही खलु पेच दुलहा। नो हूवणमंति राइओ, नो सुलभं पुनरावि जीवियं ।। वृ.तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवासुरासुरनरोगतिरश्चः समुद्दिश्य प्रोवाच यथा-'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म तत्रापि कर्मभूमि पुनरार्यदेशः सुकुलोत्पत्ति सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्त्यवष्टम्भेनाह - 'किनबुध्यध्व' मिति, अवश्यमेवंविधसामग्यवाप्तौसत्यांसकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः, तथाहि “निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुंयुज्यते। वैडूर्यादिमहोपलौधनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥ अकृतधर्मचरणानां तु प्राणिनां ‘संबोधिः' सम्यगदर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दस्यावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपिकालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः ‘उपनमन्ति' पुनकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्तत इतिभावः, तथाहि । ॥१॥ "भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे?। न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥ 'नो' नैव संसारे 'सुलभं' सुप्रापं संयमप्रधानं जीवितं, यदिवा-जीवितम्-आयुस्त्रुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थ । संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्द्धानिक्षेपः, तत्र नामस्थापने अनाद्दत्यद्रव्यभावनिक्षेपंप्रतिपादयितुं नियुक्तिकृदाहनि. [४२] दव्वं निद्दावेओ दंसणनाणतवसंजमा भावे। __अहिगारो पुण मणिओ नाणे तवदंसणचरित्ते॥ इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोर्ग्रहणंद्रष्टव्यं, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय ना Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययन- २, उद्देशकः - १ ६५ इतियावत्, भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो द्रव्यिनिद्रया सुप्तस्य बोधनं, भावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावग्रवोधेनाधिकारः, सचगाथापश्चार्टेन सुगमेन प्रदर्शितइति।अत्रच निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारोभङ्गा योजनीया इति । मू. (९०) डहरा बुड्ढा य पासह गब्भत्था वि चयंति मानवा । सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई ॥ वृ. भगवानेव सर्वसंसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाह-'डहराः' बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते? -'मानवा' मनुष्याः, तेषामेवोपदेशदानार्हत्वात् मानवग्रहणं, बह्वपायत्वादायुषः सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि - त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीति, अपिच"गर्भस्थं जायमान" मित्यादि । अत्रैव दृष्टान्तमाह-यथा 'श्येनः' पक्षिविशेषो 'वर्तकं तित्तिरजातीयं 'हरेत्' व्यापादयेद्, एवं प्राणिनः प्राणान् मृत्युरपहरेत्, उपक्रमकारणमायुष्कमुपक्रामेत्, तदभावे वा आयुष्यक्षये 'त्रुट्यति' व्यवच्छिद्यते जीवानां जीवितमिति शेषः तथामू. (९१) मायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेचओ। एयाई भयाइं पेहिया, आरम्भा विरमेज सुब्बए ।। वृ. कश्चिन्मातापितृभ्यां मोहेन स्वजनस्नेहेन च न धर्म प्रत्युद्यमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राभ्यते, तथाहि - ॥१॥ “विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् । स्नेहमयमसुमतामदः किं बन्धनं श्रृङ्खलं खलेन धात्रा ? ॥ तस्य च स्नेहाकुलिज्ञानसस्य सदसद्विवेकविकलस्य स्वजनपोषणार्थ यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थक्लिश्यतोविषयसुखेप्सोश्चदुर्गतिरेव भवतीत्युक्तंभवति, तदेवमेतानि भयानि' भयकारणानि दुर्गतिगमनादीनि पहिय'त्ति प्रेक्ष्य ‘आरम्भात्' सावधानुष्ठानरूपाद्विरमेत् ‘सुव्रतः' शोभनव्रतः सन्, सुस्थितो वेति पाठान्तरम् । मू. (९२) जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो । सयमेव कडेहिं गाहइ, नो तस्स मुच्चेजऽपुट्ठयं । वृ.अनिवृत्तस्य दोषमाह-'यद्' यस्मादनिवृत्तानामिदं भवति, किं तत्? - 'जगति' पृथिव्यां 'पुढो'त्ति पृथगभूता-व्यवस्थिताः सावधनुष्ठानोपचितैः ‘कर्मभि' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषुभ्राभ्यन्ते, स्वयमेव च कृतैः कर्मभिः, नईश्वराद्यापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते-उपचिनोति,। अनेन चहेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः' अच्छुप्तो मुच्यते जन्तुः, कर्मणामुदयमननुभूयतपोविशेषमन्तरेणदीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः अधुना सर्वस्थानानित्यतां दर्शयितुमाह Page #69 -------------------------------------------------------------------------- ________________ ६६ सूत्रकृताङ्ग सूत्रम् १/२/१/९३ मू. (९३) देवां गंधव्वरक्खसा, असुरा भूमिचरा सरिसिवा । __राया नरसेहिमाहणा, ठाणा तेऽवि चयंति दुखिया ।। वृ. देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणत्वादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, येचान्ये भूमिचराः सरीसृपाद्याः तिर्यञ्चः, तथा 'राजानः' चक्रवर्तिनो बलदेववासुदेवप्रभृतयः । तथा 'नराः' सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिनां प्राणपरित्यागे महद्दुखं समुत्पद्यत इति । मू. (९४) कामेहि न संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधनच्छुए, एवं आउखयंमि तुट्टती ।। ६. किञ्च-'कामेहिं' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा संस्तवैः' पूर्वापरभूतैः 'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह त्ति कर्मविपाकसहिष्णवः 'कालेन' कर्मविपाककालेन ‘जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विपयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्ति, तथाहि॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषय तृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् न च मुभूर्षो कामैः संस्तवैश्च त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात्' वृन्तात् च्युतम् अत्राणमवश्यंपतति, एवमसावपि स्वायुपः क्षये त्रुट्यति' जीवितातच्यवतइति । अपिचमू. (९५) जे यावि बहुस्सुए सिया, धम्मिय माहणभिक्खुए सिया। अभिनूमकडेहिं मुच्छिए, तिळ ते कम्मेहिं किच्चती । वृ.ये चापि 'बहुश्रुताः' शास्त्रार्थपारगाः तथा धार्मिका' धर्माचरणशीलाः, तथा ब्राह्मणाः तथा भिक्षुका'भिक्षाटनशीलाः 'स्यु' भवेयुः, तेऽप्याभिमुख्येन ‘णूम'न्ति कर्म माया वा तत्कृतैः असनुष्ठानैः 'मूर्छिताः' गृद्धाः 'तीव्रम्' अत्यर्थं, अत्रच छान्दसत्वाद्वहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभि' सद्वेद्यादिभि ‘कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत् ।। मू. (१६) अह पास विवेगमुहिए, अवितिने इह भासई धुवं । नाहिसि आरंकओ परं, वेहासे कम्मेहिं किच्चती ।। वृ. साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेम नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे'त्यधिकारान्तरे बहादेशे एकादेश इति, 'अथे' त्वनन्तरं एतञ्च ‘पश्य' कश्चित्तीर्थिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारस्याऽऽश्रित्यउत्थितः प्रव्रज्योत्थानेन, सच सम्यकपरिज्ञानाभावादवितीर्ण संसारसमुद्रं तितीर्घ, केवलम् ‘इह' संसारे प्रस्तावे वा शाश्वतत्वात् 'ध्रुवो' मोक्षस्तं तदुपायं वा संयम भाषत एवन पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः। तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतोवा 'परं' परलोकं यदिवा-आर मिति गृहस्थत्वं, परमिति प्रव्रज्यापर्यायं, अथवा-आरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, वेहासि'त्ति अन्तराले उभयाभावतः स्वकृतैः कर्मभि ‘कृत्यते पीड्यत इति Page #70 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - १ ६७ ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाच, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशङ्कयाहमू. (९७) जइ वि य निगणे किसे चरे, जइविय भुंजिय मासमंतसो। जे इमायाइ मिजई, आगंता गब्भाय नंतसो।।। वृ. यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः त्वक्त्राणाभावाच्च कृशः 'चरेत्' स्वकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपोविशेषं विधत्तेयावद् अन्तशोमासंस्थित्वा ‘भुङ्के' तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति- 'यः' तीर्थिक इहमायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा-समन्तात् 'गन्ता' यास्यति अनन्तशो निरवधिकंकालमिति, एतदुक्तं भवति-अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ मू. (९८) पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ।। वृ. यतो मिथ्यादृष्टयुपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशंदातुमाह- 'पुरिसो' इत्यादि, हे पुरुष! येन ‘पापेन कर्मणा' असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् ‘उपरम' निवर्तस्व, यतःपुरुषाणां जीवितं सुबलपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः-मध्ये वर्त्तते तदप्यूनां पूर्वकोटिमितियावत्, अथवा परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमित्यर्थः । __ यश्चैवं तद्गतमेवागन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपङ्के अवसन्ना-मग्ना 'इह' मनुष्यभवे संसारे वा कामेषु-इच्छामदनरूपेषु मूर्छिता अध्युपपन्नाः ते नरा मोहंयान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति - एवं च स्थिते यद्विधेयं तदर्शयितुमाहमू. (९९) जययं विहराहि जोगवं, अनुपाणा पंथा दुरुत्तरा। अनुसासणमेव पक्कमे, वीरेहि संमं पवेइयं ।। __स्वल्पं जीवितमवगम्य विषयांश्च क्लेशपायानवबुद्धय छित्त्वागृहपाशबन्धनं यतमानः' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति-'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणवः-सूक्ष्माः प्राणाः-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, । अनेन ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थत्वात् अन्यास्वपिसमितिषुसततोपयुक्तेन भवितव्यम्, अपिच 'अनुशासनमेव यथागममेव सूत्रानुसारेण संयमप्रति क्रामेत्, एतञ्च सर्वैरेव 'वीरैः' अर्हद्भि सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति मू. (१००) विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा। पाणे न हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा ।। Page #71 -------------------------------------------------------------------------- ________________ ६८ सूत्रकृताङ्ग सूत्रम् १/२/१/१०० वृ.अथ क एते वीरा इत्याह-विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषण कर्म प्रेरयन्तीति वीराः सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताश्च 'क्रोधकातरिकादिपीषणाः तत्रक्रोधग्रहणान्मानो गृहीतः, कातरिका-माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः । ___ तत्पीषणाः-तदपनेतारः, तथा 'प्राणिनो' जीवान् सूक्ष्मेतरभेदभिन्नान् ‘सर्वशो' मनोवाकायकर्मभिः 'नघ्नन्ति' न व्यापादयन्ति, पापाच्च' सर्वतः सावद्यानुष्ठानरूपाद्विरताः-निवृत्तास्तश्च 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनित्ता इव अभिनिर्वृत्ताः-मुक्ता इव द्रष्टव्या इति पुनरप्युपदेशान्तरमाहमू. (१०१) नविता अहमेव लुप्पए, लुपंती लोअसि पाणिणो । एवं सहिएहिं पासए अनिहे से पुढे अहियासए। वृ.परीषहोपसर्गाएतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीड्ये अपि त्वन्येऽपि 'प्राणिनः' तथाविधास्तिर्यङमनुष्याः अस्मिल्लोके 'लुप्यन्ते' अतिदुःसहैवुखैः परिताप्यन्ते, तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफलमस्ति, यतः-- ॥१॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः॥ तदेवं क्लेशादिसहनं सद्विवेकिनां संयमाभ्युपगमे सति गुणायैवेति, तथाहि॥१॥ कार्य क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले। एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे । ___ दोषाश्चापि गुणा भवन्तिः हि नृणां योग्ये पदे योजिताः ।। एवं सहितो ज्ञानादिभि स्वहितो वा आत्महितः सन् ‘पश्येत्' कुशाग्रीयया बुद्धया •पर्यालोचयेदनन्तरोदितं, तथा निहन्यत इति निहः न निहोऽनिहः-क्रोधादिभिरपीडितः सन्स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् ‘अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वाऽनिगूहितबलवीर्यः, शेषं पूर्ववदिति ।। मू. (१०२) धुणिया कुलियं व लेववं, किसए देहमणासणा इह । अविहंसामेव पव्वए, अणुधम्मो मुनिना पवेदितो ।। वृ.अपिच 'धुणिया' इत्यादि, 'धूत्वा' विधूय 'कुलियं' कडणकृतंकुड्यं लेपवत्' सलेप, अयमत्रार्थ-यथा कुड्यं गोमयादिलेपेन सलेपं जाधट्टयमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्दे ‘कर्शयेत्' अपचितमांसशोणितं विदध्यात्, तदपचयाच्च कर्मणोऽपचयोभवतीति भावः । तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थ, अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मअसावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो ‘मुनिना' सर्वज्ञेन 'प्रवेदितः' कथित इति किञ्च - Page #72 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - १ मू. (१०३) सउणी जह पंसुगुंडिया, विहुणिय धंसयई सियं रयं । एवं दविओवहाणवं, कम्मंखवइ तवस्सिमाहणे ।। वृ. 'शकुनिका' पक्षिणी यथा पांसुना' रजसा 'अवगुण्ठिता' खचिता सतीअङ्गं 'विधूय' कम्पयित्वातद्रजः 'सितम्' अवबद्धंसत् 'ध्वंसयति' अपनयति,एवं 'द्रव्यो' भव्योमुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्- अनशनादिकं तपः तदस्यास्तीत्युपधानवान्, स चैवम्भूतः 'कर्म' ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः ‘माहण'त्ति मा वीरितिप्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ।। मू. (१०४) उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं । डहरा वुड्ढाय पत्थए, अवि सुस्से न यतं लभेज नो ।। वृ. अनुकूलोपसर्गमाह-'उट्ठियेत्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमास्थानाध्यासिनं 'तपस्विनं' विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् ‘डहरा' पुत्रनप्तादयः ‘वृद्धाः' पितृमातुलादयः उनिष्क्रामयितुं प्रार्थयेयुः' याचेरन्। तएवमूचुः-भवता वयंप्रतिपाल्या न त्वामन्तरेणास्माकं कश्चिदस्ति त्वं वाऽस्माकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्तेजना अपि 'शुष्येयुः' श्रमंगच्छेयुः,नचतं साधुं विदितपरमार्थं 'लभेरन्' नैवाऽऽत्मसात्कुर्यु-नैवाऽऽत्मवशगं विदध्युरिति । किञ्चमू. (१०५) जइ कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा। दवियं भिक्खू समुट्ठिये, नो लब्भंति न संठवित्तए । वृ. यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचारयनुष्ठानानि वा कुर्यु, तथाहि॥१॥ "नाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवणंमि। तुह विरहम्मि य निक्किव! सुण्णं सव्वंपि पडिहाइ ।। ॥२॥ सेणी गामो गोठ्ठी गणो व तं जत्थ होसि संनिहितो। दिप्पइ सिरिए सुपुरिस ! किं पुण निययं घरदारं? ॥ तथा यदि ‘रोयंति य' त्ति रुदन्ति ‘पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुर्हसीति । एवं रुदन्तो यदि भणन्ति तंभिक्षुरागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यकसंयमोत्थानेनोत्थितं तथाऽपि साधुं 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ मू. (१०६) जइविय कामेहि लाविया, जइ नेजाहि न बंधिष्ठं धरं। जइ जीविय नावकंखए, नो लब्भंति न संठवित्तए। वृ. अपिच-'जइवि' इत्यादि, यद्यपि ते निजास्तं साधुं संयमोत्थानेनोत्थितं ‘कामैः' इच्छामदनरूपैः ‘लावयन्ति' उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थ, अनेनानुकूलोपसर्गग्रहणं, तथा यदि नयेयुर्बध्ध्वा गृह, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसर्गेरभिद्रुतोऽपि साधुः'यदि जीवितं लनाभिकासत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् Page #73 -------------------------------------------------------------------------- ________________ ७० सूत्रकृताङ्ग सूत्रम् १/२/१/१०६ ततस्ते निजास्तं साधुं 'णो लब्धंति 'त्ति न भन्ते न प्राप्नुवन्ति आत्मसात्कर्तुं 'णनसंठवित्तए 'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति । किञ्च मू. (१०७) सेहंति य णं ममाइणो, माय पिया य सुया य भारिया । पोसाहि न पासओ तुमं, लोग परंपि जहासि पोसणो ॥ वृ. ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं 'सेहंति' त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे- 'ममाइणो' त्ति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' अस्मानत्यन्तदुःखितांस्त्वदर्थ पोषकाभावाद्वा, त्वं च यथावस्थितार्थपश्यकः सूक्ष्मदर्शी, सश्रुतिक इत्यर्थ अतः 'नः 'अस्मान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालनपरित्यागेन च परलोकमपि त्वं त्यजसि इति दुःखितानिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि 119 11 'या गति क्लेशदग्धानां गृहेषु गृहमेविनाम् । विभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक ! ॥ अन्ने अन्नेहिं मुच्छिया, मोहं जंति नरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ॥ भू. (१०८) .वृ. एवं तैरुपसर्गिताः केचन कातराः कदाचिदेतत्कुर्युरित्याह- 'अत्रे' इत्यादि, 'अन्ये' केचनात्पसत्त्वाः 'अन्यैः' मातापित्रादिभिः 'मूर्च्छिता' अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः । 'मोहं वान्ति' सदनुष्ठाने मुह्यन्ति, तथा संसारगमनैकहेतुभूतत्वात् 'विषमः' असंयमस्तं 'विषमैः' असंयतैरुन्मार्गप्रवृत्तत्वेनापायभीरुभिः रागद्वैषैर्वा अनादिभवाभ्यस्ततया दुशच्छेद्यत्वेन विषमैः ग्राहिता - असंयमं प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभि पुनरपि प्रवृत्ताः 'प्रगल्पिताः' धुष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त इति यत एवं ततः किं कर्तव्यमित्याहमू. (१०९) तम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिनिव्वुडे । पणए वीरं महाविहिं, सिद्धिपहं ने आज्यं धुवं ॥ वृ. यत्तो मातापित्रादिमूर्च्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यःमुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षस्व' तद्विपाकं पर्यालोचय 'पण्डितः' सद्विवेकयुक्तः 'पापात् ' कर्मणोऽसदनुष्ठानरूपात् 'विरतः' निवृत्तः क्रोधादिपरित्यागाच्छान्तीभूत इत्यर्थ तथा 'प्रणताः प्रहीभूताः 'वीराः' कर्मविदारणसमर्था 'महावीथिं' महामार्ग, तमेव विशिनष्टि‘सिद्धिपथं' ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेतारं' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य सएव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति । मू. (११०) वेयालियमग्गमागओ, मणवयसाकायेण संवुडो । चिच्द्या वित्तं च नायओ, आरंभं च सुसंवुडे चरे ।। तिबेमि वृ. पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह 'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग मागतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनः ‘त्यक्त्वा' परित्यज्य 'वित्तं' द्रव्यं तथा 'ज्ञातींश्च' स्वजनांश्च तथा सावद्यारम्भं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् । अध्ययनं -२ उद्देशकः-१ समाप्तः Page #74 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक :- २ -- -: अध्ययनं-२ उद्देशकः-२ प्रथमानन्तरं द्वितीयः समारभ्यते - अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापि सैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह साबन्धोऽयम्-अनन्तरोक्तसूत्रे वाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रंमू. (999) तयसं व जहाइ से रयं, इति संखाय मुनी न मज्जई । गोयन्त्रतरेण माहण, अहसेयकरी अनेसी इंखिणी ।। बृ. यथा उरगः स्वां त्वचं अवश्यं परित्यागार्हत्वात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजः- अष्टप्रकारं कर्म तदकषायित्वेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति 'संख्याय' ज्ञात्वा 'मुनि' कालत्रयवेदी 'नमाद्यति' मदं न याति मदकारणं दर्शयति 'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण' त्ति साधुः, पाठान्तरं वा 'जे विउ 'त्ति यो विद्वान् विवेकी स जातिकुललाभादिभिः न माद्यतीति, केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- 'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि 'त्ति निन्दा अन्येषामतो न कार्येति, 'मुनी न मज्जइ' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन निर्युक्तिकृदाह न नि. [४३] तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं ॥ नि. [४४] जइ ताव निज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । अविसेसमयट्टाणा परिहरियव्वा पयत्तेणं ।। 'वेयालियरस निजुत्ती सम्मत्ता' तपः संयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम् उत्सेकार्थं यः प्रवृत्तो मानः यद्यसावपि तावद् वर्जितः त्यक्तो 'महर्षिभिः ' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावन्निर्जरामदोऽपि मोक्षैकगमनहेतुः प्रतिषिद्धः 'अष्टमामधनैः ' अर्हमिरवशेषाणि तु 'मदस्थानानि' जात्यादीनि 'प्रयलेन' सुतरां परिहर्तव्यानीति गाधाद्वयार्थः मू. (११२) जो परिभवइ परं जणं, संसारे परिवत्तई महं । अदु इंखिणिया उपाविया, इति संखाय मुनी न भज्जई || वृ. साम्प्रतं परनिन्दादोषमधिकृत्याह- 'जो परिभवइ' इत्यादि, यः कश्चिदविवेकी 'परिभवति' अवज्ञयति, 'परंजनं' अन्यं लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते' भ्रमति 'महद्' अत्यर्थं महान्तं वा कालं, क्वचित् 'चिरम्' इति पाठः, 'अदु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थत्वात् । ७१ 'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुधरो ध्यन्तः, परलोकेऽपि पुरोहितस्यापि श्वादिषूत्पत्तिरिति, इत्येवं 'संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति मदाभावे च यद्विधेयं तद्दर्शयितुमाह Page #75 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/२/२/११३ मू. (११३) जे याविअनायगे सिया, जेविय पेसगपेसए सिया। ___से मोनपयं उवहिए, नो लज्ने समयं सया यरे ।। वृ. यश्चापि कश्चिदास्तांतावत् अन्योनविद्यतेनायकोऽस्येत्यनायकः-स्वयंप्रभुश्चक्रवर्यादि 'स्यात्' भवेत, यश्चापि प्रेष्यस्यापि प्रेष्यः-तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते-गम्यते मोक्षो येने तत्पदं-संयमस्तम् उप-सामीप्येन स्थितः उपस्थितः-समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वा क्रियाः-परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते-- इदमुक्तं भवति-चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं समता' समभावं सदा भिक्षुश्चरेत्-संयमोधुक्तो भवेदिति मू. (११४) सम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए। जे आवकहा समाहिए, दविए कालमकासि पंडिए। वृ. क्व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह- ‘समे'ति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि-सम्यकशुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्व लज्जामदपरित्यागेन समानमना वा ‘परिव्रजेत्' संयमोधुक्तो भवेत्, स्यात्-कियन्तं कालम् ? यावत् कथा-देवदत्तो यज्ञदत्तइति कथां यावत्, सम्यगाहित आत्मा ज्ञानादौ येन स समाहितःसमाधिना वा-शोभनाध्यवसायेन युक्तः, द्रव्यभूतो-रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः' सदसद्विवेककलितः, एतदुक्तं भवति-देवदत्त इति कथा मृतस्यापि भवति अतो यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् किमालम्ब्यैतद्विधेयमिति, उच्यतेमू. (११५) दूरं अनुपस्सिया मुनी, तीतं धम्ममनागयंतहा। पुढे परुसेहि माहणे, अवि हण्णू समयमि रीयइ ।। __ वृ. दूरवर्तित्वात् दूरो-मोक्षस्तमनु-पश्चात्तं दृष्ट्वा यदिवा-दूरमितिदीर्घकालम् ‘अनुद्दश्य' पर्यालोच्य 'मुनिः' कालत्रयवेत्ता दूरमेव दर्शयति-अतीतं 'धर्म' स्वभावं-जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा “स्पृष्टः' छुप्तः ‘परुषैः' दण्डकशादिभिर्वाग्भिर्वा माहणे'त्ति मुनि अवि हण्णू'त्ति अपि मार्यमाणः स्कन्दकशिष्यगणवत् ‘समये' संयमे ‘रीयते' तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए'त्ति समतया सहत इति । मू. (११६) पन्नसमत्ते सया जए, समता धम्ममुदाहरे मुनी। सुहमे उसया अलूसए, नो कुझे नो माणि माहणे ॥ वृ. पुनप्युपदेशान्तरमाह-प्रज्ञायां समाप्तःप्रज्ञासमाप्तः-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमत्थे' प्रश्नविषये प्रत्युत्तरदानसमर्थ सदा सर्वकालं जयेत्, जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् ‘उदाहरेत् कथयेत् ‘मुनि' यति सूक्ष्मे तु-संयमे यत्कर्तव्यं तस्य ‘अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येनापि 'मानी' गर्वितः स्यात् ‘माहणो' यतिरिति । अपिच Page #76 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः - २ मू. (११७) ७३ बहुजणणमणमि संवुडो, सव्वट्ठेहिंनरे अनिस्सिए । हरए व सया अनाविले, धम्मं पादुरकासि कासवं ॥ 1 , बृ. बहून् जनान् आत्मानं प्रति नामयति-प्रह्णीकरोति तैर्वा नम्यते - स्तूयते बहुजननमनोधर्म, स एव बहुभिर्जनैरात्मीयात्मीयाशयेन यथाऽभ्युपगमप्रशंसया स्तूयते प्रशस्यते, कथम् ?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः कदाचिदसौ चतुर्विधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाञ्चक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत्, तद्यथा इह लोके धार्मिकाः बहवः उताधार्मिका इति ?, तत्र समस्तपर्षदाऽभिहितम्यथाऽत्राधार्मिका बहवो लोका धर्मं तु शतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकण्यार्भयकुमारेणोक्तं यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियतां, पर्षदाऽप्यभिहितम् - एवमस्तु, ततोऽ भयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा-यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतवलि प्रविशतु, इत्तरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः ? इत्येवं पृष्टः कश्चिदाचष्टे - यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्त्वाह यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति-यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्भेव, तावत् श्वपाकोऽपीदमाहयथाऽहं कुल क्रमागतं धर्ममनुपालयामीति मन्निश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं तच किमधर्माचरणं भवदुम्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्था, अस्माभिस्तु - 'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । 119 11 कृत्वा निवृत्तिं मद्यस्य, सम्यक् साऽपि न पालिता ॥ अनेनव्रतभङ्गेन, मन्यमाना अधार्मिकम् । ॥२॥ ॥४॥ अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ।। (तथहि) ॥ ३ ॥ 'लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि मग्नं चिरसंचितव्रतम् । वरं हि मृत्यु सुविशुद्धचेतसो, नचापि शीलस्खलितस्य जीवितम् ॥ इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृत्वा बहुजननमनो धर्म इति स्थितं, तस्मिंश्च ‘संवृतः' समाहितः सन् 'नरः' पुमान् सर्वार्थबाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वादिभि ‘अनिश्रितः’ अप्रतिबद्धः सन् धर्मं प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह-हृद इव स्वच्छाम्भसा भृतः सदा ‘अनाविलः' अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोऽकलुषोचा क्षान्त्यादिलक्षणं धर्मं 'प्रादुरकार्षीत्' प्रकटं कृतवान्, यदिवा एवंविशिष्ट एव काश्यपं तीर्थङ्करसंबन्धिनं Page #77 -------------------------------------------------------------------------- ________________ ७४ धर्मं प्रकाशयेत्, छान्दसत्वात् वर्त्तमाने भूतनिर्देश इति ॥ मू. (११८) सूत्रकृताङ्ग सूत्रम् १/२/२/११७ बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया । जो मोनपदं उवट्ठितै, विरतिं तत्थ अकासि पंडिए । वृ. स बहुजननमने धर्मे व्यवस्थितो याध्क् धर्म प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह- 'बहवे ' इत्यादि, 'बहवः ' अनन्ताः 'प्राणाः दशविधप्राणभाकत्वात्तदभेदोपचारात् प्राणिनः 'पृथग्' इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समतां - दुःखद्वेषित्वं सुखप्रियत्वं च 'समीक्ष्य' दृष्ट्वा । यदिवा- 'समतां' माध्यस्थ्यमुपेक्ष्ययो 'मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः ‘तत्र’ अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपधाते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्धेति, पापाङ्गीनः पापानुष्ठानात् दवीयान् पण्डित इति ।। अपिचमू. (११९) धम्मस्स य पारए मुनी, आरंभस्स य अंतए ठिए । सोयंति य णं ममाइणो, नो लब्भंति नियं परिग्गहं ॥ वृ. धर्मस्य श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यक्चा - रित्रानुष्ठायी वेति, चारित्रमधिकृत्याह 'आरम्भस्य' सावद्यानुष्ठानरूपस्य ‘अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुनर्नैवं भवन्ति ते अकृतधर्माः मररणे दुःखे वा समुत्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणो'त्ति ममेदमहमस्य स्वामी - त्येवमध्यसायिनः शोचन्ति शोचमाना अप्येते 'निजम्' आत्मीयं । परि-समन्तान् गृह्यते - आत्मसान्क्रियत इति परिग्रहः- हिरण्यादिरिष्टस्वजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमागत्य 'स्वजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्धया गृहीतमिति ॥ पू. (१२०) इहलोग दुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्वंसणधम्ममेव तं इति विज्जं कोऽगारमावसे ॥ वृ. अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति - ॥१॥ “सोऊण तयं उचट्ठियं, केइ गिही विग्घेण उट्टिया । धम्मंमि अनुत्तरे मुनी, तंपि जिणिज्ज इमेण पंडिए । एतदेवाह - 'इह' अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति 'विउत्ति विद्या:जानीहि, तथाहि 119 11 'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ।। (तथाहि) ॥ १ ॥ 'रेवापयः किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमर्थपरम्परायाः ॥ परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्मं' विशरारुस्वभावं गत्वर Page #78 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: - २ मित्यर्थ, इत्येवं 'विद्वान्' जानन् कः सकर्ण 'अगारवास' गृहवासमावसेत् ?, गृहपाश वाऽनुव धनीयादिति, उक्तं च - 11911 "दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ॥ - पुनरप्युपदेशमधिकृत्याह महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं । सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं ।। ७५ मू. (१२१) वृ. 'महान्तं ' संसारिणां दुस्त्यजत्वान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं ज्ञात्वा' स्वरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां च 'इह' अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः किमिति ?, यतो गर्वात्मकमेवत्सूक्ष्मं शल्यं वर्त्तते, सूक्ष्मत्वाच्च 'दुरुद्धरं' दुःखेनोद्धर्तुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत् ‘संस्तवं' परिचयमभिष्वङ्गं 'परिजह्यात्' परित्यजेदिति। नागार्जुनीयास्तुपठन्ति॥ १ ॥ “पलिमंथ महं वियाणिया, जाऽविय वंदनपूयणा इहं । , सुहुमं सल्लं दुरुद्धरं, तंपि जिने एएण पंडिए ।। अस्य चायमर्थ साधोः स्वाध्यायध्यानपरस्यैकान्तनि स्पृहस्य योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो विघ्नः, आस्तां तावच्छन्दादिष्वभिष्वङ्गः, तमित्येवंपरिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरंच अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन' वक्ष्यमाणेनेति || मू. (१२२) एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया । भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडो ॥ वृ. 'एकः' असहायो द्रव्यत एकल्लविहारी भावतो रागद्वेषरहितश्चरेत्, तथा 'स्थानं' कायोत्सर्गादिकम् एक एव कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् एवं शयनेऽप्येकाक्येव 'समाहितः' धर्मादिध्यानयुक्तः 'स्यात्' भवेत्, एतदुक्तं भवति । सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्य तपस्यनिगूहितबलवीर्यं इत्यर्थः, तथा 'वाग्गुप्तः' सुपर्यालोचिताभिधायी 'अध्यात्मं' मनः तेन संवृतो भिक्षुर्भवेदिति । मू. (१२३) पीहे न यावपंगुणे, दारं सुन्नघरस्स संजए । पुट्ठे न उदाहरे वयं, न समुच्छे नो संथरे तणं ॥ वृ. केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्य द्वारं कपाटादिना न स्थगयेन्नापि तच्चालयेत् यावत् 'न यावपंगुणे' त्ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपि न ब्रूयात्, तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी Page #79 -------------------------------------------------------------------------- ________________ ७६ सूत्रकृताङ्ग सूत्रम् १/२/२/१२३ कश्चिदाभिग्राहिकः 'तृणदिकं संस्तरेत्' तृणैरपि संस्तारकं न कुर्यात्, किं पुनः कम्बलादिना?, अन्यो वा शुषिरतृणं न संस्तरेदिति । मू. (१२४) जत्थऽत्थमिए अनाउले, समविसमाईमुनीऽहियासए। चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया।। वृ. तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रवन्नक्रादिभिः परीषहोपसर्गरक्षुभ्यन् ‘समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि मुनि' यथावस्थितसंसारस्वभाववेत्ता सम्यग्-अरक्तद्विष्टतयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवा' भयानकारक्षःशिवादयः अथवा तत्र सरीसृपाः 'स्यु' भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति । साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याहमू. (१२५) तिरिया मणुया य दिव्वगा, उपसग्गा तिविहाऽहियासिया। लोमादीयं न हारिसे सुन्नागारगओ महामुनी ।। वृ. 'तैरश्चाः' सिंहव्याघ्रादिकृताः तथा ‘मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताइनादिजनिताः, तथा 'दिव्वगा'इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत, तदेव दर्शयति-'लोभादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात्, यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदिरोमोद्गमादिकमपिनकुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा ‘महामुनिः' जिनकल्पिकादिरिति। मू. (१२६) नो अभिकंखेज जीवियं, नोऽविय पूयणपत्थएसिया। अब्भत्थभुर्विति भेरवा, सुन्नागारगयस्स भिक्खुणो। वृ. किञ्च-स तैभैरवैरुपसर्गेरुदीर्णैस्तोतुद्यमानोऽपि जीवितं न अभिकाङक्षेत, जीवितनिरपेक्षेणोपसर्गसोढव्य इतिभावः, न चोपसर्गसहनद्वारेण 'पूजानार्थकः' प्रकर्षामिलाषी ‘स्यात्' भवेत्, एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं स्वात्मतां उप-सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गा सुसहा एव भवन्तीति भावः । --पुनरप्युपदेशान्तरमाहमू. (१२७) उवनीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं। सामाइमाहु तस्स जं, जो अप्पाण भए न दंसए । वृ. उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' स्त्रीपशुपण्डकविवर्जितम् आस्यते-स्थीयते यस्मिन्निति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः “सामाचिकं' समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद्' यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यं, यश्चात्मानं 'भये' परिषहोपसर्गजनिते 'न दर्शयेत्' तदीरुन भवेत् तस्य सामायिकमाहुरिति सम्बन्धनीयं । Page #80 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक:- २ - मू. (१२८) उसिणोदगत्तभोइणो, धम्मट्ठियस्स मुनिस्सहीमतो | संसग्गि असाहुराइहिं, असमाहीउ तहागयस्सवि ।। वृ. किञ्च - मुनेः 'उष्णोदकतप्तभोजिनः' त्रिदण्डोद्वृत्तोष्णोदकभोजनः, यदिवा-उष्णं सत्र शीतीकुर्यादिति तप्तग्रहणं, तथा श्रुतचारित्राख्ये धमें स्थितस्य 'हीमतो' त्ति ही: - असंयमं प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्धयः यः 'संसर्ग' सम्बन्धोऽ- सावसाधुः अनर्थोदयहेतुत्वात् ' तथागतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमा-धिरेव' अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह मू. (१२९) अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्टे परिहायती बहु, अहिगरणं न करेज्ज पंडिए । वृ. अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरीं दारुणां वा भयानकां वा 'प्रसह्य' प्रकटमेव वाचं ब्रुवतः सतः 'अर्थो' मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते ' ध्वंसमुपयाति, इदमुक्तं भवति- बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुन्यं तत्कलहं कुर्वतः परोपधातिनीं च वाचं ब्रुवतः तत्क्षणमेव ध्वंसमुपयाति, ॥१॥ (तथाहि ) जं अज्जियं समीखल्लएहिं तवनियमबंभ मइएहिं । माहुतयं कलहंता छड्डेअह सागप्तेहिं । ७७ इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् 'पण्डित' सदसदिववेकीति ।। मू. (१३०) सीओदग पडि दुगुछिणो, अपडिन्नस्स लवावसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसनं न भुंजती ॥ वृ. तथा शीतोदकम् अप्रासुकोदकं तत्प्रतिजुगुप्सकस्या प्रासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा निदानरूपा यस्य सोऽप्रतिज्ञोऽनिदान इत्यर्थः लवं कर्म तस्मात अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः तस्यैवम्भूतस्य साधोर्यस्मात् यत् 'सामायिक' समभावलक्षणमाहुः सर्वज्ञाः यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्य पात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति सम्बन्धनीयमिति । किञ्च भू. (१३१) न य संखयमाहु जीवियं, तहविय बालजणो पगब्भइ । बाले पापेहिं मिज्जती, इति संखाय मुनी न मज्जती ॥ वृ. 'नच' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय' मिति संस्कर्त्तुतन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बालः' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'भीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा येन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञात्वा 'मुनि' यथावस्थितपदार्थानां वेत्ता न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्त्तेत्येवं प्रगल्भमानो मदं न करोति । भू. (१३२) छंदेण पले इमा पया, बहुमाया मोहेण पाउडा । वियडेण पलिंति महणे, सीउण्हं वयसाऽ हियासए ॥ Page #81 -------------------------------------------------------------------------- ________________ ७८ सूत्रकृताङ्ग सूत्रम् १/२/२/१३२ वृ, उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, ॥१॥ (तथाहि) 'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किञ्चित् । तस्माल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥ तथेयंप्रजा बहुमाया कपटप्रधाना, किमिति?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छादिता सदसद्विवेकविकलेत्यर्थ, तदेतदवगम्य 'माहणे'त्तिसाधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णंशीतोष्णा वा-अनुकूलप्रतिकूलपरीषहास्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति । अपिचमू. (१३३) कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं । कडमेव गहाय नो कलिं, नो तीयं नो चेव दावरं ।। वृ. कुत्सितोजयोऽस्येति कुजयो-द्यूतकारः,महतोऽपिधूतजयस्य सद्भिर्निन्दितत्वादनहेतुत्वाच्च कुत्सितमिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलत्वादन्येन नजीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडस्तत्पातज्ञः कुशलो-निपुणः, यथाअसौद्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाणः ‘कडमेव'त्ति चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः सन्न कलिं' एककं नापि 'वैतं' त्रिकंच नापि द्वापरं द्विकं गृह्णातीति। मू. (१३४) एवं लोगंमि ताइणा, बुइए जे धम्मे अनुत्तरे। तंगिण्ह हियंति उत्तम, कडमिव सेसऽ वहाय पंडिए । वृ. दान्तिकमाह-यथा धूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् 'लोके मनुष्यलोके तायिनात्रायिणावा-सर्वज्ञेनोक्तोयोऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्योवानास्योत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमंच गृहाण' विस्रोतसिकार-हितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति-यथा कश्चित्तकारः ‘कृतं' कृतयुगं चतुष्कमित्यर्थ, 'शेषम्' एककादि 'अपहाय' त्यक्त्वा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपिसेषं-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्मं गृह्णीयादिति भावः ॥ पुनरप्युपदेशान्तरमाहमू. (१३५) उत्तर मणुयाण आहिया, गामधम्माइइ मे अनुस्सुयं । जंसी विरता समुट्ठिया, कासवस्स अनुधम्मचारिणो । वृ.उत्तराः-प्रधानाः दुर्जयत्वात्, केषाम् ? -उपदेशार्हत्वान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्मा' शब्दादिविषया मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरत्वेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्नामेयेनाऽऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयःस्वशिष्येभ्यः प्रतिपादयन्ति अतो मयैतदनुश्रुतमित्यनब्दय, यस्मिन्निति-कर्मणिल्यब्लोपेपञ्चमी सप्तमी वेतियान् ग्रामधर्मानाश्रित्य Page #82 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - २ ये विरताः, पंचम्यर्थे वा सप्तमी, येभ्यो वा विरताः सम्यकसंयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभस्वामिनोवर्धमानस्वामिनो वा सम्बन्धी योधर्मस्तदनुचारिणः,तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः । मू. (१३६) जे एयचरंति आहियं, नाएणं महया महेसिणा। ते उट्टिय ते समुड़िया, अन्नोत्रं सारंति धम्मओ।। वृ.किञ्च-ये मनुष्या 'एन' प्रागुक्तं धर्म-ग्रामधर्मविरतिलक्षणं चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रे 'महये ति महाविषयस्य ज्ञानस्यानन्यभूतत्वात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुत्वात् ‘महर्षिणा' श्रीमद्वर्धमानस्वामिना आख्यातं धर्मं ये चरन्ति तेएव संयोत्थानेन-कुतीर्थिकपरिहारेणोस्थिताः तथा निवादिपरिहारेणतएव सम्यक्-कुमादिशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्रावचनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं परस्परं धर्मतो' धर्ममाश्रित्यधर्मतोवाभ्रश्यन्तं 'सारयन्ति' ८ दयन्ति-पुनरपि सद्धर्मे प्रवर्तयन्तीति किञ्च-- मू. (१३७) मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए। जे दूमण तेहिं नो नया, ते जाणंति समाहिमाहियं ।। वृ.दुर्गतिंसंसारं वा प्रणामयन्ति-प्रहीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान् 'पुरा' पूर्वं भूक्तान् ‘मा प्रेक्षस्व' मा स्मर, तेषां स्मरणमपि यस्मान्महतेऽनर्थाव, अनागतांश्च नोदीक्षेत-नाऽऽकाङक्षेदिति, तथा अभिकाङक्षेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात, किमर्थमिति दर्शयति । उपधीयते-ढौक्यतेदुर्गतिंप्रत्यात्मायेनासावुपधि-माया अष्टप्रकारं वा कर्म तद् ‘हननाय' अपनयनायाभिकाङक्षेदिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा-दूमण'त्तिदुष्टमनःकारिणउपतापकारिणो वा शब्दादयोविषयास्तेषु ये महासत्त्वाः 'न नता' नाहीभूताः तदाचारानुष्ठायिनोन भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम्, आसमन्ताद्धितंवा त एव जानन्ति नान्य इति भावः । मू. (१३८) नो काहिए होज्ज संजए, पासणिए न य संपसाए। नचा धम्म अनुतरं, कयकिरिए नयावि मामए। वृ. तथा 'संयतः' प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा-विरुद्धां पैशून्यापादनी स्त्र्यादिकथां वा न कुर्यात्, तथा 'प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वाचरतीतिप्राश्निकोन भवेत्, नापिच 'संप्रसारकः' देववृष्ठयर्थकाण्डादिसूचककथा विस्तारको भवेदिति, किं कृत्वेति दर्शयति-'ज्ञात्वा' अवबुद्धय नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग्, तस्य हि धर्मस्यैतदेव फलं यदुत-विकथानिमित्तपरिहारेण सम्यक्रियावान् स्यादिति, तद्दर्शयति-कृता-स्वभ्यस्ता क्रीया-संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च नचापि ‘मामको' ममेदमहमस्यस्वामीत्येवंपरिग्रहाग्रही भवेदिति किञ्चमू. (१३९) छन्नं च पसंस नो करे, न य उक्कोस पगास माहणे। तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं ।। Page #83 -------------------------------------------------------------------------- ________________ ८० सूत्रकृताङ्ग सूत्रम् १/२/२/१३९ वृ. “छन्नंति माया तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात् तां न कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते - सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात्, तथाजात्यादिभिर्मदस्थानैर्लघुप्रकृतिं पुरुषमुत्कर्षयतीत्युकर्षको मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः क्रोधस्तं च 'माहणे' ति साधुर्न कुर्यात् । 'तेषां' कषायाणां यैर्महात्मभि: 'विवेकः' परित्यागः 'आहितो' जनितस्त एव धर्मं प्रति प्रणता इति, यदिवा तेषामेव सत्पुरुषाणां सुष्ठु विवेकः परिज्ञानरूप आहितः प्रथितः प्रसिद्धिं गतः त एव च धर्मं प्रति प्रणताः 'यैः' महासत्त्वैः सुष्ठु 'जुष्टं' सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतंसंयमानुष्ठानं, यदिवा-यैः सदनुष्ठायिभिः 'सुजोसिअं' ति सुष्ठु क्षिप्तं धूननार्हत्वात् 'धूतं' कर्मेति ।। मू. (१४०) अनि सहिए सुसंवुड़े, धम्मट्टी उवहाणवीरिए । विहरेज्ज समाहिइंदिए, अत्तहिअं खु दुहेण लब्भइ ॥ वृ. अपि च-स्निह्यत इति स्निहः न स्निहः अस्निहः सर्वत्र ममत्वरहित इत्यर्थः, यदिवापरीषहोपसगैर्निहन्यथते इति निहः ननिहोऽ निहः - उपसर्गैरपराजित इत्यर्थ, पाठान्तरं वा 'अणहे' ति नास्याघमस्तीत्यनघो, निरवद्यानुष्ठायीत्यर्थः सह हितेन वर्तत इति सहितः सहितो युक्तो वा ज्ञानादिभिः, स्वहितः - आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दर्शयति-सुष्ठु 'संवृत' इन्द्रियनोइन्द्रियैविनोतसिकारहित इत्यर्थः, तथा धर्मः श्रुतचारित्राख्यः तेनार्थः प्रयोजनं स एव वाऽर्थ तस्यैव सद्भिरर्यमाणत्वात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधानं तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रियः संयतेन्द्रियः, कुत एवं ? -यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन 'लभ्यते' अवाप्यत इति, तथाहि - “न पुनरिदमतिदुर्लभमगाधसंसारजलधिविघ्नष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ ॥ १ ॥ तथाहि - युगसमिलादिष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम्, अपिच ॥१॥ भूतेषु जङ्गमत्वं तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥ देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा । जाती रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यकत्वं सम्यकत्वे शीलसंप्राप्ति ।। एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः । तंत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्त्वा सङ्गमनार्यं कार्यं सद्भिः सदा श्रेयः ॥ इति ॥ एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाह ॥२॥ ॥३॥ ॥४॥ ॥ ५॥ Page #84 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक :- २ मू. (१४१) न हि नून पुरा अनुस्सुतं, अदुवा तं तह नो समुट्ठियं । मुनिना सामाइआहितं, नाएणं जगसव्वदंसिणा ।। वृ. यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नूनं' निश्चितं 'न हि' नैव 'पुरा' पूर्व जन्तुभि 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं वा 'अवितह 'न्ति अवितथं यथा-वन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥ पू. (१४२) एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा । गुरुणी छंदाणुवत्तगा, विरया तिन महोघमाहितं ॥ तिबेमि ॥ वृ. पुनरप्युपदेशान्तरमधिकृत्याह 'एवम् ' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेषं कर्मणो वा विवरं ज्ञात्वा यदिवा 'महंतरं' ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा 'एनं' जैनं 'धर्म' श्रुतचारित्रात्मकं । सह हितेन वर्तन्त इति सहिता-ज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरोः ' आचार्यादिस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानुष्ठायिनो 'विरताः' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा 'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्मिन्येषाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् अध्ययनं -२ उद्देशकः-२ समाप्तः ८१ -: अध्ययनं-२ उद्देशकः-३ : उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीषहा समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्मणोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रमू. (१४३) संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अबोहिए। तं संजमओऽ वचिज्जई, मरणं हेच वयंति पंडिया || वृ. संवृतानि - निरुद्धानि कर्माणि अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा यस्य भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असद्वेद्यं तदुपादानभूतं वाऽप्रकारं कर्म स्पृष्ट' मिति बद्धस्पृष्टनिकाचितमित्यर्थः, तञ्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोत्क्तात् सप्तदशरूपादनुष्ठानाद् 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति - यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचयते, एवं संवृता श्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्त्वा 'मरण' मरणस्वभावमुपलक्षणत्वात् जातिजरामरणशोकादिकं त्यक्त्वा मोक्षं व्रजन्ति 'पण्डिताः ' सदसद्विवेकिनः, यदिवा- 'पण्डिताः' सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति । 26 Page #85 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/२/३/१४४ मू. (१४४) जे विनवणाहिऽजोसिया, संतिन्नेहि समं वियाहिया। तम्हा उड्ढंति पासहो, अदक्खु कामाइ रोगवं ।। वृ. येऽपिच तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्तेयास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता विज्ञापनाः-यिस्ताभि 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते सन्तीर्णैः' मुक्तैः समं व्याख्याताः, अतीर्णा अपि सन्तोयतस्ते निष्किञ्च-नतयाशब्दादिषुविषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तस्माद् ‘ऊर्ध्वमिति' मोक्षं योषित्परित्यागाद्वोर्ध्वं यद्भवति तत्पश्यत यूयं येच कामान् ‘रोगवदू' व्याधिकल्पान् ‘अद्राक्षु दृष्टवन्तस्ते संतीर्णसभा व्याख्याताः, तथा चोक्तम् - ॥१॥ "पुष्फफलाणंच रसं सुराइ मस्स महिलियाणं च । जाणंताजे विरया ते दुक्करकारएवंदे ॥ तृतीयपादस्य पाठान्तरं वा 'उड्ढं तिरियंअहे तहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमितितिर्यक्लोके, अध इति भवनपत्यादौ, ये कामास्तान रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ।। पुनरप्युपदेशान्तरमधिकृत्याह--- मू. (१४५) अग्गं वणिएहिं आहियं, धारती राईणिया इहं। एवं परमा महब्बया, अक्खाया उअराइभोयणा || वृ. 'अग्रं' वर्यं प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् ‘आहितं' ढौकितं राजानस्तत्कल्पाईश्वरादयः 'इह' अस्मिन्मनुष्यलोके धारयन्ति' बिभ्रति, एवमेतान्यपिमहाव्रतानि रत्नकल्पानि आचार्य 'आख्यातानि' प्रतिपादितानी नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणषष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरलेभ्यो महाव्रतरलानां विशेषापादक इति, इदमुक्तं भवति-यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरलानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति।। मू. (१४६) जे इह सायाणुगा नरा, अन्झोववनाकामोमेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ।। वृ. किञ्च-ये नरा लघुप्रकृतयः ‘इह' अस्मिन् मनुष्यलोके सात-सुखमनुगच्छन्तीति सातानुगाः-सुखशीला एहिकामुष्मिकापायभीरवः समृद्धिरससातागौरवेषु अध्युपपन्ना गृद्धाः तथा 'कामेषु इच्छामदनरूपेषु 'मूर्छिता' कामोत्कटतृष्णाः कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्मिता' धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणासम्यकप्रत्युपेक्षणादिरूपेणास्मसंयमस्य विराघनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयमं षटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' .. धर्मध्यानादिकम् 'आख्यातं' कथितमपि न जानन्तीति पुनरप्युपदेशान्तरमधिकृत्याहमू. (१४७) वाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ।। वृ. 'व्याधेन' लुब्धकेन 'जहा वत्ति यथा 'गव'न्ति मृगादिपशुर्विविधम्-अनेकप्रकारेण कूटपाशादिना क्षतः-परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमत्वात् गन्तुमसमर्थः, यदिवा-बाहयतीति वाहः-शाकटिकस्तेन यथावदवहन् गौविविधं प्रतोदादिना Page #86 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -२, उद्देशकः - ३ क्षतः-प्रचोदितोऽप्बलो-विषमपथादौ गन्तुमसमर्थो भवति, ‘स चान्तशः' मरणान्मपि यावदल्पसामर्थ्यो नातीव वोढुंशक्नोति, एवम्भूतश्च ‘अबलो' भारंवोहुमसमर्थतत्रैव पत्रादौ विषीदतीति मू. (१४८) एवं कामेसणं विऊ, अज्ज सुए पयहेज संथवं। ___ कामी कामे न कामए, लद्धे वावि अलद्ध कण्हुई। वृ. दार्शन्तिकमाह-'एवम्' अनन्तरोक्तया नीत्या कामानां-शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान्' निपुणः कामप्रार्थनासक्तः शब्दादिपङ्के मग्नः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं' परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदाऽवतिष्ठते, नच तान् कामान् अबलो बलीवर्दवत् विषमं मार्गं त्यक्तुमलं, किञ्च - न चैहिकामुष्मिकापायदर्शितया कामी भूत्वोपनतानपि 'कामान्' शब्दादिविषयान् वैरस्वामिजम्बूनामादिवद्वा ‘कामयेत' अभिलषेदिति, तथा क्षुल्लककुमारवत् कुतश्चिन्निमित्तात् 'सुटुगाइय' मित्यादिना प्रतिबुद्धो ‘लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया तनिस्पृहो भवेदिति किमिति कामपरित्यागो विधेय इत्याशङ्कयाहमू. (१४९) मा पच्छ असाधुता भवे, अच्चेही अनुसास अप्पगं। अहियं च असाहु सोयती, से थणती परिदेवती बहुं ।। वृ.मा पश्चात्-मरणकाले भवान्तरे वा कामानुषङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयासङ्गादात्मानम् ‘अत्येहि त्याजय, तथाआत्मानंच 'अनुशाधि' आत्म- नोऽनुशास्तिं कुरु, यथा हे जीव! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृतः सन् दुर्गतौ पतितः अधिकम्-अत्यर्थमेवंशोचति, सच परमाधार्मिकैः कदर्शमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्तो ऽत्यर्थं स्तनति' सशब्दं निश्वसिति, तथा परिदेवते' विलपत्याक्रन्दति सुवह्निति हामातभ्रंयत इति त्राता नैवास्ति साम्प्रतं कश्चित्। किं शरणंमेस्यादिह दुष्कृतचरितस्य पापस्य ? । इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं । मू. (१५०) इह जीवियमेव पासहा, तरुण एवा ससयस्स तुट्टती। इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया ।। वृ.किञ्च इह' अस्मिन् संसारेआस्तांतावदन्यजीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुस्वभावं, तथा-सर्वायुःक्षय एव वा 'तरुण एव' युवैव वर्षशतायुरप्युपक्रमोतऽध्यवसाननिमित्तादिरूपादायुषः 'त्रुट्यति' प्रच्यवते, यदिवा -- साम्प्रतं सुबह्वप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तच सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि नराः पुरुषालघुप्रकृतयः 'कामेषु' शब्दादिषु विषयेषु 'गृद्धा' अध्युपपन्ना मूर्छिताः तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः अपिच - म. (१५१) जे इह आरंभनिस्सिया, आतदंडा एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥ वृ. ये केचन महामहोकुलितचेतसः 'इह' अस्मिन्मनुष्यलोके आरम्भे' हिंसादिकेसावधानुष्ठानरूपेनिश्चयेनश्रिताः-संबद्धा अध्युपपन्नास्तेआत्मानंदण्डयन्तीत्यात्मदण्डकाः,तथैकान्तेनैव Page #87 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/२/३/१५१ जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वाध्वंसकाः, तेएवम्भूता ‘गन्तारो' यास्यन्ति पापं लोकं' पापकर्मकारिणां यो लोको नरकादि 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवत्वापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बषिका देवाधमा भवन्तीत्यर्थः । मू. (१५२) न य संखयमाहुजीवितं, तहवि य बालजणो पगब्भई। पचुप्पन्नेण कारियं, को द8 परलोयमागते ? ॥ वृ. किञ्च-'नच' नैव त्रुटितं जीवितमायुः 'संस्कर्तु' संधातुं शक्यते, एवमाहुः सर्वज्ञाः, ॥१॥ (तथाहि) दंडकलियं करिन्ता वचंति हुराइओ य दिसा य । आउं संवेल्लंता गया यन पुणो नियत्तंति ।। 'तथाऽपि एवमपि व्यवस्थिते जीवानामायुषि बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् ‘प्रगल्भते धृष्टतां याति, असदनुष्ठानेनापि न लज्जत इत्यर्थः, सचाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाह'प्रत्युत्पन्नेन' वर्तमानकालभाविनापरमार्थसता अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात् 'कार्य' प्रयोजनं, प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवं च सतीहलोक एव विद्यतेन परलोक इति दर्शयति-कः परलोकं दृष्ट्वेहायातः, तथा चोचुः॥१॥ "पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्नते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ।। ॥२॥ (तथा) "एतावानेन पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।। इति एवमैहिकसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाहमू. (१५३) अदक्खुव दक्खुवाहियं, (त) सद्दहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदंसणे, मोहणिज्जण कडेण कम्मुणा ।। वृ. पश्यतीते पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचित्वादन्धवत्तस्याऽऽमन्त्रणंहेऽपश्यवद्-अन्धसश! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञपश्येनसर्वज्ञेन व्याहृतम्-उक्तं सर्वज्ञागमं श्रद्धस्व' प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्यअसर्वज्ञस्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! स्वतोऽर्वागदर्शी भवांस्तथाविधदर्शनप्रमाणश्च सन कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदिसर्वज्ञाभ्युपगमनाकरिष्यत्, यदिवाअदक्षो वा अनिपुणोवादक्षोवा-निपुणोवायाधशस्ताशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः-केवलदर्शन:-सर्वज्ञस्तस्माद्यदवाप्यते हितंतत्श्रद्धस्व,इदमुक्तं भवति । अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा हे 'अद्दष्ट हे अर्वागदर्शन! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शिनायव्याहृतम्अभिहितमागमे तत श्रद्धस्व.हे अदृष्टदर्शन अदक्षदर्शन ! इति वा-असर्वज्ञोक्तशासनानयायिन Page #88 -------------------------------------------------------------------------- ________________ - M श्रुतस्कन्धः १, अध्ययन २, उद्देशकः ३ ८५ तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोकते मार्गे श्रद्धानमसुमान्न करोति ? येनैवमुपदिश्यते, तन्निमित्तमाह- 'हंदी' त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्ठु अतिशयेन निरुद्धम्-आवृतं दर्शनं सम्यग् अवबोधरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं - मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृते । कर्मणा निरुद्धदर्शनः प्राणी सर्वज्ञोक्तं मार्गं न श्रद्धत्ते अतस्तन्मार्ग श्रद्धानं प्रति चोद्यते इति । मू. (१५४) दुक्खी मोहे पुणो पुणो, निव्विदेज्ज सिलोगपूयणं । एवं सहितेऽ हिपासए, आयतुलं पाणेहिं संजए। वृ. पुनरप्युपदेशान्तरमाह-दुःखम् - असात वेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेकविकलो भवति, इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाधां स्तुतिरूपां तथा 'पूजनं' वस्त्रादिलाभरूपं परिहरेत् । 'एवम्' अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थिभिः 'आत्मतुलां' आत्मतुल्यतां दुःखाप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति । किञ्च - गारंपिअ आवसे नरे, अनुपुव्वं पाणेहिं संजए । समता सव्वत्थ सुव्वते, देवाणं गच्छे सलोगयं ॥ मू. (१५५) वृ. 'अगारमपि ' गृहमप्यावसन्- गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व 'मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यक् यतः संयतः तदुपमछन्निवृत्तः किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता 'सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादी ‘श्रूयते' अभिधीयते आर्हते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् 'देवानां' पुरन्दरादीनां 'लोकं' स्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ मू. (१५६) सोचा भगवानुसासणं, सच्चे तत्थ करेज्जवक्क मं । सव्वत्य विनीयमच्छरे, उच्छं भिक्खु विसुद्धमाहरे ।। वृ. अपिच-ज्ञानैश्वर्यादिगुणसमन्वितस्य भगवतः सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगम्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सद्यो हिते सत्ये लघुकर्मा तदुपक्रमंतव्याप्युपायं कुर्यात् किम्भूतः ? - सर्वात्रापनीतो मत्सरो येन स तथा सोऽरक्तद्विष्टः क्षेत्रवस्तूपधिशरीरनिष्पिपासः, तथा 'उछं' ति भैक्ष्यं विशुद्धं द्विचत्वारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति मू. (१५७) सव्वं नच्चा अहिट्ठए, धम्मट्टी उवहाणवीरिए । गुत्ते जुत्ते सदाजए, आयपरे परमायतट्ठितै ।। वृ. 'सर्वम्' एतद्धेयमुपादेयं च ज्ञात्वा सर्वज्ञोक्तं मार्गं सर्वसंवररूपम् 'अधितिष्ठेत्' आश्रयेत्, धर्मेणार्थो धर्म एव वाऽर्थ परमार्थेनान्यस्थानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धर्मार्थीधर्मप्रयोजनवान्, उपधानं तपस्तत्र वीर्यं यस्य स तथा अनिगूहितबलवीर्य इत्यर्थ, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभि 'सदा' सर्वकालं यतेताऽऽत्मनि परस्मिंश्चा Page #89 -------------------------------------------------------------------------- ________________ ८६ . सूत्रकृताङ्ग सूत्रम् १/२/३/१५७ किंविशिष्टः सन् ? अत आह-परम-उत्कृष्ट आयतो-दीर्घ सर्वकालभवनात् मोक्षस्तेनार्थिकःतदभिलाषीपूर्वोक्तविशेषणविशिष्टो भवेदिति ।। मू. (१५८) वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्त्रा। एते मम तेसुवी अहं, नो ताणं सरणं न विजई।। वृ.पुनरप्युपदेशान्तरमाह-वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिष्यादयो 'ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं बालः' अज्ञःशरणं मन्यते, तदेव दर्शयति-ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषुचार्जनपालनसंरक्षणादिनाशेषोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच - ॥१॥ "रिद्धी सहावतरला रोगजराभंगरंहयसरीरं। दोहंपि गमणसीलाण किच्चिरं होज्ज संबंधो?॥ ॥२॥ (तथा) मातापितृसहस्राणि, पुत्रदारशतानि च। प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपिवा? ॥ एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य क्वचिच्छरणं विद्यत इति॥ एतदेवाहमू. (१५९) अब्मागमितंमि वा दुहे, अहवा उक्क.मिते भवंतिए। एगस्स गती य आगती, विदुमंता सरणं न मन्नई। वृ.पूर्वोपात्तासातवेदनीयोदयेनाभ्यागतेदुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चिक्रियते, तथाच. ॥१॥ "सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो। . सयणोविय से रोगं, न विरंचइनेव नासेइ ।। अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवानतरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, विद्वान्' विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः? सर्वात्मना त्राणमिति, तथाहि॥१॥ “एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम्॥ ॥२॥ एक्को करेइ कम्मं फलमवि तस्सिकओ समणुहवइ। एको जायइ मरइय परलोयं एकओ जाइ ।। मू. (१६०) सब्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा जाइजरामरणेहिऽभिद्रुता ।। वृ.अन्यच्च-सर्वेऽपि संसारोदरविवरवर्तिनःप्राणिनः संसारेपर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभा-वेनोपलक्षणार्थत्वात् प्रव्यक्तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति Page #90 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२,उद्देशकः-३ ८७ अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति । किञ्चमू. (१६१) इणमेव खणं वियाणिया, नो सुलभं बोहिं च आहितं । एवं साहिएऽहिपासए, आह जिणे इणमेव सेसगा ।। वृ. इदमः प्रत्यक्षासन्नवाचित्वात् इम-द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञात्वा तदुचितं विधेयं, तथाहि-द्रव्यं जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्याय'देशार्धषड्विंशति- जनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादि धर्मप्रतिपचियोग्यलक्षणः भावश्चधर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपच्युत्साहलक्षणः, तदेवंविधं क्षणम् अवसरंपरिज्ञाय तथा 'बोधिंच' सम्यग्दर्शनावाप्तिलक्षणांनो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधि, तथाहि - ॥१॥ “लद्धेल्लियं च बोहिं अकरेंतो अनागयं च पत्थेतो। अन्नं दाइंबोहिं लब्भिसि कयरेण मोल्लेणं? ॥ तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत्-बोधिसुदुर्लभत्वं पर्यालोचयेत्, पाठान्तरंवा अहियासएत्ति परीषहानुदीर्णान् सम्यगधिसहेत। एतच्चाऽऽह जिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वान्सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति॥ मू. (१६२) अभविंसु पुरावि भिक्खुवो, आएसावि भवंति सुव्वता। एयाइं गुणाई आहु ते कासवस्स अनुधम्मचारिणो॥ वृ. एतदाह-हे भिक्षवः-साधवः!, सर्वज्ञःस्वशिष्यानेवमामन्त्रयति, येऽभूवन्-अतिक्रान्ता 'जिनाः' सर्वज्ञाः ‘आएसावित्ति आगमिष्याश्च ये भविष्यन्ति, तान् विशिनष्टि-'सुव्रताः' शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते सर्वेऽप्येतान्-अनन्तरोदितान् गुणान् ‘आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च 'काश्यपस्य' ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ।। अभिहितांश्च गुणानुद्देशत आहमू. (१६३) तिविहेणवि पाण मा हणे, आयहिते अनियाण संवुडे । एवं सिद्धा अनंतसो, संपइ जे अअनागयावरे । वृ. 'त्रिविधेन' मनसा वाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनो' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मनेहित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाक्कायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति – “एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्था-नभाजो वा, तथा 'सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥ Page #91 -------------------------------------------------------------------------- ________________ ८८ सूत्रकृताङ्ग सूत्रम् १/२/३/१६४ मू. (१६४)एवं से उदाहु अनुत्तरनाणी अनुत्तरदंसी अनुत्तरनाणदंसणधरे। अहा नायपुत्ते भगवं वेसालिए वियाहिए। तिबेमि।। वृ. एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह-‘एवं से' इत्यादि एवम्' उद्देशकत्रयाभिहितनीत् ‘स ऋषभस्वामी स्वपुत्रानुद्दिश्य उदाहृतवान् प्रतिपादितवान्, नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च तज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तर-दर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवंदर्शयितु-माह-'अनुत्तरज्ञानदर्शनधर' इति कथञ्चिभिन्नज्ञानदर्शनाऽऽधार इत्यर्थ,: 'अर्हन्' सुरेन्द्रादिपूजा)ज्ञातपुत्रो वर्द्धमानस्वामीऋषभस्वामी वा भगवान् एश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामीवाविशालकुलोद्भवत्वाद्वैशालिकः, तथा चोक्तम्॥१॥ "विशाला जननी यस्य, विशालं कुलमेव वा। विशालं प्रवचनं चास्य, तेन वैशालिको जिनः॥ एवमसौ जिनआख्यातेति।इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीतिउक्तार्थो, नयाः पूर्ववदिति अध्ययनं-२-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाकाचार्यविरचिता प्रथम श्रुतस्कन्धस्य द्वीतीय अध्ययन टीका परिसमाप्ता। -अध्ययन-३ उपसर्ग परिज्ञाःवृ. उक्तं द्वितीयमध्यनम्, अधुना तृतीयामारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरं स्वसमयपरसमयप्ररूपणाऽमिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गा प्रादुर्भवेयुः, ते चोदीर्णा सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते। ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्र मान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः ‘संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारंतूतरत्र स्वयमेवनियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [४५] उवसग्गंमि य छवं दब्वे चेयणमचेयणं दुविहं । आगंतुगो य पीलाकरोय जो सो उवस्सग्गो॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाषोढा, तत्र नामस्थापने क्षुण्णत्वादनात्य द्रव्योपसर्ग दर्शयति-'द्रव्ये' द्रव्यविषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधं, तत्र तिर्यङ्मनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्ग, स एव काष्ठादिनेतरः । तत्त्वभेदपर्यायव्याख्येति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्चतिर्यङमनुष्योपसर्गादयः नामादयश्च, तत्वव्याख्यातुनियुक्तिकृदेव गाथापश्चार्द्धनदर्शयतिअपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति क्षेत्रोपसर्गानाह Page #92 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक: नि. [४६ ] ८९ खेत्तं बहुओघपयं कालो एगंतदूसमादीओ । भावे कम्मरमुदओ, सो दुविहो ओघुवक्कमिओ ॥ वृ. यस्मिन् क्षेत्रे बहून्योघतः - सामान्येन पदानि क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बह्वोघपदं, पाठान्तरं वा 'बह्वोघभयं' बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढादिविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्षमादि, आदिग्रहणात् यो यस्मिन् क्षेत्रे दुःखोत्पादको ग्रीष्मादि स गृह्यत इति, कर्मणां ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, सच उपसर्ग सर्वोऽपि सामान्येन औधिक पक्रमिकभेदात् द्वेधा, तत्रौधिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशस्त्रादिनाऽसातवेदनीयोदयापादक इति तत्रौधिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याहनि. [ ४७ ] उवक्कमिओ संयमविग्घकरे तत्थुवक्कमे पगयं । दव्वे चउव्विहो देवमणुयतिरियायसंवेत्तो ॥ वृ. उपक्रमणमुपक्रमः कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थ, एतच्च यदद्रव्योपयोगात् येन वा द्रव्येणा सातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविधातो भवति अत औपक्रमिक उपसर्ग संयमविधातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति तत्र-औधिकौपक्रमिकयोरौपक्रमिके न 'प्रकृतं' प्रस्तावः तेनात्राधिकार इतियावत्, सच 'द्रव्ये' द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा- दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति ।। साम्प्रतमेतेषामेव भेदमाह नि. [४८ ] एक्केको य चउविहो अट्ठविहो वावि सोलसविहो वा । घडण जयणा व तेसिं एत्तो वोच्छं अहि यारं ॥ वृ. एकैको दिव्यादि 'चतुर्विधः ' चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातश्च, तैरश्चा अपि चतुर्विधाः, तद्यथा भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदनाः चतुर्विधाः, तद्यथाघट्टनातो लेशनातः - अङ्गुल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताच्चेति, यदिवावातपित्तश्लेष्मसंनिपातजनितश्चतुर्धेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादि प्रत्येकं यश्चतुर्धा प्राग्दर्शितः स चतुर्णां चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणा यथा घटना-सम्बन्धः प्राप्ति प्राप्तानां चाधिसहनं प्रति यतना भवति तथाऽत उर्द्धमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः । उद्देशार्थाधिकारमधिकृत्याहनि. [४९ ) पढमंमि य पडिलोमा हुंती अनुलोमगा य बितियंमि । तइए अज्झत्तविसोहणं च परवादिवयणं च । उसरिसेहिं अहे उएहिं समयपडिएहिं निउणेहिं । नि. [५० ] सीलखलितपन्नवणा कया चउत्थंमि उद्देसे ॥ प्रथमे उद्देशके 'प्रतिलोभाः' प्रतिकूला उपसर्गा प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' स्वजनापादिता अनुलोमा - अनुकूला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः । तद्यथा - 'हेतुसद्दशैः' हेत्वाभासैर्येऽन्यतैर्थिकैर्व्युदाहिताः- प्रतारितास्तेषां शीलस्खलितानां व्यामोहितानां प्रज्ञापना- यथावस्थितार्थप्ररूपणा Page #93 -------------------------------------------------------------------------- ________________ ९० स्वसमयप्रतीतैर्निपुणभणितैर्हेतुभि कृतेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्-: अध्ययनं ३ उद्देशकः-१ : पू. (१६५) सूरं मन्नइ अप्पाणं, जाव जेयं न पस्सती । जुज्झतं दढधम्माणं, सिसुपालो च महारहं ।। वृ. कञ्चिल्लधुप्रकृति सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथा न मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावदर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति तथा चोक्तम्119 11 “ तावद्गजः प्रभुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाङ्गलविस्फोटरवं श्रृणोति ।।" नष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् आत्मश्लाघाप्रधानं गर्जितवान्, पश्चाञ्च युध्यमानं-शस्त्राणि व्यापारयन्तं दृढः-समर्थो धर्म-स्वभावः सङ्गङ्ग्रामाभङ्गरूपो यस्य स तथा तं महान् रथोऽस्येति महारथः, सच प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र दान्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकदावसेयः, तच्चेदम् - 119 11 वसुदेवसुसाए सुओ दमघोसणराहिवेण मद्दीए । जाओ चउब्भुओऽब्भुयबलकलिओ कलहपत्तट्ठो ॥ दहूण तओ जणणी चउब्यं पुत्तमब्मुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ नेमित्तियं सहसा || नेमित्तिएण मुनिऊण साहियं तीइ हट्ठहिययाए । स तु पुत्तो महाबलो दुज्जओ समरे ।। एयरस य जं दङ्कण होइ साभावियं भुयाजुयलं । होही ओ चिय भयं सुतस्स ते नत्थि संदेहो ॥ सावि भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स । तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥ तो कण्हरस पिउच्छा पुत्तं पाडेइ पायपीढंमि । अवराहखामणत्थं सोवि सयं से खमिस्सामि ।। सिसुवाली विहु जुव्वणमएण नारायणं असब्मेहिं । वयणेहिं भइ सोविहु खमइ खमाए समत्थोवि ॥ अवराहस पुणे वारिजंतो न चिट्ठई जाहे । कण्हेण तओ छिन्नं चक्केणं उत्तमंगं से । पयाता सूरा रणसीसे, संगामंमि उवट्ठिते । माया पुत्तं न याणाइ, जेएण परिविच्छए । ॥ २ ॥ ॥३॥ ॥ ४ ॥ ॥ ५ ॥ ॥६॥ ॥७॥ 11211 सूत्रकृताङ्ग सूत्रम् १/३/-/ १६४ / नि. [५० ] मू. (१६६) बृ. साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह-- 'पयाया' इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः प्रकर्षेण विकटपादपातं 'रणशिरसि' संग्राममूर्धन्यग्रानीके याता- गताः, के ते ? - Page #94 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशकः- १ ९१ 'शूराः' शूरंमन्याः-सुभटाः, ततः सङ्गङ्ग्रामेसमुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्घाते सति तत्र च सर्वस्या-कुलीभूतत्वात्। माता पुत्रंनजानाति कटीतो भ्रश्यन्तस्तनन्धयमपिनसम्यक्प्रतिजागर्तीत्येवंमातापुत्रीये सङ्गङ्ग्रामे परानीकसुभटेन जेत्राचक्रकुन्तनाराचशक्त्यादिभि परि-समन्तात् विविधम्-अनेकप्रकारं क्षतो-हतश्छिन्नो वा यथाकश्चिदल्पसत्त्वो भङ्गमुपयाति दीनो भवतीतियावदिति दान्तिकमाहमू. (१६७) एवं सेहेवि अप्पुढे, भिक्खायरियाअकोविए। सूरं मन्नति अप्पाणं, जाव लूहं न सेवए। वृ. 'एवमितिप्रक्रान्तपरामर्शार्थः, यथाऽसौशूरंमन्य उत्कृष्टिसिंहनादपूर्वकंसङ्ग्रामशिरस्युपस्थितः पश्चाजेतारं वासुदेवमन्यवायुध्यमानंदृष्ट्वादैन्यमुपयाति, एवं शैक्षकः' अभिनवप्रव्रजितः परीषहैः अस्पृष्टः अच्छुप्तः किं प्रज्यायांदुष्करमित्येवं गर्जन् 'भिक्षाचर्यायां भिक्षाटने अकोविदः' अनिपुणः,उपलक्षणार्थत्वादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितत्वा-दप्रवीणः,सएवम्भूत आत्मानं तावच्छिशुपालवत्शूरंमन्यते यावओतारमिव 'रू' संयमं कर्मसंश्लेषकारणा- भावात् 'नसेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति॥ मू. (१६८) जया हेमंतमासंमि, सीतं फुसइ सव्वगं। तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ।। वृ, संयमस्य रूक्षत्वप्रतिपादनायाह-'जया हेमंते' इत्यादि, 'यदा कदाचित् 'हेमन्तमासे' पौषादौ 'शीतं' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तस्मिन्नसह्ये शीतस्पर्शे लगति सति एके 'मन्दा' जडागुरुकर्माणो विषीदन्ति दैन्यभावमुपयान्ति राज्यहीना राज्यच्युताः यथा-क्षत्रिया राजान इवेति उष्णपरीषहमधिकृत्याहमू. (१६९) पुढे गिम्हाहितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ।। वृ. 'ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तोव्याप्तः सन् ‘विमनाः' विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तोनितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्र' तस्मिन्नुष्णपरीषहोदये 'मन्दा' जडाअशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह मत्स्याअल्पोदकेविषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवंसत्त्वाभावात्संयमात्भ्रश्यन्त इति, इदमुक्तं भवति-यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति, एवमल्पसत्त्वाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेदक्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते-व्याकुलितचेतसः संयमानुष्ठान प्रति विषीदन्ति। मू. (१७०) सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा घेव, इचाहंसु पुढोजणा। वृ.साम्प्रतंयाच्जापरीषहमधिकृत्याह-'सदा दत्ते' इत्यादि, यतीनां सदा सर्वदादन्तशोधनाद्यपिपरेण दत्तम् एषणीयम्-उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनात नां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्या' याच्यापरीषहोऽल्पसत्त्वैर्दुखेन ‘प्रणोद्यते' त्यज्यते, तथा चोक्तम् - Page #95 -------------------------------------------------------------------------- ________________ ९२ सूत्रकृताङ्ग सूत्रम् १/३/१/१७० ॥१॥ "खिजइ मुहलावण्णं वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणंतस्स ।। ॥२॥ गतिभ्रंशो मुखे दैन्यं, गात्रस्वेदो विवर्णता। मरणे यानि चिह्नानि, तानि चिलानि याचके ।। इत्यादि, एवं दुस्त्यजं याच्यापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति 'पृथगजनाः' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा ये एते यतयः जल्लाविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताःपूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभि-कृष्यादिभिरातः-तत्कर्तुमसमर्था उद्विग्नाः सन्तोयतयः संवृत्ता इति, तथैते दुर्भगाः' सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति। मू. (१७१) एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्य मंदा विसीयंति, संगाममिव भीरुया ।। वृ. 'एतान्' पूर्वोक्तानाक्रोशरूपान्तथा चौरचारिकादिरूपान्शब्दान सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः 'तत्र' तस्मिन् आक्रोशे सति ‘मन्दा अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः 'संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशः पटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्मनादल्पसत्त्वाः संयमे विषीदन्ति ।। मू. (१७२) अप्पेगे खुधियं भिक्खुं, सुणी डंसति लूसए। तत्य मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥ वृ. वधपरीषहमधिकृत्याह-'अप्पेगे इत्यादि,अपिसंभावने, एकः कश्चिच्छ्वादिलूषयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधियं तिक्षुधितं-बुभुक्षितंभिक्षामटन्तंभिक्षु 'दशति' भक्षयति दशनैरङ्गावयवंविलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणेसति मन्दा' अज्ञाअल्पसत्त्वतया विषीदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनो' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्चैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्रामकण्टकानाम् पुनरपि तानधिकृत्याहमू. (१७३) अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो । वृ.अपिःसंभावने, 'एके केचनापुष्टधर्माणः-अपुण्यकर्माणः 'प्रतिभाषन्ते'ब्रुवते, प्रतिपयःप्रतिकूलत्वं तेन चरन्ति प्रातिपन्थिकाः-साधुविद्वेषिणस्तदावमागताः कथञ्चिप्रतिपथे वा हटा अनार्या एतद्ब्रुवते, सम्भाव्यतऐतदेवंविधानां, तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो य एते' यतयः ‘एवंजीविन' इति परगृहाण्यटन्त अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दुःखितं जीवन्तीति ।। मू. (१७४) अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा। मुंडा कंडूविणटुंगा, उज्जला असमाहिता ।। Page #96 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशकः - १ वृ. किञ्च-अप्येके केचन कुसृतिप्रसृता अनार्या वाचं युअन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयोनग्नास्तथा 'पिंडोलग'त्ति परपिण्डप्रार्थका अधमाः-मलाविलत्वात् जुगुप्सिता 'मुण्डा लुञ्चितशिरसः, तथा-कचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गाविकृतशरीराः, अप्रतिकमशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोदतो जल्ल:-शुष्कप्रस्वेदो येषां ते उज्जल्लाः, तथा असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति । साम्प्रतमेतद्माषकाणां विपाकदर्शनायाहमू. (१७५) एवं विप्पडिवोगे, अप्पणा उ अजाणया। तमाओ ते तमंजंति, मंदा मोहेण पाउडा ।। वृ. 'एवम्' अनन्तरोक्तनीत्या 'एके' अपुण्यकर्माणो 'विप्रतिपन्नाः' साधुसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दादन्येषां चविवेकिनांवचनमकुर्वाणाः सन्तस्ते तमसः' अज्ञानरूपादुत्कृष्टं तमो यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनीं गतिगच्छन्ति, यतो 'मन्दा' ज्ञानावरणीयेनावष्टब्धाः तथा 'मोहेन मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तःखिड्गप्रायाःसाधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम् - ॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । __ एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ।। मू. (१७६) पुट्ठो य दंसमसएहि, तणफासमचाइया। नमे दिढे परे लोए, जइ परं मरणं सिया।। वृ. दंशमशकपरीषहमधिकृत्याह-क्वचित्सिन्धुताम्रलिप्तकोकणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः ‘स्पृष्टश्च' भक्षितः तथा निष्किञ्चनत्वात् तृणेषु शयानस्तत्स्पर्श सोढुमशक्नुवन् आर्तः सन् एवं कदाचिञ्चिन्तयेत्, तद्यथा परलोकार्थमेतद्दुष्करमनुष्ठानं क्रियमाणंघटते, नचासौमया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षत्वात्, नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं ममानेन क्लेशाभितापेन मरणं स्यात्, नान्यत्फलं किञ्चनेति । अपिच संतत्ता केसलोएणं, बंभचेरपराइया। तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ।। वृ. समन्तात् तप्ताः सन्तप्ताः केशानां लोच उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हिमहती पीडोपपद्यते, तया चाल्पसत्त्वाः विनोतसिकां भजन्ते, तथा ब्रह्मचर्यं बस्तिनिरोधस्तेन च पराजिताः' पराभग्नाः सन्तः 'तत्र' तस्मिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वासति मन्दा' जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति, यथा मत्स्याः केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वकषकामपराजिताः संयमजीवितात् भ्रश्यन्ति ॥ मू. (१७८) आयदंडसमायारे, मिच्छासंठियभावना। हरिसप्पओसमावना, कई लूसंतिऽनारिया ।। वृ.किञ्च-आत्मादण्डयते-खण्डयतेहितात्भ्रश्यतेयेनस आत्मदण्डः 'समाचारः अनुष्ठानं Page #97 -------------------------------------------------------------------------- ________________ ९४ सूत्रकृताङ्ग सूत्रम् १/३/१/१७८ येषामनार्याणांतेतथा, तथा मिथ्या-विपरीतासंस्थिता-स्वाग्रहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्यासंस्थितभावना-मिथ्यात्वोपहतहष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत्, त एवम्भूता अनार्या सदाचारं साधु क्रिडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् ‘लूषयन्ति कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति एतदेव दर्शयितुमाहमू. (१७९) अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं। बंधति भिक्खुयं बाला, कसायवयणेहि य । वृ.अपिसंभावने, एकेअनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिं'ति अनार्यदेशपर्यन्ते वर्तमानं 'चारो'त्ति चरोऽयं 'चोरः' अयं स्तेन इत्येवं मत्वा सुव्रतंकदर्थयन्ति, तथाहि-'बमन्ति' रज्ज्वादिना संयमयन्ति भिक्षुकं भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनश्च' क्रोधप्रधानकटकवचनैर्निर्भसंयन्तीति ।। मू. (१८०) तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ।। वृ अपिच-तत्र तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायें 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रहतोऽथवा 'फलेन वा' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्थमानः कश्चिदपरिणतः ‘बालः' अज्ञो ज्ञातीनां स्वजनानां स्मरति, तद्यथा-यद्यत्र मम कश्चित् सम्बन्धी स्यातनाहमेवम्भूतांकदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथास्त्रीकद्धासती स्वग्रहातगमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति॥ मू. (१८१) एते भो ! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं। तिबेमि। वृ. उपसंहारार्थमाह-भो इति शिष्यामन्त्रणं, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः ‘कृत्स्नाः' संपूर्णाबाहुल्येनस्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शा, कथम्भूताः ?- “परुषाः' परुषैरनार्ये कृतत्वात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुखेनाधिसह्यन्तेतांश्चासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि _ 'शरजालसंवीता' शरशताकुला भङ्गमुपयान्ति एवं क्लीबा' असमर्था अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेवगताः, पाठान्तरं वा 'तिव्वसड्ढे'त्ति तीव्ररुपसर्गरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् । अध्ययनं-३ उद्देशकः-१ समाप्तः - अध्ययन-३ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गा प्रतिपिपादयिषिताः,तेचानुकूलाः प्रतिकूलाच, तत्रप्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् Page #98 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - २ मू. (१८२) अहिमे सुहुमा संगा, भिक्खुणं जे दुरुत्तरा। जत्थ एगे विसीयंति, न चयंति जवित्तए।। वृ, 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाःप्रतिपाद्यन्त इत्यानन्तर्यार्थ, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः' प्रायश्चेतोविका-रकारित्वेनान्तराः, नप्रतिकूलोपसर्गाइव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया बादरा इति, ‘सङ्गा' मातापित्रादिसम्बन्धाः। यएते भिक्षूणां' साधूनामपि दुरुत्तरा' दुर्लफ्या-दुरतिक्रमणीया इति, प्रायोजीवितविघ्नकरैरपि प्रतिकूलोपसर्गेरुदीनुध्यिस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते त्वनुकूलोपसस्तिानप्युपायेन धर्माच्चयावयन्ति, ततोऽमीदुरुत्तराइति, यत्र' येषूपसर्गेषु सत्सु 'एके अल्पसत्त्वाः सदनुष्ठानं प्रति "विषीदन्ति' शीतलविहारित्वं भजन्ते सर्वथा वा-संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं'-वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शकुवन्ति' समर्था भवन्तीति । मू. (१८३) अप्पेगे नायओ दिस्स, रोयंति परिवारिया। पोसणे ताय! पुट्ठोऽसि, कस्स ताय! जहासिणे॥ वृ. तानेव सूक्ष्मसङ्गान् दर्शयितुमाह-'अपि संभावने 'एके तथाविधा ‘ज्ञातयः' स्वजना मातापित्रादयः प्रव्रजन्तंप्रद्रजितं वा 'दृष्टवा' उपलभ्य परिवार्य' वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च दीनं यथा-बाल्यात्प्रभृति त्वमस्माभि पोषितो वृद्धानांपालको भविष्यतीतिकृत्वा, ततोऽधुना 'नः' अस्मानपि त्वं 'तात !' पुत्र ‘पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातास्मान् त्यजसि?, नास्माकं भवन्तमन्तरेण कश्चित्रातां विद्यत इति किञ्चमू. (१८४) पिया ते थैरओ तात!, ससा ते खुड्डिया इमा। भायरो ते सगा तात!, सोयरा किं जहासिणे?। वृ. हे 'तात !' पुत्र ! पिता 'ते' तव स्थविरो' वृद्धः शतातीकः स्वसा' च भगिनी तव 'क्षुल्लिका' लध्वी अप्राप्तयौवना 'इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'स्वका' निजास्तात ! “सोदरा' एकोदराः किमित्यस्मान् परित्यजसीति । मू. (१८५) मायरं पियरं पोस, एवं लोगो भविस्सति। एवं खु लोइयं ताय!, जे पालंति य मायरं ।। वृ. तथा मायरमित्यादि, 'मातरं' जननीं तथा 'पितरं जनयितारं 'पुषाण' बिभृहि, एवं चकृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव 'लौकिकं लोकाचीर्णम्, अयमेव लौकिकः पन्था यदुत-वृद्धयोर्मातापित्रोः प्रतिपालनमिति, तथा चोक्तम् - ॥१॥ “गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।। -इति अपिचमू. (१८६) उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया। भारिया ते नवा तात!, मा सा अन्नंजणं गमे । वृ. 'उत्तराः प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापोयेषां तेतथाविधाः Page #99 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/३/२/१८६ पुत्राः 'ते' तव 'तात' पुत्र! 'क्षुल्लका' लघवः तथा भार्या पत्नी ते 'नवा' प्रत्यग्रयौवनाअभिनवोढा वा मा असौ त्वया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्याद्, अयं च महान् जनापवाद इति ॥ मू. (१८७) एहिताय ! घरंजामो, मा य कम्मे सह्य वयं । वितियंपि ताय! पासामो, जामु ताव सयं गिहं ।। वृ.अपिच-जानीमो वयं यथा त्वं कर्मभीरुस्तथापि 'एहि' आगच्छ गृहं 'यामो' गच्छामः मा त्वं किमपिसाम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः-साहाय्यं करिष्यामः । एकवारं तावद्गृहकर्मभिर्भग्नस्त्वं तात ! पुनरपि द्वितीयं वारं पश्यामो' द्रक्ष्यामो यदस्माभिः सहायैर्भवतो भविष्यतीत्यतो ‘यामो गच्छामः तावत्स्वकं गृहं कुर्वेतदस्मद्वचनमिति मू. (१८८) गंतुं ताय! पुणो गच्छे, न तेणासमणो सिया। अकामगं परिकम्म, को ते वारेउमरिहति ।। द, 'तात' पुत्र ! गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन एतावता गृहगमनमात्रेण त्वमश्रमणो भविष्यसि, 'अकामगं'ति अनिच्छन्तंगृहव्यापारेच्छारहितं पराक्रमन्त' स्वाभिप्रेतानुष्ठानं कुर्वाणं कः ‘त्वां' भवन्तं 'वारयितुं' निषेधयितुम् ‘अर्हति' योग्यो भवति, यदिवा-'अकामगं'ति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ।। मू. (१८९) जंकिंचि अणगंतात!, तंपि सव्वं समीकतं। हिरन्नं ववहाराइ, तंपि दाहामु ते वयं ॥ वृ. अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयत्वेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातंव्यवहारादावुपयुज्यते, आदिशब्दात्अन्येन वा प्रकारेण तवोपयोगंयास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा भयमिति ।। उपसंहारार्थमाहमू. (१९०) इचैव णं सुसेहंति, कालुणीयसमुट्टिया। विबद्धो नाइसंगेहि, ततोऽगारं पहावइ। वृ. णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थिताः 'तं प्रव्रजितंप्रव्रजन्तंवा 'सुसेहंति'त्ति सुष्टुशिक्षयन्ति व्युद्राहयन्ति, सचापरिणतधर्माऽल्पसत्त्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो-मातापितृपुत्रकलत्रादिमोहितः ततः ‘अगारं' गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबन्धातीति॥ मू. (१९१) जहा रुखं वणे जायं, मालुया पडिबंधई। एव णं पडिबंधति, नातओ असमाहिणा || वृ. किन्चान्यत्-यथा वृक्षं 'वने' अटव्यां 'जातम् उत्पन्नं 'मालुया' वल्ली 'प्रतिबन्धाति' वेष्टयत्येवं 'णं' इति वाक्यालङ्कारे 'ज्ञातयः' स्वजनाः 'तं' यतिं असमाधिना प्रतिबन्धन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा घोक्तम् - ॥१॥ “अमित्तो मित्तवेसेणं, कंठे धेत्तूण रोयइ। मा मित्ता! सोग्गइंजाहि, दोवि गच्छामु दुग्गई।" अपिच Page #100 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - २ मू. (१९२) विबद्धो नातिसंगेहि, हत्थीवावी नवग्गहे। पिट्टतो परिसप्पंति, सुयगोव्च अदूरए।। वृ. विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरेसर्वमनुकूलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उप्रव्रजितंपुनर्जातमिवमन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः॥ मू. (१९३) एते संगा मणूसाणं, पाताला व अतारिमा । कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ।। वृ. सङ्गदोषदर्शनायाह 'एते' पूर्वोक्ताः सज्यन्त इतिसङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते 'अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्चैर्दुखेनातिलश्यन्ते, 'यत्रच' येषुसङ्गेषु क्लीबा' असमर्धा क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थ, किंभूताः ?-'ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः 'मूर्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति अपिचमू. (१९४) तंच भिक्खू परित्राय, सव्वे संगा महासवा । जीवियं नावकंखिज्जा, सोचा, धम्ममनुत्तरं ।। वृ. 'तंच' ज्ञातिसङ्गं संसारैकहेतुंभिक्षु परिज्ञया (ज्ञात्वा) प्रत्याख्यानपरिज्ञया परिहरेत् किमिति?, यतः ‘सर्वेऽपि ये केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं-गृहावासपाशं 'नाभिकाक्षेत्' नाभिलषेत्, प्रतिकूलैचोपसर्गसद्भिर्जीविताभिलाषीन भवेद, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्क्षत् कि कृत्वा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरंप्रधानं मौनीन्द्रमित्यर्थः ।। मू. (१९५) अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबहा जहिं।। वृ.अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थ, पाठान्तरं वा 'अहो' इति, तच्च विस्मये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामय-न्तीत्वावर्ता, तत्र द्रव्यावर्तानद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपप्रार्थनाविशेषाः । एते चावर्ता 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्रोवेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तद्दूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्ति कुर्वन्तीति तानेवावर्तान् दर्शयितुमाहमू. (१९६) रायाणो रायऽमञ्चाय, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ।। 27 Page #101 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/३/२/१९६ वृ. 'राजानः' चक्रवत्यादयो ‘राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि भोगैः' शब्दादिभिर्विषयैः 'निमन्त्रयन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम्? -भिक्षुकं “साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसारुपनिमन्त्रित इति । एवमन्येऽपिकेनचित्सम्बन्धेन व्यवस्थितायौवनरूपादिगुणोपेतंसाधुं विषयोद्देशोप-निमन्त्रयेयुरिति मू. (१९७) हत्थऽस्सरहजाणेहिं, विहारगमणेहि य।। भुंज भोगे इमे सग्घे, महरिसी! पूजयामुतं॥ वृ. एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैविषयैरुपनिमन्त्रयेयुः, तद्यथा-भुङ्क भोगान्' शब्दादिविषयान् ‘इमान् अस्माभिौंकितान्प्रत्यक्षासन्नान् श्लाध्यान्' प्रशस्तान् अनिन्द्यान् ‘महर्षे' साधो! वयं विषयोपकरणढौकनेन त्वां' भवन्तं 'पूजयामः' सत्कारयाम इति किञ्चान्यत्मू. (१९८) वत्थगंधमलंकार, इत्थीओ सयणाणि य। भुंजाहिमाइं भोगाई, आउसो ! पूजयामुतं ।। वृ. 'वस्त्रं' चीनांशुकादि गन्धाः' कोष्ठपुटपाकादयः, वस्त्राणिचगन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' कटककेयूरादिकं तथा 'स्त्रियः' प्रत्यग्रयौवनाः 'शयनानि च' पर्यङ्कतूलाप्रच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनुकूलानस्माभित्रैकितान् ‘भुंज' तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं 'पूजयामः' सत्कारयाम इति । मू. (१९९) जो तुमे नियमो चिन्नो, भिक्खुभावंमि सुव्वया!। अगारमावसंतस्स, सब्बो संविजए तहा।। वृ.अपिच-यस्त्वया पूर्व भिक्षुभावे प्रव्रज्यावसरे नियमो' महाव्रतादिरूपः 'चीर्ण अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे सुव्रत! ससाम्प्रतमपि अगारं' गृहम् आवसतः' गृहस्थभावंसम्यग् अनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुष्कृतस्यानुचीर्णस्य नाशोऽस्तीति भावः। किञ्च. भू. (२००) चिरं दुइजमाणस्स, दोसो दाणिं कुतो तव?। इलेवणं निमंति, नीवारेण व सूयरं । चिरं' प्रभूतं कालं संयमानुष्ठानेन ‘दुइजमाणस्स'त्ति विहरतः सतः ‘इदानीं' साम्प्रतं दोषः गुलस्तव?, नैवास्तीति भावः, इत्येवं हस्त्यश्वादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुप गाप-करणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'त' भिक्षुसाधुजीविनं निमन्त्रयन्ति' भोगबुद्धिं कारयन्ति दृष्टान्तं दर्शयति-यथा 'नीवारेण' ब्रीहिविशेषकणदानेन 'सूकर वराहं कूटके प्रवेशयन्ति एवं तमपि सामिति ॥ भू.२०/ोमा भिखार लाए. अचयंता जवित्तए। सपा विसीयति, उखाणंसि व दुब्बला ।। १. यस्ताचार्लोपसंहारासंभा-भिक्षूणा-साधूनामुद्युक्तविहारिणांचर्या-दशविधवरुवालसामातारी समिरमादिका तः मोदिताः प्रेरिता यदिवा भिक्षुचर्यया करणभूतया ___ Page #102 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उदेशक:- २ सीदन्तश्चोदिताः- तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तञ्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थाः सन्तः । 'तत्र' तस्मिन् संयमे मोक्षैकगमहेतौ भवकोटिशताबाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयमं परित्यजन्ति, दृष्टान्तमाहऊर्ध्वं यानमुद्यानं-मार्गस्योन्नतो भाग उट्टङ्कमित्यर्थ तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति - ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावभन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्था पूर्वोक्तभावावर्ते परामग्ना विषीदन्ति किञ्चभू. (२०२) अचयंता व लूहेणं, उचहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥ ९९ बृ. 'रूक्षेण' संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यतेरण तपसा 'तर्जिता' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि ' उट्टङ्कमस्तके 'जीर्णो' दुर्वलो गौरव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते किं पुनर्जरद्गवस्येति जीर्णग्रहणम् एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्तेरुपसर्गितानां मन्दानामिति ॥ भू. (२०३) एवं निमंतणं लदुं, मुच्छिया गिद्ध इत्थीसु । अच्झोववन्ना कामेहिं, चोइजंता गया गिहं ॥ त्तिबेमि ॥ बृ. सर्वोपसंहारमाह-' एवं ' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूर्च्छिता' अत्यन्तासक्ताः । तथा स्त्रीषु 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्नाः ' कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाः संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्त्वा गृहं गतागृहस्थीभूताः । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं -३ उद्देशकः-२ समाप्तः -: अध्ययनं ३ उद्देशकः-३ :- : वृ. उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्वन्धः- इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् पू. (२०४) जहा संगामकालंमि, पिट्ठतो भीरु वेहइ । वलयं ग्रहणं नूमं, को जाणइ पराजयं ! वृ. ध्ष्टान्तेन हि भन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव ध्यन्तमाह-यथा कश्चिद् 'भीरु' अकृतकरणः 'संग्रामकाले' पररानीकयुद्धावसरे समुपस्थित 'पृथ्तः प्रेते आदावेवापटप्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकपति । तदेव दर्शयति- 'चलय' मिपियनोदकं बलचाकारण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षैः कटिसंस्थानीयं 'तूम' ति प्रच्छन्नं गिरिगुहादिकं किमित्यसा वेवमवलोकयति ? यत एवं मन्यते तत्रैवम्भूते तुमुले 7 2 Page #103 -------------------------------------------------------------------------- ________________ १०० सूत्रकृताङ्ग सूत्रम् १/३/३/२०४ सङ्ग्रामे सुभटकुले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीवन्त इति ॥ पू. (२०५) मुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसी । पराजियाऽवसप्पामो, इति भीरू उवेहई ॥ वृ. किञ्च मुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त' कालविशेषलक्षणोऽवसरस्ता भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् " अवसर्पामो नश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरु पृष्ठत आपप्रतीकारार्थं शरणमुपेक्षते ॥ इति श्लोकद्वयेन यान्तं प्रदर्श्य दान्तिकमाह मू. (२०६) एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अनागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥ वृ. 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एवमेव 'श्रमणाः' प्रव्रजिता 'एके' केचनाध्ढमतयोऽल्पसत्त्वा आत्मानम् ‘अबलं' यावज्जीवं संयमाभारवहनाक्षमं ज्ञात्वा अनागतमेव भयं 'दृष्ट्वा' उत्प्रेक्ष्य तद्यथा - निष्किञ्च- नोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुत मधीतं ममावमादौ त्राणाय स्यादिति ॥ को जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइज्जता पवक्खाणो, न नो अत्थि पकप्पियं ॥ पू. (२०७) वृ. एतच्चैतेऽवकल्पयन्तीत्याह - अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गति बहूनि प्रमादस्थानानि विद्यन्ते अतः ' को जानाति ? ' कः परिच्छिनत्ति 'व्यापातं संयमजीवितात् भ्रंशं, केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिषहात् उत 'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलाषाद् ? इत्येवं ते वराकाः प्रकल्पयन्ति, न 'नः' अस्माकं किञ्चन 'प्रकल्पितं ' पूर्वोपार्जितद्रव्यजा- तमस्ति यत्तस्यामवस्थायामुपयोगं यास्यति, अतः 'चोद्यमानाः ' परेण पृच्छ्यमाना हस्तिशिक्षा- धनुर्वेदादिकं कुटिलविण्टलादिकंवा 'प्रवक्ष्यामः' कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम् “उपशमफलाद्विधाबीजात्फलं धनमिच्छतां, ॥१॥ भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेर्बीजं न जातु यवाङ्कुरम् ॥ -इति उपसंहारार्थमाह मू. (२००९) इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥ वृ. 'इत्येवमि’ति पूर्वप्रक्रान्तपरामर्शार्थ, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं Page #104 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - ३ १०१ प्रति उपेक्षिणोभवन्तीति, एवं प्रव्रजितामन्दभाग्यतयाअल्पसत्त्वाआजीविकाभयाद्व्याकरणादिकं जीवनोपायत्वेन ‘प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः ? -विचिकित्सा-चित्तविप्लुतिः-किमेनं संयमभारमुक्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम् । ॥१॥ “लुक्खमणुण्हमणिययं कालाइकंतभोयणं विरसं। भूमीसयणं लोओ असिणाणं बंभचेरं च ॥ तांसमापन्नाः-समागताः, यथा पन्थानंप्रति अकोविदा' अनिपुणाः, किमयंपन्था विवक्षितं भूभाग्यास्यत्युत नेतीत्येवं कृतचित्तविप्लुतयोभवन्ति, तथा तेऽपिसंयमभारवहनप्रतिविचिकित्सा समापन्ना निमित्तगणितादिकं जीविकार्थं प्रत्युपेक्षन्त इति । मू. (२०९) जे उ संगामकालंमि, नाना सूरपुरंगमा। नो ते पिट्ठमवेहिति, किं परं मरणं सिया।। वृ, साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह-ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः ‘सङ्ग्रामकाले' परानीकयुद्धावसरे ‘ज्ञाताः' लोकविदिताः, कथम् ?-'शूरपुरङ्गमाः' शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुर्गादिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि त्वेवं मन्यन्तेकिमपरमत्रास्माकंभविष्यति?, यदि परं मरणं स्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम् - ॥१॥ "विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छतां विशदम् । प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम् ।। -तदेवं सुभटष्टान्तं प्रदर्श्य दान्तिकमाहमू. (२१०) एवं समुट्ठिए भिक्खू, बोसिजाऽगारबंधणं । आरंभ तिरियं कटु अत्तत्ताए परिव्वए। वृ.यथासुभटा ज्ञातानामतः कुलतः शौर्यतः शिक्षातश्चतथा सन्नद्धबद्धपरिकराःकरगृहीतहेतयः प्रतिभटसमितिभेदिनोन पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपिमहासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवगंजेतुं सम्यक्-संयमोत्थानेनोत्थितः समुत्थितः, तथाचोक्तम् ॥१॥ “कोहं माणं च मायं च, लोहं पंचिंदियाणि य । दुजयं चेक्मप्पाणं, सव्वमप्पे जिए जियं ।। किं कृत्वा समुत्थित इति दर्शयति- व्युत्सृज्य' त्यक्त्वा अगारबन्धनं गृहपाशंतथा आरम्भ सावद्यानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मत्वम्-अशेषकर्मकलङ्करहितत्वं तस्मै आत्मत्वाय, यदिवा-आत्मा-मोक्षः संयमो वा तद्मावस्तस्मै-तदर्थं परि-समन्ताद्रजेत्संयमानुष्ठा- नक्रियायां दत्तावधानो भवेदित्यर्थः।। मू. (२११) तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ।। वृ.निर्युक्तौ यदभिहितमध्यात्मविषीदनंतदुक्तम्, इदानींपरवादिवचनंद्वितीयमर्थाधिकारमधिकृत्याह-'त' मिति साधुम् ‘एके' ये परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पः , पिणा Page #105 -------------------------------------------------------------------------- ________________ १०२ सूत्रकृताङ्ग सूत्रम् १/३/३/२११ ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यमाणं परि-समन्ताभाषन्ते। तंभिक्षुकं साध्वाचारं साधु-शोभनंपरोपकारपूर्वकंजीवितुंशीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण एवं' वक्ष्यमाणं परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्तेदूरे समाधेः' मोक्षाख्यात्सम्याध्यानात्सदनुष्ठानात्वावर्तन्तइति यत्तेप्रभाषन्तेतद्दर्शयितुमाहमू. (२१२) संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया। पिंडवायं गिलाणस्स, जं सारेह दलाह य॥ वृ. सम्-एकीभावेन परस्परोपकार्योपकारितया च बद्धाः' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धागृहस्थास्तैः समः-तुल्यः कल्पो-व्यवहारोऽनुष्ठानंयेषान्तेसम्बद्धसमकल्पा-गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूर्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि अन्योऽन्य परस्परतः शिष्याचार्याधुपकारक्रियाकल्पनयामूर्छिताः तथाहि-गृहस्थानामयंन्यायो यदुत-परस्मैदानादिनोपकार इति, नतुयतीनां, कथमन्योऽन्यं मूर्छिता इति दर्शयति-'पिण्डपातं' भैक्ष्यं गलानस्य' अपरस्य रोगिणः साधोः यद्-यस्मात् सारेह'त्ति अन्वेषयत, तथा 'दलाहय'त्तिग्लानयोग्यमाहारमन्विष्य तदुपकारार्थं ददवं, चशब्दादाचादिः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा इति। मू. (२१३) । एवं तुन्भे सरागत्था, अन्नमन्नमणुब्बसा । नट्ठसप्पहसब्भावा, संसारस्स अपारगा। वृ. साम्प्रतमुपसंहारच्याजेन दोषदर्शनायाह-‘एवं' परस्परोपकारादिना यूयं गृहस्था इव सराग- स्थाः-सह रागेण वर्तत इति सरागः-स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः-परस्परायत्ताः, यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः-अपगतः सत्पथः-सद्भावः-सन्मार्ग परमार्थो येभ्यस्ते तथा एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति अयं तावत्पूर्वपक्षः, अस्य च दूषणायाहमू. (२१४) अह ते परिभासेजा, भिक्खु मोक्खविसारए। एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ वृ. 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षु 'परिभाषेत' ब्रूयात्, किम्भूतः ? 'मोक्षविशारदो' मोक्षमार्गस्य-सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तंयूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं, यदिवा रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मदभ्युपगमस्य दूषणाद्वेषः, अथै वं पक्षद्वयं सेवध्वं यूयं, तद्यथा-वक्ष्यमामनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः यतिलिङ्गाभ्युपगमात्किल प्रव्रजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-स्वतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां निन्दनमितिभावः ।। मू. (२१५) तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या। तं च बीओदगंभोच्चा, तमुहिस्सादि जंकडं ।। वृ. आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल Page #106 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -३, उद्देशकः - ३ १०३ वयमपरिग्रह- तया निष्किञ्चना एवमभ्युपगमं कृत्वा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषुमूर्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्यु-पगमो भवतामकलङ्क इति, अन्यच्च ‘ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद्गृहस्थानयनेचयोदोषसद्भावः स भवतामव-श्यंभावीति, तमेव दर्शयति ___ यञ्च गृहस्थैर्वीजोदकाद्युपमर्दैनापादितमाहारं मुक्त्वातंग्लानमुद्दिश्योद्देशकादि यत्कृतं' यन्निष्पादितंतदवश्यं युष्मतपरिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषुभुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयायुवृत्त्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति किश्चान्यत्मू. (२१६) लित्ता तिव्वाभितावेणं, उझिआ असमाहिया। नातिकंडूइयं सेयं, अरुयस्सावरज्झती ।। वृ.योऽयंषड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्याष्टितया च साधुपरभाषणेनच तीब्रोऽभितापः-कर्मबन्धरूपस्तेनोपलिप्ताः-संवेटितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोद्देसकादिभोजित्वात्तथा असमाहिता' शुभाध्यवसापरहिताः सत्साधुप्रद्वेषित्वात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह-यथा 'अरुषः' व्रणस्यातिकण्डूवितं-नखैर्विलेखनं न श्रेयो-न शोभनं भवति । अपि त्वपराध्यति-तत्कण्डूयनं व्रणस्य दोषमावहति, एवं भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किच्चना इत्येवं निष्परिग्रहतया षडजीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोपकरणं परिहतवन्तः, तदभावाचावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः ॥ मू. (२१७) तत्तेण अनुसिट्टा ते, अपडिन्नेण जाणया। नएस नियए मग्गे, असभिक्खा वती किती। वृ. अपि च-'तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमता-नुसारिणआजीविकादयः बोटिका वा अनुशासिताः' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन ?-'अप्रतिज्ञेन' नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थ, कथमनुशासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो' न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा। ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतःप्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ।। यथाप्रतिज्ञातमाहमू. (२१८) एरिसा जा वई एसा, अग्गवेणु ब्व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउं न उ भिक्खुणं । Page #107 -------------------------------------------------------------------------- ________________ १०४ सूत्रकृताङ्ग सूत्रम् १/३/३/२१९ वृ. येयमीद्दक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षितातन्वी युक्त्यक्षमत्वात् दुर्बलेत्यर्थः, तामेव वाचम्दर्शयति-'गृहिणां' गृहस्थानां यदभ्याहृतं तधतेर्भोक्तुं श्रेयः' श्रेयस्कर, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुत्वं चास्या वाच एवं द्रष्टव्यंयथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्गमादिदोषरहितमिति ।। मू. (२१९) धम्मपन्नवणा जा सा, सारंभा न विसोहिआ। न उ एयाहिं दिट्ठीहिं, पुव्वमासिं पग्गप्पि। वृ. किञ्च-धर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदाननादिना यतेग्लानाद्यवस्थायामुपकर्तव्यं नतुयतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभि पूर्वम्' आदौ सर्वज्ञैः प्रकल्पितं' प्ररूपितंप्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा-असंयतैरेषणाद्यनुपयुक्तैग्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिण-स्तत्प्रद्वेषिणश्चेत्यापन्नमिति अपिचमू. (२२०) सव्वाहि अनुजुत्तीहिं, अचयंता जवित्तए। ततो वायं निराकिचा, ते भुजोवि पगभिया।। वृ.तेगोशालकमतानुसारिणोदेगम्बरा वासर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुद्दष्टान्तैः प्रमाण भूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः' तस्माधुक्तिभिः प्रतिपादयितुम् सामर्थ्याभावाद् ‘वाद निराकृत्य' सम्यग्हेतुभ्रष्टान्तर्यो वादो-जल्पस्तं परित्यज्य ते तीर्थका श्रूयः' पुनरपि वादपरित्यागे सत्यपि प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा॥१॥ “पुराणं मानवो धर्म, साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानिचत्वारि, न हन्तव्यानि हेतुभिः ।।" अन्यच्च किमनया बहिरङ्गया युक्ताऽनुमानादिकयाऽत्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्म श्रेयान्नापर इत्येवं विवदन्ते, तेषामिदमुत्तरम्-न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपिप्रयोजनमस्तीति, उक्तं च॥१॥ “एरंडकट्टरासी जहा य गोसीसचंदनपलस्स। मोल्ले न होज्ज सरिसो कित्तियमेत्तो गणिज्जतो।। ॥२॥ तहवि गणणातिरेगो जहरासी सोन चंदनसरिच्छो । तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ।। एक्को सचक्खुगो जह अंधलयाणं सएहिं बहुएहि । __ होइ वरं दट्ठव्बो नहु ते बहुगा अपेच्छंता॥ ॥४॥ एवं बहुगावि मूढा न पमाणं जे गईन याणंति । संसारगमणगुविलं निउणस्स य बंधमोक्खस्स ॥ (इत्यादि) मू. (२२१) रागदोसाभिभूयप्पा, मिच्छत्तेण अभिहुता। आउस्से सरणं जंति, टंकणा इव पव्वयं ।। Page #108 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं ३, उद्देशकः - ३ १०५ वृ. अपिच रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिका-नांतेतथा, 'मिथ्यात्वेन' विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण अभिद्रुता' व्याप्ताः सधुक्तिभिवदिं कर्तुमसमर्था क्रोधानुगा 'आक्रोशान्' असभ्यवचनरूपांस्था दण्डमुष्टयादिमिश्च हननव्यापारं यान्ति' आश्रयन्ते । अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा 'टऋणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना स्वानीकादिनाऽभिद्रूयन्तेतदातेनानाविधैरप्यायुधैर्योद्धुमसमर्था सन्तः पर्वतं शरणमाश्र-यन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहतहष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा॥१॥ “अक्कोसहणणमारणधम्मब्भंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभाभि ।। किश्चान्यत्मू. (२२२) बहुगुणप्पगप्पाई, कुजा अत्तसमाहिए। जेणऽन्ने नो विरुज्झेजा, तेण तं तं समायरे ।। वृ. 'बहवो गुणाः' स्वपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्तेप्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात्, स एव विशिष्यते-आत्मनः “समाधि' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवति । येन येनोपन्यस्तेनहेतुदृष्टान्तादिना आत्मसमाधि-स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वापरानुपघातलक्षणः समुत्पद्यतेतत्तत्कुर्यादिति, तथायेनानुष्ठितेन वाभाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो ‘न विरुध्येत' न विरोधं गच्छेत्, तेनपराविरोधकारणेन तत्तदविरुद्धनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति । मू. (२२३) इमंच धम्ममादाय, कासवेण पवेइयं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए। वृ. तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाह-'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् ‘आदाय' उपादाय गृहीत्वा 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायांपर्षदि प्रकर्षेण-यथावस्थितार्थनिरूपणद्वारेण वेदितंप्रवेदितं, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षु 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्त्यादिकं कुर्यात्, कथं कुर्याद् ? एतदेव विशिनष्टि-स्वतोऽप्यग्लानतया यथाशक्ति 'समाहितः' समाधि प्राप्त इति, इदमुक्तं भवति-यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति मू. (२२४) संखाय पेसलं धम्म, दिढिमें परिनिव्वुडे । उवसग्गे नियामित्ता, आमोक्खाए परिव्यएजाऽसि । तिबेमि ।। वृ. किं कृत्वैतद्विधेयमिति दर्शयितुमाह-'संखाये' त्यादि, संख्याय-ज्ञात्वा कं ? - 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्न पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्याप्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टि: सद्भूतपदार्थगता सम्यग्दर्शनमित्यर्थ सा विद्यते यस्यासौ ईष्टिमान् यथावस्थितपदार्थपरिच्छेदयानित्यर्थः । Page #109 -------------------------------------------------------------------------- ________________ १०६ सूत्रकृताङ्ग सूत्रम् १/३/३/२२४ तथा परिनिर्वृतो रागद्वेषविरहाच्छान्तीभूतस्तदेवंधर्मपेशलं परिसंख्यायटिमान्परिनिर्वृत उपसर्गाननुकूलप्रतिकूलानियम्य-संयम्य सोढा, नोपसर्गरुपसर्गितोऽसमञ्जसं विदध्या-दित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत्परि-समन्तात्व्रजेत्-संयमानुष्ठानोधुक्तो भवेत् परिव्रजेद्, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।। ___अध्ययन-३ उद्देशकः-३ समाप्तः -अध्ययन-३ उद्देशक:-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गा प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रच्याव्येत-तस्य च स्खलित-शीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिमंसूत्रम् मू. (२२५) आहेसु महापुरिसा, पुट्विं तत्ततवोधना। उदएण सिद्धिभावना, तत्थ मंदो विसीयति ।। दृ. केचन अविदितपरमार्था 'आहुः उक्तवंतः, किं तदित्याह-यथा 'महापुरुषाः' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः 'पूर्व पूर्वस्मिन् काले तप्तम्-अनुष्ठितं तप एव धनं येषां ते तप्तत-पोधनाः-पञ्चाग्यादितपोविशेषेण निष्टप्तदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः। 'तत्र' एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् 'मन्दः' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा-तेषां तापसादिव्रतानुष्ठायिनांकुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्ति न तु शीतोदकपरिभोगादिति ।। मू. (२२६) अ जिया नमी विदेही, रामगुत्ते य भुंजिआ। बाहुए उदगं मोचा, तहा नारायणे रिसी। वृ. किञ्चान्यत्-केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्ववर्याः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः-तन्निवासिनो लोकास्तेऽस्य सन्तीति वैदेही। सएवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहा- रादिकं 'भुक्त्वैव' भुआन एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षि परिणतोदकादिपरिभोगासिद्ध इति ॥ अपिचमू. (२२७) आसिले देविले चेव, दीवायण महारिसी। पारासरे दगं भोञ्चा, बीयाणि हरियाणि य॥ वृ. आसिलो नाम महर्षिस्तथा देविलो द्वैषायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा इति श्रूयते ।। मू. (२२८) एते पुव्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं। Page #110 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक:- ४ एतदेव दर्शयतुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आ- समन्तात् ख्याताः आख्याताः प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचेन ऋ षिभाषितादौ केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः । तद्यथा - एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् एतदुपसंहारद्वारेण परिहरन्नाह पू. (२२९) १०७ तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा । पिट्टतो परिसप्पंति, पिट्ठसप्पी य संभमे ॥ वृ. 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अज्ञा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यगज्ञानचारित्राणामेव वल्कचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो - भारोद्वहनं तेन छिन्नाःकर्षितास्त्रुटिता रासभा इव विषीदन्ति । यथा- रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोझ्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह - यथा पृष्ठसर्पिणी' भग्नगतयोऽग्न्यादिसम्भ्रमे सत्युदद्भ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्परिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥ मू. (२३०) इहमेगे उभासंति, सातं सातेण विजती । जे तत्थ आरियं मग्गं, परमं च समाहिए ॥ वृ. मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह-'इहे 'ति मोक्षगमनविचारप्रस्तावे 'एके' शाक्यादयः स्वयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' ब्रुवते मन्यन्ते वा क्वचित्पाठः, किं तदित्याह 'सातं' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति - 119 11 "सर्वाणि सत्त्वानि सुखे रतानि सर्वाणि दुःखाश्च समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ॥ युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरोजायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमो ऽप्येवमेव व्यवस्थितः || 9 || “मणुण्णं भोयणं भोच्चा, मणुष्णं सयणासणं । मणुष्णंसि अगारंसि, मणुण्णं झायए मुनी || (तथा) "मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्णे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ इत्यतो मनोज्ञाहारविहारदेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्ति, ये ॥१॥ Page #111 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/३/४/२३० केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचार प्रस्तावे समुपस्थित आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गे जैनेन्द्रशासनप्रतिपादितो मोक्षामार्गस्तं ये परिहरन्ति, तथा च 'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति । तथाहि यत्तैरभिहितं कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः श्रृङ्गाच्छरो जायते गोमयावश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाद्व्यभिचारीति, अपिच इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेच न भवति, तदुक्तम् ॥ १ ॥ दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशां, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तम् - 11911 “तणसंधारनिचिन्नेवि मुनिवरो भट्टरागमयमोहो । पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? || (तथा) १०८ - "दुःखं दुष्कृतसंक्षयाय महतं क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदबी संवेगहेतुर्जरा सर्वत्यागमहोत्सवाय मरणं जाति सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? इति, अपिच एकान्तेन सुखेनैव सुखेऽभ्यपगभ्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्ति स्यात्, तथा नारकाणां च पुनर्दुखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात्, नचैतत् दृष्टमिष्टं चेति ।। अतो व्यपदिश्यते मू. (२३१) मा एयं अवमन्त्रता, अप्पेणं लुंपहा बहुं । एतस्स अभोक्खाए, अओहारिव्व जूरह ।। वृ. 'एनम्' आर्यं मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं ' सुखेनैव विद्यते इत्यादिमोहेन मोहिता 'अवमन्यमानाः ' परिहरन्तः 'अल्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षाख्यं 'लुम्पथ' विध्वंसथ, तथाहि मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति । अपि च 'एतस्य' असत्पक्षाभ्युपगमस्य 'अमोक्षे' अपरित्यागे सति 'अयोहारिव्व जूरह 'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो- लोहस्याऽऽहर्त्ता अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकृवा नोज्झितवान्, पश्चात् स्वावस्थानावाप्तावत्पलाभे सति जूरितवान्पश्चात्तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥ पू. (२३२) पाणाइवाते वट्टंता, मुसावादे असंजता । अदिन्नादाणे वट्टंता, मेहुणे य परिग्गहे ।। वृ. पुनरपि 'सातेन सात' मित्येवंवादिनां शाक्यानां दोषोद्विभावयिषयाह प्राणातिपातमृषावा Page #112 -------------------------------------------------------------------------- ________________ ..... १०९ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - ४ दादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयतायूयं वर्तमानसुखैषिणोऽल्पेनवैषयिकसुखाभासेन पारमार्थिकमेकान्तात्यन्तिकं बहु मोक्षसुखं विलुम्पथेति, किमिति यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्राणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिःक्रियते तानि शरीराणि ततस्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रव्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादः तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह- (गाथा पञ्चकः) मू. (२३३) एवमेगे उ पासत्था, पन्नवंति अनारिया। ___ इत्थीवसं गय बाला, जिनसासनपरम्मुहा॥ वृ. तुशब्दः पूर्वस्माद्विशेषणार्थ, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्धविशेषा नीलपटादयोनाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् पार्श्वेतिष्ठन्तीतिपार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः। त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्या, अनार्यकर्मकारित्वात्, तथाहि ते वदन्ति"प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा । किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनम्-आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥ मू. (२३४) जहा गंड पिलागं वा, परिपीलेज मुहत्तगं। एवं चिन्नवणित्धीसु, दोसो तत्थ कओ सिआ।। वृ. यदूचुस्तदाह-यथेत्युदाहरणोपन्यासार्थ, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं समुत्थितंपटिकंवा तज्जातीयकमेव तदाकूतोपशमनार्थ परिपीड्य' पूयरुधिरादिकंनिर्गाल्य मुहूर्तमात्रं सुखितो भवति। नचदोषेणानुषज्यते, एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात् ?, न ह्येतावता क्लेदापगममात्रेण दोषो भवेदिति ।। मू. (२३५) जहा मंधादए नाम, थिमिअंभुंजती दर्ग। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ। १. स्यात्तत्र दोषो यदि काचित्पीडा भवेत्, न चासाविहास्तीति द्दष्टान्तेन दर्शयति 'यथे' त्ययमुदाहरणोपन्यासार्थ, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयन्नुदकं पिबत्यात्मानं प्रीणयति । न च तथाऽन्येषां किञ्चनोपधातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्रीणनम्, अतः कुतस्तत्र दोषः स्यादिति ॥ मू. (२३६) जहा विहंगमा पिंगा, थिमिअंभुंजती दगं। एवं विनवणित्थीसु, दोसो तत्थ कओ सिआ! || वृ. अस्मिन्नेवानुपधातार्थे दृष्टान्तबहुत्वख्यापनार्थं द्दष्टान्तान्तरमाह-'यथा' येन प्रकारेण Page #113 -------------------------------------------------------------------------- ________________ ११० सूत्रकृताङ्ग सूत्रम् १/३/४/२३६ विहायसा गच्छतीति विहंगमा-पक्षिणी पिंगे'ति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रिययाअरक्तद्विष्टस्य पुत्राद्यर्थं स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति । साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुकोत्पादकत्वेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषङ्गः, तथा चोचुस्ते॥१॥ “धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ।। इति, एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारोगाथात्रयेणोत्तरदानायाहनि. [५३] जह नाम मंडलग्गेण सिरं छेतून कस्सइ मणुस्सो। अच्छेज पराहुत्तो किं नाम ततो न धिप्पेज्जा ।। नि. [५४ जह वा विसगंडूसं कोई धेत्तूण नाम तुण्हिको। अन्नेण अदीसंतो किं नाम ततो न व मरेज्जा ।। नि. [५५] जह नाम सिरिधराओ कोइ रयणाणि नाम धेत्तूणं । अच्छेज्ज पराहुत्तो किं नाम ततो न धेप्पेजा ॥ __यथा नामकश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्चित्वापराङ्मुखस्तिष्ठेत. कितावतोदासीनभावावलम्बनेन ‘न गृह्येत' नापराधी भवेत् । तथा यथा कश्चिद्विषगण्डूषं 'गृहीत्वा पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम 'ततः' असावन्यादर्शनात् न म्रियेत? तथा - यथा कश्चित्श्रीगृहाद्-भाण्डागाराद्रत्नानिमहाणि गृहीत्वा पराङ्मुखस्तिष्ठेत्, किमेतावताऽसौ न गृह्येतेति? । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरलापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, न च तस्य तदवम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तम् - ॥१॥ ___ "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलकातप्तकणकप्रवेशज्ञाततस्तथा ।। ॥२॥ मूलं चैतदधर्मस्य, भवभावप्रवर्धनम्। तस्माद्विषान्नवत्त्वाज्यमिदं पापमनिच्छता॥ -इति नियुक्तिगाथात्रयतात्पर्यार्थ ।। मू. (२३७) एवमेगे उ पासत्था, मिच्छदिट्ठी अनारिय। अज्झोववन्ना कामेहि, पूयणा इव तरुणए ।। वृ. साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डपीडनादिद्दष्टान्तवादिनांदोषोद्विभावविषयाह‘एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष मैथुनमिति मन्यमाना ‘एके' स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्थं तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात् स्वयूथ्या वा, तथा Page #114 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः - ४ मिथ्या विपरीता तत्त्वाग्राहिणी द्दष्टि-दर्शनं येषां ते तथा, आरात् दूरे याता- गताः सर्वहेयधर्मेभ्य इत्यार्या न आर्या अनार्या धर्मविरुद्धानुष्ठानात्, त एवंविधा 'अध्युपपन्ना' गृध्नव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावद्यानुष्ठानेष्विति । अत्र लौकिकं दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्या कामेष्विति, यदिवा 'पूयण 'त्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकं चात्र- यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रूदन्त्यस्तिष्ठन्ति, उरभी त्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि कामाभिष्वङ्गणां दोषमाविष्कुर्वन्नाहमू. (२३८) अनागयमपस्संता, पशुप्पन्नगवेसगा । ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे || ॥२॥ बृ. ‘अनागतम्' एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः ' अपर्यालोचयन्तः, तथा ‘प्रत्युत्पन्नं' वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो' मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च 119 11 “हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्मया प्राप्य मानुष्यं सदर्थे नादरः कृतः ॥ (तथा) "विहवावलेनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताई हिअए खुडुकंति ॥ १११ जेहिं काले परिक्कतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकखंति जीविअं ॥ पू. (२३९) वृ ये तूत्तमसत्तया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह-‘यैः’ आत्महितकर्तृभि 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते 'पश्चात् ' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसत्वादिति, धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव यस्मात्स एव प्रधानपुरुषार्थ, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति । ततश्च ये बाल्याप्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते 'धीराः' कर्मविदारणसहिष्णवो बन्धनेन स्नेहात्मकेन कर्मणाचोत् प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति ।। अन्यञ्च मू. (२४०) जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ वृ. यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च ‘दुस्तरा' दुर्लङ्घ्रया 'एवम्' अस्मिन्नपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम् - Page #115 -------------------------------------------------------------------------- ________________ ११२ सूत्रकृताङ्ग सूत्रम् १/३/४/२४० ॥१॥ "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो ष्टिबाणाः पवन्ति । -तदेवं वैतरणी नदीवत् दुस्तरा नार्यो भवन्तीति। मू. (२४१) जेहिं नारीण संजोगा, पूयणा पिट्टतो कता। सव्वमेयं निराकिच्चा, ते ठिया सुसमाहिए। वृ अपिच-यैः' उत्तमसत्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवोनारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, “सर्वमेतत्' स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानंप्रतिप्रवृत्तास्तेसुसमाधिना-स्वस्थचित्तवृत्तिरूपेणव्यवस्थिताः, नोपसर्गरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्येतु विषयाभिष्वङ्गिणः स्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागाग्निनादह्यमानाअसमाधिना तिष्ठन्तीति ख्यादिपरीषहपराजयस्य फलं दर्शयितुमाहमू. (२४२) एते ओधं तरिस्संति, समुदं ववहारिणो। जत्थ पाणा विसन्नासि, किचंती, सयकम्मुणा । वृ.यएतेअनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि ओघं' संसारंदुस्तरमपि तरिष्यन्ति, द्रव्योघद्दष्टान्तमाह-'समुद्रं लवणसागरमिवयथा व्यवहारिणः' सांयात्रिकायानपात्रेण तरन्ति । एवं भावौधमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि-'यत्र' यस्मिनभावौधेसंसारसागरे 'प्राणाः' प्राणिनःस्त्रीविषयसंगाद्विषण्णाः सन्तः ‘कृत्यन्ते पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेनपापेन 'कर्मणा' असद्वेदनीयोदयरूपेणेति मू. (२४३) तंच भिक्खू परिन्नाय, सुव्बते समिते चरे। मुसावायं च वज्जिज्जा, अदिन्नादाणं च बोसिरे ॥ वृ. साम्प्रतमुहसंहाराव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यप्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्योयैः परित्यक्तास्ते समाधिस्थाः संसारंतरन्ति, स्त्रीसङ्गिनश्चसंसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वभिक्षणशीलोभिक्षुः परिज्ञाय' हेयोपादेयतया बुध्ध्वा शोभनानिव्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत्' संयमानुष्ठान विदध्यात्। तथा 'मृषावादम्' असद्भतार्थभाषणं विशेषेण वर्जयेत्, तथा अदत्तादानंच व्युत्सृजेद्' दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्, आदिग्रहणान्मैथुनादेः परिग्रह इति, तच्च मैथुनादिकं यावञ्जीवमात्महितं मन्यमानः परिहरेत् । मू. (२४४) उड्ढमहे तिरियं वा, जे केई तसथावरा। सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहिया ।। ख. अपरव्रतानामहिंसाया वृत्तिकल्पत्वात् तत्या धान्यख्यापनार्थमाऊलमधस्तियक्ष्वित्यनेन क्षेत्रप्राणातिपातोगृहीतः, तत्र ये केचनत्रसन्तीतित्रसा-द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मबादरपर्याप्तकाप Page #116 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक: - ४ र्याप्तकभेदभिन्ना इति । अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वास्ववस्थास्वित्यनेनापि कालभाव - भेदभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलमुद्देशेनाहमू. (२४५) इमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ।। वृ. 'शान्ति' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपद यद् 'आख्यातं ' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥ संखाय पेसलं धम्मं, दिट्ठिमं परिनिब्बुडे । मू. (२४६) उवसग्गे नियामित्ता, आमोक्खाए परिव्वएज्जासि ।। -त्तिबेमि ॥ वृ. समस्ताध्ययनार्थोपसंहारार्थमाह-' इमं च धम्ममित्यादि, 'इम' मिति पूर्वोक्तं भूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय' आचार्योपदेशेन गृहीत्वा किम्भूतमिति तदेव विशिनष्टि । 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं समधिगम्य 'भिक्षु' साधुः परीषहोप- सर्गेरतर्जितो ग्लान्यापरस्य साधोर्वैयावृत्यं कुर्यात्, कथमिति ?, स्वतोऽग्लानतया यथाशक्ति 'समाहित' इति समाधिं प्राप्तः, इदमुक्तं भवति कृत्कृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ ११३ अन्यच्च ‘संख्याये' ति सम्यक् ज्ञात्वा स्वसम्मत्या अन्यतो वा श्रुत्वा 'पेशलं 'ति मोक्षगमनं प्रत्यनुकूलं, किं तद् ? - 'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी । 'परिनिर्वृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय' मोक्षं यावत् परि-समन्तात् 'व्रजेत्' संयमानुष्ठानेन गच्छेदिति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् नयचर्चाऽपि तथैवेति । अध्ययनं ३ उद्देशकः-४ समाप्तः अध्ययनं ३ समाप्तम् मुनीदीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य तृतीय अध्ययन टीका परिसमाप्ता । अध्ययनं ४ स्त्री परिज्ञा उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गा प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्त्रीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्राध्ययनार्थाधिकारः प्रागवत् नियुक्तिकृता 'थीदोषविवज्रणा चेचे' त्यनेन स्वयमेव 8 Page #117 -------------------------------------------------------------------------- ________________ ११४ सूत्रकृताङ्ग सूत्रम् १/४/-/२४६/ नि. [५६] प्रतिपादितः, उद्देशार्थाधिकारंतूत्तरत्र नियुक्तिकृदेव भणिष्यति, साम्प्रतंनिक्षेपः, सचौघनामसूत्रालापकभेदात्रिधा, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने 'स्त्रीपरिज्ञ'ति नाम, तत्र नामस्थापने क्षुण्णत्वादनाहत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह-- नि. [५६] दव्वाभिलावचिंधे चेदे भावे य इस्थिनिक्खेवो। अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो।। वृ.तत्र द्रव्यस्त्री द्वेधा-आगमतोनोआगमतश्च, आगमतःस्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृत्वा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्राचेति, चिह्वयते-ज्ञायतेऽनेनेति चिह्न-स्तननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदस्त्री तुपुरुषाभिलाषरूपःस्त्रीवेदोदयः, अभिलापभावौ तुनियुक्तिकृदेव गाथापश्चा?नाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानः शब्दः, तद्यथा - शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्रचोपयुक्तः, उपयोगो भाव' इतिकृत्वा, नोआगमतस्तुभावविषये निक्षेपे वेदे' स्त्रीवेदरूपेवस्तुन्युपयुक्तातदुपयोगानन्यत्वादावी भवति, यथाऽग्नावुपयुक्तोमाणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते'ति तान्यनुभवन्ती भावीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु ज्ञपरिज्ञावद् द्रष्टव्यः । साम्प्रतं विपक्षभूतं पुरुषनिक्षेपार्थमाहनि. [५७] नामं ठवणादविए खेत्ते काले य पक्षणणकमे। भोगे गुणे य भावे दस एए पुरिसणिखेवा ।। वृ. 'नाम' इति संज्ञा तन्मात्रेण पुरुषोनामपुरुषः-यथा घटः पटइति, यस्य वा पुरुष इति नामेति, “स्थापनापुरुषः' काष्ठादिनिर्वर्तितो जिनप्रतिमादिकः, द्रव्यपुरुषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् सुराष्ट्रादौ क्षेत्रेभवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्त्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुषः। यथा-'पुरिसे' णं भंते ! पुरिसोत्ति कालओ केवच्चिरं होइ ? गो०, जहन्नेणं एगं समय उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगंमि पक्खे पुरिसो एगमि नपुंसगो'ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तप्रधानः पुरुषः अपरपुरुषकार्यरहितत्वात् प्रजननपुरुषः, कर्मअनुष्ठानंतप्रधानः पुरुषः कर्मपुरुष:-कर्मकरादिकः,तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवादि-तथा गुणाः-व्यायामविक्रमधैर्यसत्त्वादिकास्तप्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्त पुंवेदोदये वर्तमानस्तद्वेधानि कर्मण्यानुभवन्निति, एते दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याहनि. [५८] पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स। बितिए इहेव खलियस्स अवस्था कम्मबंधो य ।। Page #118 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः - ११५ पर वृ. प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्धं 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाधालापेन, आदिग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिनाकामोत्कोचकारिणा भवेदल्पसत्त्वस्य शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, द्वितीयेत्वयमर्थाधिकारः, तद्यथा शीलस्खलितस्य साधोः 'इहैव' अस्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विडम्बना तत्प्रत्ययश्च कर्मबन्ध, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीभिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते?, कृत इति दर्शयितुमाहनि. [५९] सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहि । गहिया हु अभयपञ्जोयकूलवालादिणो बहवे ।। वृ. बहवः पुरुषाअभयप्रद्योतकूलवालादयः शूरावयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थ, 'कृत्रिमाभिः' सद्भावरहिताभि स्त्रीभिस्तथा उपधि-माया ततप्रधानाभिः कृतकपटशताभिः 'गृहीता' आत्मवशतांनीताः केचन राज्यादपरेशीलात्प्रच्याव्येहैव विडम्बनां प्रापिताः, अभयकुमारादिकथानकानिचमूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु यथाक्रमं अत्यन्तबुद्धिविक्रमतपस्वित्वख्यापनार्थ इति ।। यत एवं ततो यत्कर्तव्यं तदाहनि. [६०] तम्हा न उ वीसंभो गंतव्यो निच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं ।। वृ. यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव 'विशम्भो' विश्वासस्तासां विवेकिना 'नित्यं' सदा 'गन्तव्यो' यातव्यः, कर्वय इत्यर्थ, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थत्वात् द्वितीयेच तान् ‘गणयता' पर्यालोचयता, तासांमूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ।। अपिचनि. [६१] सुसमत्थाऽवऽसमत्था कीरंती अप्पस त्तिया पुरिसा। .. दीसंतीसूरवादी नारीवसगा न ते सूरा ।। वृ. परानीकविजयादौ सुष्ठु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता असमर्था' भ्रूत्क्षेप-मात्रभीरवः क्रियन्ते अल्पसात्त्विकाःस्त्रीणामपिपादपतनादिचाटुकरणेन निसाराः क्रियन्ते, तथा 'दश्यन्ते प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुंशीलं येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्-अविश्वास्याः स्त्रिय इति, उक्तंच॥१॥ "को वीससेज तासिं कतिवयभरियाण दुब्वियड्ढाणं!। खणरत्तविरत्ताणं धिरत्थु इत्थीण हिययाणं ॥ ॥२॥ अनंनं भणंति पुरओ अन्नं पासे निवजमाणीओ। अन्नं च तासिं हियए जंच खमं तं करिति पुणो ।। ॥३॥ को एयाणं नाहिइ वेत्तलयागुम्मगुविलहिययाणं । __भावं भग्गासाणं तत्थुप्पन भणंतीणं ।। ॥४॥ महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव । सा पुण विरत्तमित्ता निबंकूरे विसेसेइ ।। Page #119 -------------------------------------------------------------------------- ________________ ११६ ॥५॥ ॥६॥ ॥७॥ ॥८॥ ॥९॥ 119011 || 99 || ।। १२ ।। ॥ १३ ॥ 1198 11 परलोगवेरियाणं कारणयं चेव इत्थीओ ।। अहवा को जुवईणं जाणइ चरियं सहायकुडिलाणं । दोसाण आगरी च्चिय जाण सरीरे वसइ कामो । मूलं दुच्चरियाणं हवइ उ नरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वज्जेयव्वा सया नारी ॥ धन्ना ते वरपुरिसा जे चिय मोत्तूण निययजुवईओ । पव्वइया कयनियमा सिवमय लमनुत्तरं पत्ता ॥ -अधुना याध्क्षः शूरो भवति ताक्षं दर्शयितुमाहधम्मंमि जो दढा मई सो सूरो सत्तिओ य वीरो य । नहु धम्मनिरुत्साहो पुरिसो सूरो सुबलिओऽवि ।। नि. [६२] वृ. धर्मे' श्रुतचारित्राख्ये ढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको' महासत्त्वोपेतोऽसावेव 'वीरः' स्वकरर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव ‘धर्मनिरुत्साहः' सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्गपरिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाहनि. [ ६३ ] एते चैव य दोसा पुरिससमाएवि इत्थीयाणंपि तम्हा उ अप्पमाओ विरागमग्गंमि तासि तु ॥ सूत्रकृताङ्ग सूत्रम् १/४/-/ २४६ / नि. [६१ ] || 94 || महिला दिज्ज करेज व मारिज्ज व संठविज व मणुस्सं । तुट्टा जीवाविज्जा अहव नरं वंचयावेजा || नवि रक्खते सुकयं नवि नेहं णवि य दानसम्माणं । नकुलं न पुव्वयं आयतिं च सीलं महिलियाओ || मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं । निम्नेहनियाणं अलियवयणजंपणरयाणं ॥ मारेइ जियंतंपि मयंपि अणुमरइ काइ भत्तारं । विसहरगइव्व चरियं वंकविवंकं महेलाणं ॥ गंगा वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाहिययं न जाणंति । रोवावंति रुवंति य अलियं जंपंति पत्तियावंति । कवडेण य खंति विसं मरंति न य जंति सब्भावं ॥ चिंतिंति कज्जमन्नं अन्नं संठवइ भासई अन्नं । आढावइ कुणइ अन्नं माइवग्गो नियडिसारो । असयारंभाण तहा सव्वेसि लोगगरहणिजाणं । वृ. ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यनाधिकाः पुरुषेण सह यः समायः सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद एव श्रेयानिति । एवं Page #120 -------------------------------------------------------------------------- ________________ अध्ययनं ४, उद्देशकः - . श्रुतस्कन्धः - १, यदुक्तं 'स्त्रीपरिज्ञे' ति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा 'पुरुषपरिज्ञे' त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्-: अध्ययनं-४ उद्देशकः-१ : मू. (२४७) जे मायरं च पियरं च, विप्यजहाय पुव्वसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ।। वृ. अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा - अनन्तरसूत्रेऽभिहितम्, आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'यः' कश्चिदुत्तमसत्त्वो 'मातरं पितरं ' जननीं जनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पञ्चात्संयोगं च 'विप्रहाय' त्यक्त्वा, चकारौ समुच्चयार्थी । 'एको' मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वस्मै वाहितः स्वहितः परमार्थानुष्धानविधायी 'चरिष्यामि' संयमं करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञां सर्वप्रधानभूतां लेशतो दर्शयति- 'आरतम्' उपरतं मैथुनं कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, क्वचित्पाठो 'विवित्तेसित्ति' ' विविक्तं' - स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ पू. (२४८) 119 11 • ११७ सुहुमेणं तं परिक्कम्म, छन्नपएण इत्थिओ मंदा । उव्वायंपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे ।। वृ. तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकी स्त्रीजनात्तद्दर्शयितुमाह-'सुहुमेणं' इत्यादि, 'तं' महापुरुषं साधुं 'सूक्ष्मेण' अपरकार्यव्यपदेशभूतेन 'छन्नपदेने' ति छद्मना - कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्ये 'ति शीलस्खलनयोग्यतापत्त्या अभिभूय, काः ? 'स्त्रियः ' कूलवालुकादीनामिव मागधगणिकाद्वा नानाविधकपटशतकरणदक्षा विविध - विब्बोकवत्यो भावमन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति भार्तृपुत्रव्यपदेशेन साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्"पियपुत्त मइकिडगा नत्तूकिडगाय सयणकिडगा य । 119 11 एते जोव्वणकिडगा पच्छन्नपई महिलियाणं || यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा - “काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्त्यया ये प्रथमाक्षरेषु || इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्म:, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह मू. (२४९) पासे भिसं निसीयंति अभिक्खणं पोसवत्थं परिहिंति । कायं अहेवि दंसंति, बाहू उद्धट्टु कक्खमनुव्वजे ॥ बृ. 'पार्श्वे' समीपे 'भृशम्' अत्यर्थमूरुपपीडमतिस्नेहमाविष्कुर्वन्त्यो निषीदन्ति Page #121 -------------------------------------------------------------------------- ________________ ११८ सूत्रकृताङ्ग सूत्रम् १/४/१/२४९ विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोषं कामोत्कोचकारि शोभनमिर्त्यः तत्र तद्वस्त्रं पोषवद् तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन परिदधति । स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थं परिधानं शिथिलंकृत्य पुनर्निबन्धन्तीति, तथा 'अधः कायम्' ऊर्वादिकमनङ्गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुध्धृत्य' कक्षामादर्त्य 'अनुकूलं' साध्वभिमुखं 'व्रजेत्' गच्छेत् । सम्भावनायां लिङ्, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति मू. (२५०) सयणासणेहिं जोगेहिं इत्थिओ एगता निमंतंति । एयाणि चैव से जाणे, पासाणि विरुवरुवाणि ॥ वृ. अपिच 'सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं - पर्यङ्कादितथाऽऽस्यतेऽस्मिन्नित्या - --सनम् - 3 [-आसंदकादीत्येवमादिना 'योग्येन' उपमेगार्हेण कालोचितेन 'स्त्रियो' योषित 'एकदा ' इति विवक्तदेशकालादी 'निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति । इदमुक्तं भवति शयनासनाद्युपभोगं प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासनिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्तिबध्नन्तीति पाशास्तान् 'विरूपरूपान्' नानाप्रकारानिति । इदमुक्तं भवति-स्त्रियो ह्यसन्नगामिन्यो भवन्ति, तथा चोक्तम् 11911 "अंब वा निंब वा अब्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोवि य जं आसन्नं तमिछन्ति ॥ तदेवम्भूताः स्त्रियो ज्ञात्वा न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् - 119 11 "जं इच्छसि धेत्तु जे पुव्वि तं आमिसेण गिण्हाहि । आमिसपासनिबद्धो काहिइ कज्जुं अकजं वा ॥ नो तासु चक्खु संधेज्जा, नोविय साहसं समभिजाणे । नो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥ पू. (२५१) वृ. 'नो' नैव ‘तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु 'चक्षुः ' नेत्रं सन्ध्यात् सन्धयेद्वा, न त ष्टौ स्वष्टिं निवेशयेत्, सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्"कार्येऽपीषन्मतिमान्निरीक्षते योषिदङ्गमस्थिरया । अस्निग्धयाध्शाऽवज्ञया ह्यकुपितोऽपि कुपित इव ॥ 11911 तथा नापि च साहसम् अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात्' प्रतिपद्येत, तथा ह्यतिसाहसमेतत्सङ्गामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपि साधोर्योषिदासज्जनमिति, तथा नैव स्त्रीभिः सार्धं ग्रामादौ 'विहरेत्' गच्छेत्, अपिशब्दात् न ताभि सार्धं विविक्तासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह साङ्गत्यमिति, तथा चोक्तम् - 119 11 " मात्रा स्वस्ना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः सर्वापायानां स्त्रीसम्बन्धः कारणम्, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ Page #122 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक :- १ - मू. (२५२) आमंतिय उस्सविया भिक्खु आयसा निमंतंति । एतणि चेव से जाणे, सद्दाणि विरुवरुवाणि ॥ वृ. कथं चैताः पाशा इय पाशिका इत्याह- 'आमंतिय' इत्यादि, स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्रय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयित्वा तथा 'उस्सविय'त्ति संस्थाप्योच्चाववैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थं ता एव योषितः प्रोचुः । तद्यथा भर्तारमामन्त्रयापृच्छयाहमिहाऽऽयाता, तथा संस्थाप्य भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वां ममर्तृजनितामाशङ्कां परित्यज्य निर्भयेन भाव्यमित्येवमादिकैर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदं शरीरकं याध्क्षस्य क्षोदीयसो गरीयसोवा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थ एतानेव 'विरूपरूपान्' नानाप्रकारान् 'शब्दादीन्' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति अन्यत्रपू. (२५३) मनबंधणेहिं नेगेहिं, कलुण विणीयमुवगसित्ताणं । अदु मंजुलाई भातंति, आणवयंति भिन्नकहाहिं ॥ वृ. मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम् ११९ 119 11 "नाह पिय कंत सामिय दइय जियाओ तुमं मह पिओत्ति । जीए जीयामि अहं पहवसि तं मे सरीरस्स ।। इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं 'उवगसित्ताणं' ति उपसंश्लिष्य समीपमागत्य 'अथ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, तदुक्तम्119 11 - "मितमहुररिभियजंपुल्लएहि ईसीकडक्खहसिएहिं । सविगारेहि वरागं हिययं पिहियं मयच्छीए । तथा 'भित्रकथामी' रहस्यालपैर्मैथुनसम्बद्धैर्वचोभि साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववशं वा ज्ञात्वा कर्मकरवदाज्ञां कारयन्तीति । मू. (२५४) सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाउ बंधति, संवर्ड एगतियमनगारं ॥ वृ. अपिच- 'सीहं जहे' त्यादि, यथेति ध्ष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंहं पिशितादिना - ऽऽ मिषेणोपप्रलोभ्य 'निर्भय' गतभीकं निर्भयत्वादेव एकचरं 'पाशेन' गलयन्त्रादिना बन्धन्ति बध्ध्वा च बहुप्रकारं कदर्थयन्ति । एवं स्त्रियो नानाविधैरुपायैः पेशलभाषाणदिभिः 'एगतियन्ति' कञ्चन तथाविधम् 'अनगारं' साधुं 'संवृतमपि' मनोवाक्कायगुप्तमपि 'बध्नन्ति' स्ववशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामर्थ्योपदर्शनार्थं, तथाहिसंवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति । किञ्च Page #123 -------------------------------------------------------------------------- ________________ १२० सूत्रकृताङ्ग सूत्रम् १/४/१/२५५ मू. (२५५) अह तत्थ पुणो नमयंती, रहकारो व नेमि आनुपुवीए। ___ बद्धे मिए व पासेणं, फंदंते वि न मुञ्चए ताहे ।। वृ. 'अथ' इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि 'नमयन्ति' प्रह्रकुर्वन्ति, यथा-'रथकारो' वर्धकि 'नेमिकाष्टं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधु स्वकार्यानुकूल्ये प्रवर्तयन्ति, सचसाधुर्मुगवत् पाशेन बद्धोमोक्षार्थं स्पन्दमानोऽपिततः-पाशान्न मुच्यत इति ॥ मू. (२५६) अह सेऽणुतप्पई पच्छा, भोचा पायसं व विसमिस्सं। एवं विवेगमादाय, संचासो नवि कप्पए दविए। वृ. किञ्च-'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यंसम्भाव्यते, तद्यथा ___“कोद्धायओकोसमचित्तुकाहोवणाहिंकाहोदिज्जउवित्तकोउग्धाडउपरिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ।। (तथा-) ॥१॥ यत्-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम्। एकाकी तेन दह्येऽहं, गतास्ते फलभोगिनः॥ इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवा) दृष्टान्तेन स्पष्टयति-यथा कश्चिद्विपमिश्रं भोजनं भूक्त्वा पश्चातत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथाकिमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनामास्वादितमिति, एवमसावपिपुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतद्व्याधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमति परितप्यते। तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठास्य 'आदाय' प्राप्य, विवेकमिति वा क्वचित्पाठः, तद्विपाकविवेकंवा 'आदाय'-गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवाप्सो' वसतिरेकत्र ‘न कल्पते' नयुज्यते, कस्मिन्-'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति । -स्त्रीसम्बन्धदोषानुपदर्योपसंहरन्नाहमू. (२५७) तम्हा उ वजए इत्थी, विसलितं व कंटगं नञ्चा। ओए कुलाणि वसवत्ती, आघाते न सेवि निग्गंथे ।। वृ.यस्माविपाककटुःस्त्रीभिः सहसम्पर्कस्तस्मात्कारणास्त्रियो वर्जयेत्तुशब्दात्तदालापमपि न कुर्यात्, किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे मग्नः सन्ननर्थमापादयेस्त्रियस्तु स्मरणादपि, तदुक्तम्॥१॥ "विषस्य विषयाणां च, दूरमत्यन्तरमन्तरम्। उपभुक्तं विष हन्ति, विषयाः स्मरणादपि ॥" (तथा) ॥१॥ “वरि विस खइयं न विसयसुहु इक्कसि विसिण मरंति । विसयामिस पुण घारिया नर नरएहि पडंति ।। Page #124 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशकः - १ १२१ तथा 'ओजः' एकः असहायः सन् 'कुलानि गृहस्थानां गृहाणि गत्वास्त्रीणां वशवर्ती तन्निर्दिष्ट-वेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो' न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनादवश्यंतत्रापायसम्भवादिति, यदा पुनः काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गत्वा अपरीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ।। मू. (२५८) जे एवं उंछं अनुगिद्धा, अन्नयरा हुंति कुसीलाणं। सुतवस्सिएवि से भिक्खू, नो विहरे सह नमित्थीम् ।। वृ.अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमोभवतीत्यभिप्रायवानाह–'जेएयंउंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतेक्षिण एतद्-अनन्तरोक्तम् उंछन्ति जुगुप्सनीयं गडं तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकंवा द्रष्टव्यं, तदनु-तत्प्रतिये 'गृद्धा' अध्युपपन्ना मूर्छिताः, ते हि 'कुशीलानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति यदिवा-काधिकपश्यकसम्प्रसारकभामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थ, यत एवमतः ‘सुतपस्व्यपि' विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षु' साधुः आत्महितमिच्छन् 'स्त्रीभिः' समाधिपरिपन्थिनीभिः सह नविहरेत्' कचिद्गछेन्नापि सन्तिष्टेत्, तृतीयार्थे सप्तमी, णमितिवाक्यालङ्कारे, ज्वलिताङ्गारपुजवदूरतः स्त्रियो वर्जयेदितिभावः कतमाभिः पुनः स्त्रीभिः सार्धन विहर्तव्यमित्येतदाशङ्कयाहमू. (२५९) अविधूयराहि सुण्हाहिं, धातीहिं अदुव दासीहि । महतीहि वा कुमारी हिं, संथवं से न कुज्जा अनगारे ।। वृ. अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहिति दुहितृभिरपि सार्धं न विहरेत् तथा ‘नुषाः' सुतभार्यास्ताभिरपि सार्धं न विविक्तासनादौ स्थातव्यं, तथा 'धात्र्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकंनस्थेयं, अथवाऽऽसतां तावदपरायोषितो याअप्येता 'दास्यो' घटयोषितः सर्वापदास्ताभिरपि सह सम्पर्क परिहरेत् । तथा महतीभिः कुमारीभि शब्दाल्लध्वीभिश्च सार्धं 'संस्तवं' परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि स्नुषादौ वा न चित्तान्यथात्वमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थं स्त्रीसम्पर्क परिहर्तव्य इति ।। मू. (२६०) अदुनाइणं च सुहीणं वा, अप्पियं दटु एगता होति। गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि ।।। वृ.अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-'अदुनाइणम्' इत्यादि, विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वां योषिजातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च तेसमाशङ्करन्, यथा-सत्त्वाः-प्राणिन इच्छामदनकामैः 'गृद्धा' अध्युपपन्नाः, तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्धंनिर्दीकस्तिष्ठति, तदुक्तम् ॥१॥ "मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणंच हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ।। तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा-रक्षणं पोषणंचेति विगृह्य समाहारद्वन्द्वस्तस्मिन् Page #125 -------------------------------------------------------------------------- ________________ १२२ सूत्रकृताङ्ग सूत्रम् १/४/१/२६० रक्षणपोषणेसदाऽऽदरंकुरु यतस्त्वमस्याः मनुष्योऽसि' मनुष्योवर्तसे, यदिवा यदि परंवयमस्या रक्षणपोषणव्यापृतास्त्वमेव मनुष्यो वर्तसे, यतस्त्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति किञ्चान्यत्मू. (२६१) समणपि दुहृदासीणं, तत्थवि ताव एगे कुप्पंति। अदुवा भोयणेहिं नत्थेहि, इत्थीदोसं संकिणो होति ।। वृ.श्राम्यतीतिश्रमणः-साधुःअपिशब्दो भिन्नक्रमः तम् उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थं, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपिसाधौ तावदेके केचन रहस्यस्त्रीजल्पनकृतदोषत्वात्कुप्यन्ति, यदिवा पाठान्तरं “समणं दट्टणुदासीणं" 'श्रमणं' प्रव्रजितं 'उदासीनम्' परित्यक्तनिजव्यापारं स्त्रिया सह जल्पन्तं दृष्ट्वा' उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति । किंपुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशङ्किनश्च ते भवन्ति, तेचामीस्त्रीदोषाः "भोजनैः' नानाविधैराहारैः 'न्यस्तैः' साध्वर्थमुपकल्पितैरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निश-मिहागच्छतीति, यदिवा-भोजनैः श्वशुरादीनांन्यस्तैः अर्धदत्तैः सद्भिःसा वधूः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात्, ततस्तेस्त्रीदोषाशङ्किनो भवेयुर्यथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया पतिश्चशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृत्वा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहानिर्घाटितेति॥ मू. (२६२) कुव्वंति संथवंताहि, पब्भट्ठा समाहिजोगेहिं। तम्हा समणा न समेति, आयहियाए सन्निसेजाओ॥ वृ.किञ्चान्यत्-'कुवंती'त्यादि, ताभिः' स्त्रीभि-सन्मार्गार्गलाभिः सह संस्तवं तदृहगमनालापदानसप्रेक्षणादिरूपं परिचयंतथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः? -प्रकर्षण भ्रष्टाः स्खलिताः 'समाधियोगेभ्यः' समाधि-धर्मध्यानं तदर्थं तत्प्रधाना वा योगा-मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतलविहारिण इति। यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात 'श्रमणाः' सत्साधवो 'न समेन्ति' न गच्छन्ति, सत् शोभन सुखोत्पादकतयाऽनुकूलत्वान्निषद्या इव निषधास्त्रीभिः कृता माया, यदिवा विसतीरिति, आत्महिताय' स्वहितं मन्यमानाः, एतच्चस्त्रीसम्बन्धपरिहरणं तासामप्यहिका-मुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते - ___ "तम्हासमणा उजहाहि अहिताओसनिसेजाओ" अयमस्यार्थ-यस्मात्स्त्रीसम्बन्धोऽनाय भवति, तस्मात् हे श्रमण !-साधो !, तुशब्दो विशेषणार्थ, विशेषेण संनिषद्या-स्त्रीवसतीस्तस्कृतोपचार-रूपावामाया आत्महिताद्धेतोः 'जहाहि' परित्यजेति किं केचनाभ्युपगम्यापि प्रव्रज्यां स्त्रीसम्बन्धं कुर्यु:?, येनैवमुच्यते, ओमित्याहमू. (२६३) बहवे गिहाई अवहट्ट, मिस्सीभावं पत्थुया य एगे। धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं॥ वृ. 'वहवः' केचन गृहाणि 'अपहत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं Page #126 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः - १ १२३ इतिद्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु गृहस्थसमकल्पा इत्येवम्भूतामिश्रीभावं प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि - तेवक्तारोभवन्तियथाऽयमेवास्मदारब्धोमध्यमः पन्थाःश्रेयान्, तथा हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतं, तथाहि-ते द्रव्यलिङ्गधारिणो वाङ्गात्रेणैव वयंप्रव्रजिता इतिब्रुवते नतु तेषांसातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्तीति ॥ मू. (२६४) सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति। जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ।। वृ.अपिच-सकुशीलोवाङ्मात्रेणविष्कृतवीर्यः 'पर्षदि' व्यवस्थितोधर्मदेशनावसरे सत्यात्मानं 'शुद्धम्' अपगतदोषमात्मानमात्मीयानुष्ठानं वा रौति' भाषतेअथानन्तरं रहस्ये एकान्ते 'दुष्कृतं' पापं तत्कारणं चाऽसदनुष्ठानं 'रोति' विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि जानन्ति' विदन्ति, के ? तथारूपमनुष्ठानं विदन्तीति तथाविदः इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति, तत्परिज्ञानेनैव किंन पर्याप्तं?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाकार्यकारी न मां कश्चिज्ञानात्येव रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्॥१॥ “नय लोणं लोणिज्जइ न य तुप्पिज्जइ घयं व तेलं वा। किह सक्को वंचेउं अत्ता अणुहूयकल्लाणो।। किच्चान्यत्मू. (२६५) सयं दुक्कडं च न वदति, आइट्ठोवि पकत्थति बाले। वेयाणुवीइ मा कासी, चोइजंतो गिलाइ से भुञ्जो ।। वृ. 'स्वयम्' आत्मनाप्रच्छन्नं यदुष्कृतं कृतंपदपरेणाचार्यादिनापृष्टो नवदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपि सन् ‘बालः' अज्ञोरागद्वेषकलितो वा प्रकस्थते' आत्मानंश्लाघमानोऽकार्यमपलपति, वदतिची यथाऽहमेवम्भूतमकार्यं कथं करिष्ये इत्येवंधायान्प्रकथते, तथा-वेदः-पुंवेदोदयस्तस्य 'अनुवीचि' आनुकूल्यं मैथुनामिलाषं तन्माकार्षीरित्येवं भूयः' पुनः चोद्यमानोऽसौ ‘ग्लायति' ग्लानिमुपयादि-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भाषते, तथा चोक्तम् - ॥१॥ “सम्भाव्यमानपापोऽहमपापोऽहमपापेनापि किं मया? । निर्विषस्यापि सर्पस्य, भृशमुद्विजते जनः ।। (इति) मू. (२६६) ओसियावि इस्थिपोसेसु, पुरिसा इथिवेयखेदना । पन्नासमन्निता वेगे, नारीणं वसं उवकसंति॥ वृ. अपिच-स्त्रियंपोषयन्तीति स्त्रीपोषका-अनुष्ठानविशेषास्तेषु उषिताअपि' व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थ, तथा-'स्त्रीवेदखेदज्ञाः स्त्रीवेदो मायाप्रधान इत्येवं निपुणाअपितथाप्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ताअपि 'एक'महामोहान्धचेतसो Page #127 -------------------------------------------------------------------------- ________________ १२४ सूत्रकृताङ्ग सूत्रम् १/४/१/२६६ 'नारीणां स्त्रीणां संसारावतरणवीथीनां वशं तदायत्ततामुप-सामीप्येन कषन्ति व्रजन्तियद्यधत्ताः स्वप्नायमाना अपिकार्यमकार्यं वा ब्रुवतेतत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा॥१॥"एता हसन्ति च रुदन्ति च कार्यहतोर्विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः स्मशानघटिका इव वर्जनीयाः ॥ ॥२॥ “समुद्रवीचीव चलस्वभावाः, सन्ध्यानरेखेव मुहूर्तरागाः। स्त्रियः कुतार्था पुरुषं निरर्थकं, निष्पीडितालक्तकवत्यजन्ति। अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले अन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्वं क प्रस्थितोऽसि ?, तेनापि यथास्थितमेव तस्याः कथितं, तया चोक्तम्-वैशिकं पठित्वा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम्, अधीत्य चासौ मध्येनायातः,। ___ तया च स्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहतहृदयः संस्तां हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे-यथाऽयं गले लग्नेनोदकेन मनाक् न मृतः, ततो मयोदकेन सिक्त इति । गतेच लोके सा पृष्टवती-किं त्वया वैशिकशास्त्रोपदेशेनीस्वभावानां परिज्ञातमिति?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्थाकर्तव्येति, तथा चोक्तम् - ॥१॥ “हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत्स्त्रीणां सर्वं किमप्यन्यत्।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह-- मू. (२६७) अवि हत्यपादछेदाए, अदुवा बद्धमंसउक्कते। अवि तेयसाभितावणाणि, तच्छियखारसिंचणाईंच॥ वृ. स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, 'अपि' सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छेदादिकम्,अथवा वर्धमांसोत्कर्तनमपि तेजसा' अग्निना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैभटित्रकाण्यपि क्रियन्ते पारदारिकाः, तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति॥ मू. (२६८) अदु कण्णनासच्छेदं, कंठच्छेदणं तितिक्खंती। इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिति ॥ वृ. अपिच-अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनंच 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् 'अस्मिन्नेव' मानुषे च जन्मनि पापेन-पापकर्मणा संतप्ता नरकातिरिक्तांवेदनामनुभवन्तीतिनच पुनरेतदेवम्भूतमनुष्ठानंन करिष्यामइतिब्रुवत इत्यवधारयन्तीतियावत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्तिनपुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः किञ्चान्यत् Page #128 -------------------------------------------------------------------------- ________________ १२५ श्रुतस्कन्धः - १, अध्ययनं. ४, उद्देशकः - १ मू. (२६९) सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं। एवंपि वा वदित्ताणं, अदुवा कम्मुणा अवकाति॥ वृ. 'श्रुतम्' उपलब्धं गुवदिः सकाशाल्लोकतो वा 'एतद्' इति यत्पूर्वमा ख्यातं, तद्यथादूर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसम्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचारा अदीर्घप्रक्षिण्यः प्रकृत्या लव्योभवन्त्यात्मगर्विताश्च इति' एवमेकेषांस्वाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धविपाकतश्च वेदयति-ज्ञापयतीति स्त्रीवेदो-चैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति, तदुक्तम् - ॥१॥ "दुर्गाद्यं हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । ॥१॥ चित्तं पुष्करपत्रतीयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिताः ॥१॥ अपिच-“सुट्ठवि जियासु सुझुवि पियासु सुहृविय लद्धपसरासु । अडईसु महिलियासु य वीसंभो नेव कायव्यो । ॥२॥ उन्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताइंदुक्खाई।। ॥३॥ अह एयाणं पगई सव्वस्स करेंति वेमणस्साई। तस्स न करेंति नवरं जस्स अलं चेच कामेहं॥ किञ्च-अकार्यमहं न करिष्यामीत्येवमुक्त्वापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ।। मू. (२७०) अनं मनेन चिंतेति, वाया अन्नं च कम्मुणा अन्नं । तम्हान सद्दह भिक्खू, बहुमायाओ इथिओ नचा। वृ. सूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्मीरेण मनसाऽन्यच्चिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यभाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यनिष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञात्वा 'तस्मात्' तासां 'भिक्षु साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारवेत्, दत्तावैशिकतवत्, अत्र चैतत्काथानकम्दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान्, ततस्तयोक्तम् - किं मया दौर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं त्वत्परित्यक्ताऽग्नि प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके, तदाऽसौ पूर्वसुरङ्गामुखे काष्ठसमुदयं कृत्वा तं प्रज्चाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वैशिके, इत्येवमसौ विलपन्नपिवातिकैश्चितायांप्रक्षिप्तः,तथापिनासौतासुश्रद्धानं कृतवान्, एवमन्येनापि न श्रद्धातव्यमिति किञ्चान्यत्मू. (२७१) जुवती समणं बूया, विचित्तलंकारवस्थगाणि परिहित्ता। चिरता चरिस्सहं रुक्खं, धम्ममाइक्खं णे भयंतारो॥ Page #129 -------------------------------------------------------------------------- ________________ १२६ सूत्रकृताङ्ग सूत्रम् १/४/१/२७१ वृ. 'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात्, तद्यथा- विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि' करिष्याम्यहं 'रूक्ष' मिति संयमं, मौनमिति वा क्वचित्पाठः तत्र मुनेरयं मौनः संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे' त्ति अस्माकं हे भयत्रातः !, यथाऽहमेवं दुःखानां भाजनं न भवामि तथा धर्ममावेदयेति । मू. (२७२) अदु साविया पवाएणं, अहमंसि साहम्मिणी य समाणाणं । जतुकुंभे जहा उवज्जोई, संवासे वदू विसीएज्जा | वृ. किञ्चान्यत्-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसर्पेत् यथाऽहं श्राविकेतिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूत्वा कूलवालुकमिव साधुं धर्मार्द्धशयति, एतदुक्तं भवति - योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनर्थाय तथा चोक्तम्॥ १ ॥ " तज्ज्ञानं तच्च विज्ञानं तत्तपः स च संयमः । सर्वमेकपदे भ्रष्टं, सर्वता किमपि स्त्रियः ।। अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अग्नेः समीपे व्यवस्थित उपज्योतिर्वर्ती 'वित्तीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति । एवं तावत्स्त्री सान्निध्ये दोषान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाहमू. (२७३) जतुकुंभे जोइउवगूढे, आसुऽभितत्ते नासमुवयाइ । एवित्थियाहिं अनगारा, संवासेण नासमुवयंति ॥ वृ. यथा जातुषः कुम्भो 'ज्योतिषा' अग्निनोपगूढः समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन् सन्तापितः क्षिप्रं 'नाशमुपयाति' द्रवीभूय विनशयति, एवंस्त्रीभिः सार्धं 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति ॥ कुव्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु । पू. (२७४) नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ।। घृ. अपिच तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कर्म' मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद् 'एके' केचनोत्कटमोह आचार्यादिना चोद्यमाना 'एवमाहुः' वक्ष्यमाणमुक्तवन्तः, तद्यथा नाहमेवम्भूतकुलप्रसूतः एतदकार्यं पापोपादानभूतं करिष्यामि, ममैषा दुहितृकल्पा पूर्वम् अङ्केशायिनी आसीत्, तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति । किञ्च - बालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । मू. (२७५) दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥ वृ. 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमाथध्श एतद्दितीयं 'मान्यं' अज्ञत्वम्, एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीयं तदपलपनेन मृषावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूय:' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति- नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत् Page #130 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशकः - १ - १२७ काम: :-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्यं प्रच्छादयति विषण्णः-असंयमस्तमेषितं शीलमस्येति विषण्णैषी । भू. (२७६) संलोकनिजमनगारं, आयगयं निमंतणेणाहंसु । वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ।। वृ. किञ्चान्यत्-संलोकनीयं संदर्शनीयमाकृतिमन्तं कञ्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् ‘आहुः' उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्वं ददामीति मद्गृहमागत्य प्रतिगृहाण त्वमिति ॥ नीवारमेवं बुज्झेज्जा, नो इच्छे अगारमागंतुं । पू. (२७७) बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ।। -त्तिबेमि । वृ. उपसंहारार्थमाह-एतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात्, यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिर्वशमानीयते, एवमसावपितेनामन्त्रणेन वशमानीयते, अतस्तन्त्रेच्छेद 'अगारं गृहं गन्तुं यदिवा-गृहमेवावर्तो गृहभ्रमस्तं 'नेच्छेत्' नाभिलषेत्, किमिति ? यतो 'बद्धो' वशीकृतो विषया एव शब्दादयः 'पाशा' रज्जूबन्धनानि तैर्बद्धः-परवशीकृतः स्नेहपाशानपत्रोटयितुमसमर्थ सन् 'मोहं' चित्तव्याकुलत्वमागच्छति किंकर्तव्यतामूढो भवति पौनःपुन्येन 'मन्दः' अज्ञो जड इति । इति परिसमाप्तौ । ब्रवीमीति पूर्ववत् । अध्ययनं ४ उद्देशकः-१ समाप्तः -: अध्ययनं-४ उद्देशकः - २ : उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके स्त्रीसंस्तवाञ्चारित्रस्खलनमुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२७८) ओए सया न रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे ॥ वृ. अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः स्त्रीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजः सन् 'सदा' सर्वकालं तास्वनर्थखनिषुस्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यैहिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति तपसा खिद्यन्तीति श्रमणास्तेषी एषामपि भोगा इत्येतच्छृणुत यूयं एतदुक्तं भवतिगृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं, किं पुनस्तत्कृतावस्थाः, तथा चोक्तम्- "मुण्डं शिर" इत्यादि पूर्ववत्, तथा यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवो' Page #131 -------------------------------------------------------------------------- ________________ १२८ सूत्रकृताङ्ग सूत्रम् १/४/२/२७८ यतयो विडम्बनाप्रायान् भुञ्जते ततोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम् । ॥१॥ “कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्ण पिठरककपालार्दि तगलः । व्रणैः पूयक्लिन्नैः कुमिकुलशतैराविलतनुः, शुनीमन्चेति श्वा हतमपि च हन्त्येव मदनः । इत्यादि, अह तं तु भेदभावनं, मुच्छितं भिक्खुं काममतिवद्धं । पलिभिंदिया णं तो पच्छा, पादुद्धट्टु मुद्धि पहणंति ॥ पू. (२७९) वृ. भोगिनां विडम्बनां दर्शयितुमाह- 'अथे' त्यानन्तर्यार्थः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं ‘भिक्षु' साधुं 'भेदं' शीलभेदं चारित्र स्खलनम् 'आपन्नं' प्राप्तं सन्तं स्त्रीषु 'मूर्च्छितं' गृद्धमध्युपपन्नं, तमेव विशिनष्टि कामेषु इच्छामदनरूपेषु मतेः-बुद्धेर्मनसो वा वर्त्तोवर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः- कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिमिद्य' मदभ्युपगतः श्वेत कृष्णप्रतिपत्ता मद्वशक इत्येवं परिज्ञाय यदिवा-परिभिद्य परिसार्यात्मकृतं ततकृतं चोच्चार्येति तद्यथा मया तव लुञ्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालजाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालञ्जाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर इत्यादि भणित्वा, प्रकुपितायाः तस्या असौ विषयमूर्च्छितस्तत्प्रत्यायनार्थः पादयोर्निपतति, तदुक्तम् ॥ १ ॥ "व्याभिन केसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेघाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥ ततो विषयेष्वेकान्तेन मूर्च्छित इति परिज्ञानात् पश्चात् 'पादं' निजवामचरण् 'उद्धृत्य' उत्क्षिप्य 'मूर्ध्नि ' शिरसि 'प्रघ्नन्ति' ताडयन्ति, एवं विडम्बनां प्रापयन्तीति ॥ अन्यच्च । पू. (२८०) जइ केसिआ णं मए भिक्खू, नो विहरे सह नमित्थीए । केसाणविह लुंचिस्सं, नन्नत्थ मए चरिज्जासि ।। वृ. केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विहरेस्त्वं, सकेशया स्त्रिया भोगान् भुञ्जानो व्रीडां यदि वहसि ततः केशानप्यहं त्वत्सङ्गमाकाङ्क्षिणी 'लुञ्चिष्यामि' अपनेष्यामि, आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, इदमुक्तं भवति-मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेहावं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति । पू. (२८१) अहणं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाई आहराहित्ति ।। वृ. इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयित्वा यत्कुर्वन्ति तद्दर्शयितुमाह- 'अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसी साधुर्मदनुरक्त इत्येवम् 'उपलब्धी' भवति - आकारैरिङ्गतैश्चेष्टया वा मद्वशग इत्येवं परिज्ञातो Page #132 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक :- २ - भवति ताभि कपटनाटक- नायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं 'तथाभूतैः ' कर्मकरव्यापारैरपशदै: 'प्रेषयन्ति' नियोजयन्ति यदिवा तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति तानेव दर्शयितुमाह 'अलाउ'त्ति अलाबु तुम्बं छिद्यते येन तदलाबुच्छेदं पिप्पलकादि शस्त्रं 'पेहाहि 'त्ति प्रेक्षस्व निरूपय लभस्वेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा ' वल्गूनि ' शोभनानि 'फलानि' नालिकेरादीनि अलाबुकानी वा त्वम् 'आहर' आनयेति, यदिवा वाक्फलाने च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि - वादिलाभरूपाणि तान्याहरेति अपिचमू. (२८२) १२९ दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ । पाताणि य मे रयावेहि, एहि ता मे पिट्ठओमद्दे ॥ वृ. तथा 'दारूणि ' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थं, क्वचिद् अन्नपाकायेति पाठः, तत्रान्नम् - ओदनादिकमिति, 'रात्रौ' रजन्या प्रद्योतो वा भविष्यतीतिकृत्वा, अतो अटवीत स्तमाहरेति, तथा 'पात्राणि' पतद्ग्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा परित्यज्यापरं कर्म तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्- प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति ॥ मू. (२८३) वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहाराहित्ति । गंधं च रओहरणं च, कासंवगं च मे समनुजाणाहि || बृ. किञ्च - वस्त्राणि च ' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षस्व' अन्यानि निरूपय, यदिवा मलिनानि रजकस्य समर्पय, मदुपधिं वा मूषिकादिभयात्प्रत्युपेक्षस्वेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्धं' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहशक्तेत्यतः 'काश्यपं' नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येनाहं बृहत्केशान- पनयामीति किञ्चान्यत् पू. (२८४) अदु अंजणि अलंकर, कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ वृ. अथशब्दोऽधिकारान्तरप्रदर्शनार्थ पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा- 'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रवच्छ स्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं' ति खुखुणकं ‘मे’ मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोघ्रं च लोकुसुमं च, तथा 'वेणुपलासियं' ति वंशात्मिका श्लक्ष्णत्वक् काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते, तथैौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति पू. (२८५) : कुटुं तगरं च अगरुं, संपिट्टं सम्मं उसिरेणं । तेल्लं मुहभिजाए, वेणुफलाई सन्निधानाए । 29 Page #133 -------------------------------------------------------------------------- ________________ १३० सूत्रकृताङ्ग सूत्रम् १/४/२/२८५ वृ.तथा कुष्ठम्-उत्पलकुठं तथाऽगरंतगरंच, एते द्वे अपि गन्धिकद्रव्ये, एतत्कृष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा “तैलं' लोघ्रकुङ्कुमादिना संस्कृतंमुखमाश्रित्य 'भिलिंजए'त्ति अभ्यङ्गाय ढौकयस्व, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तैलमुपहरेति, येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाई'ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधि सन्निधानं-वस्त्रादेर्व्यवस्थापनंतदर्थमानयेति किञ्चमू. (२८६) नंदीचुण्णगाई पाहराहि, छत्तीवाणहं च जाणाहि। सत्थं च सूवच्छेज्जाए, आणीलं च वत्वयं रयावेहि ।। वृ. 'नन्दीचुण्णगाईति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्णं प्रकर्षेण-येन केनचित्प्रकारेण 'आहर' आनयेति, तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानही च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददस्वेति, तथा 'शस्त्रं' दात्रादिक 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थं ढौकयस्व, तथा 'वस्त्रम्' अम्बरं परिधानार्थं गुलिकादिना रजय यथा आनीलम्-ईषन्नीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तं वा यथा भवतीति मू. (२८७) सुफणिं च सागपागाए, आमलगाइंइगाहरणंच। तिलगकरणिमंजणसलागं, धिंसु मे विहूणयं विजाणेहि ॥ वृ. तथा-सुष्ठु सुखेन वा फण्यते-क्वाथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयतेतच्छाकपाकार्थमानय, तथा आमलकानि' धात्रीफलानी स्नाना फिगरमनायाभ्यवहारार्थंवा तथोदकमाहियतेयेन तदुदकाहरणं-कुटवर्धनिकादि, अस्यचो ..... द् धृततैलाद्याहरणं सर्वंवा गृहोपस्करं ढौकयस्वेति, तिलकः क्रियतेयया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियतेसैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्तेयत्र सा तिलककरणीत्युच्यते, तथा अअनं-सौवीरकादि शलाका-अक्ष्णोरञ्जनार्थं शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनकं व्यजनकं विजानीहि एवंमू. (२८८) संडासगं च फणिहं च, सीहलिपासगंच आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि॥ वृ. “संडासकं' नासिकाकेशोताटनं ‘फणिहं' केशसंयमनार्थं कङ्कतकं, तथा 'सीहलिपासगंतिवीणासंयमनार्थमूर्णामयं कङ्कणंच आनय' ढौकयेति, एवम्आ-समन्ताई श्यते आत्म यस्मिन सआदर्शसएव आदर्शकस्तं प्रयच्छ' ददस्वेति, तथा दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालन-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ मू. (२८९) पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि । कोसंच मोयमेहाए, सुप्पुक्खलगं च खारगालणं च।। वृ. पूगफलं प्रतीतं 'ताम्बूलं नागवल्लीदलं तथा सूचीं च सूत्रंचसूच्यर्थं वा सूत्रं 'जानीहि' ददस्वेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोचः-प्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थं भाजनं ढौकय, एतदुक्तंभवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतोमम यथा रात्रौबहिर्गमनंनभवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्यो Page #134 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-४, उद्देशकः - २ १३१ पलक्षणं द्रष्टव्यं,तथा 'शूर्प' तन्दुलादिशोधनं तथोदूखलं तथा किञ्चन क्षारस्य-सर्जिकादेालनकमित्येव-मादिकमुपकरणं सर्वमप्यानयेति किञ्चान्यतमू. (२९०) चंदालगं च कारगंच, वच्चघरंच आउसो! खणाहि । सरपाययं च जायाए, गोरहगं च सामनेराए।। वृ. 'चन्दालक्' इति देवतार्चनिकाधर्थं ताम्रमयं भाजनं, एतच्च मथुरायां चन्दालकत्वेन प्रतीतमिति, तथा 'करको' जलधारोमदिराभाजनंवातदानयेति क्रिया, तथा 'वर्चीगृहं' पुरीषोत्सर्गस्थानंतदायुष्मन् ! मदर्थं स्वन' संस्कुरु, तथा शरा-इषवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपातंधनु:तत् ‘जाताय' मत्पुत्राय कृते ढौकय, तथा गोरहगति त्रिहायणंबलीवर्दचढौकयेति, सामनेराए'त्ति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय त्वत्पुत्राय गन्त्र्यादिकृते भविष्यतीति ।। मू. (२९१) घडिगं च सडिंडिमयंच, चेलगोलं कुमारभूयाए। वासं समभिआवण्णं, आवसहं च जाण भत्तं च ॥ वृ. तथा घटिकांमृन्मयकुल्लडिकां 'डिण्डिमेन' पटहकादिवादिनविशेषेण सह, तथ 'चेलगोलं'तिवात्मकंकन्दुकं 'कुमारभूताय' क्षुल्लकरूपाय राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृटकालोऽयम् अभ्यापन:-अभिमुखं समापन्नोऽत 'आवसथं' गृहं प्रादृट्कालनिवासयोग्यंतथा 'भक्तंच तन्दुलादिकंतत्कालयोग्यं 'जानीहिं निरूपयनिष्पादय, येन सुखेनैवानागतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तम् - “मासैरटभिरह्ना च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ।। मू. (२९२) आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्ठाए। अदु पुत्तदोहलहाए, आणप्पा हवंति दासा वा ।। वृ. तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिका, तामेव विशिनष्टि नवं-प्रत्यग्रं सूत्रं वल्कवलितं यस्यांसा नवसूत्राताम् उपलक्षणार्थत्वाद्वध्रचविनद्धां वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा संक्रमणार्थं' पर्यटनार्थं निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपिदातुंसमर्थेति ।अथवा-पुत्रेगर्भस्तेदौहदः पुत्रदौहृदः-अन्तवर्तीफलादावभिलाषविशेषस्तस्मैतत्सम्पादनार्थं स्त्रीणां पुरुषाः स्ववशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा अलज्जितैर्योग्यत्वादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रभिः संसारावतरणवीथीभिरादिश्यन्त इति।। मू. (२९३) जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ।। वृ.अन्यच्च-जातः-पुत्रः स एवफलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगाः फलं तेषामपि फलं-प्रधानकार्य पुत्रजन्मेति, तदुक्तम् - ॥१॥ "इदं तत्स्नेहसरवस्वं, सममाढ्यदरिद्रयोः। अचन्दनमनौशीरं, हृदयस्यानुलेपनम्॥ यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा । हित्वा सांख्यं च योगंच, तन्मे मनसि वर्तते ।। Page #135 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/४/२/२९३ यथा 'लोके पुत्रसु (मु) खं नाम, द्वितीयं सु (मु) खमात्मनः' इत्यादि, तदेवं पुत्र- पुरुषाणां परमाभ्युदयकारणं तस्मिन् 'समुत्पन्ने' जाते तदुद्देशेन या विडम्बनाः पुरुषाणां भवन्ति ता दर्शयतिअमुं दारकं गृहाण त्वम्, अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथचैनं 'जहाहि' परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूते, मयाऽयं नव मासानुदरेणोढः त्वं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासद्दष्टान्तस्त्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि-दासौ भयादुद्विजन्नादेशं विधत्ते, स तु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तम् 119 11 १३२ "यदेव रोचते मह्यं, तदेव कुरुते प्रिया । इति वेत्ति न जानाति, तत्प्रियं यत्करोत्यसौ ।” ददाति प्रार्थितः प्राणान्, मातरं हन्ति तत्कृते । किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः ॥ ददाति शौचपानीयं पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥ तदेवं पुत्रनिमित्तमन्यद्वा यत्किञ्चिन्निमित्तमुद्दिश्य दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थत्वाच्चास्य सवदिशकारिणः 'एके' केचन मोहोदये वर्तमानाः स्त्रीणां निर्देशवर्तिनोऽपहस्तितैहिकामुष्मिकापाय उष्ट्रा इव परवशा भारवाहा भवन्तीति किञ्चान्यत् मू. (२९४) ॥२॥ ॥३॥ राओवि उट्टिया संता, दारगं च संठवंति धाई वा । सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा ॥ वृ. रात्रावप्युत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापनैः, तद्यथा"सामिओसि नगरस्स य नक्करउरस्स य हत्थकष्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निन्नस्स य कुच्छिपुररस य कण्णकुञ्ज आयामुहसोरियपुरस्स य" इत्येवमादिभिरसम्बद्धैः क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्ठु ह्रीः लज्जा तस्यां मनःअन्तःकरणं येषां ते सुहीमनसो लज्जालवोऽपि ते सन्तो विहाय लज्जां स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति- 'वस्त्रधावका' वस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति, अस्य चोपलक्षणार्थत्वादन्यदप्युदकवहनादिकं कुर्वन्ति ।। मू. (२९५) एवं बहुहिं कयपुब्वं भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव से न वा केई ॥ वृ. किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, बाढं कुर्वन्तीत्याह-'एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपोषणवधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्वं तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगार्थमैहिकामुष्मिकापायभयमपर्यालोच्य आभिमुख्येन -भोगानुकूल्येन आपना- व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिः स्ताभि प्रत्यपरेऽपि कर्मणि नियोज्यते, तथ Page #136 -------------------------------------------------------------------------- ________________ १३३ श्रुतस्कन्धः -१, अध्ययनं - ४, उद्देशकः - २ वागुरापतितः परवशो मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वर्चःशोधनादावपि नियोज्यते। ____ तथा कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारमयमैथुनपरिग्रहाभिज्ञ एंव केवलम्, एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-सस्त्रीवशगोदासमृगप्रेष्यशुभ्योऽप्यधमत्वान्न कश्चित्, एतदुक्तं भवति-सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयभ्रष्टत्वात्, तथाहि-न तावप्रव्रजितोऽसौ सदनुष्ठानरहितत्वात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितत्वाल्लोचिकामात्रधारित्वाञ्च, यदिवा एहिकामुष्मिकानुष्ठायिनां मध्येन कश्चिदिति । साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाहमू. (२९६) एवंखु तासु वित्रप्पं, संथवं संवासं च वज्जेज्जा । तजातिआ इमे कामा, वजकरा य एवमक्खाए । वृ. एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्-उक्तं, तद्यथा-यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं 'संस्तवं' परिचयं तत्संवासंच स्त्रीभिःसहैकत्र निवासंचात्महितमनुवर्तमानः सर्वापायभीरु त्यजेत्' जह्यात्, यतस्ताभ्यो-रमणीभ्यो जाति-उत्पत्तिर्येषां तेऽमी कामास्तजातिकारमणीसम्पर्कोत्तास्तथा 'अवा' पापं वजं वा गुरुत्वादधःपातकत्वेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवम् ‘आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति । मू. (२९७) एयं भयं न सेयाय, इइ से अप्पगं निलंभित्ता। नो इत्थिं नो पसुंभिक्खू, नो सयं पाणिणा निलिझेना ।। वृ. सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुत्वात्स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संकासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं परिज्ञाय स भिक्षुरव- गतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापिपशुं ‘लीयेत' आश्रयेत स्त्रीपशुभ्यांसह संवासं परित्यजेत्, ‘स्त्रीपशुपण्डकविवर्जिताशय्ये तिवचनात, तथास्वकीयेन पाणिना' हस्तेनावाच्यस्य 'न निलिज्जेज'त्ति न सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधानं चारित्रंशबलीकरोति, यदिवा स्त्रीपश्चादिकं स्वेन पाणिना न स्पृशेदिति अपि चमू. (२९८) सुविसुद्धलेसे मेहावी, परकिरिअंघ वजए नाणी। मणसा वयसा कायेणं, सव्वफाससहे अनगारे ।। वृ. सुष्टु-विशेषेणशुद्धा-स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य स तथासएवम्भूतो मेघावी' मर्यादावर्ती परस्मै-स्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुन्निाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् । तथाहि-औदारिककामभोगार्थं मनसान गच्छति नान्यंगमयति गच्छन्तमपरं नानुजानीते Page #137 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/४/२/२९८ एवंवाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः,एवं दिव्येऽपि नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म विभृयात्, यथा च स्त्रिस्पर्शपरीषहः सोढव्य एवं सर्वानपि शीतोष्णदंशमशकतृणादिस्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति। मू. (२९९) इञ्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिब्बएजा सिह । तिबेमि ।। वृ.कएवमाहेति दर्शयति-'इति' एवं यत्पूर्वमुक्तंतत्सर्वसवीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान, यत एवमत धूतम्-अपनीतं रजः-स्त्रिसम्पर्कादिकृतं कर्म येनस धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धूतः-अपनीतो रागमार्गोरागपन्था यस्मिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वं भगवान् वीर एवाह, यत एवं तत्सात् स भिक्षु 'अध्यात्मविशुद्धः' सुविशुद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत्' गच्छेत्संयमोद्योगवान् भवेदिति, इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-४ उद्देशकः-२ समाप्तः अध्ययन-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य चतुर्थअध्ययनटीका परिसमाप्ता। (अध्ययन-५ नरकविमक्तिः वृ.उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाऽभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येताद्वितीयेऽध्ययनेऽभिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गा सम्यक् सोढव्या इत्येतत्तृ तीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्रच याद्दक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारी नियुक्तिकारेण प्रागेवाभिहितः। तद्यथा-'उवसग्गभीरुणोथीवसस्सनरएसु होञ्ज उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति।साम्प्रतं निक्षेपः, सच त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं नियुक्तिकृदाहनि. [६४] निरए छक्कं दव्वं निरया उ इहेव जे भवे असुभा। खेत्तं निरओगासो कालो निरएसुचेव ठिती ।। नि. [६५] भावे उ निरयजीवा कम्मुदओ चेव निरयपाओगो । सोऊण निरयदुक्खंतवचरणे होइ जइयव्यं ।। Page #138 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक: १३५ वृ. तत्र नरकशब्दस्य नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तः 'इहैव ' मनुष्यभवे तिर्यग्भवे वा ये केचनाशुभकर्मकारित्वादशुभाः सत्त्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यनरकस्त्विहैव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्र नरकस्तु 'नरकावकाशः' कालमहाकालरौवमहारौखवाप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति । 7 भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति एतदुक्तं भवति नरकान्तर्वर्तिनो जीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं 'श्रुत्वा' अवगम्य तीव्रमसह्यं 'नरकदुःखं ' क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकंच 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकहेतावात्महितमिच्छता 'प्रयतितव्यं' परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥ साम्प्रतं विभक्तिपदनिक्षेपार्थमाहनामटवणादविए खेत्ते काले तहेव भावे य । नि. [ ६६ ] एसो उ विभत्तीए निक्खेवो छव्विहो होइ ॥ वृ. विभक्तेर्नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेर्द्रव्यस्य विभक्तिरिति नाम क्रियते, तद्यथा-स्वादयोऽष्टौ विभक्तयस्तिवादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदाकाद्धातोर्वा परेण स्थाप्यन्ते पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद् द्विधा, तत्रापि जीवविभक्ति सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिकजीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिध्धादिभेदादनेकधा, सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा, तत्रेन्द्रियविभक्ति-एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पञ्चधा, जातिविभक्ति पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा, भवविभक्तिर्नारकतिर्यङ्मनुष्यामरभेदाञ्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा । तद्यथा स्थानं दिशं द्रव्यं स्वामित्वं चाश्रित्वं तत्र स्थानाश्रयणादूर्ध्वाधस्तिर्यग्विभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिकिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलो - कविभक्ती रत्नप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तत्र्यनचतुरनादिनरकस्वरूपनिरूपणं, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रघात Page #139 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [६६] कीखण्डकालोदसमुद्रेत्यादि द्विगुणद्विगुणवृद्धया द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, ऊर्ध्वलोकविभक्ति सौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यनचतुरम्नादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूवस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरास्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा - क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते। "रायगिह मगह चंपा अंगा तह तामलित्ति पंगा य। कंचणपुरं कलिंगा वाणारसी चेव कासी य॥ साकेय कोसला गयपुर च कुरु सोरियं कुसट्टा य । __कंपिल्लं पंचाला अहिछत्ता जंगला चेव ॥ ॥३॥ बारवई य सुरट्ठा मिहिल विदेहाय वच्छ कोसंबी। नंदिपुरं संदिङमा भद्दिलपुरमेव मलया य॥ ॥४॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य चेदी वीयभयं सिंधुसोवीरा ।। ॥५॥ महुराय सूरसेणा पावा भंगी यमासपुरिवट्टा । सावत्थी य कुणाला, कोडीवरिसं च लाढा य ।। ॥६॥ सेयवियाविय नयरि केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ।। -अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तम् - ॥१॥ “सग जवण सबर बब्बर कायमुरुडो दुगोणपक्कणया। अक्खागहूणरोमस पारसखसखासिया चेव ॥ ॥२॥ दुविलयलवोस बोक्कस भिल्लंद पुलिंद कोंच भमर रूया। कोंबोय चीण चुंचय मालय दमिला कुलक्खा य ।। ॥३॥ केकय किराय हयमुह खरमुह गयतुरगमेढगमुहा य । हयकण्णा गयकण्णा अन्ने यअनारिया बहवे ।। ॥४॥ पावा य चंडदंडा अनारिया निग्धिणा निरनुकंपा। धम्मोत्ति अक्खराइं जेसु न नजंति सुविणेऽवि ॥ कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदात्रिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा॥१॥ “समयावलियमुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पिपरियट्टे ॥ इत्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु जीवाजीवभावभेदाविधा, तत्र जीवभावविभक्ति औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् Page #140 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - १३७ षटप्रकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुस्येकैकैकैकषङभेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः। क्षायिकः सम्यकत्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाप्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाहनि. [६७] पुढवीफासं अन्नानुवक्कम निरयवालवहणं च । तिसु वेदेति अताणा अनुभागं चेव सेसासु ।। पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादकोयः स्पर्श-सम्पर्क पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येन देवादिना उपक्रमितुम्-उपशमयितुं योन शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थ, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थत्वाचास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति । तथा नरकपालैः-पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसृषु' रलशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, शेषासु' चतसृषुपृथिवीषुपङ्कघूमतमोमहातमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुदघातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासुतिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाहनि. [६८] अंबे अंबरिसी चेव, सामे य सबलेविय। रोद्दोवरुद्द काले य, महाकालेत्तिआवरे ।। नि. [६९] असिपत्ते धणुं कुंभे, वालु वेयरणीविय। खरस्सरे महाघोसे, एवं पन्नरसाहिया ।। गाथाद्वयं प्रकटार्थम्, एवं ते चाम्बइत्यादयः परमाधार्मिका याक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्ताशाभिधाना एव द्रष्टव्या इति, साम्प्रतं स्वाभिधानापेक्षया यो यां वेदना परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाहनि. [७०] धाडेंति य हाडेति य हणंति विधंति तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ।। वृ.तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनानरकावासंगत्वा क्रीडया नारकान्अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेति'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा पहाडेति'त्ति स्वेच्छयेतश्चेतश्चानाथंभ्रमयन्ति, तथाअम्बरतलेप्रक्षिप्यपुनर्निपतन्तंमुद्गरादिना नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोक्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु Page #141 -------------------------------------------------------------------------- ________________ १३८ नारकान् कदर्थयन्ति । किञ्चान्यत् । नि. [७१] सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [ ७०] ओहहये य तहियं निस्सन्ने कप्पणीहि कप्पंति । विदुलगचडुलगछिन्ने अंबरिसी तत्थ नेरइए । वृ. उप-सामीप्येन मुद्रारादिना हता उपहता : पुनरप्युपहता एव खङ्गादिना हता उपहतहतास्तान्नारकारन् ‘तस्यां' नरकपृथिव्यां 'निसंज्ञकान्' नष्टसंज्ञान् मूर्च्छितान्सतः कर्प्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिन्नानि 'ति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा 'अपुण्यवतां ' तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति । नि. [७२] साडणपाडणतोडण बंधणरजुल्लयप्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुण्णाणं ।। वृ. तद्यथा-'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं, सूच्यादिना नासिकादौ वेधस्तथा रज्यादिना क्रूरकर्मकारिणं बन्धन्ति, तथा तार्थग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनबन्धनादिकं बहुविधं ' प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति । नि. [७३] अंतगयफिम्फिसाणि य हिययं कालेज फुप्फुसे वक्के । सबला नेरतियाणं कड़्ढेंत तहिं अपुन्नाणं ।। वृ. तद्यथा - अन्न्रगतानि यानि फिफिसानि अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयं पाटयन्ति तथा तद्गतं 'कालेजं' ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्रां वेदनामुत्पादयन्तीति । नि. [७४] असिसत्तिकोंततोमरसूलतिसूलेसु सूइचियगासु । पोयंति रुद्दकम्मा उ नरगपाला तहिं रोद्दा ॥ वृ. अपिच-तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । नि. [ ७५ ] भंजंति अंगमंगाणि ऊरुबाहूसिराणि करचरणे । कप्पेंति कप्पणीहिं उवरुद्दा पावकम्मरया । वृ. तथा उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभि 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । नि. [ ७६ ] मीरासु सुंठएसु य कंडूसुं य पयंडएसु य पयंति । कुंभीय लोहिए य पयंति काला उनेरतिए । वृ. अपिच तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुष्ठकेषु तथा कन्दुकेषु जीवन्मत्स्यानिव पचन्ति । Page #142 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - नि. [७७] कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खावंति य नेरइए महकाला पावकम्मरए । वृ.अपिच-महाकालाख्यानरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्धयन्ति, तद्यथा - काकिणीमांसकानि श्लक्ष्णमांसखण्डानि ‘कल्पयन्ति' नारकान् कुर्वन्ति, तथा ‘सीहपुच्छाणिति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा येप्राक्मांसाशिनोनारका आसन्तान स्वमांसानि खादयन्तीति नि. [७८] हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि । छिंदंति पगामं तू असि नेरइए निरयपाला ।। वृ.अपिच-असिनामानोनरकपालाअशुभकर्मोदयवर्तिनोनारकानेवं कदर्थयन्ति, तद्यथाहस्तपादोरूबाहुशिरःपाश्वर्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति। नि. [७९] कण्णोढणासकरचरणदसणट्टणफुग्गऊरूबाहूणं । छेयणभेयणसाडण असिपत्तधणूहि पाडंति ॥ वृतथा-असिप्रधानाः पत्रधनुर्नामानोनरकपालाअसिपत्रवनं बीभत्संकृत्वातत्रछायार्थिनः समागतान् नारकान् वराकान् अस्यादिभि पाटयन्ति, तथा कर्णौष्ठनासिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदुक्तम् -- ॥१॥ "छिनपादभुजस्कन्धाश्छिन्नकोष्ठनासिकाः । भिन्नतालुशिरोमेण्द्रा, भिन्नाक्षिहदयोदराः ।। नि. [८०] कुम्भीसु य पयणेसु य लोहियसुय कंदुलोहिकुंभीसु । कुंभी य नरयपाला हणंति पाडं ति नरएसु॥ वृ. किञ्चान्यत्-कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निजन्ति, तथा पाचयन्ति, क्वैति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषुतथा पचनेषु कडिल्लकाकृतिषुतथा 'लौहीषु' आयसभान- विशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिकाकृतिषु एवमादिभाज-नविशेषेषुपाचयन्ति। नि. [८१] तडतडतडस्स भज्जति भञ्जणे कलंबुवालुगापढे । वालूगा नेरइया लोलंती अंबरतलंमि।। वृतथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भनंति' भृञ्जन्ति-पचन्ति, क्व ? इत्याह कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तस्मिन् पातयित्वा अम्बरतले च लोलयन्तीति । नि. [८२] पूयरुहिरकेसट्टिवाहिणी कलकलेंतजलसोया। वेयरणिनिरयपाला नेरइए ऊ पवाहति ।। वृ. किञ्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यांच क्षारोष्णजलायामतीवबीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा Page #143 -------------------------------------------------------------------------- ________________ १४० सूत्रकृताङ्ग सूत्रम् १/५/-/२९९/नि. [ ८३] नि. [८३] कप्पेंति करकएहिं तच्छिति परोप्परं परसुएहिं । सिंबलितरुमारुहंती खरस्सरा तत्थ नेरइए । वृ. -खरस्वराख्यास्तु परमाधार्मिका नाराकनेवं कदर्थयन्ति, तद्यथा- क्रकचपातैर्मध्यं मध्येन स्तम्भमिवसूत्रपातानुसारेण कल्पयन्ति पाटयन्ति तथा परशुमिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून् कारयन्ति, तथा 'शामली' वज्रमयभीषणकण्टकाकुलां खरस्वरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति भी य पलायंते संमततो तत्थ ते निरुंभंति । पसुणो जहा पसुवहे महधोसा तत्त नेरइए । । नि. [ ८४ ] वृ. अपिच महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायैर्नारिकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः' सामस्त्येन 'तत्रैव' पीडोत्पादनस्थाने 'निरुम्भन्ति' प्रतिबन्धन्ति 'पशून्' बस्तादिकान यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिबन्धन्त्येवं तत्र नरकावासे नारकानिति गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्-: अध्ययनं -५ उद्देशकः-१ : मू. (३००) पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा नरगा पुरत्या ? । अजाणओ मे मुनि बूहि जाणं, कहिं न बाला नरयं उविंति ? ॥ वृ. जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषुत्पादः ? कीदृश्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतदुद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं परस्तात्पूर्वं पृष्टवानहमस्मि । यथा 'कथं' किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' म मुने 'जानन् ' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि' कथय, 'कथं नु' केन प्रकारेण किमनुष्टायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेषूप- सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्यन्तीत्येतनाहं 'पृष्टवानि'ति ॥ मू. (३०१) एवं मए पुट्टे महानुभावे, इणमोऽब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमदुग्गं, आदीनियं दुक्क डियं पुरत्या || वृ. तथा 'एवम् अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं च 'इदं' वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत्' उक्तवान् कोऽसौ ? - 'काश्यपो' वीरो वर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात्, स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टस्तदहं ‘प्रवेदयिष्यामि’ कथयिष्याम्यग्रतो दत्तावधानः शृण्विति । Page #144 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक:- १ १४१ तदेवाह - 'दुःखम्' इति नरकं दुःखहेतुत्वात् असदनुष्ठानं यदिवा नरकावास एव दुःखयतीति दुःखं अथवा असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः परमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तव्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा'दुहमदुग्गं' ति दुःखमेवार्थो यस्मिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो नरकः । स च दुर्गो-विषमो दुरुत्तरत्वात् तं प्रतिपादयिष्ये, पुनरपि तमेव विशिनष्टि-आसमन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिकः - अत्यन्तदीनसत्त्वाश्रयस्तथा दुष्टं कृतं दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तं, 'पुरस्ताद्' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा 'दुक्कडिणं' ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो-नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात्' पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति यथाप्रतिज्ञातमाह मू. (३०२) जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करंति रुद्दा । ते घोररूवे तमिसंधयारे, तिव्वाभितावे नरए पडंति ।। वृ. ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावधानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह' अस्मिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कर्माणि' अनुष्ठानानि 'रौद्राः ' प्राणिनां भयोत्पादकत्वेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारे 'त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाह्नि पश्यन्ति, तथा चागमः - "किहलेसे णं भंते ! नेरइए किण्हलेस्सं नेरइअं पणिहाए ओहिणा सव्वओ समंता समभिलीएमाणे केवइयं खेत्तं जाणई ? केवइयं खेत्तं पासइ ?, गोयमा ! नो बहुययरं खेत्तं जाणइ नो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासइ" इत्यादि तथा तीव्रो- दुःसहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः सन्तापो यस्मिन् स तीव्राभितापः तस्मिन् एम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम् 119 11 “अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । ॥ २ ॥ ॥३॥ ॥४॥ ॥५॥ संसारोदहिवलयामुहंमि दुक्खागरे निरए । पायक्कंतोरत्थलमुहकुहरुच्छलियरुहिरगंडूसे । करवत्तुक्कत्तदुहाविरिक्कविविईण्णदेहद्धे ॥ - जंतंतरभिजंतुच्छलंतसंसद्दभरियदिसिविवरे । डज्झतुफिडियसमुच्छलंतसीसट्टिसंघाए । मुक्कक्कंदकडाहुक्कढंतदुक्कयकयंतकम्मंते । सूलविभिन्नक्खित्तुद्धदेहणिट्टंतपब्भारे ॥ सबंधयारदुग्गंधबंधणायारदुद्धरकिलेसे । भिन्नकरचरणसंकर रुहिरवसादुग्गमप्पवहे ।। Page #145 -------------------------------------------------------------------------- ________________ १४२ सूत्रकृताङ्ग सूत्रम् १/५/१/३०२ गिद्धमुहणिद्दउक्खित्तबंधणोमुद्धकंविरकबंधे । दढगहियतत्तसंडासयग्गविसमुक्खुडियजीहे। ॥७॥ तिखङ्कुसग्गकड्ढियकंटयरुक्खग्गजज्जरसरीरे । निमिसंतरंपि दुल्लहसोक्खेऽवखेवदुक्खंमि।। ॥८॥ इयं भीसणंमि निरए पडंति जे विविहसत्तवहनिरया। सच्चभट्ठा य नरा जयंमि कयपावसघाया।। (इत्यादि) मू. (३०३) तिव्वं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुञ्चा। जे लूसए होइ अदत्तहारी, न सिक्खती सेयवियस्स किंचि ॥ वृ.किञ्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायांप्रवृत्तः, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तान्, तथा स्थावरांश्च' पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती हिनस्ति' व्यापादयति 'आत्मसुखंप्रतीत्य स्वशरीरसुखकृते, नानाविधैरुपायैर्यप्राणिनां लूषक उपमर्दकारी भवति, तथा-अदत्तमपहर्तु शीलमस्यासावदत्तहारी-परद्रव्यापहारकः तथा 'नशिक्षते' नाभ्यस्यति नादत्ते 'सेयवियस्स'त्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किञ्चिदिति, एतदुक्तम् भवति-पापोदयाद्विरतिपरणामं काकमांसादेरपि मनागपिन विधत्ते इति । तथा-- मू. (३०४) पागन्भिपाणे बहुणं तिवाति, अतिव्वते घातमुवेति बाले। निहो निसं गच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं । वृ. 'प्रागल्भ्यं' धाट्य तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पापयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपिप्राणिनःप्राणानतिधाष्टाद्वदतियथावेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मोयदुतआखेटकेन विनोदक्रिया, यदिवा॥१॥ “नमांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला।। इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी ‘अनिवृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तोहन्यन्तेप्राणिनः स्वकृतकर्मविपाकेनयस्मिन्सघातो-नरकस्तमुपसामीप्येनैति-याति, कः? । 'बालः' अज्ञो रागद्वेषोदयवर्तीसः अन्तकाले' मरणकाले निहो'त्ति न्यगधस्तात् 'निसंति अन्धकारम्, अधोऽन्धकारं गच्छतीत्यर्थ, तथा-स्वेन दुश्चरितेनाधःशिरः कृत्वा 'दुर्ग' विषमं यातना-स्थानमुपैति, अवाक्शिरा नरके पततीत्यर्थः ॥ मू. (३०५) हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं। तेनारगाओ भयभिन्नसत्रा, कंखंति कन्नाम दिसं वयामो! || वृ. साम्प्रतं पुनरपि नरकान्तर्वर्तिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यङ्मनुष्यभवात्सत्त्वा नरकेषूत्पन्नाअन्तर्मुहूर्तेन निनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चाति- भयानकान् शब्दान् परमाधार्मिकजनितान् श्रृण्वन्ति, तद्यथा-- __ 'हत' मुद्गरादिना छिन्त' खड्गादिना 'भिन्त' शूलादिना दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुत्वा तेतुनारका भयोद्धान्तलोचना भयेनभीत्या Page #146 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः - १ १४३ भिन्ना-नय संज्ञा-अन्तःकरणवृत्तिर्येषां तेतथा नष्टसंज्ञाश्च ‘कां दिशंव्रजामः' कुत्रगतानामस्माकमेवम्भूतस्यास्य महाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्येतत्काङ्क्षन्तीति । --ते च भयोद्धान्तादिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाहमू. (३०६) इंगालरासिं जलिय सजोतिं, तत्तोवमं भूमिमनुक्कमंता। ते डज्झमाणा कलुणं धणंति, अरहस्सरा वत्थ चिरद्वितीया ।। वृ. 'अङ्गारराशिं' खदिराङ्गारपुझं 'ज्वलितं ज्वालाकुलं तथा सहज्योतिषा-उद्योतेन वर्तत इति सज्योतिर्भूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः ‘करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बादराग्रेभावात्तदुपमा भूमिमित्युक्तम् । एतदपिदिग्दर्शनार्थमुक्तम्, अन्यथा नारकतापस्येहत्याग्निना नोपमाघटते, तेच नारका महानगरदाहाधिकेनतापेन दह्यमाना 'अरहस्वरा' प्रकटस्वरा महाशब्दाःसन्तः 'तत्र' तस्मिन्नरकावासे चिरं-प्रभूतंकालं स्थिति-अवस्थानं येषां तेतथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ।। भू. (३०७)जइ ते सुया वेयरणी भिदुग्गा, निसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसुहम्ममाणा ।। वृ.अपिच-सुधर्मस्वामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' त्वया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारोष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका। तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सातथा,तेच नारकास्तप्ताङ्गारसन्निभां भूमिं विहायोदकपिपास-वोऽभितप्ताः सन्तस्तापापनोदाया- भिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः ?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः शक्तिभिश्च हन्यानास्तामेव भीमां वैतरणीं तरन्ति, तृतीयार्थे सप्तमी किञ्चमू. (३०८) कोलेहिं विज्झंति असाहुकम्मा, नावं उविते सइविप्पहूणा। अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विद्धूण अहेकरंति ॥ वृ.तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलांनावमुपगच्छतः पूर्वारूढा 'असाधुकर्माणः' परमाधार्मिकः ‘कीलेषु' कण्ठेषु विध्यन्ति, तेच विध्यमानाः कलकलायमान सर्वनोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां 'स्मृत्या विप्रहीणा' अपगत- कर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तानष्टांस्त्रशूिलिकाभिः शूलाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति।। मू. (३०९) केसिंच बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयाचालुय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने । वृ.अपिच-केषांचिनारकाणांपरमाधार्मिका महतीं शिलांगलेबद्धा महत्युदके वोलंति'त्ति निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुराग्नौ च 'लोलयन्ति' अतितप्तवालुकायंचणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितान्नारकान् सुण्ठके प्रोतकमांसपेशीवत् ‘पचन्ति' भर्जयन्तीति तथा Page #147 -------------------------------------------------------------------------- ________________ १४४ सूत्रकृताङ्ग सूत्रम् १/५/१/३१० भू. (३१०) आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उड्ढं अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ वृ. न विद्यते सूर्यो यस्मिन् सः असूर्यो- नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं' दुरुत्तर 'महान्तं' विशालं नरकं महापापोदयाद्व्रजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक् सर्वतः 'समाहितः' सम्यगाहितो व्यवस्थापितोऽग्निर्ज्वलतीति, पठ्यते च 'मूसिओजत्थऽगणी झियाई' यत्र नरके सम्यगूर्ध्वं श्रितः समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥ मू. (३११) जंसी गुहाए जलणेऽतिउट्टे, अविजाणओ इज्झि लुत्तपन्नो । सया य कलुणं पुन धम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ।। वृ. किञ्चान्यत्- ' यस्मिन्' नरकेऽतिगतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृती नरके प्रवेशितो ‘ज्वलने' अग्नौ ‘अतिवृत्तः’ अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् 'लुप्ठयज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्नं वा 'धर्मस्तानम्' उष्णस्थानं तापस्थानमित्यर्थ, ‘गाढं’तिअत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि- अतिदुःखरूपो धर्म-स्वभावो यस्मिन्निति इदमुक्तं भवतिअक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम् ॥ १ ॥ “अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । निरए नेरइयाणं अहोनिसं पञ्चमाणाणं ॥ मू. (३१२) चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । ते तत्थ चिट्टंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ वृ. चतुसृष्वपि दिक्षु चतुरोऽग्नीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणों' नरकपाला आभिमुख्येनात्यर्थं तापयन्ति भटित्रवत्पचन्ति 'बालम्' अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः' कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योति' अग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति एवं नारका अपि मत्स्यानां तापासहिष्णुत्वादग्नावत्यन्तं दुःखमुत्पद्यत इत्यतस्तद्ग्रहणमिति ॥ भू. (३१३) संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था || वृ. किञ्चान्यत्-सम् - एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनाया, यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां 'महाभितापं' महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह-ते ‘नारका' नरकपाला ‘यत्र' नरकवासे स्वभवनादागताः 'असाधुकर्माणः' क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादेश्च 'बद्धवा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनूकुर्वन्ति छिन्दन्तीत्यर्थः । अपिच मू. (३१४) रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पर्यंत णं नेरइए फुरंते, सजीवमच्छे व अयोकवल्ले | Page #148 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - १ १४५ वृ. ते परमाधार्मिकास्तानारकान्स्वकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति, वर्चःप्रधानानि समुच्छ्रितान्यत्राण्यङ्गानि वा येषां ते तथा तान् भिन्नं-चूर्णितम् उत्तमाङ्ग-शिरो येषां ते तथा तानित, कथं पचन्तीत्याह-'परिवर्तयन्तः' उत्तानानवाङ्मुखान् वा कुर्वन्तः णमिति वाक्यालङ्गारे तान्-‘स्फुरत' इतश्चेतश्वविहमात्मानंनिक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति मू. (३१५) नो चेव ते तत्थ मसीभवंति, न मिज्जती तिव्वभिवेयणाए। ___ तमानुभागं अनुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ।। वृ.तथा-तेच नारका एवं बहुशः पच्यमानाअपि नो नैव तत्र' नरके पाके वानरकानुभावे वा सति 'मषीभवन्ति' नैव भस्मसाद्भवन्ति, तथा तत्तीव्राभिवेदनया नापरमग्निप्रक्षिप्तमस्यादिकमप्यस्ति यन्मीयते-उपमीयते, अनन्यसध्शी तीब्रां वेदनां वाचमगोचरामनुभवन्तीत्यर्थः, यदिवा । तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मत्वान्न म्रियन्त इति, प्रभूतमपिकालंयावत्तत्ताशं शीतोष्णवेदनाजनितंतथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च 'अनुभाग' कर्मणां विपाकम् 'अनुवेदयन्तः' समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन 'दुष्कृतेन हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालंदुःखेन मुच्यन्त इति । -किञ्चान्यत्मू. (३१६) तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति। नतत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तर्विति ।। वृ. 'तस्मिंश्च महायातनास्थाने नरकेतमेव विशिनष्टि-नारकाणांलोलनेन सम्यक्प्रगाढोव्याप्तो भृतः स तथा तस्मिन्नरके अतिशीतार्ता सन्तो गाढम्' अत्यर्थं सुष्टु तप्तम् अग्नि व्रजन्ति, 'तत्रापि' अग्निस्थानेऽभिदुर्गे दह्यमानाः ‘सातं' सुखं मनागपि न लभन्ते, 'अरहितो' निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापाः तथापि तान्नारकांस्ते नरकपालास्तापयन्त्यत्यर्थं तप्ततैलाग्निना दहन्तीति ।। मू. (३१७) से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहंदुहेति ।। वृ. अपिच-सेशब्दोऽथशब्दार्थे, 'अथ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदर्थ्यमानानां भयान हाहारवप्रचुर आक्रन्दनशब्दो नगरवधइव 'श्रूयते समाकर्ण्यते,दुःखेनपीडयोपनीतानि-उच्चरितानिकरुणाप्रधानानि यानिपदानि हा मातस्तात! कष्टमनाथोऽहं शरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां तत्र' नरके शब्दः श्रूयते । उदीर्णम्-उदयप्राप्त कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो' नरकपाला मिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः ‘पुनः पुनः' बहुशस्ते ‘सरहं (दुहें)ति' सरभसं-सोत्साह नारकान् 'दुःखयन्ति' अत्यन्तमसा नानाविधैरुपायैर्दुखमसातवेदनीयमुत्पादयन्तीति । तथामू. (३१८) पाणेहिणं पाव विओजयंति, तंभे पवक्खामि जहातहेणं। दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहि पुराकएहिं ।। 21d Page #149 -------------------------------------------------------------------------- ________________ १४६ सूत्रकृताङ्ग सूत्रम् १/५/१/३१८ वृ. 'णमिति' वाक्यालङ्कारे, 'प्राणैः शरीरेन्द्रियादिभिस्ते 'पापाः पापकर्मणो नरकपाला 'विया - जयन्ति' शरीरावयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह- 'तद्' दुःखकारणं 'भे' युष्माकं 'प्रवक्ष्यामियाथातथ्येन' अवितथं प्रतिपादयामीति दण्डयन्ति पीडामुत्पादयन्तीति दण्डा- दुःखविशेषास्तैरनारकाणामापादितैः 'बाला' निर्विवेका नरकपालाः पूर्वकृतं स्मारयन्ति, तद्यथा तथा हृष्टस्त्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसं मद्यं च गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं सर्वै पुराकृतैः 'दण्डैः' दुःखविशेषः स्मारयन्तस्ताद्दशभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ।। मू. (३१९) ते हम्ममाणा नरगे पडंति, पुन्ने दुरुवस्स महाभितावे । ते तत्थ चिट्ठति दुरुवभक्खी, तुट्टंति कम्मोवगया किमीहिं ॥ वृ. किञ्च - 'ते' वराका नारका 'हन्यमानाः ' ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् धोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ? - 'पूर्णे' भृते दुष्टं रूपं यस्य तद्दूरूपंविष्ठासृग्मांसादिकल्मलं तस्य भृते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दूरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः ' नरकपालापादितैः परस्परकृतैश्च 'स्वकर्मोपगताः' स्वकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति तथा चागमः “छट्टीसत्तमासु णं पुढवीसु नेरइया पहू महंताई लोहिकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अनुघायमाणा अनुधायमाणा चिह्नंति” । किञ्चान्यत्मू. (३२०) सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ वृ. 'सदा' सर्वकालं 'कुत्स्नं' संपूर्णं पुनः तत्र नरके 'धर्मप्रधानं' उष्णप्रधानं स्थिति-स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ताग्निना वातादीनामत्यन्तोष्णरूपत्वात्, तच दै:निधत्तनिकाचितावस्यैः कर्मभिर्नारकाणाम् 'उपनीतं' ढौकितं, पुनरपि विशिनष्टि अतीव दुःखम्असातावेदनीयं । धर्म-स्वभावो यस्य तत्तथा तस्मिंश्चैवंविधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वितत्य चर्मवत् कीलयन्ति इति ॥ मू. (३२१) छिंदंति बालस्स खुरेण नक्क, उड्डेवि छिंदंति दुवेवे कण्णे । जिन्भं विणिक्करस विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥ वृ. अपिच-ते परमाधार्मिकाः पूर्वदुश्चरितानि स्मरयित्वा 'बालस्य' अज्ञस्य निर्विवेकस्य प्रायशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथैौष्ठावपि द्वावपि कर्णौ छिन्दन्ति तथा मद्यमांसरसाभिलिप्सोर्मृषाभाषिणो जिह्वां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति तथा मू. (३२२) ते तिप्पमाणां तलसंपुडंव, राइदियं तत्थ धांति बाला । गलंति ते सोणिअपूथमंसं, यंग ।। वृ. 'ते' छिन्ननासिकोष्ठजिह्वाः सन्तः शोणित नाः यत्र यस्मिन् प्रदेशे Page #150 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः- १ १४७ रात्रिंदिनं गमयन्ति, तत्र ‘बाला' अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा प्रद्योतिता' वह्निना ज्वलिताः तथा क्षारेय प्रदिग्धाङ्गाः शोणितं पूर्य मांसं चाहर्निशं गलन्तीति ।। मू. (३२३) जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुन्ना ।। वृ. किञ्च-पुनरपि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' त्वया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्व-रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि-'बालः' अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः-अभितापः स एव गुणो यस्याः सा बालाग्नितेजोगुणा ‘परेण प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं महती बृहत्तरा ‘अहियपोरुसीये'तिपुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति । तासु च यक्रियते तद्दर्शयितुमाहयू. (३२४) पक्खिप्प तासुं पययंति बाले, अट्टस्सरे ते कलुणं रसंते। तण्हाइया ते तउतंबतत्तं, पजिञ्जमाणाऽमृतरं रसंति ।। वृ. 'तासु प्रत्यग्राग्निप्रदीप्तासुलोहितपूयशरीरावयवकल्बिषपूर्णासुदुर्गन्धासुच 'बालान्' नारकास्त्राणरहितान् आर्तस्वरान् करुण-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्तासलिलंप्रार्थयन्तो मद्यं तेअतीव प्रियमासीदित्येवंस्मरयित्वा तप्तं पाय्यन्ते, तेच तप्तं त्रपुपाय्यमाना आर्ततरं 'रसन्ति रारटन्तीति ।। मू. (३२५) अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से । चिट्ठति तत्था बहुकूरकम्मा, जहा कडं कम्मतहासि भारे ।। वृ. उद्देशकार्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' अस्मिन्मनुष्यभव 'आत्मना' परवञ्चन-प्रवृत्तेन स्वत एव परमार्थत आत्मानं वञ्चयित्वा अल्पेन स्तोकेन परोपघातसुखेनात्मानं वञ्चयित्वाबहुशोभवानांमध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवास्तान् पूर्वजन्मसु शतसहस्रशः समनुभूयतेषुभवेषु विषयोन्मुखतया सुकृतपराङ्मुखत्वेन चावाप्यमहाघोरातिदारुणं नरकावासं तत्र तस्मिन्मनुष्याः 'क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तःप्रभूतंकालं यावत्तिष्ठन्ति - अत्र कारणमाह 'यथा' पूर्वजन्मसुयाग्भूतेनाध्यवसायेनजघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण 'से' तस्य नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजयपूरुधिराणि तप्तत्रपूणि च पाय्यन्ते। - तथामत्स्यघातकलुब्धकादयस्तथैव छिद्यन्तेभिद्यन्तेयावन्मार्यन्त इति, तथाऽनृतभाषिणां तत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते, तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहियन्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनांच जन्मांतरस्वकृतक्रोधादिदुष्कृतस्मारणेन ताग्विधमेवदुःखमुत्पाद्यते, इतिकृत्वा सुष्ठूच्यते यथा वृत्तं कर्म ताद्दगभूत एव तेषां तत्कर्मविपाकापादितो भार इति ।। Page #151 -------------------------------------------------------------------------- ________________ १४८ सूत्रकृताङ्ग सूत्रम् १/५/१/३२६ मू. (३२६) समजिणित्ता कलुसं अणजा, इटेहि कतेहि य विष्पहूणा। ते दुब्मिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ।। तिबेमि वृ. किश्चान्यत्-अनार्या अनार्यकर्मकारित्वाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुष' पापं 'समय॑' अशुभकर्मोपचयं कृत्वा 'ते' क्रूरकर्माणो 'दुरभिगन्धे' नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्टैः' शब्दादिभिर्विषयैः ‘कमनीयैः' कान्तैर्विविधप्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा । यदर्थं कलुषं समर्जयन्ति तैर्मातापुत्रकलत्रादिभि कान्तैश्च विषयैर्विप्रभुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके ‘कृत्स्ने' संपूर्णेऽत्यन्ताशुभस्पर्श एकान्तोद्वेजनी- येऽशुभकर्मोपगताः 'कुणिमे'त्ति मांसपेशीरुधिरपूयान्त्रफिप्फिसकश्मलाकुले सर्वामध्याधमेबीभत्सदर्शने हाहारवाक्रन्देन कष्टंमा तावदित्यादिशब्दबधिरितदिगन्तराले परमाधमे नरकावासेआ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सगरोपमाणियावद्यस्यांवा नरकपृथिव्यांयावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-५ उद्देशकः-१ समाप्त - अध्ययनं-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पद्यन्ते याध्गवस्थाश्च भवन्त्येतत्प्रतिपादितम्, इहापि विशिष्टतरंतदेवप्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमेअस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू. (३२७) अहावरं सासयदुक्खधर्म, तंभे पवक्खामि जहातहेणं। बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइंपुरेकडाइं।। वृ. 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तहखंच शाश्वतदुःखं तद्धर्म-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं ‘याथातथ्येन यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः। _ 'बालाः' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तद्रुष्कृतकर्मतत्कर्तुंशीलं येषांतेदुष्कृतकर्मकारिणःत एवम्भूताः 'पुराकृतानि जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति। मू. (३२८) हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टतो उद्धरंति ॥ दृ.यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात्क्रीडायमानाःताचारकान्हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीत्वा वर्ध' चर्मशकलं 'स्थिरं' बलवत् 'पृष्ठतः' पृष्ठिदेशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति अपि च Page #152 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - २ मू. (३२९) बाहु पकतंति य मूलतो से, धूलं वियासं मुहे आडहंति । रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झति तुदेण पिट्टे ॥ वृ. 'से' तस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाश्च अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृत्वा 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ - समन्ताद्दहन्ति । तथा 'रहसि ' एकाकिनं 'युक्तम्' उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अज्ञं नारकं स्मारयन्ति, तद्यथा तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी त्वमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति, तथा निष्कारणमेव 'आरूष्य' कोपं कृत्वा प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति । पू. (३३०) अयं तत्तं जलियं सजोइ, तऊवमं भूमिमनुक्क मंता । ते इज्झमाणा कलुणं धणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ वृ. तथा तप्तायोगोलकसन्निम्यां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमां वा भूमिम् 'अनुक्रामन्तः ' तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं विस्वरं 'स्तनंति' रारटन्ति तथा ततेषुयुगेषु युक्ता गलिबलीवर्दा इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति अन्यच्च मू. (३३१) बाला बला भूमिमनुक्क मंता, पविज्जलं लोहपहं च तत्तं । जंसीsभिदुग्गंसि पवज्रमाणा, पेसेव दंडेहिं पुराकरंति ॥ वृ. ‘बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविज्जलं' ति रुधिरपूयादिना पिच्छिलां बलादनिच्छन्तः 'अनुक्रम्यमाणाः ' प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन्' अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैर्हत्वा प्रतोदनेन प्रतुद्य 'पुरतः' अग्रतः कुर्वन्ति, न ते स्वेच्छया गन्तुं स्थातुं वा लभन्त इति । मू. (३३२) ते संपगाढंसि पवज्रमाणा, सिलाहि हम्मेति निपातिणीहिं । संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ वृ. किञ्च- 'ते' नारकाः 'सम्प्रगाढ' मिति बहुवेदनमसह्यं नरकं मार्गं वा प्रपद्यमाना गन्तुं स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनीकुम्भी साच चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीड्यतेऽत्यर्थम् 'असाधुकर्मा' जन्मान्तरकृताशुभानुष्ठान इति तथा १४९ मू. (३३३) कंदूसु पक्खिप्प पर्यंति बालं, ततोवि दड्ढा पुण उप्पयंति । ते उड्ढकाएहिं पखजमाणा, अवरेहिं खजति सणप्फएहिं ।। वृ. तं ‘बालं' वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाश्चणका इव भृज्यमाना ऊर्ध पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उड्ढकाएहिं' ति द्रोणैः काकैर्वे क्रियैः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः 'सणप्फएहिं ' ति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति । मू. (३३४) समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं धणंति । अहोसिरं कट्टु विगत्तिऊणं, अयंव सत्थेहिं समोसवेंति ।। Page #153 -------------------------------------------------------------------------- ________________ १५० सूत्रकृताङ्ग सूत्रम् १/५/२/३३४ वृ.किञ्च-सम्यगुच्छ्रितं-चितिकाकृति, नामशब्दः सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य-अग्नेः स्थानं विधूमस्थानं यत्प्राप्य सोकवितप्ताः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथाअधःशिरः कृत्वा देहंच विकत्यार्योवत् शस्त्रैः' तच्छेदनादिभिः 'समोसवेति'त्ति खण्डशः खण्डयन्ति अपि चमू. (३३५) समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नामचिरद्वितीया, जंसी पया हम्मइ पावचेया॥ वृ. 'तत्र' नरके स्तम्भादौ ऊर्ध्वबाहवोऽधः शिरसो वा श्वपाकैर्बस्तवल्लम्बिताः सन्तः 'विसूणियंग'त्ति उत्कृत्ताङ्गा अपगतत्वचः पक्षिभिः 'अयोमुखैः वज्रचञ्चभिकाकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकै छिन्ना भिन्नाः कथिता मूर्छिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न नियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः। नतत्रगतःखण्डशश्छिन्नोऽपि म्रियते स्वायुषि सतीति, साच चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः-प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मूमूर्षवोऽप्यत्यन्तपिष्ठाअपिन नियन्ते, अपितुपारदवन्मिलन्तीति मू. (३३६) तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । ते सूलविद्धा कलुणं धणंति, एगंतदुक्खंदुहओ गिलाणा॥ वृ, अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोयमयीभिः शूलाभिः नरकपाला नारकम तिपातयन्ति, किमिव ?-वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिकं स्वातन्त्रयेण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषांकश्चित्राणायालंतथैकान्तेन उभयतः' अन्तर्बहिश्च ग्लाना' अपगतप्रभोदाः सदादुःखमनुभवन्तीति तथामू. (३३७) सयाजलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो। चिट्ठति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ।। वृ. 'सदा सर्वकालं 'ज्वलत्' देदीप्यमानमुष्णरूपत्वात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम्-आघात-स्थानं तच्च ‘महद् विस्तीर्णं यत्राकाष्ठोऽग्निवलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्तद्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः?-'अरहस्वरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिकाः' प्रभूतकालस्थितय इति । मू. (३३८) चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंत। आवकृती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे । वृ. तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, सचासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् ‘आवर्तते' विलीयते, यथा-'सर्पि' घृतंज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते अयमपरो नरकयातनाप्रकार इत्याह-- मू. (३३९) सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्म । हत्येहिं पाएहि य बंधिऊणं, सत्तुव्व इंडेहिं समारभंति ।। Page #154 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः - २ १५१ वृ. 'सदा' सर्वकालं ‘कृत्स्नं' सम्पूर्णं पुनरपरं 'धर्मस्थानं' उष्णस्थानं दैनिधत्तनिकाचितावस्थैः कर्मभिः 'उपनीतं' ढौकितमतीव दुःखस्वपो धर्म-स्वभावो यस्मिंस्तदतिदुःखधर्म तदेवम्मूते यातनास्थाने तमत्राणं नारकं हस्तेषुपादेषुच बद्धवा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ।। मू. (३४०) भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ।। वृ. किञ्च-'बालस्य वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन भिन्दन्ति' चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुधणधातैश्चूर्णयन्ति। 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्या पाश्र्वाभ्यांक्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिःप्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति किञ्चमू. (३४१) अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति । एगंदुरुहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से ।। वृ. रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्रं' सत्त्वोपघातकार्यम् अभियुज्य' स्मारयित्वा असाधूनि-अशोभनानिजन्मान्तरकृतानि कर्माणिअनुष्ठानानि येषांतेतथा तान् ‘इषुचोदितान्' शराभिघातप्रेरितान्हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती चाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थत्वादस्योष्ट्रवाह वाहयन्तीत्याधप्यायोज्यं, कतं वाहयन्तीतिदर्शयति-तस्य नारकस्योपर्येकं द्वौ त्रीन्वा ‘समारुह्य' समारोप्यततस्तंवाहयन्ति, अतिभारारोपणेनावहन्तम् आरुष्य' क्रोधं कृत्वाप्रतोदादिना'विध्यन्ति' तुदन्ति, से' तस्य नारकस्य ‘ककाणओ'त्ति मर्माणि विध्यन्तीत्यर्थः।। मू. (३४२) बाला बला भूमिमनुक्क मंता, पविजलं कंटइलं महंतं। विवद्धतप्पेहिं विवन्नचित्ते, समीरिया कोट्टबलिं करिति ।। वृ.अपिच-बालाइव बालाः परतन्त्राः,पिच्छिलांरुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तोमन्दगतयोबलाटोर्यन्ते, तथाअन्यान् विषण्णचित्तान्' मूर्छितांस्तर्पकाकारान विविधम्' अनेकधा बद्धा ते नरकपालाः ‘समीरिताः। ___ पापेन कर्मणा चोदितास्तान्नारकान् 'कुट्टयित्वा' खण्डशः कृत्वा 'बलिं करिति'त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थ, यदिवा कोट्टबलिं कुर्वन्तीति ।। किञ्चमू. (३४३) वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे। हम्मति तत्था बहुकूरकम्मा, परंसहस्साण मुत्तगाणं ।। वृ. नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घ 'वेयालिए'त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपत्वान्नर-काणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पीड्यन्ते, बहूनि क्रूराणिजन्मान्तरोपात्तानिकर्माणि येषां ते तथा, सहसंख्यानांमुहूर्तानां परं-प्रकृष्टं कालं, सहशब्द Page #155 -------------------------------------------------------------------------- ________________ १५२ सूत्रकृताङ्ग सूत्रम् १/५/२/३४३ स्योपलक्षणार्थत्वात्प्रभूतं कालं हन्यन्त इतियावत् । मू. (३४४) संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा । एगंतकूडे नरए महंते, कूडेण तत्था विसमे हताउ ।। वृ.तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं पापं विद्यतेयेषां तेदुष्कृतिनोमहापापः 'अहो' अहनितथा रात्रीच परितप्यमाना' अतिदुःखेनपीड्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, तथैकान्तेन ‘कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति' विस्तीर्णे पतिताः प्राणिनः तेन च कूटेन गलयन्त्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताःतुशब्दस्यावधारणार्थत्वात् स्तनन्त्येव केवलमिति ।। मू. (३४५) भंजंति णं पुब्वमरी सरोसं, समुग्गरे ते मुसले गहेतुं।। तेभिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडति ॥ वृ. 'णम्' इति वाक्यालङ्कारे पूर्वमरय इवारयोजन्मान्तरवैरिणइवपरमाधार्मिका यदिवाजन्मान्तरापकारिणोनारका अपरे पामङ्गानि सरोषं सकोपंसमुद्रराणिमुसलानि गृहीत्वा भञ्जन्ति' गाढप्रहारैरामर्दयन्ति, तेच नारकास्त्रा णरहिताः शस्त्रप्रहारैर्भिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ।। मू. (३४६) अनासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा। खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा॥ वृ.किञ्च-महादेहप्रमाणा महान्तः शृगाला नरकपालविकुर्विता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां, सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः। ___ 'तत्र' तेषु नरकेषु सम्भवन्ति सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः श्रृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुक्रूरकर्माणःश्रृङ्खलादिभिर्बद्धाअयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते' खण्डशः खाद्यन्त इति ।। अपिचमू. (३४७) सयाजला नाम नदी भिदुग्गा, पविजलं लोहविलीणतत्ता। जंस भिदुग्गंसि पवजमाणा, एगायऽताणुक्कमणं करेति ।। ७. सदा-सर्वकालं जलम्-उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुरगा' अतिविषमा प्रकर्षेण विविधमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले ति रुधिराविलत्वात् पिच्छिला, विस्तीर्णगम्भीरजला वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं' द्रचतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविलीनलोहसशजलेत्यर्थ, यस्यांच सदाजलायांअभिदुर्गायां नद्यांप्रपद्यमाना नारकाः 'एगाय'त्ति एकाकिनोऽत्राणा 'अनुक्रमणं' तस्यां गमनं प्लवनं कुर्वन्तीति ॥ मू. (३४८) एयाइं फासाइंफुसंति बालं, निरंतरं तत्थ चिरद्वितीयं। न हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ।। वृ. साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेष दर्शयितुमाह-एते' अनन्तरोद्देशकद्वयाभिहिताः 'स्पर्शा' दुःखविशेषाः परमाधार्मिकजनिताः पस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरसगंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं Page #156 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशक :- २ १५३ ‘स्पृशन्ति' दुःखयन्ति निरन्तरम्' अविश्रामं 'अच्छिनिमीलय' मित्यादिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तं, तथाहि रत्नप्रभायामुत्कृष्टा स्थिति सागरोपमं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायं सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमः प्रभायां द्वाविंशतिर्महातमः प्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्य- मानस्य स्वकृतकर्मफलभूजो न किञ्चित्त्राणं भवति, तथाहि किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखनुभवतस्तत्राणोद्यतेनापि न त्राणं कृतमिति श्रुति, तदेवमेकः - असहायो यदर्थं तत्पापं समर्जितं तै रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न कश्चिद्दुखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम्: 119 11 - -- “मया परिजनस्यार्थे कृतं कर्म सुदारुणम् । एकाकी तेन दह्येऽहं गतास्ते फलभोगिनः ॥ -इत्यादि । किञ्चान्यत् भू. (३४९) जंजारिसं पुव्वमकासि कम्मं, तमेव आगच्छति संपराए । एतदुक्कं भवमज्जणित्ता, वेदंति दुक्खी तमनंतदुक्खं ॥ वृ. 'यत्' कर्म 'याद्दशं' यदनुभावं याद्दकस्थितिकं वा कर्म 'पूर्वं' जन्मान्तरे 'अकार्षीत्' कृतवांस्तत्ताद्दगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति- तीव्रमन्दमध्यमैर्वन्धाध्यवसायस्थानैर्याध्शैर्यद्बद्धं तत्ताध्गेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति । एकान्तेन अवश्यं सुखलेशरहितं दुःखमेव यस्मिन्नरकादिके भवे स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्असातवेदनीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ मू. (३५०) एताणि सोञ्चा नरगाणि धीरे, न हिंसए किंचण सव्वलोए । एतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे ॥ वृ. पुनरप्युपसंहारव्याजेनोपदेशमाह- 'एतान' पूर्वोक्तान्नरकान् तास्थ्यात्तद्यपदेश इतिकृत्वा नरकदुःखविशेषान् ‘श्रुत्वा' निशम्य धीः- बुद्धिस्तया राजत इति धीरो-बुद्धिमान् प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वस्मिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणेन कमपि प्राणिनं 'हिंस्यात्' न व्यापादयेत् तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः सम्यदर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त्व इत्यर्थः-, तथा न विद्यते परि-समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादानमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा कषायलोकं तत्स्वरूपतो 'बुध्येत' जानीयात्, न तु तस्य लोकस्य वशं गच्छेदिति ॥ मू. (३५१ ) एवं तिरिक्खे मणुयासुरेसुं, चतुरन्तऽनंतं तयणुव्विवागं । स सव्वमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ - तिबेमि । वृ. एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवमशुभकर्मका Page #157 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/५/२/३५१ रिणामसुमता तिर्यङ्गनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विपाकं 'स' बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञात्वा 'ध्रुवं संयममाचरन् 'काल' मृत्युकालमाकांक्षेत् । १५४ एतदुक्तं भवति चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इति परिसमाप्ती, ब्रवीमीति पूर्ववत् ॥ अध्ययनं -५ उद्देशकः-२ समाप्तः अध्ययनं -५ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुत स्कन्धस्य पंचमअध्ययन टीका परिसमाप्ता अध्ययनं - ६ "वीरस्तुति” वृ. उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - अत्रानन्तराध्ययने नरकविभक्ति प्रतिपादिता, सा च श्रीमन्महावीरवर्धमानस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुत्वेन शास्य गरीयस्त्वमितिकृत्वा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महावीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च तत्रौधनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीरस्तवः, तत्र महच्छन्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृत्वा पूर्वं महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुत्वे, यथामहाजन इति, अस्ति बृहत्त्वे, यथा- महाघोषः, अस्त्यत्यर्थे, यथा- महाभयमिति, अस्ति प्राधान्ये यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाहपाहन्ने महसद्दो दव्वे खेत्ते य कालभावे य । वीरस्स उ निक्खेवो चउक्कओ होइ नायव्वो । नि. [८३] वृ. तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्य क्षेत्रकालभावभेदात् षोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवर्त्यादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवाइहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शैरुत्कृष्टाः पौण्डरीकादयः पदार्था अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिद्धिधर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रं, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तह द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाञ्चतुर्धानिक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो Page #158 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ६, उद्देशक: - १५५ द्रव्यार्थं सङ्ग्रामादावद्भुतकर्मकारितया शूरो यदिवा-यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्तुमलं तथा मन्दरं दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रवद्बिभृयात्, तथा चक्रवर्तिनोऽपि बलं 'दोसोला बत्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रेऽद्भुतकर्मकारी वीरो वा यत्र व्यावर्ण्यते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जित:, तथा चोक्तम् ॥ १ ॥ ॥२॥ - "कोहं माणं च मायं च, लोभं पंचेंद्रियाणि य । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं ॥ जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एक्कं जिणेज अप्पाणं, एस से परमो जओ ॥ एक्को परिभमउ जए वियडं जिनकेसरी सलीलाए । कंदम्पदाढो भयणो विड्डारिओ जेणं ।। ॥ ३ ॥ तदेवं वर्धमानस्वाम्येव परीषहोपसर्गैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नत्वान् भावतो महावीर इति भण्यते, यदिवा द्रव्यवीरो व्यतिरिक्त एकभविकादि, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावर्ण्यते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन्, स च चीरवर्धमानस्वाम्येवेति । स्तवनिक्षेपार्थमाह नि. [८४] थुइनिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती । भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ वृ.' स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत्, द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूरकूचन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां' विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति । साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाह- नि. [८५] पुच्छर जंबुनामो अज्र सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएज्जाहि ।। वृ. जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान्, अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो महावीर इति कथितवान्, एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारंजितवान् तथैव यलं विधत्तेति ॥ साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तचेदम्मू. (३५२) पुच्छिस्सु णं समणा माहणा य, अगारिणो या परितित्थिआ य । से केइ नेगंतहियं धम्ममाहु, अनेलिसं साहु समिक्खयाए ।। वृ. अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षेतेत्युक्तं, तत्र किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्धयेत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्धेतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, Page #159 -------------------------------------------------------------------------- ________________ १५६ सूत्रकृताङ्ग सूत्रम् १/६/-/३५२ साचेयम्-अनन्तरोक्ता बहुविधांनरकविभक्तिश्रुत्वासंसारादुद्विग्नमनसः केनेयंप्रतिपादितेत्येतत् सुधर्मस्वामिनम् 'अप्राक्षुः' पृष्टवन्तः ‘णम्' इतिवाक्यालङ्कारे यदिवाजम्बूस्वामीसुधर्मस्वामिनमेवाहयथा केनैवंभूतो धर्म संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा - ___'श्रमणा' निर्ग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा 'अगारिणः' क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति- स को योऽसावेनं धर्मदुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् ‘अनीशम्' अनन्यसशम् अतुलमित्यर्थः, तथा-साध्वी चासौ समीक्षा च साधुसमीक्षायथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-साधुसमीक्षया-समतयोक्तवानिति । मू. (३५३) कहं च नाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? । जाणासिणं भिक्खु जहातहेणं, अहासुतं बूहि जहा निसंतं॥ वृ.तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं ?, किम्भूतं च ‘से' तस्य 'दर्शन' सामान्यार्थप-रिच्छेदकं? 'शीलंच' यमनियमरूपंकीद्दक् ? ज्ञाता:-क्षत्रियास्तेषां पुत्रो' भगवान् वीरवर्धमा- नस्वामी तस्य ‘आसीद्' अभूदिति । यदेतन्मया पृष्टं तत् 'भिक्षो !' सुधर्मस्वामिन् याथातथ्येन त्वं 'जानीषे' सम्यगवगच्छसि 'णम्' इति वाक्यालङ्कारे तदेतत्सर्व यथाश्रुतं त्वया श्रुत्वा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सवं ब्रूहि' आचक्ष्वेति । स एवं पृष्टःसुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाहमू. (३५४) खेयनए से कुसलासुपने अनंतनाणी य अनंतदंसी। जसंसिणो चक्खुपहे ठियस्स जाणाहि धम्मं च धिइंच पेहि ॥ ७. सः- भगवान् चतुस्विंदतिशयसमेतः खेदं-संसारान्तर्वर्तिनां प्राणिना कर्मविपाकजं दुःखजानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात्, यदिवा क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा क्षेत्रम्-आकाशं तज्जानातीति क्षेत्रज्ञोलोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छितये निपुण इत्यर्थ :। आशु-शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जाना-तीतिभावः, महर्षिरिति क्वचित्पाठः, महांश्चासावृषिश्चमहर्षिअतयन्तोग्रतपश्चरणानुष्ठायित्वादतुल-परीषहोपसर्गसहनाश्चेति, तथा अनन्तम्-अविनाश्यनन्तपदार्थपरिच्छेदकं वा ज्ञानविशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनानन्तदर्शी । तदेवम्भूतस्यभगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य,लोकस्य 'चक्षुपथे लोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानिहि' अवगच्छ 'धर्म' संसारोद्धरणस्वभावं, तत्प्रणीतांवा प्रेक्षस्व' सम्यक्कुशाग्रीय-या बुद्धया पर्यालोचयेति, यदिवा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं पेहि'त्ति कथयेति मू. (३५५) उड्ढे अहेयं तिरियं दिसास, तसा यजेथावर जे य पाणा। से निचहि समिक्ख पन्ने, दीवे व धम्मं समियं उदाहु । Page #160 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, वृ. साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयितुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्वात्मके लोकेये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूप विकलेन्द्रियपञ्चेन्द्रियभेदात् त्रिधा, तथा ये च 'स्थावराः ' पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, अनेन च शाक्यादिमतनिरासेन पृथिव्याद्येकेन्द्रियाणामपि जीवत्वमावेदितं भवति । स भगवांस्तान् प्राणिनः प्रकर्षेण केवलज्ञानित्वात् जानातीति प्रज्ञः स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात 'समीक्ष्य' केवलज्ञानेनार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा सप्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थं 'धर्म' श्रुतचारित्राख्यं सम्यक् इतं गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतया वा । तथा चोक्तम् "जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ" इत्यादि, समं वा धर्मम् उत्प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति किञ्चान्यत्भू. (३५६) से सव्वदंसी अभिभूयनाणी, निरामगंधे धिइमं ठितप्पा | १५७ अनुत्तरे सव्वजगंसि विजं, गंधा अतीते अभए अणाऊ ।। वृ. 'स' भगवान् सर्वं जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा 'अभिभूय' पराजित्य मत्यादीनि चत्वार्यपिज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकत्वमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृत्वा तस्य भगवतो ज्ञानं प्रदर्श्य क्रियां दर्शयितुमाह-निर्गतः अपगत आमः - अविशोधिकोट्याख्यः तथा गन्धो-विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽ सह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा नास्योत्तरं प्रधानं सर्वस्मिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराञ्च कर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थ, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति ॥ मू. (३५७) से भूइपन्ने अनिएअचारी, ओहंतरे धीरे अनंतचक्खू । अनुत्तरं तप्पति सूरिए वा, वइरोयणिदे व तमं पगासे ।। वृ. अपिच-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र 'भूतिप्रज्ञः’ प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थ, तता-भूतिप्रज्ञो जगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञः इति, तथा 'अनियतम्' अप्रतिबद्धं परिग्रहायोगाच्चरितुं शीलमस्यासावनियतचारी तथौघं - संसारसमुद्रं तरितुं शीलमस्य स तथा, तथा धीः- बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः । तथा अनन्तं-ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षु, तथा यथा-सूर्य 'अनुत्तरं ' सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वैरोचनः ' Page #161 -------------------------------------------------------------------------- ________________ १५८ सूत्रकृताङ्ग सूत्रम् १/६/-/३५७ अग्नि स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति किञ्चमू. (३५८) अनुत्तरं धम्ममिणं जिणाणं, नेया मुनी कासव आसुपन्ने । इंदेव देवाण महानुभावे, सहस्सनेता दिविणं विसिट्टे ॥ · वृ.नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरंधर्मं जिनानाम् ऋषभादितीर्थकृतांसम्बन्धिनमयं 'मुनि' श्रीमान् वर्धमानाख्यः 'काश्यपः' गोत्रेण 'आशुप्रज्ञः' केवलज्ञानी उत्पन्नदिव्य- ज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे न लोकाव्ययनिष्ठे' त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि' स्वर्गे देवसहाणां 'महानुभावो' महाप्रभाववान् ‘णम्' इति वाक्यालङ्गारे तथा 'नेता' सप्रणायको विशिष्ट रूपबलवर्णादिभिःप्रधानःएवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ।। मू. (३५९) से पन्नया अक्खयसागरे वा, महोदही वावि अनंतपारे। अनाइले वा अकसाइ मुक्के, सक्केव देवाहिवई जुईमं ।। वृ.अपिच-असौभगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः' नतस्य ज्ञातव्येऽर्थेबुद्धिः प्रतिक्षीयतेप्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साधपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाह-यथा 'सागर' इति, अस्य चाविशिष्टवातूविशेषणमाह-'महोदधिरिव' स्वयम्भूरमणइवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च। यथा च असौसागरः 'अनाविलः' अकलुषजलः एवं भगवानपितथाविधकर्मले-शाभावादकलुषज्ञान इति, तथा-कषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तोमुक्तः, भिक्षुरितिक्वचित्पाठः, तस्यायमर्थ-सत्यपि निःशेषा-न्तरायक्षये सर्वलोकपूज्यत्वेचतथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ,नाक्षीणमहान-सादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपति ‘धुतिमान्' दीप्तिमानिति ॥ किञ्चमू. (३६०) से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा नगसव्वसेट्टे। - सुरालए वासिमुदागरे से, विरायए नेगगुणोववेए॥ वृ. 'स' भगवान् ‘वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्शनों' मेरूजम्बूद्वीनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तता यथा 'सुरालयः' स्वर्गस्तन्निवासिनां मुदाकरो' हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजते' शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति। मू. (३६१) सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते। से जोयणे नवनवते सहस्से, उद्धस्सितो हेट्ठ सहस्समेगं॥ वृ. पुनरपि हटान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहरमाणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौम जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते Page #162 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, १५९ 'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यघोऽपि सहमेकमवगाढ इति । तथाभू. (३६२) पुढे नभे चिट्ठइ भूमिवहिए, जं सूरिया अनुपरिवठ्ठयंति। से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ।। वृ. 'नभसि' 'स्पृष्टो' लग्नोनभो व्याप्य तिष्ठति तथा भूमिंचावगाह्यस्थितइतिऊर्ध्वाधस्तिर्यकूलोकसंस्पर्शी, यथा 'यं' मेरुं 'सूर्या' आदित्या ज्योतिष्का अनुपरिवर्तयन्ति' यस्य पार्वतो भ्रमन्तीत्यर्थः, तथाऽसौ “हेमवर्णो' निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य सबहुनन्दनवनः। तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षटत्रिशत्सहाण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाथुपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन महेन्दा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन ‘रति' रमणक्रीडां 'वेदयन्ति' अनुभवन्तीति ।। मू. (३६३) से पव्वए सद्दमहप्पगासे, विरायती कंचणमट्टवन्ने । अनुत्तरे गिरिसुयपव्वदुग्गे, गिरीवरे से जलिएव भोमे ।। वृ. अपिच-सः-मेख्यिोऽयं पर्वतो मन्दरो मेरु सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दै महान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते' शोभते, काञ्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा। __ एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषुच मध्ये पर्वभिमेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गो' विषमः सामान्यजन्तूनांदुरारोहो गिरिवरः' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया 'भौम इव' भूदेश इव ज्वलित इति । किञ्च-- मू. (३६४) महीइ मन्झमि ठिते नगिंदे, पन्नायते सूरियसुद्धलेसे। एवं सिरीए उस भूरिवन्ने, मनोरमे जोयइ अच्चिमाली ।। वृ. 'मह्यां' रलप्रभापृथिव्यांमध्यदेशेजम्बूद्वीपस्तस्यापिबहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागेदशसहसविस्तीर्णः शिरसि सहमेकमधस्तादपिदशसहस्राणिनवतियोजनानि योजनैकादशभागैर्दशभिरधिकानिविस्तीर्णः चत्वारिंशत् यौजनो च्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरु प्रकर्षेण लोके ज्ञायते सूर्यवशुद्धलेश्यः ___ आदित्यसमानतेजाः, “एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरु 'भूरिवर्णः' अनेकवर्णों अनेकवर्णरलोपशोभितत्वात् मनः-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव स्वतेजसा द्योतयति दशापि दिशः प्रकाशयतीति । मू, (३६५) सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पव्वयस्स । एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले ।। वृ. साम्प्रतंमेरुद्दष्टान्तोपक्षेपेण दान्तिकं दर्शयत-एतदनन्तरोक्तं यशः' कीर्तनंसुदर्शनस्य मेरुगिरेः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एषा-अनन्तरोक्तोपमायस्य स एतदुपमः, कोऽसौ। Page #163 -------------------------------------------------------------------------- ________________ १६० सूत्रकृताङ्ग सूत्रम् १/६/-/३६५ श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाताः-क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सचजात्या सर्वजातिमद्भ्यो यशसा असेषयशस्विभ्योदर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवम्यः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति । पुनरपि द्दष्टान्तद्वारेणैव भगवतो व्यावर्णनमाहमू. (३६६) गिरिवरेवा निसहाऽऽययाणं, रुयए व सेढे वलयायताणं। तओवमे से जगभूइपन्ने, मुनीन मज्झे तमुदाहु पन्ने ।। वृ. यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा-वलयायतानां मध्ये रुचक- पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः, स हि रुचकद्वीपान्तवर्ती मानुषोत्तरपर्वत इव वृत्तायतः सफ़ेययोजनानि परिक्षेपेणेति । तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञः-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाहुः' उदाहृतवन्त उक्तवन्त इत्यर्थः ।। मू. (३६७) अनुत्तरं धम्ममुईरइत्ता, अनुत्तरं झाणवरं झियाई। सुसुक्कसुक्कं अपगंडसुक्क, संखिंदुएगंतवदातसुक्छ । वृ. किञ्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मं 'उत्' प्राबल्येन 'ईरयित्वा' कथयित्वा प्रकाश्य अनुत्तरं प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठंध्यायति, तथाहिउत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यंतथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यंध्यायति, एतदेवदर्शयति-सुष्ठशुक्लवशुक्लं ध्यानंतथा अपगतंगण्डम-अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः । तथा शझेन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्याती। अपिचमू. (३६८) अनुत्तरगं परमं महेसी, असेसकम्मंस विसोहइत्ता। सिद्धिं गते साइमनंतपत्ते, नाणेण सीलेण यदसणेण ।। वृ. तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थमेदानन्तरं साधपर्यवसानां सिद्धिगतिपञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि-अनुत्तरा चासौ सर्वोत्तमत्वादग्र्याच लोकाग्रव्यवस्थितत्वादनुत्तराग्र्यातां परमां प्रधानां महर्षि असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्वाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगतिं प्राप्त इति मीलनीयम् ॥ मू. (३६९) रुक्खेसु जाते जह सामली वा, जस्सिं रति वेययती सुचना । बनेसु वा नंदनमाहु सेलु, नाणेण सीलेण य भूतिपन्ने ।। घ. पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञातः' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानं, 'यत्र व्यवस्थिताअन्यतश्चागत्य 'सुपर्णा भवनपतिविशेषा ‘रति' रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषुचमध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधान एवं भगवानपि 'ज्ञानेन' केवलाख्येन समस्तपदार्थाविर्भावकेन Page #164 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-६, १६१ 'शीलेन' चचारित्रेण-यथाख्यातेन श्रेष्ठः प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ।। अपिचमू. (३७०) थणियंव सदाण अनुत्तरे उ, चंदो व ताराण महानुभावे। गंधेसुवाचंदनमाहु सेटं, एवं मुणीणं अपडिनमाहु ।। वृ. यथा शब्दानांमध्ये 'स्तनितं' मेघगर्जितं तद् ‘अनुत्तरं' प्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थोवा, 'तारकाणांच' नक्षणात्रांमध्ये यथा चन्द्रो महानुभावः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, “गन्धेषु' इति गुणगुणिनोरभेदान्मतुब्लोपाद्वा गन्धवत्सुमध्ये यथा 'चन्दनं' गोशीर्षकाख्यंमलयजंवा तज्ज्ञाः श्रेष्ठमाहुः, एवं 'मुनीनां' महर्षीणां मध्ये भगवन्तं नास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति । मू. (३७१) जहा सयंभू उदहीण सेढे, नागेसु वा धरणिंदमाहु सेहे। खोओदए वा रस वेजयंते, तवोवहाणे मुनिवेजयंते ।। वृ.अपिघ-स्वयं भवन्तीति स्वयम्भूवोदेवाः ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् 'उदघीना' समुद्राणां मध्ये यथा श्रेष्ठमाहुः । तथा 'खोओदए' इतिइक्षुरस इवोदकं यस्य स इक्षुरसोदकः सयथारसमाश्रित्य वैजयन्तः' प्रधानः स्वगुणैरपरसमुद्राणांपताकेवोपरिव्यवस्थितः एवं 'तपउपधानेन' विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति 'मुनि' भगवान् 'वैजयन्तः' प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति।। मू. (३७२) हत्थीसु एरावणमाहुनाए, सीहो मिगाणं सलिलाण गंगा। पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह नायपुत्ते।। वृ. 'हस्तिषु' करिवरेषु मध्य यथा 'ऐरावणं' शक्रवाहनं 'ज्ञातं' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, मृगाणां च श्वापदानांमध्येयथा 'सिंहः' केसरीप्रधानःतथा भरतक्षेत्रापेक्षया 'सलिलानां' मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति । ___ 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणंसिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्रः-अपत्यं ज्ञातपुत्रः-श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः॥ मू. (३७३) जोहेसुनाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह पद्धमाणे॥ वृ. अपिच-योधेषु मध्ये 'ज्ञातो' विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः-चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः । तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यः-चक्रवर्ती यथाऽसौ श्रेष्ठः । तदेवं बहून् द्दष्टान्तान् प्रशस्तान् प्रदाधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह-तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ इति । तथामू. (३७४) दानान सेढे अभयप्पयाणं, सच्चेसु वा अनवजं वयंति। __ तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ।। 2011 Page #165 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/६/-/३७४ वृ. तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठं, तदुक्तम् ॥ १ ॥ " दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥ इति, गोपालाङ्गनादीनां ध्ष्टान्तद्वारेणार्थो बुद्धी सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थं कथानकमिदं वसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिचौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहयतध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं - किमनेनाकारीति ?, तासामेकेन राजपुरुषेणाऽऽवेदितं यथा १६२ परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्यो यथा-यो भवता मम प्राग वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किञ्चित् राज्ञाऽपि प्रतिपन्नं, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कृतो दीनारसहव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्य त्वया किञ्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौर: समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यभाणि यथा - न मया मरणमहाभयभीतेन किञ्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवद्यम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्यो हितं सत्यमिति कृत्वा, तथा चोक्तम् 119 11 "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन नरके तीव्र वेदने ॥ "तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे ॥ तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्तयुपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति ॥ ॥१॥ - मू. (३७५) ठिई। सेठ्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा । निव्वाणसेट्ठा जह सव्वधम्मा, न नायपुत्ता परमत्थि नाणी ॥ वृ. किञ्च स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः ः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, 'सभानांच' पर्षदांच मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्रधाना भवन्ति । कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं द्रुवते यतः, एवं 'ज्ञातपुत्रात्' वीरवर्धमा Page #166 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, १६३ नस्वामिनः सर्वज्ञात् सकाशात् ‘परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिम्योऽधिकज्ञानो भवतीति भावः । किञ्चान्यत्मू. (३७६) पुढोवमे धुणइ विगयगेही, न सन्निहिं कुब्बति आसुपन्ने । तरिउं समुदं व महाभवोधं, अभयंकरे वीर अनंतचक्खू ॥ वृ. स हि भगवान् यथा पृथीवि सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सत्त्वाधार इति, यदिवा यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा 'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'गृद्धिः' गाद्धर्यमभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधि । स च द्रव्यसन्निधि धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसनिधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिधिं न करोति भगवान्, तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छितिं विधत्ते, स एवम्भूतः तरित्वा समुद्रमिवापारं महाभवौध चतुर्गतिकंसंसारसागरंबहुव्यसनाकुलं सर्वोत्तमंनिर्वाणमासादितवान् पुनरपि तमेव विशिनष्ट-'अभयं प्राणिनांप्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽटप्रकारकर्मविशेषेणेरयति-प्रेरयतीति वीरः,तथा अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तं चक्षुरिव चक्षु-केवलज्ञानं यस्य स तथेति । मू. (३७७) कोहं च माणंच तहेव मायं, लोभं चउत्थं अज्झत्थदोसा। एआणि वंता अरहा महेसी, न कुव्वईं पाव न कारवेइ ।। वृ. किञ्चान्यत्-'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत एतान अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन कषायान् 'वान्त्व' परित्यज्य असौ भगवान् ‘अर्हन्' तीर्थकृत् जातः, तथा महर्षि, एवं परमार्थतो महर्षित्वं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः ‘पापं सावद्यमनुष्ठानं करोति नाप्यन्यैः कारयतीति ।। किञ्चान्यत्मू. (३७८) किरियाकिरियं वेणइयाणुवायं, अन्नाणियाणं पडियच ठाणं। से सव्ववायं इति वेयइत्ता, उवहिए संजमदीहरायं ।। वृ. तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थान' पक्षमभ्युपगतमित्यर्थ, यदिवा-स्थीयतेऽस्मिन्निति स्थान-दुर्गतिगमनादिकं 'प्रतीत्य' परिच्छिद्य सम्यगव- बुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्यामः, लेशतस्त्विदं-क्रियैव परलोकसाधनायलमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम् - ॥१॥ "पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि, सिद्धयते नात्र संशयः ।। तथा विनयादेवमोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपतेषामभ्यु Page #167 -------------------------------------------------------------------------- ________________ १६४ सूत्रकृताङ्ग सूत्रम् १/६/-/३७८ पगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम् ॥१॥ "यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति ।। - इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ मू. (३७९) से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्टयाए । लोगं विदित्ता आरं परं च सव्वं पभू वारिया सव्ववारं ॥ बृ. अपिच स भगवान् वारयित्वा प्रतिषिध्य किं तदित्याह 'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलक्षणार्थत्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं तथा उपधानं तपस्तद्विद्यते यस्यासौ उपधानवानू तपोनिष्ठप्तदेहः, किमर्थमिति दर्शयति-दुःखयतीति दुःखम् - अष्टप्रकारं कर्म तस्य क्षयः - अपगमस्तदर्थं । मू. (३८०) सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति || त्तिबेमि । वृ. किञ्च लोकं विदित्वा 'आरम्' इहलोकाख्यं 'परं' परलोकाख्यं यदिवा - आरं मनुष्यलोकं पारमिति-नारकादिकं स्वरूपतस्तप्राप्तिहेतुतश्च विदित्वा सर्वमेतत् 'प्रभुः' भगवान् 'सर्ववारं ' बहुशो निवारितवान्, एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च स्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्"ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितु मदान्तः स्वयमिति । भवान्निश्चित्यैवं मनसि जगदाधाय सकलं, स्वभात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥ “तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधूयंमि । अनिगूहियबलविरओ सव्वत्थामेसु उज्जमइ ।। 119 11 119 11 इत्यादि साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह - 'सोच्चा य' इत्यादि, श्रुत्वा च दुर्गतिधारणाद्धर्म- श्रुतचारित्राख्यमर्हद्भिर्भाषितं सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम् अवदातं सद्युक्तिकं सद्धेतुकं वा यदिवा अर्थे- अभिधेयैः पदैश्च वाचकैः शब्दैः उप-सामीप्येन शुद्धं निर्दोषं, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका ‘अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चेन्द्राद्या देवाधिपा आगमिष्यन्तीति इतिशब्दः परिसमाप्ती, ब्रवीमीति पूर्ववत् । अध्ययनं ६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्त। Page #168 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१,अध्ययनं-७, १६५ (अध्ययन-७ कुशील परिभाषा) वृ.उक्तं षष्ठमध्ययनं, साम्प्रतंसप्तममारभ्यते, अस्यचायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः सुशीलपरिभाषा कृता, तदनन्तरंतद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णीनीयानि, तत्राप्युपक्रमान्तगतोऽर्थाधिकारोऽयं। तद्यथा-कुशीलाः-परतीर्थिकाः पार्श्वस्थादयोवा स्वयूथ्या अशीलाश्चगृहस्थः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाश्चेति, निक्षेपस्त्रिधाःओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं, नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाहनि. [८०] सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ।। वृ. 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य 'द्रव्यम्'- इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्यायमर्थ-यो हि फलनिरपेक्षस्त-स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओघशीलमाभीक्ष्णयसेवनाशीलं चेति ।। तत्रौघशीलं व्याचिख्यासुराह-- नि. [८७] ओहे सीलं विरती विरयाविरई य अविरती असील । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी । वृ. तत्रौधः-सामान्य सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्णयसेवायां तु-अनवरसेवनायां तु शीलमिदं, तद्यथा-'धर्मे' धर्मविषयेप्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणंवा, आदिग्रहणादनवरताभिग्रहग्रहणादिकंपरिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरातु क्रोधादिषुप्रवृत्तिः, आदिग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति । साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतांदर्शयितुमाहनि. [८८] परिभासिया कुसीला य एत्थ जावंति अविरत केई। सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो॥ वृ. परि-समन्तात् भाषिताः-प्रतिपादिताः 'कुशीलाः' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात्यावन्तः केचनाविरताअस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथासौराज्यमित्यादि, तथा कुरित्ययमपिनिपातोजुगुप्सायामशुद्धविषये वर्ते, कुतीर्थं कुग्राम इत्यादि यदि कुत्सितशीलाः कुशीलाः कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह Page #169 -------------------------------------------------------------------------- ________________ १६६ सूत्रकृताङ्ग सूत्रम् १/७/-1३८०/ नि. [८०] नि. [८९] अफासुयपडिसेविय नाम भुजो य सीलवादी य। फासुंवयंति सीलं अफासुया मोअ जंता॥ वृ.अस्त्ययंशीलशब्दस्तत्स्वाभाव्ये, तथाहि-यः फलनिरपेक्षः क्रियास्वाभरणादिकासुप्रवर्तते सचेहद्रव्यशीलत्वेन प्रदर्शितः,अस्त्युपशमप्रधानेचारित्रे, तथाहि-तप्रधानःशीलवानयंतपस्वीति, तद्विपर्ययेण दुःशील इति, सचेह भावशीलग्रहणेनोपात्त इति, इह च यतीनांध्यानाध्ययनादिकं मुक्त्वा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नापरः कस्चिद्व्यापारोऽस्तीत्यतस्तदाश्रयणेनैव सुशीलत्वं दुःशीलत्वं च चिन्त्यते। तत्र कुतीर्थिकाः पार्श्वस्थादिर्वा अप्रासुकं-सचित्तंप्रतिसेवितुंशीलमस्यस भवत्यप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां “भूयः' पुनर्घाष्टर्याच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं?-यतः 'प्रासुकम्' अचेतनं शीलं वदन्ति, इदमुक्तंभवति-यःप्रासुकमुद्गमादिदोषरहितमाहारंभुङ्केतंशीलवन्तंवदन्तितज्ज्ञाः, तथाहि-यतयो प्रासुकमुद्रमा-दिदोषदुष्टमेवाहारमभुनानाः शीलवन्तो भण्यन्ते, नेतर इति स्थितं, मोशब्दस्य निपातत्वेना-वधारणार्थत्वादिति अप्रासुकभोजित्वेन कुशीलत्वं प्रतिपादयितुं दृष्टान्तमाहनि. [१०] जह नाम गोयमा चंडीदेवगा वारिभद्दगा चेव । जे अग्निहोत्तवादी जलसोयं जे य इच्छंति ।। वृ.यथेति दृष्टान्तोपक्षेपार्थं, नामशब्दोवाक्यालङ्कारे, 'गौतमा' इति गोव्रतिकागृहीतशिक्षं लघुकायं वृषभमुपादाय धान्याद्यर्थं प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अब्मक्षाः शैवलाशिनो नित्यं स्नानपादादिधावनाभिरता वा तथा ये चानये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्तियेचान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेऽप्यप्रासुकाहारभोजित्वात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्थादय उद्गमाद्यशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदंमू. (३८१)पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा। जे अंड्या जे यजराउ पाणा, संसेययाजे रसयाभिहाणा।। वृ. 'पृथिवी' पृथिवीकायिकाः सत्त्वाः चकारः स्वगतभेदसंसूचनार्थः, स चायं भेदःपृथिवीकायिकाः सूक्ष्मा बादरश्च, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदेन दर्शयति । 'तृणानि' कुशादीनि वृक्षाश्च' अश्वत्थादयो 'बीजानि' शाल्यादीनिएवंवल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, त्रस्यन्तीति त्रसा द्वीन्द्रियादयः 'प्राणाः' प्राणिनः ये चाण्डाजाता अण्डजाःशकुनिसरीसृपादयः 'ये च जरायुजा' जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः,तथासंस्वेदाजाताः संस्वेदजायूकामत्कुणकृम्यादयः 'येचरसजाभिधाना' दधिसौवीरकादिषु रूतपक्ष्यसनिमा इति ।। मू. (३८२) एयाइंकायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं। एतेण कारण य आयदंडे, एतेसु या विप्परियासुविंति ।। Page #170 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध: - १, अध्ययनं ७, - १६७ वृ. नानाभेदभिन्नं जीवसंघातं प्रदर्श्याधुना तदुपघाते दोषं प्रदर्शयितुमाह- 'एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिताः कथिताः, छान्दसत्वान्नपुंसकलिङ्गता, 'एतेषु' च पूर्व प्रतिपादितेषु पृथिवीकायादिषु प्राणिषु 'सातं' सुखं जानीहि, एतदुक्तं भवति । सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञात्वा 'प्रत्युपेक्षस्व' कुशाग्रीयया बुध्धया पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्डयते, एतत्समारम्भादात्मदण्डी भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति एतान् कायान् ये दीर्घकालं दण्डयन्ति पीडयन्तीति तेषां यद्भवति तद्दर्शयति । ते एतेष्वेव पृथिव्यादिकायेषु विविधम्- अनेकप्रकारं परि-समन्ताद् आशु- क्षिप्रमुपसामीप्येन यान्ति व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भयः समुत्पद्यन्त इत्यर्थः, यदिवा- विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः कायैर्यां क्रियां कुर्वन्ति तथा संसार एव भवतीति । यथा चासावयतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयतियू. (३८३) जाईपहं अमुपरिवमाणे, तसथावरेहिं विणिघायमेति । से जाति जातिं बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥ बृ. जातीनाम् - एकेन्द्रियादीनां पन्था जातिपथः, यदिवा-जाति- उत्पत्तिर्वधो-मरणंजातिश्च वधश्च जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषुपर्यन् जन्मजरामरणानि वा बहुशो ऽनुभवन् 'त्रसेषु' तेजोवायुद्वीन्द्रियादिषु 'स्थावरेषु' च पृथिव्यम्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिघातं ' विनाशमेति- अवाप्नोति । 'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणिदारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्माकेन्द्रियादिकायां जातौ यप्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मीयते' म्रियते पूर्यते यदिवा 'मी हिंसायां ' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव कर्मणा मीयते परिच्छिद्यत इति ।। भू. (३८४) अस्सिं च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥ वृ. क्व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्मामि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपार्क तीव्रं ददति 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदशुभमाचरन्ति ततैवोदीर्यते तथा-‘अन्यथा वेति, इदमुक्तं भवति किञ्चित्कर्म तद्भव एव विपाकं ददाति किश्चिच्च जन्मान्तरे, यथा-मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, दीर्घकालस्थितिकं त्वपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृ त्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयन्त्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता Page #171 -------------------------------------------------------------------------- ________________ १६८ सूत्रकृताङ्ग सूत्रम् १/७/-/३८४ अपरं बध्नन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि-दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - ॥१॥ “मा होहि रे विसन्नो जीव! तुमं विमणदुम्मणो दीनो। नहु चिंतिएण फिट्टइ तं दुक्खं जंपुरा रइयं ॥ ॥२॥ जइ पविससि पायालं अडविंव दरिंगुहं समुदं वा । पुवकयाउ न चुक्क सि अप्पाणं घायसे जइवि ।। एवं तावदोधतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याहमू. (३८५) जे मायरं वा पियरं च हिञ्चा, समणव्वए अगणिं समारभिजा । अहाहु से लोए कुसीलधम्मे, भूताईजे हिंसति आयसाते। वृ.'ये' केचनाविदितपरमार्था धर्मार्थमुस्थितामातरंपितरंचत्यक्त्वा, मातापित्रोर्दुस्त्यजत्वात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौद्देशिकादिपरिभोगाचाग्निकायसमारम्भं कुर्युरित्यर्थ, अथेति वाक्योपन्यासार्थ।। 'आहुरिति तीर्थकृद्गणधरादयएवमुक्तवन्तः यथा सोऽयंपाषण्डिकोलोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थं हिनस्ति' व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकयाच क्रिययापाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलषन्तीति ॥ मू. (३८६) उज्जालओपाण निवातएञ्जा, निव्वावओ अगणि निवायवेजा। तम्हा उ मेहावि समिक्ख धम्म, न पंडिए अगमि समारभिजा !. वृ. अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितुमाह-तपनतापनप्रकाशादिहेतुंकाष्ठादिसमारम्भेण योऽग्निकार्यसमारभतेसोऽग्निकायमपरांश्चपृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनो निपातयेत्, त्रिभ्यो वा मनोवाकायेम्भय आयुर्बलेन्द्रियेभ्यो वा पातयेन्निपातयेत् तथाऽग्निकायमुदकादिना 'निर्वापयन्' विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः “दो भंते! पुरिसा अन्नमन्नेणसद्धिं अगणिकायंसमारभंति, तत्थणंएगेपुरिसे अगणिकार्य उज्जालेइ एगेणं पुरिसे अगणिकायं निव्ववेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकार्य उज्जालेइ से णं पुरिसे बहुतरागंपुढविकायंसमारभति, एवंआउकार्य वाउकायं वणस्सइकायंतसकायंअप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निव्वावेइ से णं पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अपतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं अटेणं गोयमा ! एवं वुश्चई"। अपि चोक्तम्-“भूयाणं एसमाधाओ, हव्यवाहो न संसओ' इत्यादि । यस्मादेवं तस्मात् Page #172 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ७, १६९ स 'मेघावी' सदसद्विवेकः सुश्रुतिकः समीक्ष्य धर्मं पापाड्डीनः पण्डितो नाग्निकार्य समारभते, एव च परमार्थतः पण्डितो योऽग्निकायसमारम्भ कृतात् पापान्निवर्तत इति । कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह - (गाथा चतुष्कं) मू. (३८७) पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कट्ठसमस्सिया य, एते दहे अगणि समारभंते ॥ वृ. न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी- मृल्लक्षणा असावपि जीवाः, तथा आपश्च- द्रवलक्षणा जीवास्तदाश्रिताश्च प्राणाः 'सम्पातिमाः' शलभादयस्तत्र सम्पतन्ति, तथा 'संस्वेदजाः ' करीषादिष्विन्धनेषु धुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकायं समारभेत्, ततोऽग्निकायसमारम्भो महादोषायेति ॥ मू. (३८८) हरियाणी भूताणि विलंबगाणि, आहार देहा य पुढो सियाई । जे छिंदती आयसुहं पडुच्च, पागब्भि पाणे बहुणं तिवाती ॥ वृ. एवं तावदग्निकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह- 'हरितानि' दूर्वाकुरादीन्येतान्यप्याहारादेर्वृद्धिदर्शनात् ‘भूतानि' जीवाः तथा 'विलम्बकानीति' जीवाकारं यान्ति विलम्बन्तिधारयन्ति, तथाहि कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपक्वानि जीर्णानि परिशुष्काणि मृतानि तथा वृक्षा अप्यङ्कुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखा प्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्य वस्थास्वायोज्यं तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशाखापत्रपुष्पादिषु स्थानेषु 'पृथक्' प्रत्येकं 'श्रितानि' व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि च भूतानि सङ्ख्यासङ्ख्यानन्तभेदभिन्नानि वनस्पतिकायाश्रितान्याहारार्थं देहोपचयार्थं देहक्षत संरोहणार्थं वाऽऽत्मसुखं 'प्रतीत्य' आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात्' घाटर्थ्यावष्टम्भाद्बहूनां प्राणिनामतिपाती भवति, तदपिपाताच्च निरनुक्रोशतया न धर्मोनाप्यात्मसुखमित्युक्तं भवति भू. (३८९) जातिं च वुडूिंढ च विनासयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोए अणजधम्मे, बीयाइ जे हिंसति आयसाते ।। g. किञ्च- 'जातिम्' उत्पत्तिं तथा अङ्करपत्रमूलस्कन्धशाखा प्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितानि छिनत्तीति, 'असंयतः ' गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपधातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति - यो हरितादिच्छेदको निरनुक्रोशः 'सः' अस्मिन् लोके 'अनार्यधर्मा' क्रूरकर्मकारी भवतीत्यर्थ, सचक एवम्भूतो यो धर्मापदेशेनात्मसुखथ वा बीजानि अस्य चोपलक्षणार्थत्वात् वनस्पतिकायं हिनस्ति स पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः । मू. (३९०) गब्भाइ मिजंति बुयाबुयाणा, नरा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ।। Page #173 -------------------------------------------------------------------------- ________________ १७० सूत्रकृताङ्ग सूत्रम् १/७/-1३९० वृ. साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायोपमईकाः बहुषु जन्मषु गर्भादिकास्ववस्थासुकललार्बुदमांसपेशीस्पासुनियन्ते,तथा 'ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो भ्रियन्ते। तथा युवानोमध्यमवयसः स्थविराश्च क्वचित्पाठो मज्झिमपोरुसायतितत्र 'मध्यमा' मध्यमवयसः पोरुसाय'त्ति पुरुषाणांचरमावस्थांप्राप्ताअत्यन्तवृद्धा एवेतियावत्, तदेवंसर्वास्वप्यवस्थासुबीजादीनामुपईकाः स्वायुषःक्षयेप्रलीनाः सन्तोदेहंत्यजन्तीति, एवमपर-स्थावरजङ्गमोपमईकारिणामप्यनियतायुष्कत्वमायोजनीयम् ।। किश्चान्यत्मू. (३९१) संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो। एगंतदुक्खे जरिए व लोए, सकम्मुणा विपरियासुवेइ ।। वृ.हे ! 'जन्तवः' प्राणिनः! सम्बुध्यध्वं यूयं, नहि कुशीलपाषण्डिकलोकस्त्राणाय भवति, धर्म च सुदुर्लभत्वेन सम्बुध्यध्वं, तथा चोक्तम् - ॥१॥ "माणुस्सखेत्तजाई कुशरूवारोग्गमाउयं बुद्धी। सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई॥ तदेवमकृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षुचतीव्रदुःखतया भयं दृष्ट्वातथा बालिशेन' अज्ञेनसदसद्विवेकस्यालम्भइत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोकः' संसारिपाणिगणः, तथा चोक्तम्॥१॥ "जम्मंदुक्खं जरा दुक्खं, रोगाय मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो॥ ॥१॥ "तण्हाइयस्स पाणं कूरो छुहियस्स भुजए तित्ती । दुक्खसयसंपउत्तंजरियमिव जगं कलयलेइ।। इति, अत्रचैवम्भूते लोके अनार्यकर्मकारी स्वकर्मणा 'विपर्यासमुपैति’ सुखार्थी प्राण्युपमई कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति ॥ मू. (३९२) इहेग मूढा पवयंति मोक्खं, आहारसंपज्जणवज्जणेणं। एगे य सीओदगसेवणेणं, दुएण एगे पवयंति मोक्खं । वृ. उक्तः कुशीलविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते-'इहे ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति-प्रतिपादयन्ति, किं तत् ? -'मोक्ष' मोक्षावाप्ति, केनेति दर्शयति आहियत् इत्याहार-ओदनादिस्तस्य सम्पद्-रसपुष्टिस्तांजनयतीत्याहारसम्पज्जननं-लवणं, तेन ह्याहारस्य रसपुष्टि क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन-लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरंवा आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चकं, लवणपञ्चकंचेदं, तद्यथा-सैंधवं सौवर्चलं बिडंरौमं सामुद्रंचेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तम् - ॥१॥ "लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा। __धम्मो दयाय रहिओ सोक्खं संतोसरहियं नो॥ Page #174 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं.७, १७१ तथा 'लवणं रसानां तैलं स्नेहानां धृतं मेध्याना' मिति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाःप्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवज्जणेणं' आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चक वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्ष प्रवदन्ति । तथैके 'वारिभद्रकादयो' भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षप्रवदन्ति, उपपत्तिचते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति, ये किल स्वर्गादिफलमनाशंस्य समिधाधृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्यति शेषास्त्वभ्युदयायेति, युक्ति चात्र ते आहु यथा ह्यग्नि सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ।। मू. (३९३)पाओसिणाणादिसु नत्यि मोक्खो, खारस लोणस्स अनासएणं। ते मज्जमंसं लसणं च भोञ्चा, अन्नत्य वासं परिकप्पयति ।। वृ.तेषामसम्बद्धप्रलापिनामुत्तरदानाया-'प्रातःस्नानादिषुनास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निशीलानांमोक्षोनभवति, आदिग्रहणात् हस्तपादादिप्रक्षालनंगृह्यते, तथाहि-उदकपरिभोगेनतदाश्रितजीवानामुपमईः समुपजायते, नच जीवोपमर्दान्मोक्षावाप्तिरिति, नचैकान्तेनोदकं बाह्यमलस्याप्यपनयने समर्थम् - अथापिस्यात्तथाप्यान्तरंमलं नशोधयति, भावशुद्धयातच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धि स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेके मुक्त्यवाप्ति स्यात्, तथा-'क्षारस्य' पञ्चप्रकार- स्यापि लवणस्य ‘अनसनेन' अपरिभोगेन मोक्षो नास्ति, तथाहिलवणपरिभोगरहितानां मोक्षोभवतीत्ययुक्तिकमेतत्नचायमेकान्तोलवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात, अपिचासौ प्रष्टव्यः।। किं द्रव्यतो लवणवर्जनेन मोक्षावाप्ति उत भावतः ?, यदि द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मूढा मद्यमांसं लशुनादिकं च भुक्त्वा 'अन्यत्र' मोक्षादन्यत्र संसारे वासम्-अवस्थान तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्थाननुष्ठानाच परिकल्पयन्ति' समन्तानिष्पादयन्तीति॥ मू. (३९४) उदगेण जे सिद्धिमुदाहरंति, सायंच पायं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ।। वृ. साम्प्रतं विशेषेण परिजिहीर्षुराह तथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धि' परलोकम् ‘उदाहरन्ति' प्रतिपादयन्ति-'सायम्' अपराले विकालेवा 'प्रातश्च प्रत्युषसिचआद्यन्तग्रहणात् मध्याह्ने चतदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रिया जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक्, यतो यधुदकस्पर्शमात्रेण सिद्धि स्यात् तत उदकसमाश्रिता मत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्धयेयुरिति । यदपि तैरुच्यते-बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणं नघटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागंकुङ्कुमादिकमपनयति, ततश्चपुण्यस्याप Page #175 -------------------------------------------------------------------------- ________________ १७२ सूत्रकृताङ्ग सूत्रम् १/७/-/३९४ नयनादिष्टविधातकृतिरुद्धः स्यात्, किञ्च यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम् ॥१॥ ___ "स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, न ते स्नान्ति दमे रताः॥ ॥१॥ "नोदकल्लिन्नगात्री हि, स्नात इत्यभिधीयते । सस्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचि ।। किञ्चमू. (३९५) मच्छ य कुम्मा य सिरीसिवाय, मग्गूय उद्या दगरक्खसा य। अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरति ।। वृ.यदिजलसम्पर्कात्सिद्धिः स्यात्ततोयेसततमुदकावगाहिनोमत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गव- तथोष्ट्रा-जलचरविशेषाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमंसिद्धयेयुः, नचैतद्रुष्टमिष्टं वा, ततश्चयेउदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम्' अयुक्तम्असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति।। मू. (३९८) उदगंजइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । अंधं च नेयारमणुस्सरित्ता, पाणाणिचेवं विणिहति मंदा ।। वृ.किञ्चान्यत्-यधुदकं कर्ममलमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते-जलं कर्मापहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मार्तमार्गमनुसरन्तः कुर्वन्तिते यथाजात्यन्धा अपरंजात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा । 'मन्दा' अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया प्राणव्यपरोपणस्य सम्भवादिति मू. (३९७) पावाई कम्माइं पकुव्वतो हि, सिओदगं तू जइतं हरिना। सिज्झिसु एगे दगसत्तघाती, मुसंवयंते जलसिद्धिमाहु॥ वृ. अपिच-'पापानि' पापोपादानभूतानि 'कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यधुदकमपहरेत् यद्येवं स्यात् तर्हि हि यस्मादर्थे यस्मााण्युपमर्दैन कर्मोपादीयते जलावगाहनाच्चापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठाअप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनासिद्धिमाहुः ते मृषा वदन्ति॥ मू. (३९८) हुतेण जे सिद्धिमुदाहरंति, सायंच पायं अगणिं फुसंता। एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणपि।। वृ.किश्चान्यत्-'अग्निहोत्रं' जुहुयात् स्वर्गकाम इत्यस्माद्वाक्यात् 'ये' केचन मूढा ‘हूतेन' अग्नी हव्यप्रक्षेपेण सिद्धिं' सुगतिगमनादिकां स्वर्गावाप्तिलक्षणाम् उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः ?- सायम्' अपराह्ने विकाले वा 'प्रातच' प्रत्युषसि अग्नि स्पृशन्तः यथेष्टैर्हव्यैरग्ि तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुश्चैवं ते यथा - अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादग्नि संस्पृशता ‘कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनांसिद्धि स्यात्, यदपि च मन्त्रपूतादिकं तैरुदाहियते तदपिचनिरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, Page #176 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-७, १७३ यदप्युच्यते-अग्निमुखा वैदेवाः, एतदपियुक्तिविकलत्वात् वाङ्मात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति। उक्तानि पृथक् कुशीलदर्शनानि, अयम परस्तेषां सामान्योपालम्भ इत्याहमू. (३९९) अपरिक्ख दिटुं न हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा। भूएहिं जाणं पडिलेह सातं, विझंगहायं तसथावरेहिं ।। वृ. चैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः ‘अपरीक्ष्य हटमेतत्' युक्तिविकलमभिहितमेतत्, किमिति? यतो नहु' नैव एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, तेच परमार्थमबुद्धयमानाःप्राण्युपघतेन पापमेव धर्मबुद्धाकुर्वन्तोघात्यन्ते-व्यापाद्यन्तेनानाविधैः प्रकारैर्यस्मिनप्राणिनःस घातः-संसारस्तमेष्यन्ति, अपकायतेजःकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तदविनाशे च संसार एवन सिद्धिरित्यभिप्रायः, यत एवं ततो विद्वान्' सदसद्विवेकी यथावस्थिततत्त्वं गृहीत्वा त्रसस्थावरैर्भूतैः-जन्तुभिः । कथं साम्प्रतं-सुखमवाप्यत इत्येतत् प्रत्युपेक्ष्य जानीहि-अवबुद्धयस्व, एतदुक्तं भवति सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषो, नच तेषांसुखैषिणांदुःखोत्पादकत्वेन सुखावाप्तिर्भवतीति, यदिवा-विजं गहाय'त्ति विद्यां ज्ञानं गृहीत्वा विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभि करणभूतैः 'सात' सुखं प्रत्युपेक्ष्य' पालोच्य ‘जानीहि' अवगच्छेति, यत उक्तम् - ॥१॥ “पढमं नाणं तयो दया, एवं चिट्टइ सव्व संजए। अन्नाणी किं काही, किंवा नाही छेयपावगं॥ मू. (४००) थर्णति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विऊ विरतो आयुगुत्ते, दह्र तसे या पडिसंहरेज्जा ।। वृ.इत्यादि। ये पुनः प्राण्युपमर्दैन सातमभिलषन्तीत्यशीलाःकुशीलाचतेसंसारेएवंविधा अवस्था अनुभवन्तीत्याह-तेजःकायसमारम्भिणोभूतसमारम्भेण सुखमभिलषन्तोनरकादिगतिं गतास्तीव्रदुःखैः पीड्यमाना असह्यवेदनाघ्रातमानसा अशरणाः “स्तनन्ति' रुदन्ति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंतीति छिद्यन्ते खड्गादिभिरेवंचकदर्थ्यमानाः ‘त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः-सपापा इत्यर्थः । तथा पृथक् ‘जगा' इति जन्तव इति, एवं परिसङ्खाय' ज्ञात्वा भिक्षणशीलो 'भिक्षु' साधु-रित्यर्थः, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्मात् 'विद्वान्' पण्डितो विरतः पापानुष्टानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाकायगुप्त इत्यर्थः, दृष्ट्वा त्रसान् चशब्दा- स्थावरांश्च दृष्ट्वा' परिज्ञाय तदुपघातकारिणी क्रियां 'प्रतिसंहरेत्' निवर्तयेदिति। मू. (४०१) जे धम्मलद्धं विणिहाय भुंजे, वियडेण साह? यजे सिणाई। जे धोवती लूसयतीव वत्थं, अहाहु से नागनियस्स दूरे ॥ वृ. साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह-'ये' केचन शीतलविहारिणो धर्मेणमुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं 'विनिधाय' व्यवस्थाप्य सन्निधिं कृत्वा भुअन्ते । तथाये विकटेन' प्रासुकोदकेनावि सङ्कोच्याङ्गानि प्रासुकएव प्रदेशे देशसर्वस्नानं कुर्वन्ति Page #177 -------------------------------------------------------------------------- ________________ १७४ सूत्रकृताङ्ग सूत्रम् १/७/-/४०१ तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थं दीर्घमुत्पाटयित्वा ह्रस्वं करोति ह्रस्वं वा सन्धाय दीर्घं करोति एवं लूषयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'नागनियस्स' त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुरिति । मू. (४०२) कम्मं परित्राय दगंसि धीरे, वियडेण जीविज्ज य आदिभोक्खं । से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ बृ. उक्ताः कुशीलाः, तत्प्रतिपक्ष भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान् ‘उदगंसित्ति उदकसमारम्भे सति कर्मबन्धो भवति, एवं परिज्ञाय किं कुर्यादित्याह- 'विकटेन' प्रासुकोदकेन सौवीरादिना 'जीव्यात्' प्राणसंधारणं कुर्यात्, चशब्दात् अन्येनाप्याहारेण प्रासुकेनैव प्राणवृत्तिं कुर्यात् । आदिः-संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्ति यावदिति, धर्मकारणानां वाऽऽदिभूतं शरीरं तद्विमुक्ति यावत् यावज्जीवमित्यर्थः, किं चासौ साधुर्बीजकन्दादीन् अभुञ्जानः, आदिग्रहणात् मूलपत्रफलानि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति । स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते, यश्चैवम्भूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्युज्यते तदयोगाच्च न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति । पुनरपि कुशीलेनावाधिकृत्याह मू. (४०३) जे मायरं च पियरं च हिचा, गारं तहा पुत्तपसुं धनं च । कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥ वृ. ये केचनापरिणतसम्यग्धर्माणसत्यक्त्वा मातरंच पितरंच, मातापित्रोर्दुस्त्यजत्वादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेत्येतदपि द्रष्टव्यं तथा 'अगारं गृहं 'पुत्रम्' अपत्यं 'पशुं' हस्त्यश्चरथगोमहिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थाय पञ्चमहाव्रतभारस्य स्कन्धं दत्त्वा पुनर्हीनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'स्वादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय मू. (४०४) कुलाई जे धावइ साउगाई, आघाति धम्मं उदराणुगिद्धे । अहाहु से आयरियाण सयंसे, जे लावएज्जा असनस्स हेऊ ॥ वृ. एतदेव विशेषेण दर्शयितुमाह- यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो यद्यस्मै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः- उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति । यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति सकुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्तते इति यो ह्यन्नस्य हेतुं भोजनमितित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग पुनर्य स्वत एवाऽऽत्मप्रशंसां विदधातीति । Page #178 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ७, - १७५ मू. (४०५) निक्खम्म दीने परभोयणंमि, मुहमंगलीए उदरानुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥ वृ. किञ्च यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिहवेन्द्रियवशात्त बन्दिवत् 'मुखमाङ्गलिको' भवति मुखेन मङ्गलानि-प्रशंसावाक्यानि ईद्दशस्ताद्दशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च 119 11 "सो एसो जस्स गुणा वियरंतनिवारिया दसदिसासु । KAJ इहरा कहासु सञ्च्चसि पच्चक्खं अज्ज दिट्ठोऽसि ।। इत्येवमौदर्यं प्रति गृद्धः अध्युपपन्नः, किमिव ? 'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीत्वा च स्वयूथं 'महावराहो' महाकायः सूकरः स चाहारमात्रगृद्धोऽतिसंकटे प्रविष्टः सन् ‘अदूर एव' शीघ्रमेव 'घातं ' विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ॥ मू. (४०६ ) अन्नस्स पाणस्सिहलोइयस्स, अनुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए । वृ. किंचान्यत्, स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः । स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गतःअपगतः सारः- चारित्राख्यो यस्य स निसारः, यदिवा निर्गतः सारो निसारः स विद्यते यस्यासौ निसारवान्, पुलाक इव निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निसारीकरोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति । उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाहमू. (४०७) अन्नातपिंडेणऽहियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्रमाणं, सव्वेहि कामेहि विणीय गेहिं ।। वृ. अज्ञातश्चासौ पिण्डश्चाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोञ्छवृत्त्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् पालयेत्, एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कारनिमित्तत्वेन तथा विधार्थित्वेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निसारं कुर्यात्, तदुक्तम् "परं लोकाधिकं धाम, तपः श्रुतमिति द्वयम् । 119 11 तदेवार्थित्वनिर्लुप्तसारं तृणलवायते ॥ यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति दर्शयति- 'शब्दः ' वेणुवीणादिभिराक्षिप्तः संस्तेषु ‘असजन्’ आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै रागद्वेषमकुर्वन् Page #179 -------------------------------------------------------------------------- ________________ १७६ सूत्रकृताङ्ग सूत्रम् १/७/-/४०७ 11911 एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं 'विनीय' अपनीय संयममनुपालथेदिति, सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात्, तथा चोक्तम्“सद्देसु य भद्दयपावएसु, सोयविसयमुवगएसु । तुट्टेण व रुद्वेण व, समणेण सया न होयव्वं ॥ रूवेसु य भद्दयपावएसु, चक्बुविसयमुवगएसु । तुट्टेण व रुद्वेण व समणेण सया न होयव्वं ॥ गंधे य भद्दयपावसु, घाणविसयमुवगएसु । तुट्टेण व रुद्वेण व सामेव सयान हौयवां ॥ भक्खेय भद्दयपावसु, रसणविसयमुवगएसु । तुट्टेण व रुद्रेण व, समणेण सया न होयव्वं ॥ फासे य भयपावसु, फासविसयमुवगएसु । तुट्टेण व रुट्टेण व, समणेण सयान होयव्वं ॥ 11411 मू. (४०८) सव्वाई संगाई अइच धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अनिएयचारी, अभयंकरे भिक्खु अनाविलप्पा ॥ वृ. यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान्' सम्बन्धान् आन्तरान् स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्त्वा 'धीरो' विवेकी सर्वाणि 'दुःखानि' शारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि 'तितिक्षमाणः ' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्ण तथा कामेष्वगृद्धस्तथा 'अनियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षु साधुः एवम् 'अनाविलो' विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्त्तत इति ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ मू. (४०९) भाररस जाता मुनि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा | वृ. किञ्चान्यत्-संयमभारस्य यात्रार्थं पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनि' कालत्रयवेत्ता 'भूञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य' कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाङ्क्षेत् 'भिक्षु' साधुरिति, तथा दुःखयतीति दुःखं- परीषहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् 'धूतं संयमं मोक्षंवा 'आददीत' गृह्णीयात्, यथा सुभटः कश्चित् सङ्गग्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रुं दमयति एवं परं कर्मशत्रु परीषहोपसर्गाभिद्रुतोऽपि दमयेदिति ॥ मू. (४१० ) अवि हम्ममाणे फलगावतट्टी, समागमं कंखति अंतकस्स । निधूय कम्मं न पवंचुवेइ, अक्खक्खए वा सगडी तिबेमि ॥ वृ. अपि च- परीषहोपसर्गैर्हन्यमानोऽपि पीड्यमानोऽपि सम्यक् सहते, किमिव ?फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्श्वभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहस्तनुः दुर्बलशरीरोऽ रक्तद्विष्टश्च, अन्तकस्य- मृत्योः 'समागमं' प्राप्तिम् 'आकाङ्क्षति' अभिलषति, एवं चाष्टप्रकारं कर्म 'निर्धूय' अपनीयन पुनः 'प्रपञ्चं' जातिजरामरणरोगशोकादिकं प्रपञ्चयते बहुधा नटवद्यस्मिन् स प्रपञ्चःसंसारस्तं 'नोपैति' न याति । Page #180 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-७, १७७ दृष्टान्तमाह-यथाअक्षस्य 'क्षये विनाशेसति 'शकटं गन्त्र्यादिकंसमविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावान्नोपयाति, एवमसावपिसाधुरष्टप्करारस्य कर्मणः क्षये संसारप्रपञ्चनोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्तयर्थे ब्रवीमीति पूर्ववत् । अध्ययन-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य सप्तमअध्ययनटीका परिसमाता । (अध्ययन-८ "वीर्य वृ.उक्तंसप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तप्रतिपक्षभूताश्च सुशीलाः प्रतिपादिताः, तेषांचकुशीलत्वं सुशीलत्वंच संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि । तत्राप्युपक्रमान्तर्गतोऽधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्यं परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने तु निक्षेपे वीर्याध्ययनं, वीर्यनिक्षेपाय नियुक्तिकृदाहनि. [९१] विरिए छक्कं दव्वे सच्चित्ताचित्तमीसगं चेव। दुपयचउप्पयअपयं एयं तिविहं तु सच्चित्तं ॥ वृ. वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदातूषोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्यं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञातां तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्य-शरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदाशत्रिधा वीर्यं, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिविधमेव । तत्र द्विपदानां अर्हञ्चक्रवर्तिबलदेवादीनां यद्वीयं स्त्रीरलस्य वा यस्य वा यद्वीर्यं तदिह द्रव्यवीर्यत्वेन ग्राह्य, तथा चतुष्पदानामश्वहस्तिरलादीनां सिंहव्याघ्रशर-भादीनां वापरस्य वायद्वोढव्येधावने वावीर्यंतदिति,तथाऽपदानां गोशीर्षचन्दनप्रभृतीनांशीतोष्णकालयोरुष्णशीत- वीर्यपरिणाम इति ।। अचित्तवीर्यप्रतिपादनायाहनि. [९२] अञ्चित्तं पुण विरियं आहारावरणपहरणादीसु। जह ओसहीण भणियं विरियं रसवीरियविवागो।। नि. [१३] आवरणे कवयादी चक्कादीयं च पहरणे होति। खित्तंमिमि खेत्ते काले जंमि कालंमि। वृ.अचित्तद्रव्यवीर्यत्वाहारवरणप्रहरणेषुयद्वीर्यंतदुच्यते, तत्राऽऽहारवीर्यं सद्यः प्राणकरा हया, घृतपूर्णा कफापहाः' इत्यादि, ओषधीनांचशल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्य, विपाकवीर्यंच यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथायोनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्यं तदुच्यते अधुना क्षेत्रकालवीर्य गाथापश्चार्धन दर्शयति-क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य 212 Page #181 -------------------------------------------------------------------------- ________________ १७८ सूत्रकृताङ्ग सूत्रम् १/८/-1290/नि. [६३] कस्यचिद्वीर्योल्लासोभवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तम् - ॥१॥ "वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामल करसो, धृतं वसन्ते गुडश्चान्ते ।। ॥१॥ (तथा) “ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया शुण्ठया तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गता नश्यन्तु ते शत्रवः॥ ---भाववीर्यप्रतिपादनायाहनि. [९४] भावो जीवस्स सीरियस्स विरियमि लद्धिऽनेगविहा! ओरस्सिदियअन्झप्पिएसु बहुसो बहुविहीयं ।। नि. [१५] मणवइकाया आणापाणू संभव तहा य संभव्वे । ___ सोत्तादीणं सद्दादिएसु विसएसुगहणंच॥ वृ. 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीर्ये' वीर्यविषये अनेकविधा लब्धि, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथा-उरसिभवमौरस्यंशारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्यापारेण गृहीत्वा पुदलान् मनोयोग्यान्मनस्त्वेन परिणमयति भाषायोग्यान् भाषात्वेन परिणमयति काययोग्यान्कायत्वेन आनापानयोग्यान्तद्भावेनेति, तथा मनोवाक्कायादीनांतदावपरिणतानांयद्वीर्य-सामर्थ्य तद्दिविधंसम्भवेसम्भाव्येच, सम्भवेतावत्तीर्थकृतामनुत्तरोपपातिकानांचसुराणामतीवपटूनि मनोद्रव्याणि भवन्ति, तथाहि तीर्थकृतामनुत्तरोपातिकसुरमनः पर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु योहि यमर्थं पटुमतिनाप्रोच्यमानंन शक्नोतिसाम्प्रतंपरिणमयितुं सम्भाव्यते त्वेष परिकर्म्यमाणः शक्ष्यत्यमुम) परिणमयितुमिति, वाग्वीर्यमपिद्विविधं-सम्भवेसम्भाव्येच, तत्र सम्भवेतीर्थकृतांयोजननिरिणी वाक्सर्वस्वस्वभाषानुगताच तथाऽन्येषामपि क्षीरमध्वानुवादिलब्धिमतां वाचः सौभाग्यमिति, तता हंसकोकिलादीनांसम्भवति स्वरमाधुर्यं, सम्भाव्येतुसम्भाव्यते श्यामायाः स्त्रिया गानगाधुर्य, तथा चोक्तम् _ “सामा गायति महुरं काली गायति खरं च रुक्खं चे" त्यादि, तथा-सम्भावयामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलं, तदपि द्विविधंसम्भवे सम्भाव्येच, संभवेयथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादि कायबलं, तद्यथाकोटिशिला त्रिपृष्ठेन वामकरतलेनोध्धृता, यदिवा-"सोलसरायसहस्सा इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरे लोकमलोके कण्दुकवत् प्रक्षेप्तुं तथा मेरुं दण्डवद्गृहीत्वावसुधांछत्रकवद्धर्तुमिति, तथासम्भाव्यतेअन्यतरसुराधिपोजम्बूद्वीपंवामहस्तेन Page #182 -------------------------------------------------------------------------- ________________ १७९ श्रुतस्कन्धः - १, अध्ययनं-८, छत्रकवद्धर्तुमयलेनैव च मन्दरमिति । तथा सम्याव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धा हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण समर्थं पञ्चधा एकैकं, द्विविधंसम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तुयस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाहनि. [९६] उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो।। वृ.आत्मन्यदीत्यध्यात्मं तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, एतदपियथायोगंसम्भवेसम्भाव्येचयोजनीयमिति, धृति संयमे स्थैर्यं चित्तसमाधानमिति(यावत), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, षट्खण्डमपिभरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवाविषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यंतुपरैराक्रुश्यमानोऽपिमनागपि मनसा न क्षोभभुपयाति, भावयति तश्चेदम् - ॥१॥ "आक्रुप्टेन मतिमता तत्त्वार्थगवेषणे मति कार्या। यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन? ।। ॥२॥ "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावं मि॥ गाम्भीर्यवीर्यनाम परीषहोपसगैरधृष्यत्वं, यदिवा यत्मनश्चमत्कारकारिण्यपिस्वानुष्ठाने अनौद्धत्यं, उक्तचं॥१॥ “चुल्लुच्छलेइ जं होइ ऊणयं रित्तयं कणकणेइ। भरियाईन खुब्भंती सुपुरिसविनाणभंडाई॥ उपयोगवीर्यं साकारानाकारभेदात् द्विविधं, तत्र साकारोपयोगोऽरधाऽनाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकत्वीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येणतु भाषमणोऽपुनरुक्तं निरवयंचभाषते, कायवीर्यंतु यस्तुसमाहितपाणिपाद: कूर्मवदवतिष्ठत इति, तपोवीर्यं द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाधध्यवसितस्य यद्बलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनःप्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादिचभाववीर्यमिति, वीर्यप्रवादपूर्वे धानन्तं वीर्यं प्रतिपादितं, किमिति?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा - Page #183 -------------------------------------------------------------------------- ________________ १८० सूत्रकृताङ्ग सूत्रम् १/८/-1४१०/ नि. [९६] ॥१॥ “सव्वनईणंजा होज्ज वालुया गणणमागया सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स ।। ॥२॥ सव्वसमुद्दाण जलं जइपत्थमियं हविज संकलियं । एत्तो बहुयतरागो अत्थो एगस्स पुव्वस्स । तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाहनि. [९७] सव्वंपिय तंतिविहं पंडिय बालविरियं च मीसंच। अहवावि होति दुविहं अगारअनगारियं चेव ॥ धृ. सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्यंत्वगाराणां गृहस्थानामिति, तत्रयतीनांपण्डितवीर्यं सादिसपर्यवसितं, सर्वविरति प्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्यंतु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तम्रशे वा सपर्यवसानं, बालवीर्यं त्वविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां त्वनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जधन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोपार्द्धपुद्गलपरावर्तात् विरतिसद्भावत् सोन्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव, यदिवा। पण्डितवीर्यं सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशम. लक्ष्णात्त्रिविधैव, अतो वीर्यमपि त्रिधैव भवति ।गतोनामनिष्पन्नो निक्षेपः, तदनुसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्वं, तचेदंमू. (४११) दुहा वेयं सुयक्खायं, वीरियंति पुवुच्चई। किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ।। वृ. द्वे विधे-प्रकारावस्येति द्विविधं-द्विप्रकारं, प्रत्यक्षासनवाचित्वात् इहमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुष्ठाख्यातं स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईरगतिप्रेरणयोः' विशेषेणईरयति-प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थ तत्र, किं नु ‘वीरस्य' सुभटस्य वीरत्वं?, केनवाकारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किं तद्वीर्यं ?, वीरस्य वा किं तद्वीरत्वमिति ।। मू. (४१२) कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया। एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया॥ वृ. तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म-क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहिऔदयिकभावनिष्पन्नं कर्मेत्युपदिश्यते, औदयिकोऽपिच भावः कर्मोदयनिष्पन्न एव बालवीर्य। द्वितीयभेदस्त्वयं-न विद्यते कर्मास्येत्यकर्मा-वीर्यान्तरायक्षयजनितं जीवस्य सहर्ज वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितंच, हेसुव्रता एवम्भूतंपण्डितवीर्य जानीतयूयं ।आभ्यामेवद्वाभ्यां स्थानाभ्यांसकर्मकाकर्मकापादितबालपण्डितनीर्याभ्यां व्यवस्थित वीर्यमित्युच्यते, यकाभ्यांचययोर्वा व्यवस्थिता मत्येषुभवामाः 'दिस्संत' इति श्यन्तेऽपदिश्यन्ते Page #184 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, १८१ वा, तथाहि-नानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति । इह बालवीर्यं कारणे कार्योपचारात्कमैव वीर्यत्वेनाभिहितं, साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनापदिशन्नाहमू. (४१३) पमायं कम्ममाहंसु, अप्पमायंतहाऽवरं। तब्भावादेसओ वावि, बालं पंडियमेव वा ।। वृ.प्रमाद्यन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादि, तथा चोक्तम्॥१॥ "मजं विसयकसाया निद्दा विगहा यपंचमी भणिया । एसपमायपमाओ निद्दिटो वीयरागेहिं॥ तमेवम्भूतं प्रमादं कर्मोपादानभूतं कर्म 'आहुः' उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तंभवति-प्रमादोपहतस्य कर्मबध्यते, सकर्मणश्चयक्रियानुष्ठानं तालवीय, तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्यं भवति।। एतच्च बालवीर्यं पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तब्मावादेसओवावी तितस्य-बालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-सत्तासतद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादिअपयवसितं भव्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्यं तु सादिसपर्यवसितमेवेति॥ मू. (४१४) सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं। एगे मंते अहिजंति, पाणभूयविहेडिणो ।। वृ. तत्र प्रमादोपहतस्य सकर्मणो यद्धालवीर्यं तद्दर्शयितुमाह-शस्त्रं-खङ्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्टु सातगौरवगृद्धा एके केचन शिक्षन्ते' उद्यमेन गृहन्ति, तच्च शिक्षितं सत् 'प्राणिनां' जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालीढादिभिर्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम् - ॥१॥ "मुष्टिनाऽऽच्छादयेल्लक्ष्यं, मुष्टौष्टि विनेशयेत्। हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ।। तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थं तथा कामशास्त्रादिकंधोद्यमेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्य धनुर्वेदादेः शास्य वा यदभ्यसनं तत्सर्वं बालवीर्य, किञ्च एके केन पापोदयात् मन्त्रानभिचारकाना(ते)थर्वणानश्वमेघपुरुषमेघसर्वमेघादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति - _ 'प्राणा' द्वीन्द्रियादयः ‘भूतानि' पृथिव्यादीनि तेषां विविधम्' अनेकप्रकारं 'हेठकान्' बाधकान् ऋक्संस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तम् - ॥१॥ “षट्शतानिनियुज्यन्ते, पशूना मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ।। Page #185 -------------------------------------------------------------------------- ________________ १८२ सूत्रकृताङ्ग सूत्रम् १/८/-/४१४ इत्यादि अधुना 'सत्य' मित्येतत्सूत्रपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितुमाहनि. [१८] सत्थं असिमादी विज्जामंते य देवकम्मकयं । पत्थिववारुण अग्गेय वाऊ तह मीसगं चेव ॥ वृ. शस्त्रं-प्रहरणं तच्च असि - खङ्गस्तदादिकं, तथा विद्याधिष्ठितं, मन्त्राधिष्ठितं देवकर्मकृतंदिव्यक्रियानिष्पादितं तच्च पञ्चविधं तद्यथा पार्थिवं वारुणमाग्नेयं वायव्यं तथैव द्वयादिमिश्रं चेति । किञ्चान्यत्मू. (४१५) माइणो कट्टु माया य, कामभोगे समारभे । हंता छेत्ता पगभित्ता, आयसायाणुगामिणो ॥ बृ. 'माया' परवञ्चनादिका बुद्धि सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः परवञ्चनानि कृत्वा एकग्रहणे तज्जातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् 'समारभन्ते' सेवन्ते पाठान्तरं वा 'आरंभाय तिवट्टइ' त्रिभिः मनोवाक्कायैरारम्भार्थं वर्त्तते, बहूनू जीवान् व्यापादयन् बन्धन् अपध्वंसयन् आज्ञापयन् भोगार्थी वित्तोपार्जनार्थं प्रवर्त्तत इत्यर्थः । तदेवम् 'आत्मसातानुगामिनः ' स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा- हन्तारः' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति । मू. (४१६) मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥ वृ. तदेतत्कथमित्याह तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिमिश्च 'अन्तशः ' कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बध्नातीति । तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरित्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयो 'द्विघापि' स्वयंकरणेन परकरणेन चासंयता-जीवोपघातकारिणइत्यर्थः साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह मू. (४१७) वेराइं कुव्वई वेरी, तओ वेरेहिं रजती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ वृ. वैरमस्यास्तीति वैरी, सजीवोपमर्द्दकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैर्वैररैनुरज्यते-संबध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः, किमिति ?, यतः पापं उपसामीप्येन गच्छन्तीति पापोपगाः, कएते ? - 'आरम्भाः' सावद्यानुष्ठानरूपाः 'अन्तशो' विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति । मू. (४१८) संपरायं नियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ वृ. किञ्चान्यत् सम्परायं नियच्छंती त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिकं तत् जीवोपमर्द्दकत्वेन वैरानुषङ्गितया ‘आत्मदुष्कृतकारिणः’स्वपापविधायिनः सन्तो 'नियच्छन्ति' बन्धन्ति, तानेव विशिनष्टि 'रागद्वेषा Page #186 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं. ८, १८३ श्रिताः' कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्यं 'बहु' अनन्तं कुर्वन्ति' विदधति ।। एवं बालवीर्यं प्रदोपसंजिघृक्षुराहमू. (१९) एवं सकम्मवीरियं, बालाणं तु पवेदितं। इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥ वृ. 'एतत्' यत्प्राक्प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थं शस्त्रंशास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते तथाहि । जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्नि, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तुसुभूमेन त्रिसप्तकृत्वो ब्राह्मणा व्यापादिताः, तथा चोक्तम् - ॥१॥ “अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वै रियातनां द्विषतां जातमशेषमुद्धरेत् ॥ तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणांबालानांवीर्यं तुशब्दाप्रमादवतांचप्रकर्षेण वेदितं प्रवेदितंप्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां-पण्डितानां यद्वीर्यं तन्मे-मम कथयतः शृणुत यूयमिति। मू. (०२०) दब्बिए बंधगुम्मुक्के, सब्बओ छिन्नबंधणे। पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो।। वृ. यथाप्रतिज्ञातमेवाह-'द्रव्यो' भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽकषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्य:, तथा चोक्तम्॥१॥ "किं सक्का बोत्तुंजे सरागधम्ममि कोइ अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो। सच किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायामकान्मुक्तो बन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तम् - "बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिन्नबन्धनः, तथा 'प्रणुध' प्रेर्य 'पाप' कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं-शेषकं कर्म तत् कुन्तति-अपनयति । अन्तशो-निरवशेषतो विघटयि, पाठान्तरंवा 'सलं कंतइ अप्पणो'त्ति शल्यभूतंयदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः । यदुपादाय शल्यमपनयति तद्दर्शयितुमाहमू. (४२१) नेयाउयं सुयक्खायं, उवादाय समीहए। भुजो भुज्जो दुहावासं, असुहत्तंतहा तहा॥ वृ. नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यगदर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तंमार्ग धर्म वा मोक्षं प्रति नेतारं सुष्टु तीर्थकरादिभिराख्यातं स्वाख्यातं तम् ‘उपादाय' गृहीत्वा 'सम्यक्' मोक्षाय ईहते-चेष्टते Page #187 -------------------------------------------------------------------------- ________________ ex ध्यानाध्ययनादावुद्यमं विधत्ते धर्मध्यानारोहणालम्बनायाह ‘भूयो भूयः' पौनःपुन्येन यद्बालवीर्यं तदतीतानागतानन्तभवग्रहणे षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति ॥ सूत्रकृताङ्ग सूत्रम् १/८/-/४२१ पू. (४२२) ठाणी विविहठाणाणि, चइस्संति न संसओ । अनियते अयं वासे, नायएहि सुहीहि य ॥ वृ. साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा देवलोके इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहा-मण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानितानि सर्वाण्यपि विधानिनानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोक्तम् - " अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्ध्यश्च सुखानि च ॥ ॥ १ ॥ तथाऽयं 'ज्ञातिभिः' बन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम् ॥ १ ॥ ' सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः सुचिरमपि हि रन्त्वा नास्ति भोगेषु तृप्ति । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ।। इति, चकारौ धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनार्थौ अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्ताविति । अपि च पू. (४२३) एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सव्वधम्ममकोवि यं ॥ वृ. अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेघावी' मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनीं ' गृद्धिं' गाद्धर्यंममत्वम् 'उद्धरेद्' अपनयेत्, ममेदमहमस्य स्वामीत्येवं कचिचदपि न कुर्यात्, तथा आराद्यातः सर्वहयधर्मेभ्य इत्यार्यो मोक्षमार्ग सम्यग्दर्शनज्ञानचारित्रात्मकः । आर्याणां वा तीर्थकृदादीनामयमार्यो-मार्गस्तम् 'उपसम्पद्येत' अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह सर्वै कुतीर्थिकधर्मैः 'अकोपितो' अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः यदिवा-सर्वैर्धर्मैः स्वभावैरनुष्ठानरूपैरगोपितं कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः मू. (४२४) सह संमइए नञ्च्चा, धम्मसार सुणेत्तु वा । समुवट्टिए उ अनगारे, पच्चक्खायपावए । वृ. सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह-धर्मस्य सारः - परमार्थो धर्मसारस्तं 'ज्ञात्वा ' अवबुद्धय, कथमिति दर्शयति-सह सन्-मत्या स्वमत्या वा विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः । अन्येभ्यो वा - तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा Page #188 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, १८५ धर्मसारमुपगच्छति, धर्मस्य वा सारंचारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थं पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामःप्रत्याख्यातं-निराकृतंपापक-सावद्यानुष्ठानरूपं येनासौ प्रत्याख्यातपापको भवतीति किञ्चान्यत्मू. (४२५) जंकिंचुवक.मंजाणे, आउक्खेमस्सं अप्पणो । तस्सेव अतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए। वृ. उपक्रम्यते-संवय॑ते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात्, कस्य ? -'आयुःक्षेमस्य' स्वायु, इति, इदमुक्तं भवति-स्वायुष्कस्य येन केनचिप्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपांशिक्षा भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत्, तत्र ग्रहणशिक्षया यथावन्मरणविधि विज्ञायाऽऽसेवनाशिक्षया त्वासेवेतेति । मू. (४२६) जहा कुम्मे सअंगाई, सए देहे समाहरे। एवं पावाइं मेघावी, अज्झप्पेण समाहरे ।। वृ. किश्चान्यत्-'यथे त्युदाहरणप्रदर्शनार्थयथा 'कर्म कच्छपः स्वान्यङ्गानि-शिरोधरादीनि स्वके देहे 'समाहरेद्' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया मेघावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उपसंहरेत, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति । संहरणप्रकारमाहमू. (४२७) साहरे हत्थपाए य, मणं पंचेदियाणि य। पावकंच परीणाम, भासादोसंच तारिसं। वृ. पादपोपगमने इङ्गिनीमरणेभक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेद्' व्यापारान्निवर्तयेत्, तथा 'मनः' अन्तः-करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत्, तथा – शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पञ्चापीन्द्रियाणि चशब्दः समुचये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपसंहरेदित्येवं भाषादोषंच 'ताद्दशं' पापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनुपालयेदिति ।। मू. (४२८) अणु मानं च मायं च, तंपडिन्नाय पंडिए। सातागारवणिहुए, उवसंते निहे चरे ।। वृ.तंचसंयमे पराक्रममाणं कश्चित्पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षोन कार्य इतिदर्शयितुमाह-चक्रवत्यादिना सत्कारादिना पूज्यमानेन अणुरपि स्तोकोऽपि मानः' अहङ्कारो नविधेयः, किमुतमहान्?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वाअहोऽ-हमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया किमुत महती?, इत्येवं क्रोधलोभावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइमानं च मायं च, तं परिन्नाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञात्वा परिहरेत्, Page #189 -------------------------------------------------------------------------- ________________ १८६ सूत्रकृताङ्ग सूत्रम् १/८/-/४२८ इदमुक्तं भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं येन बलेन सङ्गङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्यं न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य महापुरुषस्य वीर्यम् । "इहैव' अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यां मया श्रुतं, पाठान्तरं वा 'आयत सुआदाय, एवं वीरस्स वीरियं' आयतो-मोक्षोऽपर्यवसितावस्थानत्वात् सचासावर्थश्च तदर्थो वा तत्प्रयोजनो वा सम्यगदर्शनज्ञानचारित्रमार्ग स आयतार्थस्तं सुष्ठादायगृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति यदुक्तमासीत् 'किं तु वीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातं किञ्चान्यत् - सातागौरवं नाम सुखशीलता तत्र निभृतः तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोप- शान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निह-माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेजं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्वात् । तत्रापि प्राणातिपातविरतिरेव गरीसीतिकृत्वा तत्प्रतिपादनार्थमाहउडूढमहे तिरियं वा जे पाणा तसथावरा । सव्वत्थविरतिं कुज्जा, संति निव्वाणमाहियं ॥ ॥ १ ॥ [ अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु द्दष्ट इतिकृत्वा लिखितः ], उत्तानार्थश्चेति । किञ्चमू. (४२९) पाणे य नाइवाएज्जा, अदिन्नंपिय नादए । सादियं न मुसं वूया, एस धम्मे खुसीमओ ॥ वृ. प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादत्तं दन्तशोधनमात्रमपि 'नाददीत' न गृह्णीयात्, तथा सहादिना - मायया वर्त्तत इति सादिकं समायं मृषावादं न ब्रूयात्, तथाहि परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति । यो हि परवञ्चनार्थं समायो मृषावादः स परिहियते यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्द्दिष्टो धर्म - श्रुतचारित्राख्यः स्वभावो वा 'वुसीमउ' त्ति छान्दसत्वात्, निर्देशार्थस्त्वं वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवावसीमउत्त वश्यस्य आत्मवशगस्य वश्येन्द्रियस्येत्यर्थः ॥ सू. (४३०) अतिक्कम्मति वायाए, मनसा वि न पत्थए । सव्वओ संबुडे दंते, आयाणं सुसमाहरे ।। वृ. अपिच प्राणिनामतिक्रमं पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टब्धतया परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्वयनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं मनोवाक्कायैः कृतकारितानुमतिमिश्च नवकेन भेदेनातिक्रमं न कुर्यात् तथा सर्वतः सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रियदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुष्ठुयुक्तः सम्यग्विानेतसिकारहितः 'आहरेत्' आददीत Page #190 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, १८७ गृह्णीयादित्यर्थः । किञ्चान्यत्मू. (४३१) कडंच कजमाणं च, आगमिस्संच पावगं। सव्वं तं नानुजाणंति, आयगुत्ता जिइंदिया। वृ.साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितंपापकं कर्म तथा वर्तमानेच काले क्रियमाणं. तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः “नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा। तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वातथा चौरोहतो हन्यते हनिष्यते वा इत्यादिक परानुष्ठानं 'नानुजानन्ति' नच बहुमन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां तेतथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ।। मू. (४३२) जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो। असुद्धं तेसि परकंतं, सफलं होइ सव्वसो ।। वृ.अन्यच्च-ये केचन अबुद्धा' धर्मं प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, नचव्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम् - ॥१॥"शास्त्रावगाहपरिघट्टनतत्परोऽपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम् नानाप्रकाररसभागवताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥ यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकभेदिनः सुभटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्याअपितथा सुभटवादं वहन्तोऽपि सम्यकतत्त्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति । नसम्यगसम्यक् तद्भावोऽसम्यकत्वंतद्रष्टं शीलं येषां ते तथा, मिथ्याद्दष्टय इत्यर्थः, तेषां चबालानांयत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतंतदशुद्ध अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वात् सनिदानत्वाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन-कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तक्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति । साम्प्रतं पण्डितवीठिणोऽधिकृत्याह-(गाथा चतुष्क) मू. (४३३) जे य बुद्धा महाभागा, पीरा सम्मत्तदंसिणो । सुद्धं तेसिं परकंतं, अफलं होइ सव्वसो॥ वृ.ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्या वाबुद्धबोधिता गणधरादयो ‘महाभागा' महापूजाभाजो 'वीराः' कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमदावनुष्ठितं तच्छुद्धम् । अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफलं भवति-तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः। तथाहि-सम्यगदृष्टीनांसर्वमपि संयमतपःप्रधान Page #191 -------------------------------------------------------------------------- ________________ १८८ सूत्रकृताङ्ग सूत्रम् १/८/-/४३३ मनुष्ठानं भवति, संयमस्य चानाश्रवरूपत्वात् तपसश्च निर्जराफलत्वादिति, तथा च पठ्यते"संयमे अणण्हयफले तवे वोदाणफले" इति ।। मू. (४३४) तेसिपि तवो न सुद्धो, निक्खंता जे महाकुला। जने वन्ने वियाणंति, न सिलोगं पवेजए। वृ.किश्चान्यत्-महत्कुलम्-इक्ष्वाकादिकंयेषांतेमहाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्ती र्णयपि पूजासत्काराद्यर्थमुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति । ___ यच्च क्रियमाणमपितपो नैवान्ये दानश्राद्धादयोजानन्तितत्तथाभूतमात्मार्थिना विधेयम्, अतोनैवात्मश्लाघां प्रवेदयेत्' प्रकाशयेत्, तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसंसाम्प्रतंपुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति ।। मू. (४३५) अप्पपिंडासि पाणासि, अप्पं भासेज सुव्वए। खंतेऽभिनिव्वुडे दंते, वीतगिद्धी सदा जए। वृ.अपिच-अल्पं-स्तोक पिण्डमशितुंशीलमस्यासावल्पपिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यं, तथा चागमः - ॥१॥ "हे जंवतं व आसीय जत्य व तत्थ व सुहोवगयनिहो । जेण व तेण संतुट्ट वीर ! मुणिओऽसि ते अप्पा ।।। "अट्टकुक्कुडिअंडगमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अवड्ढोमोयरिया सोलसहिंदुभागे पत्ते चउवीसंओमोदरियातीसंपमाणपत्तेबत्तीसंकवलासंपुण्णाहारे' इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवंपाने उपकरणेचोनोदरतां विदध्यादिति, तथा चोक्तम् - ॥१॥ "थोवाहारो थोवभणिओ अ जो होइ थोवनिद्दो अ। थोवोवहिउवकरणो तस्स हुदेवावि पणमंति।। तथा 'सुव्रतः' साधुः ‘अल्पं' परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिकृत्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः' क्षान्तिप्रधानः तथा 'अभिनितो' लोभादिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् 'दान्तो' जितेन्द्रियः, तथा चोक्तम् - ॥१॥ “कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥ एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धि-आशंसादोषरहितः 'सदा' सर्वकालं संयमानुष्ठाने ‘यतेत' यलं कुर्यादिति ॥ मू.(४३६) झाणजोगं समाहल, कार्य विउसेज सव्वसो। तितिक्खं परमं नञ्चा, आमोक्खाए परिव्वएजासि-त्तिबेमि॥ वृ. अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्तं ध्यानयोगं समाहृत्य' सम्यगुपादाय कायं देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् सर्वतः' सर्वेणापिप्रकारेण, हस्तपादादिकमपिपरपीडाकारिन व्यापारयेत् तथा तितिक्षा' क्षान्तिपरीषहोपसर्गसहनरूपां परमां प्रधानां ज्ञात्वा 'आमोक्षाय' अशेषकर्मक्षयं Page #192 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. ८, १८९ यावत् 'परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्त्वमिति । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् ।। अध्ययन-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य अष्टम अध्ययनटीका परिसमाप्ता । (अध्ययन-९ "धर्म") वृ.अष्टमानन्तरंनवमं समारभ्यते, अस्य चायभिसम्बन्धः-इहानन्तराध्ययने वालपण्डितभेदेन द्विरूपं वीर्यं प्रतिपादितं, अत्रापि तदेव पण्डितवीर्यं धर्म प्रति यदुधमं विधत्ते अतो धर्म प्रतिपाद्यत इत्यनेनसम्बन्धेनधर्माध्ययनमायातं, अस्य चत्वार्यनयोगद्वाराणि उपक्रमादीनिप्राग्वत व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपादयत इति तमधिकृत्य नियुक्तिकृदाहनि. [१९] धम्मो पुव्वुद्दिवो भावधम्मेण एस्थ अहिगारो । ___ एसेव होइ धम्मे एसेव समाहिमग्गोत्ति॥ वृ. दुर्गतिगमनधरणलक्षणोधर्म प्राक्दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः-प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्म परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्म एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः। तथाहि-धर्म श्रुतचारित्राख्यःक्षान्त्यादिलक्षणोवादशप्रकार भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधि, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति।।साम्प्रतमतिदिष्टस्यापि स्थानाशून्या) धर्मस्य नामादिनिक्षेपं दर्शयितुमाहनि. [१००] नामंठवणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगगिहत्वदाने दवियधम्मे ।। वृ. नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनाध्त्य ज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यधर्म सचित्ताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्यजीवच्छरीरस्योपयोगलक्षणो 'धर्म' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि॥१॥ “गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं अवगाहलक्खणं ।। पुद्गलास्तिकायोऽपि ग्रहणलक्षणइति, मिश्रद्रव्याणांच क्षीरोदकादीनांयोयस्य स्वभावः स तद्धर्मतयाऽवगन्तव्य इति, गृहस्थानां च यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्म स द्रव्यधर्मोऽवगन्तव्य इति, तथा चोक्तम्॥१॥ “अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ Page #193 -------------------------------------------------------------------------- ________________ १९० सूत्रकृताङ्ग सूत्रम् १/९/-/४३६/नि. [१००] नि. [१०१] --भावधर्मस्वरूपनिरूपणायाहलोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहतिविहो पंचविहो होति नायव्यो । वृ. भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च तत्र लौकिको द्विविधःगृहस्थानां पाखण्डिकानांच, लोकोत्तरस्त्रिविधः - ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाऽक्षराणि त्वेयं नेयानि, तद्यथा भावधर्मो लौकिकलोकोत्तरभेदाद्द्विधा, द्विविधोऽपि चायं यथासङ्ख्त्येन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरो ऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यति पंचधैवेति ॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाहनि. [१०२] पासत्थोसण्णकुसील संथवो न किर वट्टती काउं । सूयगडे अज्झयणे धम्मंमि निकाइतं एयं ॥ वृ. साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः - परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्त्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तचेदम्पू. (४३७) कयरे धम्मे अक्खाए, माहणेण मतीमता ? । — अंजु धम्मं जहातचं, जिणाणं तं सुणेह मे ॥ वृ. जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह तद्यथा-'कतरः किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः' प्रतिपादितो 'माहणेणं' ति मा जन्तून् व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ ‘माहनो’ भगवान् वीरवर्धमानस्वामी तेन ?, तमेव विशिनष्टि-मनुते - अवगच्छति जगत्त्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मति सा अस्यास्तीति मतिमान् तेन उत्पन्नकेवलज्ञानेन भगवता इति पृष्टे सुधर्मस्वाम्याह रागद्वेषजितो जिनास्तेषां सम्बन्धिनं धर्म 'अंजुम्' इति 'ऋ जुं' मायाप्रपञ्चरहितत्वादवक्रं तथा-'जहातच्चं मे' इति यथावस्थितं मम कथयतः श्रृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकैर्दम्भप्रधानो धर्मोऽभिहितस्तथा भगवताऽपीति, पाठान्तरं वा 'जणगा तं सुणेह में' जायन्त इति जना - लोकास्त एव जनकास्तेषामामन्त्रणं हे जनकाः ! तं धर्मं श्रृणुत यूयमिति । पू. (४३८) माहणा खत्तिया वेस्सा, चंडाला अदु बोक्क सा । एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ।। वृ. अन्ययव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाह-ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसाअवान्तरजातीयाः, तद्यथा ब्राह्मणेन शू जातो निषादो ब्राह्मणेनैव वैश्यायां जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोक्कसः, तथा एषितुं शीलमेषामिति एषिका मृगलुब्धका हस्तितापसाश्च मांसहेतोर्मृगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च तथा ये चान्ये पाखण्डिका Page #194 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९. नानाविधैरुपायैर्भैक्ष्यमेषन्त्यन्यान वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते । तथा 'वैशिका' वणिजी मायाप्रधानाः कलोपजीविनः, तथा 'शूद्राः कृषीवलादयः आभीरजातीयाः कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वर्णापसदा नानारूपसावद्य 'आरम्भ निश्रिता' यन्त्रपीडननिर्लाञ्छनकर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति । पू. (४३९) परिग्गहनिविद्वाणं, वेरं तेसिं पवड्ढई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ।। वृ. किञ्च परि-समन्तात् गृह्य इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अध्युपपन्नानां गार्ध्यं गतानां 'पापम्' असातवेदनीयादिकं 'तेषां ' प्रागुक्तानामारम्भनिश्चितानां परिग्रहे निविष्टानां प्रकर्षेण 'वर्द्धते' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः ‘वेरं तेसिं पचड्ढइ' त्ति तत्र येन यस्य यथा प्राणिन उपमर्द क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखमाक् भवतीति । जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाश्चारम्भैः सम्यग् भृताः संभृताः आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति तस्यापनेतारो न भवन्तीत्यर्थः । मू. (४४०) आधायकिञ्चमाहेडं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किती ॥। वृ. किञ्चान्यत् - आहन्यन्ते - अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् सआघातो-मरणं तस्मै तत्र वा कृतम् - अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाघातुम् - आधाय कृत्वा पश्चात् 'ज्ञातयः' स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ? - विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं 'वित्तं' द्रव्यजातम् अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम् - 119 11 " ततस्तेनार्जितैर्द्रव्यैदरिश्च परिरक्षितैः । १९१ क्रीडन्त्यन्ये नरा राजन् !, हष्टास्तुष्टा ह्यलङ्कृताः ॥ स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभि संसारे 'कृत्यते' छिद्यते पीड्यत इतियावत् स्वजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहपू. (४४१) माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा ॥ वृ. 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता' सहोदरः तथा 'भार्या' कलत्रं पुत्राश्चौरसाः स्वनिष्पादता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति । इहापि तावत्रैते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्त्वेन स्वजनाभ्यर्थितेनापि न प्राणिष्वपकृतम्, अपि त्वात्मन्येवेति Page #195 -------------------------------------------------------------------------- ________________ १९२ मू. (४४२) सूत्रकृताङ्ग सूत्रम् १/९/-/४४२ एयमङ्कं सपेहाए, परमट्ठानुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ।। वृ. किञ्चान्यत्-धर्मरहितानां स्वकृतकर्मविलुप्यमानानौमहिकामुष्मिकयोर्न कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विद्यार्यावगम्य च परमः प्रधानभूतो ( Sर्थो) मोक्षः संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः सम्यगदर्शनादिस्तं च प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् तदाह । निर्गतं ममत्वं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारः - अभिमानः पूर्वैश्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारोरागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुर्जिनैराहितः प्रतिपादितोऽनुष्ठितो वा यो मार्गों जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ॥ मू. (४४३) चिद्या वित्तं च पुत्ते य, नाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिव्वए । वृ. अपिच- संसारस्वभावपरिज्ञानपरिकमूर्मितमतिर्विदितवेद्यः सम्यक् ‘त्यक्त्वा' परित्यज्य किं तद् ? - 'वित्तं' द्रव्यजातं पुत्रांश्च त्यक्त्वा, पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन् ' स्वजनांश्च त्यक्त्वा तथा 'परिग्रहं' चान्तरममत्वरूपं णकारो वाक्यालङ्कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः । अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं तथा भूतं 'शोकं' संतापं ‘त्यक्त्वा' परित्यज्य श्रीतो वा मिथ्यात्वाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा 'चिच्चा णऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परिसमन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम् - 119 11 "छलिया अवयक्खता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयव्वं ॥ भोगे अवयक्ता पति संसार सागरे धोरे। भोगेहि निरवयक्खा तरंति संसारकंतारं ॥ (इति) पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराउ, रससंसेयउब्भिया ।। मू. (४४४) वृ. स एवं प्रव्रजितः सुव्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्धयर्थमाह'पुढवी उ' इत्यादि श्लोकद्वयं तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह - 'तृणानि ' कुशवञ्चकादीनि 'वृक्षाः ' चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि । एते एकेन्द्रियाः पञ्चापि कायाः षष्ठत्रसकायनिरूपणायाह- अण्डाज्जाता अण्डजाःशकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-स्तिशरभादयः तथा जरायुजा Page #196 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययन- - ९, १९३ ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा संस्वेदाज्जाताः संस्वेदजा-यूकामत्कुणादयः 'उद्भिज्जाः' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हिदुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति । पू. (४४५) एतेहिं छहिं काएहिं तं विज्जं परिजाणिया । मणसा कायवक्केणं, नारंभी न परिग्गही ।। वृ. 'एभिः ' पूर्वोक्तैः षद्भिरपि 'कायै: ' त्रसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नर्नारम्भी नापि परिग्रही स्यादिति सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिज्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति । पू. (४४६) मुसावायं बहिध्धं च, उग्गहं च अजाइया । सत्यादाणाइं लोगंसि, तं विज्जं परिजाणिया ॥ वृ. शेषव्रतान्यधिकृत्याह- मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् तथा । 'बहिर्द्ध'ति मैथुनं 'अवग्रहं' परिग्रहमयाचितम् अदत्तादानं, यदिवा बहिद्धमितिमैथुनपरिग्रही अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते । तथाऽऽदीयते -गृह्यतेऽष्टप्रकारं कर्मैभिरिति कर्मोपादानकरणान्यस्मिन् लोके, तदेवतसर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । मू. (४४७) पलिउंचण च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाई लोगंसि, तं विज्जं परिजाणिया || वृ. किञ्चान्यत् पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तस्साफल्यापादनार्थं कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुञ्चयन्ते वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुञ्चनं मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनोलोभस्तं । तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलात्वात् स्थण्डिलवद्भवति स स्थण्डिलः-क्रोधः, यस्मिश्च सत्यर्ध्वश्रयति जात्यादिना दर्पाध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसत्वान्नपुंसफलिङ्गता, जात्यादिमदस्थानानां बहुत्वात् तत्कार्यस्यापि मानसय बहुत्वमतो बहुवचनं, चकाराः स्वगतभेदसंसूचनार्था समुञ्चयार्था वा, धूनयेति प्रत्येकं क्रिया योजनीया । तद्यथा-पलिकुञ्चनं मायां धूनय धूनीहि वा, तथा भजनं-लोभं, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं मानं, विचित्रत्वात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा - रागस्य दुस्त्यजत्वात् लोभस्य च भायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह । एतानि पलिकुञ्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षी | भू. (४४८) धोयणं रयणं चैव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथ, तं विज्जं परिजाणिया ।। वृ. पुनरप्युत्तरगुणानधिकृत्याह - घावनं प्रक्षालनं हस्तपादवस्रादेि रञ्जनमपि तस्यैव, चकारः 213 Page #197 -------------------------------------------------------------------------- ________________ १९४ सूत्रकृताङ्ग सूत्रम् १/९/-/४४८ समुच्चयार्थ, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवा- सनारूपं तथा । _ 'विरेचनं' निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकंयत् संयमपलिमन्थकारि' संयमोपघातरूपंतदेतद्विद्वाम् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत अपिचमू. (४४९) गंधमल्लसिणाण च, दंतपक्खालणं तहा। परिग्गहित्थिकम्मंच, तं विजं परिजाणिया॥ वृ. 'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं स्नानंच' शरीरप्रक्षालनं देशतः सर्वतश्च, तथा दन्तप्रक्षालनं कदम्बकाष्ठादिना तथा परिग्रहः' सच्चित्तादेःस्वीकरणं तथा स्त्रियो-दिव्यमानुषतैरश्च्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्व कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति।। मू. (४५०) उद्देसियं कीयगडं,पामिन्चं चेव आहडं। पूर्य अनेसणिशं च, तं विजं परिजाणिया ।। वृ. किञ्चान्यत्-साध्वाधुद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीत' क्रयस्तेन क्रीतं-गृहीतंक्रीतक्रीतं 'पामिच्छति साध्वर्थमन्यत उद्यतकं यद्गृह्यतेतत्तदुच्यतेचकारः समुच्चयार्थः एवकारोऽवधारणार्थः । साध्वयं यद्गृहस्थेनानीयते तदाहृतं, तथा 'पूय'मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्या-हारजातं पूति भवति, किंबहुनोक्तेन ?, यत् केनचिद्दोषेणानेषणीयम्अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति। मू. (४५१) आसूणिमक्खिरागंच, गिद्धवधायकम्मगं। उच्छोलणं च कथं च, तं विजं परिजाणिया ।। वृ.किञ्च-येनधृतपानादिना आहारविशेषेण रसानक्रियया वाअशूनः सन् आ-समन्तात् शूनीभवति-बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति-श्लाधा यतः श्लाधया क्रियमाणया आ-समन्तात् शूनवच्छूनो लघुप्रकृति कश्चिद्दपध्मिातत्वात् स्तब्धो भवति । तथा अक्षणां 'रागो' रञ्जनं सौवीरादिकमजनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'गृद्धिं गाद्धर्य तात्पर्यमासेवा, तथोपघातकर्म-अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति । ___'उच्छोलनं'तिअयतनयाशीतोदकादिना हस्तपादादिप्रक्षालनंतथा कल्कं लोघ्रादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वं कर्मबन्धनायेत्येवं विद्वान्' पण्डितो ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति। मू. (४५२) संपसारी कयकिरिए, पसिणायतणाणि य। सागारियं च पिंडं च, तं विजं परिजाणिया। वृ.अपिच-असंयतैः सार्धं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठान प्रत्युपदेशदानं, तथा 'कंयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं । तथा प्रश्नस्य-आदर्शप्रश्नादेः 'आयतमनम्' आविष्करणं कथनं यथाविवक्षितप्रश्न Page #198 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-९, निर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशयेवाप्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति । तथा 'सागारिकः' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्डमितिसूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, चशब्दः समुच्चये। तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । किञ्चान्यत्मू. (४५३) अट्ठावयं न सिक्खिज्जा, वेहाईयं च नो वए। हत्थकम्मं विवायंच, तं विजं परिजाणिया ।। वृ.अर्यतेइत्यर्थोधनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्रंअर्थार्थं पदमर्थपदं चाणक्यादिकमर्थशास्त्रं तन्न 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्र शिक्षयेत्, यदिवा-'अष्टापदं' द्यूतक्रीडाविशेषस्तंन शिक्षेत्, नापि पूर्वशिक्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा । वेध इति वस्त्रवेधो धूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावक्रीडनमिति, हस्तकर्मप्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रियापरस्परंहस्तव्यापारप्रधानः कलहस्तं, तथा विरुद्धवादं विवादं शुष्कवादमित्यर्थ, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत । मू(४५४) पाणहाओ य छत्तं च, नालीयं वालवीयणं । परकिरियं अन्नमन्त्रंच, तं विजं परिजाणिया॥ व.किञ्च उपानहौ-काष्ठपादकेचतथा आतपादिनिवारणायछत्रंतथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छै व्यजनकं । तथा परेषां सम्बन्धिी क्रियामन्योऽन्यपरस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यांचापर इति, चः समुच्चये, तदेतत्सर्वं 'विद्वान्' पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति । मू. (४५५) उञ्चारं पासवणं, हरिएसु न करे मुणी। वियडेण वावि साहट, नावमजे कयाइवि।। वृ. तथा उच्चारप्रम्नवणादिकां क्रिया हरितेषूपरिबीजेषु वा अस्थण्डिले वा 'मुनि' साधुन कुर्यात्, तथा विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य' अपनीय बीजानिहरितानिवा नाचमेत' न निर्लेपनं कुर्यात्, किमुताविकटेनेतिभावः। मू. (४५६) परमत्ते अन्नपाणं, न भुंजेञ्ज कयाइवि। परवत्यं अचेलोऽवि, तं विजं परिजाणिया ।। वृ. किञ्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अन्नपानंच मुनिर्न कदाचिदपिभुजीत, यदिवा-पतद्ग्रहधारिश्छिद्रपाणे: पाणिपात्रं परपात्रं । यदिवा-पाणिपात्रस्या च्छिद्रपाणेर्जिनकल्पिकादैः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभ- यान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्र परवस्त्रं तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसम्मावाच्च न बिभृयात्, यदिवा-जिनकल्पिकादिकोऽचेलो मूत्वा सर्वमपि वस्त्रं परवस्नमिति कृत्वा न बिभृयाद्, तदेवत्सर्वं परपात्रभोजनादिकं Page #199 -------------------------------------------------------------------------- ________________ १९६ सूत्रकृताङ्ग सूत्रम् १/९/-/४५६ संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । तथामू. (४५७) आसंदी पलियंके य, निसिजं च गिहतरे। संपुच्छणं सरणं वा. नं विजं परिजाणिया ।। वृ. 'आसन्दी' त्यासनविशेषः, अस्य कापलक्षणार्थत्वात्सर्वोऽप्यासनविधिगृहीतः, तथा 'पर्यंकः शयनविशेषः, तथा गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निपद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तम् - ॥१॥ "गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा। अगुत्ती बंभोरस्स, इत्थीओ वावि संकणा ।। __इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ नं वा तथा पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं 'विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् ॥ मू. (४५८) जसं कित्तिं सलोयं च, जाय वंदणपूयणा। सव्वलोयंसि जे कामा, तं विजं परिजाणिया॥ दृ. अपिच बहुसमरसङ्घनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या च सुराराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वादिना पूजना । तथा सर्वस्मिन्नपि लोके इच्छामदनरूपा ये केचन कामास्तदेतत्सर्वं यशःकीर्ति मफ्कारितया परिज्ञाय परिहरेदिति । मू. (४५९) जेणेहं निव्वहे भिक्खू, अन्नपाणं तहाविहं । अनुप्पयाणमन्नेसिं, तं विजं परिजाणिया ।। वृ.किञ्चान्यत्-'येन' अन्नेन पानेन वातथाविधेनेति सुपरिशुद्धेन कारणापेक्षया त्वशुद्धन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगातकादिकं वा भिक्षु निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा 'तथाविधं द्रव्यक्षेत्रकालभावापेक्षया 'शद्धं' कल्पं गृहीयात्ततैतेषाम्। अन्नादीनामनुप्रदानमन्यस्मै साधव संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत्, यदिवा-येन केनचिदनुष्ठितेन 'इमं संयम निर्वहेत् निर्वाहयेद् असारतामापादयेत्तथाविधमशनंपानंवाऽन्यद्वा तथा विधमनुष्ठानं नकुर्यात्, तथैतेषामशनादीनाम् 'अनुप्रदान गृहस्थानांपरतीथिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति । मू. (४६०) एवं उदाहु निग्गंथे, महावीरे महामुनी। अनंतनाणदंसी से, धम्म देसितवं सुतं ।। वृ.यदुपदेशेनैतत्सर्वं कुर्यात्तंदर्शयितुमाह-एवम्' अनन्तरोक्तयानीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहृतवानुक्तवान् निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो। ___ महावीर' इति श्रीमद्वर्धमानस्वामी महांश्चासौ मुनिश्च महामुनि अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थं तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशितवान्' प्रकाशितवान् किञ्चान्यत्मू. (४६१) भासमाणो न भासेज्जा, नेव वंफेज मम्मयं । मातिट्ठाणं विवजेजा, अनुचिंतिय वियागरे । Page #200 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-९, १९७ वृ.यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तंच “वयणविहत्तीकुसलो वओगयं बहुविहं वियाणंतो। दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो ।। यदिवा-यत्रान्यःकश्चिद्रलाधिको भाषमाणस्तत्रान्तर एवसश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगंवचो न ‘वंफेज'त्ति नाभिलषेत्, यद्वचनमुच्यमानंतध्यमतथ्यं वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामकं' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न वंफेञ्जति' नाभिलषेत्।। तथा 'मातृस्थानं माया प्रधानं वचो विवर्जयेत्, इदमुक्तं भवति-परवञ्चनबुद्धया गूढाचारप्रधानो भाषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति, यदा तुवक्तुकामो भवति तदा जैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत, तदुक्तम्-'पुब्वि बुद्धीए पेहित्ता, पच्छा वक्कमुदाहरे" इत्यादि। मू. (४६२) तत्थिमा तइया भासा, जं वदित्ताऽनुतप्पती। जंछन्नं तं न वत्तव्यं, एसा आणां नियंठिया ।। वृ. अपिच-सत्या असत्या सत्वामृषा असत्यामृषेत्येवंरूपासुचतसृषुभाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा सा च किञ्चिन्मृषा किञ्चित्सत्या इत्येवंरूपा । तद्यथा-दश दारका अस्मिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्घयाया व्यभिचारात्सत्यामृषात्वमिति, यांचैवंरूपांभाषामुदित्वाअनु-पश्चाद्भाषणाञ्जन्मानतरेवा तजनितेन दोषेण 'तप्यते' पीड्यते क्लेशभाग्भवति । यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापंविधत्ते, ततश्चेदमुक्तंभवतिमिश्रापि भाषा दोषाय किं पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी ?, तथा प्रथमापि भाषा सत्यायाप्राण्युपतापेन दोषानुषङ्गिणीसानवाच्या, चतुर्थ्यप्यसत्यामृषाभाषाया बुधैरनाची सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गित्वमधिकृत्याह । यद्वचः 'छन्नन्ति प्रच्छन्नं यल्लोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो-भगवास्तस्येति। मू. (४६३) होलावायं सहीवायं, गोयावायं च नो वदे। तुमंतुमति अमणुनं, सव्वसो तं न वत्तए। वृ.किञ्च-होलेत्येवंवादोहोलावादः, तथा सखेत्येवंवादः सखिवादः, तथा गोत्रोध्घाटनेन वादो गोत्रवादोयथा काश्यपसगोत्रे वसिष्ठसगोत्रे वेति। इत्येवंरूपंवादंसाधु!वदेत, तथा 'तुमं तुमति तिरस्कारप्रधानमेकवचनान्तं बहुवच- नोच्चारणयोग्ये 'अमनोज्ञ' मनः- प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं 'सर्वशः' सर्वथा तत्साधूनां वक्तुंन वर्तत इति । मू. (४६४) अकुसीले सया भिक्खू, नेव संसग्गिय भए। सुहरूवा तत्थुवस्सग्गा, पडिबुझेजते विऊ । दृ. यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-"पासत्थोसण्णकुसील संथवोण किल वट्टए काउं" तदिदमित्याह-कुत्सितं शीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽ।' Page #201 -------------------------------------------------------------------------- ________________ १९८ सूत्रकृताङ्ग सूत्रम् १/९/-१४६४ कुशीलः ‘सदा' सर्वकालं भिक्षणशीलो भिक्षु कुशीलो न भवेत्, न चापि कुशीलैः साधू संसर्ग' साङ्गत्यं भजेत' सेवेत, तत्संसर्गदोषोद्विभावविषयाऽऽह । 'सुखरूपाः' सातगौरवस्वभावाः 'तत्र' तस्मिन्कुशीलसंसर्गेसंयमोपघातकारिणउपसर्गा प्रादुष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात् ?, तथा नाशरीरो धर्मो भवति इत्यतो येन केनचिटप्रकारेणाधाकर्मसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्, उक्तंच॥१॥ "अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात् स्वते धर्म, पर्वतात्सलिलं यथा ।। तथा साम्प्रतमल्पानि संहनानिअल्पधृतयश्च संयमेजन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्तीति "विद्वान् विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति । किश्चान्यत्-- मू. (४६५) नन्नत्य अंतराएणं, परगेहे न निसीयए। गामकुमारियं किडं, नातियेलं हसे मुनी। वृ. तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र ‘न निषीदेत् नोपवशेत् उत्सर्गतः, अस्यापवाददर्शयति नान्यत्र 'अन्तरायेणे तिअन्तरायः शक्यभावः, सच जरसा रोगातङ्काभ्यां स्यात्, तस्मिंश्चान्तराये सत्युपविशेत् यदिवा। उपशमलब्धिमान कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तता ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिर्न कुर्यात् । तथा वेला-मर्यादा तामतिक्रान्तमतिवेलं न हसेत्, मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान हसेत्, तथा चागमः- “जीवेणंभंते! हसमाणे उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ?, गोयमा!, सत्तविहबंधए वा अट्टविहबंधए वा" इत्यादि। मू. (४६६) अनुस्सुओ उरालेसु, जयमाणो परिचए। चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए। वृ.किञ्च-उराला' उदाराःशोभना मनोज्ञाये चक्रवत्यार्दीनांशब्दादिषुविषयेषुकामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषुद्दष्टेषु श्रुतेषुवानोत्सुकः स्यात्, पाठान्तरं वा न निश्रितोऽनिश्रितः-अप्रतिबद्धः स्यात् । __ यतमानश्च-संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वन् ‘व्रजेत्' संयमं गच्छेत् तथा चर्यायां भिक्षादिकायाम् 'अप्रत्तमः स्यात् नाहारादिषुरसगार्थ्यविदध्यादिति, तथा 'स्पृष्टश्च' परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो 'विषहेत्' सम्यक् सह्यादिति । मू. (४६७) हम्ममाणो न कुप्पेञ्ज, बुञ्चमाणो न संजले। सुमणे अहियासिञ्जा, न य कोलाहलं करे। वृ.परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो यष्टिमुष्टिलकुटादिभिरपि हतश्च 'न For Page #202 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययन-९, १९९ - - - कुप्येत्' न कोपवशगो भवेत्, तथा दुरवचनानि 'उच्यमानः' आक्रुश्यमानो निर्भत्स्यमानो 'न संज्चलेत्' न प्रतीपं वदेत्, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वत्राधिसहेतेति। मू. (४६८) लद्धे कामे न पत्थेजा, विवेगे एवमाहिए। आयरियाई सिक्खेजा, बुद्धाणं अंतिए सया।। वृ.किश्चान्यत्-'लब्धान्' प्राप्तानपि 'कामान्' इच्छामदनरूपान्गन्धालङ्कारवादिरूपान्वा वैरस्वामिवत् 'न प्रार्थयेत्' नानुमन्येत् न गृहीयादित्यर्थः, यदिवा। यत्रकामावसायितया गमनादिलब्धिरूपान् कामंस्तपोविशेषलब्धानपि नोपजीव्यात, नाप्यनागतान् ब्रह्मदत्तवप्रार्थयेद्, एवं च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितोभवति, तथा आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा आचर्याणि । मुमुक्षुणायान्याचरणीयानिज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम् आचार्याणाम् 'अन्तिके' समीपे सदा सर्वकालं शिक्षेत' अभ्यस्येदिति, अनेन हिशीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति । यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाहमू. (४६९) सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं । वीराजे अत्तपन्नेसी, धितिमन्ता जिइंदिया। वृ.गुरोरादेशंप्रति श्रोतुमिच्छाशुश्रूषागुवदिर्वैयावृत्त्यमित्यर्थः तांकुर्वाणोगुरुम् उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञःस्वसमयपरसमयवेदी गीतार्थ इत्यथः, तथा सुष्टु शोभनं वा सबाह्याभ्यान्तरं ततोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम् -- ॥१॥ “नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। य एवं कुर्वन्ति तान् दर्शयति-यदिवा के ज्ञानिनस्तपस्विनो वेत्याह- 'वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया-बुध्धा राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टु शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञोक्तान्वेषिण इतियावत् । यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञत्वा(प्रज्ञा)न्वेषिण आत्महितान्वेषिण इत्यर्थः, तथा घृति-संयमे रति सा विद्यते येषां ते धृतिमन्तः संयमधृत्या हि पञ्चमहाव्रतभारोद्वहनं सुसाध्यं भवतीति, तपःसाध्याचसुगतिर्हस्तप्राप्तेति, तदुक्तम् ॥१॥ “जस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा। __ जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ।। तथा जितानी-वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमणाः शिष्या गुरवो वाशुश्रूषमाणा यथोक्तविशेषणविशिष्ट भवन्तीत्यर्थः । मू. (४७०) गिहे दीवमपासंता, पुरिसादानिया नरा। ते वीरा बंधणुम्मुक्का, नावकखंति जीवियं ॥ Page #203 -------------------------------------------------------------------------- ________________ २०० सूत्रकृताङ्ग सूत्रम् १/९/-/४७० वृ. यदभिसंधायिनः पूर्वोक्तिविशेषणविशिष्टा भवन्ति तदभिधित्सुराह-'गृहे गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवंति 'दीपी दीप्ती' दीपयति-प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा। द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतंदीपंद्वीपंवा गृहस्थभावे अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक्प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-'नराः' पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया-आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति। यदिवा आदानीयो-हितैषिणां मोक्षस्तन्मार्गो वा सम्यगदर्शनादिकः पुरुषाणांमनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामितिविगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकाङ्क्षत' नाभिलषन्तीति। मू. (४७१) अगिद्धे सद्दफासेसु, आरंभेसु अनिस्सिए। सव्वं तं समयातीतं, जमेतं लवियं बहु॥ वृ.किञ्चान्यत्-'अगृद्धः' अनध्युपपन्नोऽमूर्छितः क्व?-शब्दस्पर्शेषु मनोज्ञेषुआद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आरम्भेषु' सावद्यानुष्ठानरपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तकाम आह । 'सर्वमेतद्' अध्ययनादेरारभ्य प्रतिषेध्यत्वेन यत् लपितम्-उक्तं मया बहु तत् ‘समयाद्' आर्हतादागमादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धं, यदपि च विधिद्वारेणोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपिच तैः कुतीर्थिकैर्बहुलपितं तदेतत्सर्व सम-यातीतमितिकृत्वा नानुष्ठेयमिति। मू. (४७२) अइमाणं च मायंच, तं परिन्नाय पंडिए। गारवाणि य सव्वाणि, निव्वाणं संधए मुनि ॥ वृ. प्रतिषेधयप्रधाननिषेधद्वारेण मोक्षाभिसन्धानेनाह-अतिमानो महामानस्तं, चशब्दात्तत्सहधरितं क्रोधंच,तथा मायां चशब्दात्तत्कार्यभूतं लोभंच, तदेतत्सर्वं पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञयापरिहरेत्, तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञात्वा संसारकारणत्वेन परिहरेत् । परिहत्य च 'मुनि' साधुः 'निर्वाणम्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-९-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथमश्रुतस्कन्धस्य नवम अध्ययनटीका परिसमाप्ता। Page #204 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १०, २०१ अध्ययन- १० " समाधि" वृ. नवमानन्तरं दशममारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, सचाविकलः समाधौ सति भवतीत्यतोऽधुना समाधि प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽअधिकारोऽयं । तद्यथा- धर्मे समाधि कर्तव्यः सम्यगाधीयते - व्यवस्थाप्यते मोक्षं तन्मार्गं वा प्रति येनात्मा धर्मध्यानादिना स समाधि- धर्मध्यानादिकः, सच सम्यग् ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह नि. [१०३] आयाणपदेणाऽऽ घं गोणं नामं पुणो समाहित्ति । निक्खिविऊण समाहिं भावसमाहीइ पगयं तु ॥ नामंठवणादविए खेत्ते काले तहेव भावे य । नि. [१०४] एसो उ समाहीए निक्खेवो छव्विहो होइ ॥ नि. [१०५ ] पञ्चसु विसएसु सुभेसु दव्वंभि त्ता भवे समाहित्ति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ । भावसमाहि चउव्विह दंसणनाणे तवे चरित्ते य । चउसुवि समाहियप्पा संमं चरणडिओ साहू ॥ नि. [१०६ ] वृ. आदीयते - सह्यते प्रथममादौ यत्तदादाम् आदानं च तत्पदं च सुबन्तं तिङ्न्तं वा तदादान पदं तेन 'आधं' ति नामास्याध्ययनस्य यस्मादध्ययनादाविदं सूत्रम्- 'आघंमईमं मणुवीइ धम्म' मित्यादि यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रभादाप्रमादाभिघायकमप्यादानपदेन 'असंखय मित्युच्यते, गुण निष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरीति, यस्मात्स एवात्र प्रतिपाद्यते ते च समाधि'- नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकमधिकृत्याह । पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणं यथास्वं प्राप्तौ सत्यां यस्तुष्टि विशेषः स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टि स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्द्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधि यस्मिन्वा क्षेत्रे समाधिव्यार्वर्ण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन्वा काले समाधिर्व्याख्यायते स कालप्राधान्यात् क्षेत्रसमाधि यस्मिन्वा क्षेत्रे समाधिर्वावण्येत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभूजां यस्य वा यावन्तं कालं समाधिर्भवति Page #205 -------------------------------------------------------------------------- ________________ २०२ यस्मिन्वा काले समाधिर्वाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधिं त्वधिकृत्याह- भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्द्धा, तत्र चतुर्विधमपि भावसमाधिं समासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक्चरणेचारित्रे व्यवस्थितः समुद्युक्तः 'साधुः' मुनिश्चतुर्ष्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो- व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति यः सम्यकचरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, योवा भावसमाधिसमाहितात्मा भवति, स सम्यकचरणे व्यवस्थितो द्रष्टव्य इति, तथाहि - दर्शनसमाधौ व्यवस्थितो जिनवचनभावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्भ्राम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुद्युक्तो भवति, तथा चोक्तम् 11911 "जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुनी नवनवसंवेगसद्धाए ॥ चारित्रसमाधावपि त्रिषयसुखनिस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा सूत्रकृताङ्ग सूत्रम् १/१०/-/४७२/नि. [१०६ ] चोक्तम् 119 11 'तणसंथारणिसन्नोऽवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि ? ॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ ॥ २ ॥ इत्यादि, तपः समाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृ ष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतयोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यकचरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं मू. (४७३) आघं मईमं मणुवीय धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिन्न भिक्खू उ समाहिपत्ते, अनियाण भूतेसु परिव्वएज्जा ।। वृ. अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा- अशेषगारवपरिहारेण मुनिर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघं' ति आख्यातवान् कोऽसौ ? -'मतिमान्' मननं मति-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थ, तत्रासाधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी गृह्यते, किमाख्यातवान् ? 'धर्म' श्रुतचारित्राख्यं । कथम्? -'अनुविचिन्त्य' केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्मं भाषते, यदिवा - ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः ? तथा कोऽयं पुरुषः ? कञ्चनतः ? किं वा दर्शनमापन्न? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते यथा प्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्म भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ? । 'ऋजुम्' अवक्रं यथावस्थितवस्तुस्वरूपनिरूपणतो, न यथा शाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन Page #206 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१०, २०३ त्वेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयं कारयन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रय कारयन्ति, तथा सावयाः सर्वमप्रच्युतानुत्प-नस्थिरैकस्वभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्य भावपरिहारेणावळतथ्यं धर्ममाख्यातवान् तथा सम्यगाधीयते-मोक्षं तन्मार्ग वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्म समाधिस्तं समाख्यातवान्, यदिवा-धर्ममाख्यातवांस्तत्समाधिं च धर्मध्यानादिकमिति । सुधर्मस्वाम्याह-तमिमं-धर्मसमाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यतेएहिकामुष्मिकरूपाप्रतिज्ञा-आकाङ्क्ष तपोऽनुष्ठानं कुर्वतोयस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुतुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्मे धर्मसमाधि च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु जन्तुषु यस्यासावनिदानः । स एवम्भूतः सावद्यानुष्ठानरहितः परि-समन्तात्संयमानुष्ठाने 'व्रजेद्' गच्छेदिति, यदिवाअनिदानभूतः-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् सुपरिव्रजेत्, यदिवा-अनिदानमूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत्, अथवा निदानं हेतुः कारणंदुःखस्यातौऽनिदानभूतः कस्यचिद्दुखमनुपपादयन् संयमे पराक्रमेतेति। मू. (१७४) उड्ढं अहे यं तिरियं दिसासु, तसा यजे थावर जे य पाणा। हत्थेहि पाएहि य संजमित्ता, अदिनमन्नेसु य नो गहेजा ।। वृ. प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्घा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्ध्वमधस्तिर्यक् क्रियते, यदिवा-ऊवधिस्तिर्यकूरूपेषु त्रिषु लोकेषु तथा प्राच्युदिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्त्वयं । त्रस्यन्तीतित्रसा-द्वीन्द्रियादयोयेच 'स्थावराः पृथिव्यादयः, चकारःस्वगतभेदसंसूचनार्थ, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा, 'प्राणाः' प्राणिनः, भावप्राणातिपातं त्वाह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां संयम्य' बद्धवा उपलक्षणार्थ त्वादस्यान्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं तन्न कुर्यात् । यदिवैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न हिंस्यात्, चशब्दादुच्छ्वासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाक्कायकर्मसुसंयतोभवन भावसमाधिमनुपालयेत, तथा परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिषेधाच्चार्थतः परिग्रहो निषिद्धो भवति । नापरिगृहीतमासेव्यत इति मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यकपालनोपदेशाच्च मृषावादोऽप्यर्थतो निरस्त इति ।। मू. (४७५) सुयक्खायधम्मे वितिगिच्छतिन्ने, लाढे चरे आयतुले पयासु। आयं न कुजा इह जीवियट्ठी, चयं न कुजा सुतवस्सि भिक्खू ।। वृ.ज्ञानदर्शनसमाधिमधिकृत्याह-सुष्ट्वाख्यातःश्रुतचारित्राख्योधर्मो येन साधुनाऽसौ स्वाख्या-तधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, नहि विशिष्टपरिज्ञानमन्तरेणस्वाख्यातधर्मत्व Page #207 -------------------------------------------------------------------------- ________________ २०४ सूत्रकृताङ्ग सूत्रम् १/१०/-/१७५ मुपपद्यत इति भावः, तथा विचिकित्सा - चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां 'तीर्णः ' -अतिक्रान्तः 'तदेव च निशङ्कं यज्जिनैः प्रवेदित' मित्येवं निशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति । येन केनचित्प्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत्, तथा प्रजायन्त इति प्रजाः पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्"जह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं । न हाइ न हणावेइ य, सममणई तेण सो समणो ॥ ॥१॥ यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात्, तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्प- दादेर्वा परिग्रहलक्षणं संचयमायत्यर्थं सुष्ठु तपस्वी सुतपस्वी - विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति मू. (४७६) सव्विंदियाभिनिव्वुडे पयासु, चरे मुनी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे ॥ घृ. किञ्चान्यत्- सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क्व ? - 'प्रजासु' स्त्रीषु तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम् ॥ १ ॥ “कलानि वाक्यानि विलासिनीनां गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥ तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यम्, एतदेव दर्शयति'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनि' साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशेषण प्रमुक्तो विप्रमुक्तो सिङ्गो मुनि निष्किञ्चनश्चेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य' अवलोकय पृथक पृथक् पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् 'सत्त्वान्' प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकत्वमागतान् पश्य, किंभूतान् ? -दुःखेन असातावेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारं कर्म तेनार्त्तान्पीडितान् परि-समन्तासंसारकटाहोदरे स्वकृतेनेन्धनेन परिपच्यमानान्' क्वाथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ।। अपिचभू. (४७७) एतेसु बाल य पकुव्यमाणे, आवट्टती कम्मसु पावएसु । अतिवायतो कीरति पावकम्मं, निउजमाणे उ करेइ कम्पं ॥ वृ. 'एतेषु' प्राङ्निर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बालः' अज्ञश्चशब्दादितरोऽपि सङ्घट्टनपरितापनापद्रावणादिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव संघट्टनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीड्यते दुःखभाग्भवतीति पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने यथा चौरः Page #208 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १०, २०५ पारदारिको वाअसदनुष्ठानेन हस्तपादच्छेदान्बन्धवधादींश्चैहावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपिपापकर्मकारी इहामुत्रच दुःखभाग्भवति, 'आउट्टति'त्तिकचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य आउट्टति'त्ति निवर्तते, कानिपुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशङ्कय तानिदर्शयति- अतिपाततः प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तञ्चशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादिन प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुचिनोतीति ।। मू. (४७८) आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ।। वृ. किच्चान्यत्-आ-समन्ताद्दीना-करुणास्पदा वृत्ति-अनुष्ठानं यस्य कृपणवनीपकादेःस भवत्यादीनवृत्ति, एवम्भूतोऽपि पापं कर्म करोति, पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तं च-“पिंडोलगेव दुस्सीले, नरगाओ न मुञ्चइ" स कदाचिच्छोभनमाहारमलभमानोऽज्ञत्वादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्मकरोतीत्येवं मत्वा' अवधार्य एकान्तेनात्यन्तेन चयो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्चभवन्ति अन्तेचावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम्॥१॥ “यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः।।" इत्यादि, तदेवं बुद्धः' अवगततत्त्वःसचतुर्विधेयऽपि ज्ञानादिकेरतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह-प्राणानं दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यगमार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियचित्ति स्थिताशुद्धस्वभावात्मनाअर्चि-लेश्या यस्यसभवतिस्थितार्चि-सुविशुद्धास्थिरलेश्य इत्यर्थः॥ मू. (४७९) सव्वं जगं तू समयानुपेही, पियमप्पियं कस्सइ नो करेजा। उठ्ठाय दीनो य पुनो विसनो, संपूयणं चेव सिलोयकामी ।। वृ. किञ्च-'सर्व' चराचरं 'जगत् प्राणिसमूहं समतया प्रेक्षितुंशीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चिप्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-"नस्थि य सि कोइ विस्सो पिओ व सव्वेसु चेव जीवेसु" तथा-'जह मम न पियं दुक्खमि'त्यादि, समतोपेतश्च न कस्यचिनियमप्रियं वाकुर्यान्निसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तोभवति, कश्चित्तु भावसमाधिना सम्यगुस्थानेनोत्थाय परीषहोप-सर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्य-वलम्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पावस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वपात्रादिना Page #209 -------------------------------------------------------------------------- ________________ २०६ सूत्रकृताङ्ग सूत्रम् १/१०/-/४७९ प्रार्थयेत् ‘श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति ।। मू. (४८०) आहाकडं चैव निकाममीणे, नियामचारी य विसन्नमेसी। इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ।। वृ.किञ्चान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थ, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थं यः प्रार्थयते स निकाममीणेत्युच्यते । तथा निकामम्' अत्यर्थं आधाकर्मादीनितनिमित्तं निमन्त्रणादीनिवासरति-चरतितच्छीलश्च सतथा, एवम्भूतः पावस्थावसन्नकुशीलानांसंयमोद्योगेविषण्णानांविषण्णभावमेषत, सदनुष्ठानविषण्णतया संसारपत्रावसन्नो भवतीतियावत्, अपिच ‘स्त्रीषु' रमणीषु आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भाषितहसितविव्वोकशरीरावयवेष्विति, बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः । तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुच्चिनोतीति तथामू. (४८१) राणुगिद्धे निचयं करेति, इओ चुते स इहमढ्दुग्गं। तम्हा उ मेघावि समिक्ख धम्म, चरे मुनी सबउ विप्पमुक्के ।। वृ. येन केन कर्मणा-परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरंवा 'आरंभसत्तो'त्तिआरम्भेसावद्यानुष्ठानरूपेसक्तो-लग्नो निरनुकम्पो 'निचयं द्रव्योपचयं तन्निमित्तापादितकर्मनिचयं वा 'करोति' उपादत्ते। ___ 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय इतः' अस्मात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं-नरकादियातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवंतत्तस्मात् 'मेघावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणंजानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनि' साधुः सर्वतः' सबाह्याभ्यन्तरात्सत् 'विप्रमुक्तः' अपगतः संयमानुष्ठानमुक्तिगमनैकहेतुभूतं चरेद्' अनुतिछेत्, स्त्र्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत्। मू. (४८२) आयं न कुजा इह जीवियट्ठी, असज्जमाणो य परिव्वएना। णिसम्मभासी य विनीय गिद्धिं, हिंसनियंवा न कह करेज्जा ।। वृ. किञ्चान्यत्-आगच्छतीत्यायो-द्रव्यादेलभिस्तन्निमित्तापादितोऽटप्रकारकर्मलाभो वा तम् इह' अस्मिन् संसारे 'असंयमजीवितार्थी' भोगप्रधानजीविता त्यर्थः, यदिवा-आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात्, पाठान्तरंवाछन्दणं कुञ्जाइत्यादि, छन्दः-प्रार्थनाऽभिलाष इन्द्रियाणां स्वविषयाभिलाषोवातत्न कुर्यात्, तथा असजमानः' सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत् उद्युक्तविहारी भवेत्। तथा 'गृद्धिं' गायं विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य' अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत्, तदेव दर्शयति-हिंसया-प्राण्युपमर्दरूपया अन्वितां-युक्तां कथां न कुर्यात्, न तत् ब्रूयात् यत्परात्मनो उभयोवा बाधकं वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादनाभूतां न कुर्यादिति) Page #210 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १०, मू. (४८३) आहाकडं वा न निकामएजा, निकामयंते य न संथवेज्जा । धुणे उरालं अणुवेहमाणे, चिच्चा न सोयं अणवेक्खमाणो ।। वृ. अपिच साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत्' नाभिलषेत् तथाविधाहारादिकं च 'निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा सार्धं संस्तवं न कुर्यादिति, किञ्च - 'उरालं' ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात्' कृशं कुर्यात्, यदिवा 'उरालं'ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयाद्' अपनयेत्, तस्मिंश्च तपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरम- वदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः । मू. (४८४) एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं । एसम्पमोक्खे अमुसे वरेवि, अकोहणे सच्चरते तवस्सी । वृ. किञ्चापेक्षेतेत्याह-एकत्वम् - असाहयत्वमभिप्रार्थयेद् एकत्वाध्यवसायी स्यात्, तथाहिजन्मजरामरणरोगसोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थ सहायः स्यात्, तथा चोक्तम् ॥१॥ २०७ "एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संयोगलक्खणा ॥ इत्यादिकामेकत्वभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न ‘मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः- सत्यश्चायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी' तपोनिष्टतदेहोऽक्रोधनः, उपलक्षणार्थत्वादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वरः' प्रधानश्च वर्तत इति । किञ्चान्यत् मू. (४८५) इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुव्वमाणे । उच्चावसु विससु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ वृ. दिव्यमानुषतिर्यगुरूपासु त्रिविधास्वपि स्त्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तस्माद् आ-समन्तान्नरतः- अरतो निवृत्त इत्यर्थः, तुशब्दाव्याणातिपातादिनिवृत्तश्च तथा परि-समन्ताद्गृह्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सनुच्चावचेषु नानारूपेषु विषयेषु यदिवोच्चा उत्कृष्टा अवचा - जघन्यास्तेष्वरक्तद्विष्टः । 'त्रायी' अपरेषां च त्राण भूतो विशिष्टोपदेशदानतो 'निसंशयं' निश्चयेन परमार्थतो 'भिक्षु' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमांधिं प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधिं प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः । मू. (४८६) अरइं रइंच अभिभूय भिक्खू, तणाइफासं तह सीयफासं । उन्हं च दंसं चऽहियासएञ्जा, सुडिंभ व दुबिंभ व तितिक्खएज्जा ।। वृ. विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षु परमार्थदर्शी शरीरादौ निस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत् । तद्यथा Page #211 -------------------------------------------------------------------------- ________________ २०८ सूत्रकृताङ्ग सूत्रम् १/१०/-४८६ निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणान्निम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेद् अधिसहेत तथा गन्धं सुरभिमितरंच सम्यक् 'तितिक्षयेत्' सह्यात, चशब्दादाक्रोशवधादिकांश्च परिषहान्मुमुक्षुस्तितिक्षयेदिति। मू. (४८७) गुत्तो वईए य समाहिपत्तो, लेसं समाहलु परिवएजा। गिहं न छाए नवि छायएजा, संमिस्सभावं पयहे पयासु ॥ वृ.किश्चान्यत्त्वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां लेश्यां' तैजस्यादिकां समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत्' गच्छेदिति। किश्चान्यत्-गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्संस्कारंन कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराहप्रजायन्त इति प्रजास्तासु-तद्विषयेयेन कृतेन सम्मिश्रभावोभवति ताजह्यात्, एतदुक्तं भवतिप्रव्रजितोऽपि सन्पचनपाचनादिकां क्रियांकुर्वन कारयंश्चगृहस्थैः सम्मिश्रभावं भजते, यदिवाप्रजाः-स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात' परित्यजेदिति । मू. (४८८) जे केइ लोगंमि उ अकिरियआया, अनेण पुट्ठा धुयमादिसंति। आरंभसत्ता गढिता य लोए, धम्मन जाणंति विमुक्खहेउं ।। वृ.अपिच-येकेचनअस्मिन् लोके अक्रियआत्मा येषामभ्युपगमेतेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अभूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेव बुध्यते। ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वेसतिबन्धमोक्षौनघटेतेइत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि 'धूतं मोक्षं तदभावम् (च) आदिशन्ति प्रतिपादयन्ति, तेतु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा 'आरम्भे सावद्ये 'सक्ता' अध्युपपन्ना गद्धास्तु लोके मोक्षैकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति । -किञ्चान्यत्-- मू. (४८९) पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं। जायस्स बालस्स पकुव्व देहं पवड्ढती बेरमसंजतस्स ।। घृ. पृथक् नाना छन्दः-अभिप्रायो येषां ते पृथकछन्दा ‘इह' अस्मिन्मनुष्यलोके मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावाद च समाश्रिताः, तद्यथा॥१॥ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम्। यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ।। इत्येवं क्रियैव फलादायित्वेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्रस्वरूपंन्यक्षेण वक्ष्यते, तेचनानाभिप्रायामानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुंधर्ममजानाना आरम्भेषुसक्ता इन्द्रियवशगारससातागौरवाभि Page #212 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१०, २०९ लाषिणएतत्कुर्वन्ति। तद्यथा-'जातस्य उत्पन्नस्य बालस्य अज्ञस्यसदसद्विवेकविकलस्य सुखैषिणो 'देह' शरीर 'पकुव्व'त्ति खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारिप्रकर्षण वर्धते, पाठान्तरंवा-जायाए बालस्स पगब्मणाए-'बालस्य' हिंसादिषुकर्मसुप्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता' घाष्र्यं तया वैरमेव प्रवर्धत इति सम्बन्धः । मू. (४९०) आउक्खयं चेव अबुझमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अट्टेसु मूढे अजरामरेव्व ।। वृ. अपिच-आयुषो-जीवनलक्षणस्य क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिनइदमत्स्यवदकक्षये सति अबध्यमानोऽतीव 'ममाईत्तिममत्ववान् इदं मे अहमस्य स्वामीत्येवंस'मन्दः' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग् महता क्लेशेन महार्धाणि रत्नानि समासाद्योञ्जयिन्या बहिरावासितः । ___ स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिष्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयंन ज्ञानवान्, अह्रयेव रलानिप्रवेशयन राजपुरुषैरलेभ्यश्चयावित इति, एवमन्योऽपि किंकर्तव्यताकुलः स्वायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषुचप्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोऽहि रात्रीच परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्दार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तम् - ॥१॥ "अजरामरवद्वालः, क्लिश्यते धनकाम्यया। शाश्वतं जीवितं चैव, मन्यमानो धनानि च ।। तदेवमार्तध्यानोपहतः 'कइया वच्चइ सत्थो? किं भंडं कत्थ कित्तिया भूमी त्यादि, तथा 'उक्खणइखणइ निहणइ रत्तिनसुयइ दियावियससंको'इत्यादिचित्तसंक्लेशात्सुष्ठुमूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति।। म.(४९१) जहाहि वित्तं पसवो य सव्वं, जे बंधवा जे य पिया य मित्ता। लालप्पती सेऽवियएइ मोह, अन्ने जणा तंसि हरंति वित्तं ।। वृ.किश्चान्यत्-'वित्तं द्रव्यजातंतथा पशवो गोमहिष्यादयस्तान् सर्वान् जहाहि परित्यजतेषु ममत्वं मा कृथाः, ये 'बान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते। तद्यथा-हे मातः ! हे पितरित्येवं तदर्थं शोकाकुलः प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकवेष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते। यच्च तेन महता क्लेशेनापरप्राण्युपमर्दैनोपार्जितं वित्तंवदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा पापानि कर्माणि परित्यजेत्तपश्चरेदिति। मू. (१९२) सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा। ___ एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवजएज्जा ।। Page #213 -------------------------------------------------------------------------- ________________ २१० सूत्रकृताङ्ग सूत्रम् १/१०/-/४९२ वृ. तपश्चरणोपायमधिकृत्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः' अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंहं व्याघ्रं वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति । एवं 'मेघावी' मर्यादावान्, तुर्विशेषणे, सुतरां धर्मं 'समीक्ष्य' पर्यालोच्य 'पाप' कर्म असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः परिहृत्य परि-समन्ताद्व्रजेत्, संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं पापहेतुत्वात्सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत् परित्यजेदिति अपिच भू. (४९३) संबुज्झमाणे उ नरे मतीमं, पावाउ अप्पाण निवट्टएजा । हिंसप्पसूबाई दुहाई मत्ता, वेरानुबंधीणि महभयाणि ॥ वृ. मननं मति सा शोभना यस्यास्त्यसी मतिमान्, प्रशंसायां मतुप्, तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक् श्रुतचारित्राख्यं धर्मं भावसमाधिं वा 'बुध्यमानस्तु' विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणान्निवर्तेत अतस्तत् दर्शयति- 'पापात्' हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्र वद्वाराणि निरुन्ध्यादित्यभिप्रायः । किं चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि जातानि यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबन्धन्ति तच्छीलानि च वैरानुबन्धीनि जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमानात्मानं पापान्निवर्तयेदिति, पाठान्तरं वा 'निव्वाणभूए व परिव्वज्जा' अस्यायमर्थ यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघाते न वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद् व्रजेदिति । मू. (४९४) मुसं न बूया मुनि अत्तगामी, निव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेज्जा, करंतमन्नपि य नाणुजाणे ॥ वृ तथा आप्तो- मोक्षमार्गस्तद्गामी - तदमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनि' साधुः 'मृषावादम्' अनृतमयर्थाथ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवर्जनं 'कृत्स्नं' संपूर्ण भावसमाधिं निर्वाणं चाहुः । सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता था अनैकान्तिकानात्यन्तिकत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति । मू. (४९५) सुद्धे सिया जाए न दूसएज्जा, अमुछिए न य अज्झोववन्ने । घितिमं विमुक्केन य पूयणट्टी, न सिलोयगामी य परिव्वएज्जा ।। वृ. उत्तरगुणानधिकृत्याह-उद्गमोत्पादनैषणाभिः ‘शुद्धे' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत्, उक्तं च ॥ १ ॥ "बायालीसेसणसंकडंमि गहणंमि जीव ! नहु छलिओ । इहि जह न छलिज्जसि भुंजंतो रागदो सेहिं ॥ तत्रापि रागस्य प्राधान्यख्यापनायाह-न मूर्च्छितोऽमूर्च्छितः सकृदपि शोभनाहारलाभे सति Page #214 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१०, २११ गृद्धिमकुर्वन्नाहारयत्ति तथा अनध्युपपन्नस्तमेवाहारं पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत्, प्रायोविदितवेद्यस्यापि विशिष्टाहारसन्निधावभिलाषारितेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम्, उक्तं च -- ॥१॥ “भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य भाविओ। ___संतेसाहारमाईसु, सोऽवि खिप्पं तु खुब्भइ॥ तथा संयमे धृतिर्यस्यासी धृतिमान् तथा सबाह्याभ्यन्तरेण ग्रन्थेन विमुक्तः तथा पूजन वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत्, तथा श्लोकःभ्लाधा कीर्तिस्तद्भामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः । मू. (४९६) निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने। नो जीवियं नो मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के । वृ.अध्ययनार्थमुपसंजिधृक्षुराह-गेहान्निसृत्य निष्क्रम्यच' प्रव्रजितोऽपिभूत्वा जीवितेऽपि नीराकाङ्क्षी 'कार्य' व्युत्सृज्य निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्। तथा नजीवितं नापि मरणमभिकाक्षेत्र भिक्षु' साधु वलयात् संसारवलयात्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत्, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविचरिता प्रथमश्रुतस्कन्धस्य दशमअध्ययनटीका परिसमाप्ता । (अध्ययनं-११ "मार्ग" वृ.उक्तंदशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने समाधि प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपी वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणिवाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणंचात्राभिधेयमिति, नामनिष्पन्नेतुनिक्षेपेमार्ग इत्यस्याध्ययनस्यनाम, तन्निक्षेपार्थं नियुक्तिकृदाहनि. [१०७] नाम ठवणा दविए खेत्ते काले तहेव भावे य। एसो खलु मग्गस्स य निक्खेवो छव्विहो होइ । वृ. नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमत्वादनाध्त्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमार्गमधिकृत्याहनि. [१०८] फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गेय। रवीलगअयपक्खिपहे छत्तजलाकासदव्वंमि ।। वृ.फलकैर्मार्गफलकमार्ग यत्रकर्दमादिभयात्फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बन गम्यते, अन्दोलनमार्गोऽपि यत्रान्दोलनेनदुर्गमतिलङ्घयते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु Page #215 -------------------------------------------------------------------------- ________________ २१२ सूत्रकृताङ्ग सूत्रम् १/११/-/४९६/नि. [१०८] यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलङ्घयते, ‘दवनं'ति यानं तन्मार्गो दवनमार्ग, बिलमार्गो यत्र तु गुहा-द्याकारेण विलेन गम्यते, पाशप्रधानो मार्ग पाशमार्ग पाशकूटवागुरान्वितो मार्ग इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेनबस्त्येन गम्यते, तत्यथा सुवर्णाभूम्यांचारुदत्तोगत इति, पक्षिमार्गोयत्रभारुण्डादिपक्षिभिर्देशान्तरमवाप्यते,छत्रमार्गायत्र छत्रमन्तरेणगन्तुंन शक्यते, जलमार्गोयत्र नावादिनागम्यते, आकाशमार्गो विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको 'द्रव्ये' द्रव्यविषयेऽवगन्तव्य इति । नि. [१०९] खेत्तंमिमि खेत्ते काले कालो जहिं हवइ जो उ। भावंमि होति दुविहो पसत्य तह अप्पसत्थो य।। वृ. क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गेःपर्यालोच्यमाने यस्मिन् 'क्षेत्रे ग्रामनगरादौ प्रदेशे वाशिलाक्षेत्रादिके वा क्षेत्रेयोयाति मार्गोयस्मिन्वाक्षेत्रे व्याख्यायतेस क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे त्वालोच्यमाने द्विविधो भवति मार्ग, तद्यथा प्रशस्तोऽप्रशस्तश्चेति । नि. [११०] दुविहंमिवि तिगभेदो नेओ तस्स विणिच्छओ दुविहो । सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं ॥ वृ.प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येक त्रिविधो भेदोभवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानंचेति, प्रशस्तस्तुसम्यग्दर्शनशानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'विनिश्चयो' निर्णयः फलं कार्यं निष्ठा द्वेधा, तद्यथा-प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति।इहतुपुनः प्रस्तावः' अधिकारः 'सुगतिफलेन' प्रशस्तमार्गेणेति। नि. [१११] दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं । खेमे य खेमरूवे चउक्कगं मग्गमादीसु॥ वृ.तत्राप्रशस्तं दुर्गतिफलं मागं प्रतिपिपादयिषुस्तकर्तृनिर्दिदिक्षुराह-दुर्गतिफलं यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषांप्रावादुकानांत्रीणि त्रिष्ट्यधिकानिशतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वंचतेषां मिथ्यात्वोपहतहष्टतयाविपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा॥१॥ असियसयं किरियाणं अकिरियवाईण होइ चुलसी। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतंमार्गभङ्गद्वारेणनिरूपयितुमाह, तद्यथा-एकः क्षेमोमार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलववृक्षोपेतजलाश्रयकुलत्वाच्च १, तथा परः क्षेमो निश्चौरः किंत्वक्षेमरूप उपलशकलाकुलगिरिनदिकण्टकगशिताकुलत्वेन विषमत्वात्, तथाऽपरोऽक्षेमस्तकरादिभयोपेतत्वाक्षेमरूपश्चोपलशकलाधभावतया समत्वात्, तथाऽन्यो न क्षेमोनापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोष-दुष्टत्वाचेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा-ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधु क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयमङ्गकगता निवाः, परतीर्थिका गृहस्थाश्चरमभङ्गकवर्तिनोद्रष्टव्याः।एवमनन्तरोक्तया प्रक्रियया चतुष्ककं भङ्गक Page #216 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-११, २१३ -- - - - - - चतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यच्चापि समाध्यादावायोज्यमिति । सम्यगमिथ्यात्वमार्गयोः स्वरूपनिरूपणायाहनि. [११२] सम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गोउ ।। वृ.सम्यगज्ञानं दर्शनं चारित्रंचेत्ययंत्रिविधोऽपि भावमार्गः सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा-यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्ण' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफल-निबन्धनत्वेन विशेषणार्थ इति । नि. [११३] इड्ढिरससायगया छज्जीवनिकायघायनिरया। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ॥ वृ. स्वयूथ्यानामपि पावस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमाश्रितत्वं दर्शयितुमाह-ये केचनअपुष्टधर्माणः शीतलविहारिणःऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण आधाकर्माधुपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताच अपरेभ्यो ‘मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुप- भोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मा-गाश्रिताभवन्तिातुशब्दादेतेऽपिस्वयूथ्याएतदुपदिशन्तः कुमाश्रिता भवन्तीति किंपुनस्तीर्थिका इति। नि. [११४] तवसंजमप्पहजा गुणधारी जे वयंति सब्भावं । सव्वजगजीवहियं तमाहु सम्मप्पनीयमिणं ।। वृ.प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह-तपः-सबाह्याभ्यन्तरंद्वादशप्रकारं तथा संयमः-सप्तदशभेदःपञ्चाश्रवविरमणादिलक्षणस्ताभ्यांप्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं ‘सद्भावं' परमार्थ जीवाजीवादिलक्षणं वदन्ति' प्रतिपादयन्ति, किंभूतं!- सर्वस्मिन् जगति ये जीवास्तेभ्यो हितंपथ्य तद्रक्षणतस्तेषांसदुपदेशदानतो वा तंसन्मार्ग सम्यङ्मार्गज्ञाः 'सम्यग् अविपरीतत्वेनप्रणीतम् 'आहुः' उक्तवन्त इति। नि. [११५] पंथो मग्गो नओ विहा धिती सुगती हियं (तह) सुहं च । पत्यं सेयं निव्वुइ निव्वाणं सिवकरंचेव ।। वृ.-साम्प्रतंसन्मार्गस्यैकार्थिकान्दयितुमाह-देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, सचेहभावमार्गाधिकारे सम्यकत्वावाप्तिरूपोऽवगन्तव्यः १, तथा मार्ग' इति पूर्वस्माद्विशुध्ध्या विशिष्टतरो मार्गः, सचेह सम्यगज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा न्याय' इति निश्चयेनायनंविशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यकचारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यकचारित्रेण योगो भवतीत्यतोन्यानशब्देनात्र चारित्रयोगोऽभिधीयतइति ३, तथा विधि रिति विधानं विधि: सम्यगज्ञानदर्शनयोर्योगपद्येनावाप्ति ४ । Page #217 -------------------------------------------------------------------------- ________________ २१४ सूत्रकृताङ्ग सूत्रम् १ /११ / ४९६ / नि. [११५] -तथा 'धृति' रिति धरणं धृति सम्यगदर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति' रिति शोभना गतिरस्मात् ज्ञानाच्चारित्राच्चेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषत्वादत्रैवान्तर्भावोऽवगन्तव्यः ६, तथा 'हित' मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं, तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्यमिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गत्वे सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख' मिति सुखहेतुत्वात्सुखम-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था ८ 2 - तथा 'पथ्य' मिति पथि-मोक्षमार्गे हितं पथ्यं तच क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्त सर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुत्वान्निवृति क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः ११, तथा 'निर्वाण'मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्ति १२, तथा 'शिवं' मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमनमिति १३, एवमेतानि मोक्षमार्गत्वेन किञ्चिदभेदाद् भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकार्थिका मोक्षमार्गस्येति । गतो नामनिष्पत्रो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (४९७) कयरे मग्गे अक्खाए, माहणेणं मईमता ? | जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ वृ. विचित्रत्वात्रिकालविषत्वाच्च सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामी सुधर्मास्वामिनमिदमाह, तद्यथा- 'कतरः किंभूतो 'मार्ग' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः ' प्रतिपादितो भगवता त्रैलोक्योद्धरणसमर्थेनैकान्तहितैषिण मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः - तीर्थकृत्तेन तमेव विशिनष्टि-मति-लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतनागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, -यं प्रशस्तं भावमार्गं मोक्षगमनं प्रति 'ऋजु' प्रगुणं यत्रवस्थितपदार्थस्वरूपनिरूपणद्वारेणावक्रं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात्, तदेवंभूतं मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः 'ओध' मिति भवौधं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणतमग्र्या एव दुष्प्रापत्वात्, तदुक्तम्- "माणुस्सखेत्तजाईकुलरूवारोगमा - उयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ॥ इत्यादि ॥ तं मग्गं नुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । मू. (४९८) जाणासि णं जहा भिक्खू!, तं णो बूहि महामुनी ॥ वृ. स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषैकान्तकौटिल्यवक्र रहितस्तं मार्ग, नास्योत्तरः प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः - अवदातो निर्दोष: पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणत्वाहुः खानि कर्माणि तेभ्यो विमोक्षणं' - विमोचकं तमेवंभूतं मार्गमनुतरं निर्दोषं सर्वदुः खक्षयकारणं । हे भिक्षो ! तथा त्वं जानीषे 'ण' मिति वाक्यालङ्कारे तथा तं मार्ग Page #218 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-११, २१५ सर्वज्ञप्रणीतं नः' अस्माकं हे महा मुने ! 'ब्रूहि' कथयेति । मू. (९९) जइ नो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज्ज? कहाहि नो ।। वृ. यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मप्रत्ययेनैव प्रवृत्ति स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह-यदा कदाचित् ‘नः' अस्मान् ‘केचन' सुलभबोधयः संसारोद्विग्नाः सम्यग्मार्ग पृच्छेयुः, के ते? 'देवाः' चतुर्निकायाः तथा मनुष्याः तथा मनुष्याःप्रतीताः, बाहुल्येनतयोरेव प्रश्नसद्-भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ।। मू. (५००) जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥ वृ.एवं पृष्टः सुधर्मस्वाम्हायह-यदि कदाचित् 'वः' युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यगमार्गं पृच्छेयुस्तेषांपृच्छताम् ‘इम मिति वक्ष्यमाणलक्षणंषडजीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिज्जेति प्रतिकथयेत् । ‘मार्गसारम्' मार्गपरमार्थं यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः श्रृणुत यूयमिति, पाठान्तरं वा "तेसिंतुइमंमग्गंआइक्खेज्ज सुणेह मे'त्ति उत्तानार्थम् । पुनरपि मार्गामिष्टवं कुर्वन्सुधर्मस्वाम्याहमू. (५०१) अनुपुब्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुव्वं, समुदं ववहारिणो । वृ.यथाऽहम् ‘अनुपूर्वेण' अनुपरिपाट्या कथयामितथा शृणुत, यदिवायथा चानुपूर्व्या सामग्याचा मार्गोऽवाप्यते तच्छृणुत, तद्यथा-'पढमिल्लुगाणउदए' इत्यादि तावद्यावत् ‘बारसविहे कसाए खविएउवसामिएवजोगेहि । लब्भइ चरित्तलंभो" इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि किंभूतंमागं ? तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत्दुरध्यवसेयत्वात् 'महाघोरं महाभयानक 'काश्यपो' महावीरवर्धमानस्वामी तेन ‘प्रवेदितं प्रणीतंमार्गकथयिष्यामीति,अनेन स्वमनीषिकापरिहारमाह, यं शुद्ध मार्गम् ‘उपादाय' गृहीत्वा 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाद्दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह - व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकावाधसुखैषिणः सम्यग्दर्शनादिनामार्गेण मोक्ष जिगमिषवोदुस्तरंभचौघं तरन्तीति मू. (५०२) अतरिंसु तरंतेगे, तरिस्संति अनागया। तं सोचा पडिवक्खामि, जंतवो तं सुणेह मे।। घृ.मार्गविशेषणायाह-यंमागंपूर्वमहापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् ‘अतार्षुः' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्येयाः सत्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽनागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति । तदेवं कालत्रयेऽपिसंसारसमुद्रोत्तारकं मोक्षगमनैककारणंप्रशस्तंभावमार्गमुत्पन्नदिव्य Page #219 -------------------------------------------------------------------------- ________________ २१६ सूत्रकृताङ्ग सूत्रम् १/११/-/५०२ ज्ञानैस्तीर्थकृभिरुपदिष्टं, तं चाहं सम्यक् श्रुत्वाऽवधार्य च युष्माकं शुश्रूषूणां 'प्रतिवक्ष्यामि' प्रतिपादयिष्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दशयितुमाह-हे जन्तवोऽभिमुखीभूयतंचारित्रमार्गममकथयतः शृणुत यूयं, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति । मू. (५०३) पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ।। वृ. चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येवेपृथिव्याश्रिता वाजीवाः पृथ्वीजीवाः, तेच प्रत्येकशरीरत्वात् 'पृथक्' प्रत्येकं सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपश्चजीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीवाः, तदेवं चतुर्महाभूतसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथकत्वमप्यस्तीत्यस्थार्थस्य दर्शनाय पुनः पृथक्सत्त्वग्रहणमिति। वनस्पतिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचिभेदान्निर्दिदिक्षुराह-तत्र तृणानिदर्भवीरणादीनि वृक्षाः-चूताशोकादयः सह बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते। मू. (१०४) अहावरा तसा पाणा, एवं छक्काय आहिया। एतावए जीवकाए, नावरे कोइ विजई ।। वृ. षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, 'अथ' अनन्तरम् 'अपरे' अन्ये त्रसन्तीति त्रसाः-द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरिन्द्रियाः प्रत्येक पर्याप्तकापर्याप्तकभेदात्षड्विधाः, पञ्चेन्द्रियास्तु संश्यसंज्ञिपर्याप्तकापर्याप्तकभेदाञ्चतुर्विधाः ।। तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रात्मकतया षड्जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान् एतभेदात्मक एव संक्षेपतो 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिज्जसंस्वेदजादेरत्रैवान्तर्भावानापरो जीवराशिर्विद्यतेकश्चिदिति।तदेवंषड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तद्दर्शयितुमाहमू. (५०५) सव्वाहिं अनुजुत्तीहि, मतिमं पडिलेहिया। सब्वे अक्कंतदुक्खा य, अतो सव्वे न हिंसया। वृ.सर्वायाःकाश्चनानुरूपाः-पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानेकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः ‘मतिमान्' सद्विवेकी पृथिव्यादिजीवनिकायान् 'प्रत्युपेक्ष्य' पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विषः Page #220 -------------------------------------------------------------------------- ________________ २१७ श्रुतस्कन्धः - १, अध्ययनं-११, सुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्चतप्रसाधिकाःसंक्षेपेणेमाइति-सात्मिकापृथिवी, तदात्मनांविद्रुमलवणोपलादीनां समानजातीयाङ्कुरसद्भावाद्, अर्थोविकाराङ्कुरवत्। तथा सचेतनमम्भः, भूमिखननाविकृतस्वभावसंभवाद्, दर्दुरवत् । तथा सात्मकंतेजः, तद्योग्याहारवृद्धया वृद्धयुपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरश्चीनगतिमत्त्वात्, गोवत् । तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत्, तथा क्षतसंरोहणाहारोपादानदीहृदसद्भावस्पर्शसंकोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धि। द्वीन्द्रियादीनांतु पुनः कृम्यादीनां स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दानिवर्तितव्यमिति॥ मू. (५०६) एयंखु नाणिणो सारं, जन हिंसति कंचण। अहिंसा समयं चेव, एतावंतं विजाणिया ।। वृ.एतदेवसमर्थयन्नाह-खुशब्दोवाक्यालङ्कारेऽवधारणेवा, एतदेव' अनन्तरोक्तंप्राणातिपातनिवर्तनं 'ज्ञानिनो' जीवस्वरूपतद्वधकर्मबन्धवेदिनः ‘सारं परमार्थतः प्रधानं, पुनरप्यादरख्यापनार्थमेतदेवाह-यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेवसारतरंज्ञानं यत्राणातिपातनिवर्तनमिति, ज्ञानमपितदेव परमार्थतो यत्परपीडातोनिवर्तनं, तथा चोक्तम् - ॥१॥ "किं ताए पढियाए ? पयकोडीए पलालभूयाए । जस्थित्तियं न नायं परस्स पीडा न कायव्वा ॥ तदेवमहिंसाप्रधानः समय-आगमः संकेतोवोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ?,एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति। मू. (५०७) उर्ल्डअहे य तिरियं, जे केइ तसथावरा। सम्वत्थ विरतिं विज्ञा, संति निव्याणमाहियं ।। वृ. साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमस्तिर्यक्च ये केचन त्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावराः-पृथिव्यादयः, किंबहुनोक्तेन?, सर्वत्र' प्राणिनित्रसस्थावरसूक्ष्मबादरभेदाभिन्ने 'विरतिं' प्राणातिपातनिवृत्तिं 'विजानीयात् कुर्यात्। परमार्थत एवमेवासौ ज्ञाता भवतियदि सम्यक्रियत इति, एषैवच प्राणातिपातनिवृत्ति परेषामात्मनश्च शान्तिहेतुत्वाच्छान्तिवतते, यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्बिभेति, अपिच-निर्वाणप्रधानैककारणत्वान्निर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवाशान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावदुपशान्तिरूपो निर्वृतिभूतश्च भवति। मू. (५०८) पभूदोसे निराकिच्चा, न विरुज्झेज केणई। मणसा वयसा चेव, कायसा चेव अंतसो । वृ. किञ्चान्यत्-इन्द्रियाणां प्रभवतीति प्रमुर्वश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि Page #221 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/११/-/५०८ कर्माण्यभिभूय मोक्षमार्गे पालयितव्ये प्रभुः समर्थः, स एवंभूतः प्रभुः दूषयन्तीति दोषा- मिथ्यात्वाविरतिप्रमादकषाययोगास्तान्। ‘निराकृत्य' अपनीय केनापि प्राणिना सार्धं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात्, त्रिविधेनापि योगेनेति मनसा वाचा कायेन चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति । उत्तरगुणानधिकृत्याह मू. (५०९) संवुडे से महापत्रे, धीरे दत्तेसणं चरे । एसणासमिए निचं, वज्जयंते अनेसणं ॥ २१८ वृ. आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञोविपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीष हैर्न क्षोभ्यते, तदेव दर्शयति ― आहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुर्नित्य- मेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य शेषाभिर- पीर्यासमित्यादिभिः समितो द्रष्टव्य इति । भू. (५१०) भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं । तारितं तु न गिण्हेजा, अन्नपाणं सुसंजए ॥ वृ. अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्मारम्भैरुपतापयित्वा तं साधुम् 'उद्दिश्य' साध्वर्थं यत्कृतं तदुपकल्पितमाहारोपकरणादिकं । ‘तादृशम्’ आधाकर्मदोषदुष्टं 'सुसंयतः' सुतपस्वी तदन्नं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद् एवं तेन मार्गोऽनुपालितो भवति । यू. (५११) पूईकम्पं न सेविज्जा, एस धम्मे वुसीमओ । जं किंचि अभिकंखेजा, सव्वसो तं न कप्पए । वृ. किञ्च आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः - अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ' त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किञ्चयदप्यशुद्धतेवानभिकाङ्क्षेत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहरादिकंतत् 'सर्वशः’ सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति । मू. (५१२) हनंतं नानुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥ - वृ. किञ्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिपु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणीं धर्मबुद्धया कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूताक्रियायाः कर्त्रा किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टथेऽपृष्टो वा तदुपरोधाद्भयाद्वा तं प्राणिनो घ्नतं नानुजानीयात्, किंभूतः सन् ? - -'आत्मना' मनोवाक्कायरूपेण गुप्त आत्मगुप्तः तथा 'जितेन्द्रियो' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत - सावधानुष्ठानानुमर्ति परिहर्तुकाम आह Page #222 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-११, _२१९ २१९ भू. (५१३) तहा गिरं समारब्ध, अत्थि पुण्णंति नो वए। अहवा नस्थि पुण्णति, एवमेयं महब्भयं ।। वृ. केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति?,एवंभूतां गिरं 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत । मू. (५१४) दानट्टया य जे पाणा, हम्मति तसथावरा। तेसिं सारखणट्टाए, तम्हा अस्थित्ति नो वए।। वृ.किमर्थं नानुमन्येत इत्याह-अत्रपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत, तत्र यस्माद 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्ठाने पुण्यमित्येवंनो वदेदिति। मू. (५१५) जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं। तेसिं लाभंतरायंति, तम्हा नस्थित्ति नो वए। वृ. यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'तद्' अन्नपानादिकंकिलधर्मबुद्धया उपकल्पयन्ति' तथाविधप्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यस्मात् तेषाम्' आहारपानार्थिनां तत् 'लाभान्तरायो' विघ्नो भवेत्, तदभावेन तुतेपीङयेरन्, तस्मात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपिनो वदेदिति। मू. (५१६) जेय दानं पसंसंति, वहमिच्छंति पाणिणं। जे यणं पडिसेहंति, विचिच्छेयं करंति ते॥ वृ.एनमेवार्थपुनरपिसमासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकंदानं बहूनां जन्तुनामुपकारीतिकृत्वा प्रशंसन्ति' श्लाघन्ते ते परमार्थानभिज्ञाः प्रभूततरप्राणिनांतप्रशंसाद्वारेण 'वधं' प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपिच किल सूक्ष्मधियो चयमित्येवं मन्यमानाआगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्था प्राणिनां 'वृत्तिच्छेदं' वर्तनोपायविघ्नं कुर्वन्तीति ॥ तदेवं राज्ञा वेश्वरेण कूपतडागयागसत्रदानाधुद्यतेन पुण्यसद्भाव पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाहमू. (५१७) दुहओवि ते न भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेचा णं, निव्वाणं पाउणंति ते॥ वृ. यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एवस्यात्प्रीणनमात्रंतुपुनः स्वल्पानांस्वल्पकालीयमतोऽस्तीतिनवक्तव्यं नास्तिपुण्यमित्येवं प्रतिषेधेऽपितदर्थिनामन्तरायः स्यादित्यतो 'द्विघापि' अस्ति नास्ति वापुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्नभाषन्ते, किंतुष्टः सद्भिर्मोनसमाश्रयणीयं, निर्बन्धे त्वस्माकंद्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च - ॥१॥ सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, ___ व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । Page #223 -------------------------------------------------------------------------- ________________ २२० सूत्रकृताङ्ग सूत्रम् १/११/-/५१७ शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनमावं व्रजति मुनिगणः कूपवप्रादिकार्ये ॥ तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो' लाभो भवतीत्यतस्तमायं रजसो मौनेनानवद्यभाषणेन वा 'हित्वा' त्यक्त्वा 'ते' अनवद्यभाषिणो 'निर्वाण' मोक्षं प्राप्नुवन्तीति ॥ मू. (५१८) निव्वाणं परमं बुद्धा, नक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निव्वाणं संधए मुनी ॥ वृ. अपिध-निर्वृतिर्निर्वाणं तत्परमं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादित्वेन प्रधानानित्येतद्दष्टान्तेन दर्शयति-यथा 'नक्षत्राणाम्' अश्विन्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चन्द्रमाः । एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपन्निदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगतत्तत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्वाणं प्रधानं तस्मात्कारणात् 'सदा' सर्वकालं 'यतः' प्रयतः प्रयत्नवा इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थं सर्वा क्रियाः कुर्यादित्यर्थ ॥ पू. (५१९) वुज्झमाणाण पाणाण, किच्चंताण सकम्भुणा । आघाति साहु तं दीवं, पतिट्ठेसा पवुच्चई ॥ वृ. किञ्चान्यत्-संसारसागरोतोभिर्मिथ्यात्वकषायप्रमादादिकैः 'उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितै करतोऽ कारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, यथा समुद्रान्तः पतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति । एवं तं तथाभूतं 'द्वीपं सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतु परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्ति प्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ॥ मू. (५२०) आयगुत्ते सया दंते, छिन्नसोए अनासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमनेलिसं ॥ वृ. किंभूतोऽसावाश्वासद्वीपो भवति ? कीद्दग्विधेन वाऽसावाख्यायत इत्येतदाहमनोवाक्कायैरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा 'सदा' सर्वकालमिन्द्रियनोइन्द्रिरयदमनेन दान्तोवश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः । तथा छित्रानि-त्रोटितानि संसारास्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत आश्रवः प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स समस्तदोषापेतं धर्ममा- ख्याति, किंभूतं धर्मं ? - 'प्रतिपूर्ण' निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् 'अनीध्शम्' अनन्यसध्शमद्वितीयमितियावत् ॥ पू. (५२१) - एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽहतमेव अविजाणंता, अबुद्धा बुद्धमानिनो । बुद्धा मोत्ति यमत्रंता, अंत एते समाहिए ।। Page #224 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-११, २२१ वृतमेवंभूतंशुद्धं परिपूर्णमनीशंधर्ममजानाना अप्रबुद्धा' अविवेकिनः पण्डितमानिनो' वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति। मू. (५२२) ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं। भोच्चा झाणं झियायंति, अखेयन्नाऽसमाहिया॥ वृ.किमिति तेतीर्थिका भावमार्गरूपात्समाधेदुरे वर्तन्त इत्याशङ्कयाह-'तेच' शाक्यादयो जीवाजीवानभिज्ञतया बीजानि' शालिगोधूमादीनि, तथा शीतोदकम्' अप्रासुकोदकं, तांश्चोद्दिश्य तद्भक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमविवेकितया तेशाक्यदयो ‘भुक्त्वा' अभ्यवहत्य पुनः सातद्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आर्त ध्यानं ध्यायन्ति, न दैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम् - ॥१॥ "ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च । यस्मिन्परिग्रहो ६ष्टो, ध्यानं तत्र कुतः शुभम् ? ॥ इति, ॥१॥ (तथा) “मोहस्यायतनं धृतेरपचयः शान्तेः प्रतीपो विधि व्यक्षिकषेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।। तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः इति । अपिच-ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिकंरागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति,तथाचोक्तम्'मणुण्णं भोयणंभुचे'त्यादि, तथा मांसंकल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणानिर्दोषंमन्यन्ते, बुद्धसङ्घादिनिमितंचारम्भं निर्दोषमिति, तदुक्तम्॥१॥ "मंसनिवत्तिं काउं सेवइदंतिक्कगंति धणिभेया। इयचइऊणारंभ परववएसा कुणइ बालो।। नचैतावतातन्निर्दोषता, न हिलूतादिकंशीतलिकाधभिधानान्तरमात्रेणान्यथात्वं भजते, विषं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशोत्पादावभिदधतामनैपुण्यमाविष्करणीयं तदेवंतेवराकाः शाक्यादयोमनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता मोक्षमार्गाख्याद्भावसमाधेरसंवृततयादूरेणवर्तन्त इत्यर्थः मू. (५२३) जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं॥ वृ.यथा चैतेरससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेण दर्शयितुमाहयथेत्युदाहरणोपन्यासार्थ 'यथा' येनप्रकारेण 'ढकादयः' पक्षिविशेषाजलाशयाश्रया आमिषजीविनो मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमातरौद्रध्यानरूपताऽत्यन्तकलुषमधमंच भवतीति ! मू. (५२४) एवं तु समणा एगे, मिच्छद्दिट्टी अनारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ।। Page #225 -------------------------------------------------------------------------- ________________ २२२ सूत्रकृताङ्ग सूत्रम् १/११/-/५२४ वृ. दार्शन्तिकं दर्शयितुमाह 'एव'मिति तथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तदध्यायिनश्चकलुषाधमा भवन्ति एवमेव मिथ्याष्टियःश्रमणा 'एके शाक्यादयोऽनार्यकर्मकारित्वात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयायिनश्च कङ्मा इव कलुषाधमा भवन्तीति ।। किञ्चमू. (५२५) सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती। उम्मग्गगता दुखं, धायमेसंति तंतहा ।। पृ. 'शुद्धम् अवदातंनिर्दोष मार्ग' सम्यग्दर्शनादिकंमोक्षमार्गकुमार्गप्ररूपणाया विराध्य' 'दूषयित्वां 'इह' अस्मिन संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके' शाक्यादयः स्वदर्शनानुरागेण महामोहाकलितान्तरात्मानो दुष्टा पापोपादानता मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेणसंसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता। दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथासन्मार्गविराधना उन्मार्गगमनंच 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः । मू. (५२६) जहा आसाविणिं नावं, जाइअंधो दुरुहिया। इच्छई पारमागंतुं, अंतराय विसीयति ।। वृ.शाक्यादीनांचापायंदिदर्शयिषुस्तावद्दृष्टान्नमाह-यथा जात्यन्ध आविणी' शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासी सच्छिद्रतया पारगामी भवत, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः।। मू. (५२७) एवं तु समणा एगे, मिछिद्दिट्टी अनारिया। सोयं कासिणमावन्ना, आगंतारो महब्भयं। वृ. दाटन्तिकमाह-एवमेव श्रमणा 'एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावनोतःकर्माश्रवरूपं कृत्स्नं संपूर्णमापन्नाः सन्तस्ते 'महाभयं पौनःपुन्येनसंसारपर्यटनया नारकादिस्वभावं दुःखम् ‘आगन्तारः' आगमनशीला भवन्ति, न तेषां संसारोदधेरामाविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः। मू. (५२८) इमंच धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्वए। वृ.यतः शाक्यादयः श्रमणाः मिथ्याध्टयोऽनार्याकृत्स्नंस्रोतः समापन्नाः महाभयमागन्तारो भवन्तितत इदमुपदिश्यते-'इममितिप्रत्यक्षासन्नवाचित्वादिदमोऽनन्तरंवक्ष्यमाणलक्षणंसर्वलोकप्रकटंच दुर्गतिनिषेधेन शोभनगतिधारणात् 'धर्मं श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्वयतिरेकं दर्शयति। यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारोमहामयं गन्तारोभवन्ति, इमं पुनर्धर्मम् आदाय' गृहीत्वा 'काश्यपेन' श्रीवर्धमानस्वामिना 'प्रवेदितं' प्रणीतं 'तरेत्' लङ्घयेद्भावस्रोतः संसारपर्यटनस्वभावं,तदेव विशिनष्टि-'महाघोरं' दुरुत्तरत्वान्महाभयानकं, तथाहि तदन्तर्वर्तिनो जन्तवोगर्भादर्भजन्मतोजन्ममरणान्मरणं दुःखामुखमित्येवमरधट्टीघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते । तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षा तस्मैआत्मत्राणाय परिः-समन्तात्परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः । Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ११, २२३ क्वचित्पश्चार्धस्यान्यथा पाठः- 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षु' साधुः ग्लानस्य वैयावृत्यम् 'अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति कथं संयमानुष्ठाने परिव्रजेदित्याह - मू. (५२९) विरए गामधम्मेहिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए । व. ग्रामधर्मा-शब्दादयो विषयास्तेभ्यो विरता मनोन्नरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वंश्च संयमानुष्ठाने परिव्रजेदिति । मू. (५३०) अइमानं च मायं च तं परित्राय पंडिए । सव्वमेयं नि राकिञ्चा, निव्वाणं संघए मुनी ॥ 119 11 वृ. संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, चशब्दादतिलोभंच, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत्, सति च कषायकदम्बके न सम्यक् संयमः सफलतां प्रतिपद्यते, तदुक्तम्"सामन्नमनुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्कं व, निष्फलं तस्स सामण्णं ॥ - तन्निष्फलत्वे च न मोक्षसंभवः, तथा चोक्तम् - "संसारादपलायनप्रतिमूवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् । मृत्यो! मुञ्च जराकरेण परुषं केशेषु मा मा ग्रही रेहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ? ॥ इत्यादि । तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्त भावानुसंघनया निर्वाणानुसंधानमेव श्रेय इति संघए साहुधम्मं च, पावधम्मं निराकरे । मू. (५३१) उवहाणवीरिए भिक्खू, कोहं मानं न पत्थए । वृ. किञ्च साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत्, तद्यथा प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं वृद्धिमापादयेदिति । पाठान्तरं वा 'सद्दहे साधुधम्मंच' पूर्वोक्त विशेषणविशिष्टं साधुधर्मं मोक्षमार्गत्वेन श्रद्दधीत निशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं पापोपादानकारणं धर्मं प्राण्युपमर्देन प्रवृत्तं निराकुर्यात्, तथोपधानं तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युंपधानवीर्यः, तदेवंभूतो भिक्षु क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति । पू. (५३२) #19 11 जे य बुद्धा अतिक्कंता, जे य बुद्धा अणागया । संति तेसिं पट्टाणं, भूयाणं जगती जहा ॥ Page #227 -------------------------------------------------------------------------- ________________ २२४ सूत्रकृताङ्ग सूत्रम् १/११/-१५३२ वृ. अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः-तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतंभावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति। न केवलमुपन्यस्तवन्तोऽनुष्ठितवंतश्चेत्येतद्दर्शयति-शमनं शान्तिः-भावमार्गस्तेषामतीतानागतवर्तमानकालभाविना बुद्धानां प्रतिष्ठानम्-आधारोबुद्धत्वस्यान्यथानुपपत्तेः, यदिवाशान्तिःमोक्षः स तेषां प्रतिष्ठानम्-आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च गम्यते। शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह-'भूतानां स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठान एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति । प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाहमू. (५३३) अहणं वयमावन्नं, फासा उञ्चावया फुसे। न तेसु विणिहण्णेजा, वारण व महागिरी ।। वृ. 'अथ' भावमार्गप्रतिपत्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं स्पर्शा-परीषहोपसर्गरूपाः 'उच्चावचा गुरुलघवो नानारूपा वा 'स्पृरोयुः' अभिद्रवेयुः, सच साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरा च न तैरनुकूलप्रतिकूलैर्विहन्यात्, नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव?, महावातेनेव महागिरिः-मेरुरिति ।। परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्रच ईटान्तः, तद्यथा-कश्चिद्गोपस्तदहर्जातंतर्णकमुक्षिप्यगवान्तिकंनयत्यानयतिच, ततोऽसावनेनैव चक्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाबिहायनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति । मू. (५३४) संवुडे से महापन्ने, धीरे दत्तेसनं चरे। निव्वुडे कालमाकंखी, एवं केवलिणो मयं ।। वृ. साम्प्रतमध्ययनार्थमुपसंजिहीर्घरुक्तशेषमधिकृत्याह-ससाधुःएवंसंवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासी महाप्रज्ञः-सम्यग्दर्शनज्ञानवान्, तथा धी:-बुद्धिस्तया राजत इतिधीरः परीषहोपसर्गाक्षोभ्योवास एवंभूतः सन्परेण दत्ते सत्याहारादिकेएषणांचरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निवृतः कषायोपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाङक्षेत् एतत्' यत्मया प्राक्प्रतिपादितंतत् 'केवलिनः सर्वज्ञस्य तीर्थकृतो मतं ।। एतच जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-११ समाप्तम् मुनि दीपरत्नसागरेण संशोथिता सम्पादिता शीलावाचार्य विरचिता प्रथमश्रुतस्कन्धस्य एकादेशअध्ययन टीका परिसमाता। Page #228 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः १, अध्ययनं - १२, अध्ययनं -१२ समवसरणं वृ. उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं । तद्यथा - कुमार्गाभिधायिनां क्रियाऽक्रियाऽज्ञानिक वैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तन्निक्षेपार्थं निर्युक्तिकृदाहनि. [११६] समवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगं दव्वे । २२५ खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि || वृ. समवरणमिति 'सृगता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग्एकीभावेनावसरणम् - एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि, न केवलं समाधौ षड्विधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः समवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापद भेदात्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृज्जन्मनिष्क्रमणप्रदेशादी मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां स्वतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु द्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । भावसमोसरणं पुन नायव्वं छव्विहंमि भावंमि । नि. [११७] अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ।। वृ. इदानीं भावसमवसरणमधिकृत्याह- भावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधं, मिध्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभिदेन षड्विधा भवन्ति । औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धिर्दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वं चारित्रं चेति । जीवत्वभव्यत्वाभव्यत्वादिभेदात्पारिणामिकस्त्रिविधः । सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्याधेष्टिसम्यग्दृष्टयविरतविरतानामीदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिक सम्यग्धष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयि 215 Page #229 -------------------------------------------------------------------------- ________________ २२६ सूत्रकृताङ्ग सूत्रम् १/१२/-1५३४/ नि. [११७] कौपशमिकक्षायोपशमिकपारिणामिकभावसभावाच्चेति, पञ्चकसंयोगस्तु क्षायिक-सम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधाप्रदेशान्तरेऽभिहिता इति।तदेवं षड्विधे भावे भावसमवसरणंभावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं नियुक्तिकृदेव दर्शयति क्रियां-जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपस्र्ता अक्रियावादिनः,तथा अज्ञनिनो-ज्ञाननिह्वववादिनः तथा वैनयिका' विनयेन चरन्तित प्रयोजना वा वैनयिकाः,एषाचतुर्णामपि सप्रभेदानामाक्षेपंकृत्वायत्रविक्षेपः क्रियतेतद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेणस्वरूपमाविष्कुर्वनाहजीवा-दिपदार्थसम्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां तेअस्तीतिक्रियावादिनः,तेचैववादित्वान्मिथ्याध्ययः, तथाहि-यदिजीवोऽस्त्येवे त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद्, एवं च नानेकं जगत् स्यात्, नचैतदृष्टमिष्टं वा । नि. [११८] अस्थिति किरियवादी वयंति नत्यि अकिरियवादी य। अन्नाणी अन्नाणं विणइत्ता वेणइयवादी ।। वृ.तथा नास्त्येवजीवादिकः पदार्थइत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्याष्टयएच, तथाहि-एकान्तेन जीवास्तित्वप्रतिषेधेकर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिति । तथानज्ञानमज्ञानंतद्विद्यतेयेषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्याष्टय एव, तथाहिअज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुंपार्यते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्याटयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति एषां च क्रियावाद्यादीनां स्वरूपं तनिराकरणंचाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाहनि, [११९] असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती। ___ अन्नाणिय सत्तही वेणइयाणंच बत्तीसा ।। नि. [१२०] तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे । सब्भावनिच्छयत्थं समोसरणमाहु तेणंतु॥ नि. [१२१] सम्मद्दिडी किरियावादी मिच्छा य सेसगा वाई। जहिऊण मिच्छवायं सेवह वायं इमं सच्चं॥ वृ. क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्था परिपाट्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालस्वभावनियतीश्वरात्मपदानि पञ्चव्यवस्थाप्या । ततश्चैवं चारणिकाप्रक्रमः, तद्यथा-अस्ति जीवः स्वतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चत्वारः कालेन लब्धाः, एवं For Priva Page #230 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१२, २२७ स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकचतुर एव लभन्ते, ततश्चपञ्चापि चतुष्कका विंशतिर्भवन्ति, साऽपिजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्यतदधः स्वपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधःकालयदृच्छानियतिस्वभावेश्वरात्मपदानिषड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयंनास्तिजीवः स्वतःकालतः,तथा नास्तिजीवः परतःकालतः, एवं यद्दच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौभङ्गको लभ्येते, सर्वेऽपिद्वादश, तेऽपिचजीवादिपदार्थसप्तकेन गुणिता-श्चतुरशीतिरिति, तथाचोक्तम्॥१॥ “कालयदृच्छानियतिस्वभावेश्वरात्मतश्चतुरशीति । नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः॥ साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्येवमभ्युपगभवतां सप्तषष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्यतदधोऽमीसप्त भङ्गकाः संस्थाप्याः-सत् असत्सदसत्अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति। अभिलापस्त्वयं-सन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन! १, असन् जीवः को वेत्ति? किं वातेज्ञातेन? २, सदसन्जीवः को वेत्ति? किंवा तेन ज्ञातेन ! ३,अवक्त्यो जीवः को वेत्ति किंवा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन? ५, असदवक्तव्यो जीवः को वेत्ति? किंचातेन ज्ञातेन? ६. सदसदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन एवमजीवादिष्वपिसप्त भङ्गकाः, सर्वेऽपि मिलिताषिष्टि, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्ति को वेत्ति? किंवाऽनया ज्ञातया? १, असती भावोत्पत्ति को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पित्ति को वेत्ति किं वाऽनया ज्ञातया ? ३, अवक्तव्या भावोत्पत्तिको वेत्ति किंवाऽनया ज्ञातया? ४,सर्वेऽपि सप्तषष्टिरिति, उत्तरंभङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्ती न संभवतीति नोपन्यस्तम, उक्तंच॥१॥ “अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्ति सदसवेधाऽवाच्या च को वेत्ति? ।। इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेणयोज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका मिलिता द्वात्रिंशदिति, उक्तंच॥१॥ "वैनयिकमतं विनयश्चेतोवाकायदानतः कार्य । सुरनृपतियतिज्ञातिस्थविराघममातृपितृषु सदा ।। सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतीणि त्रिषष्टयधिकानि प्रावादुकमतशतानि भवन्ति। ___तदेवं वादिनां तभेदसंख्यां प्रदाधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह-'तेषां' Page #231 -------------------------------------------------------------------------- ________________ २२८ सूत्रकृताङ्ग सूत्रम् १/१२/-/५३४/नि. [१२१] पूर्वोक्तवादिनांमतम्-अभिप्रायस्तेन यदनुमतं-पक्षीकृतं तेनपक्षीकृतेन पक्षीकृताश्रयणेन प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' अस्मिन्नध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थं, तेनैव कारणेनेदमध्ययनं समवसरणाख्य-माहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति।। इदानीमेतेषां सम्यगमिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-सम्यगअविपरीता द्दष्टि-दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यगद्दष्टि, कोऽसावित्याह-क्रियाम्अस्तीत्येवंभूतां वदितुंशीलमस्येति क्रियावादी, अत्रच क्रियावादीत्येतद अस्थित्ति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूध सम्यग्दष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि -- अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणंअस्तिकालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्-“कालः पचति भूतानी'- त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्तत्वानांस्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति, तथा चोक्तम् - “कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतत्वात्तथा चोक्तम्।-"प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथापुराकृतं, तञ्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - ॥१॥ “यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ।। ॥१॥ "स्वकर्मणा युक्त एव, सर्यो ह्युत्पद्यते जनः। सतथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ इत्यादि । -तथा पुरुषकारोऽपि कारणं, यस्मान पुरुषकारमन्तरेण किञ्चिसिध्यति, तथा चोक्तम् - “न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्नुमर्हति! ।। (तथा) “उद्यमाचारु चित्राङ्गि!, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ।। तदेवंसर्वानपिकालादीन् कारणत्वेनाभ्युपगच्छन्तथाऽऽत्मपुण्यपापपरलोकादिकंचेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवाददैनयिकवादा मिथ्यावादाइत्येवं द्रष्टव्याः, तथाहि-अक्रियावाद्यत्यनास्तिकोऽध्यक्षसिद्धंजीवाजीवादिपदार्थजातमपलुवमिथ्याष्टिरेवभवति, अज्ञानवादीतुसति मत्यादिके हेयोपादेयप्रदर्शक ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवंवदन्कथं नोन्मत्तः स्यात् ?, तथा विनयवाद्यपि विनयादेव केवलात्ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तःतत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, सतत्रास्त्येवजीव इत्येवं Page #232 -------------------------------------------------------------------------- ________________ ॥४ ॥ श्रुतस्कन्धः - १, अध्ययनं-१२. २२९ सावधारणतयाऽभ्युपगमंकुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणंतथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरानिरपेक्षतयैकान्तेनकालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वं, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तत्तजीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितं, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिताना सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रलावली समुदाये भवन्तीदृष्टा,नवटेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तम् - ॥१॥ "कालो सहाव नियई पुवकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव उसमासओ होंति संमत्तं ।। ॥२॥ सव्वेवि य कालाई इह समुदायेण साहगा भणिया । जुञ्जति य एमेव य सम्म सव्वस्स कजस्स ।। ॥३॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि। इह मुग्गरंधणादिवि ता सव्वे समुदिता हेऊ॥ जह नेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्घमुल्लावि ॥ ॥५॥ तह निययवादसुविणिच्छियावि अन्नोऽन्नपक्खनिरवेक्खा । सम्मइंसणसई सव्वेऽवि नया न पाविति ।। जह पुण तेचेव मणी जहा गुणविसेसभागपडिबद्धा। रयणावलित्ति भण्णइ चयंति पाडिक्कसन्नाओ। ॥७॥ तह सव्वे नयवाया जहानुरूवविणिउत्तवत्तव्वा । सम्मइंसणसई लभंति विसेससन्नाओ। ॥८॥ तम्हा मिच्छद्दिट्ठी सव्वेवि नया सपक्खपडिबद्धा। अन्नोन्ननिस्सिया पुण हवंति सम्मत्त सब्भावा ।। यतएवंतस्मात्त्यक्त्वा मिथ्यात्ववाद-कालदिप्रत्येकैकान्तकारणरूपं सेवध्यम्' अङ्गीकुरुध्वं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासन्नं 'सत्यम्' अवितथमिति॥गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (५३५) चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति। किरियं अकिरियं विणियंति तइयं, अन्नाणमाहंसु चउत्थमेव ।। वृ.अस्य च प्राक्तनाध्ययनेन सहायं संबन्धः तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्स्वरूपाविष्करणंचानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो महाप्रज्ञो वीरो दत्तैषणां ॥६॥ Page #233 -------------------------------------------------------------------------- ________________ २३० सूत्रकृताङ्गसूत्रम् १/१२/-/५३५ चरन्नभिनिवृतः सन् मृत्युकालमभिकाङक्षेद् एतत्केवलिनो भाषितं, तथा परतीर्थकपरिहारं च कुर्यात् एतच केवलिनो मतम्, अतस्तत्परिहारार्थं तस्वरूपनिरूपणमनेन क्रियते । 'चत्वारी'ति संख्यापदम- परसंख्या- निवृत्त्यर्थं 'समवसरणानि' परतीर्थकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथाक्रियाम्-अस्तीत्यादिकां वदितुंशीलं येषां ते क्रियावादिनः, तथाऽक्रियां-नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्त्वज्ञानिका इति । मू. (५३६)अन्नाणिया ता कुसलावि संता, असंथुवा नो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहिं, अनानुवीइत्तु मुसं वयंति ।। वृ. तदेवं क्रियाऽक्रियावैनयिकाज्ञानवादिनः सामान्येन प्रदाधुना तद्दूषणार्थं तन्मतोपन्यासं पश्चानुपूळप्यस्तीत्यतः पश्चानुपूर्व्या कर्तुमाह, यदिवैतेषामज्ञानिका एव सर्वापलापितयाऽत्यन्तम-संबद्धा अतस्तानेवादावाह-अज्ञानविद्यते येषामज्ञानेन वाचरन्तीत्यज्ञानिकाः, आज्ञानिकावातावप्रदर्श्यन्ते,तेचाज्ञानिकाः किल वयंकुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितयाअसंबद्धाः, असंस्तुतत्वादेवविचिकित्सा-चित्तविप्नुतिश्चित्तभ्रान्ति संशीतिस्तां न तीर्णा-नातिक्रान्ताः, तथाहि ते ऊचुः । य एतेज्ञानिनस्तेपरस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहि-एके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतंअपरे अंगुष्ठपर्वमात्रंकेचनश्यामाकतन्दुलमात्रमन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्तियद्वाक्यं प्रमाणीक्रियेत, नचासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना, 'नासर्वज्ञः सर्वं जानाती'ति वचनात, तथा चोक्तम् - ॥१॥ “सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम्? ॥ नच तस्य सम्यक्तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहिन विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, नचज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अग्भिागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टत्वादग्दिर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिछेदात्सर्ववादिनां च परस्परविरोधेन पदार्थ स्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः। तथाहि-यद्यज्ञानवान् कथञ्चित्पादेनशिरसि हन्यात्तथापि चित्तशुद्धेर्न तआथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति। तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यक्परिज्ञानविकला इत्यवगन्तव्याः, तथाहि-यत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञ-प्रणीतागमाभ्युपगमवादिनामयथार्थवादित्वं, पत्तेरिति । Page #234 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं- १२, २३१ तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवंतप्रणीतागमवतांन विरोधवादित्वमिति।ननुच स्यादेतद्यदि सर्वज्ञः कश्चित्स्यात्, नचासौ संभवतीत्युक्तंप्राक, सत्यमुक्तमयुक्तंतूक्तं, तथाहि-यत्तावदुक्तं नचासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिनेति' तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागाइवेत्यतः प्रत्यक्षेणानुपलब्धि, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं त्विदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमंप्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, नच तदभावसाधकं प्रमाणमस्ति । तथाहि-न तावदग्दिर्शिप्रत्यक्षेण सर्वज्ञा भावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यत्वाद्, अशून्यत्वाभ्युपगमेचसर्वज्ञत्वापत्तिरिति।नाप्यनुमानेन,तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्येताग्विधंसाहश्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापत्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः। नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात, नापि प्रमाणपञ्चकामावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि-सर्वत्र सर्वदान संभवति तदग्राहकंप्रमाणमित्येतर्वाग्दर्शिनोवक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वातस्यैव सर्वज्ञत्वापत्ते, नचाग्दिर्शिनांज्ञाननिवर्तमानंसर्वज्ञाभावंसाधयति, तस्याव्यापकत्वात्, न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाधनायालं, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि-तप्रणीतागमाभ्युपगमवादिनामेकवाक्यता शरीरमात्रव्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः स्वात्मन्यपि दृष्टो, न च घटेऽनुपपन्नं नामेति । यदप्यभिहितंतद्यथा 'नच ज्ञानंज्ञेयस्य स्वरूपंपरिच्छेत्तुमलं,सर्वार्वाग्भागेन व्यवधानात, सारातीयागस्य च परमाणुरूपतयाऽतीन्द्रियत्वादिति, एतदपि वाङ्मात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अग्दिर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्तेनास्तिव्यवधान, नह्यवयवी स्वावयवैर्व्यवधीयतइति युक्तिसंगतम्, अपिच-अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोस्वित्प्रसज्यप्रितषेधः?,तत्रयदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्त्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति? अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद्, एतञ्चाध्यक्षबाधितं, यतः सम्यगज्ञानादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियार्थी न विसंवाद्यत इति । किंच-अज्ञानप्रमादवद्भिःपादने शिरःस्पर्शनेऽपिस्वल्पदोषतांपरिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगभ्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । E Page #235 -------------------------------------------------------------------------- ________________ २३२ सूत्रकृताङ्ग सूत्रम् १/१२/-/५३६ तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽ कोविदेभ्य एव स्वशिष्येभ्य 'आहुः' कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽज्ञानिकाः, अविज्ञोपचितं कर्म बन्धंन यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाच्चाननुविचिन्त्य भाषणान्मृषा ते सदा वदन्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतोज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाञ्च तेषां मृषावादित्वमिति ॥ मू. (५३७) सच्चं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरंता । जेमे जणा वेणइया अनेगे, पुट्ठावि भावं विणइंसु नाम ॥ वृ. साम्प्रतं वैनयिकवादं निराचिकीर्षु प्रक्रमते सद्यो हितं 'सत्यं' परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो' मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि - सम्यग्दर्शनज्ञान - चारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदारन्तः' प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् क एते इत्येतदाह - ये 'इ' बुद्धया प्रत्यक्षात्रीकृता 'जना इव' प्राकृतपुरुषा इव जना वैनयेन चरन्ति वनयिकाविनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्येवंवादिनः ‘अनेके' बहवो द्वात्रिंशदमेदभिन्न- त्वात्तेषां ते च विनयचारिणः केनचिद्धर्मार्थिना पृष्टाः पृष्टथः सन्तोऽपिशब्दादपृष्टा वा 'भावं' परमार्थं यथार्थोपलब्धं स्वाभिप्रायं वा चिनयादेव स्वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः ' विनीतवन्तः - सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्व कार्यसिद्धिरित्येवं 'व्यनैषुः' विनीतवन्तः - सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहतवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्- “तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥ मू. (५३८) अनोवसंखा इति ते उदाहू, अड्डे स ओभासइ अम्ह एवं । लवावसंकी य अनागएहिं, नो किरियमाहंसु अकिरियवादी ॥ वृ. किंचान्यत्-संख्यानं संख्या परिच्छेदः उप-सामीप्येन संख्या उपसंख्या- सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया- अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रह ग्रस्ता इति एतद् यता विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्यु - दाहतवन्तः, एतच्च ते महामोहाच्छादिता 'उदाहुः' उदाहृतवन्तः यथैवं सर्वस्य विनयप्रतिपत्या स्वोऽर्थ - स्वर्गमोक्षादिकः अस्माकम् 'अवभासते' आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहतिश्च तेषामेवमवगन्तव्या । तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैकस्मात्तदवातयभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं' तदपि सम्यग्दर्शनादिसंबवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहतया न्यक्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः Page #236 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१२, २३३ ___ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुपश्चार्धमाह-लवं-कर्म तस्मादपशङ्कितुम्-अपसर्तुं शीलं येषांते लवापशङ्किनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तक्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा। ॥१॥ “बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । नचान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति ‘अस्थितानां कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्थान कथञ्चिदप्यात्मानांविज्ञानेन समर्पयितुमलं तथाहि-अवयवी तत्त्वान्यत्त्वाभ्यां विचार्यमाणो न घटां प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनमूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम् - ॥१॥ “यथा यथाऽश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ।। इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेन क्रिया, नापि च तज्जनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावतिनः सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः। तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति-एतत् पूर्वोक्तमुदाहृतवन्तः, तथैतत्त्वज्ञानेनैवोदाहृतवन्तः, तद्यथा-अस्माकमेवमभ्युपगमेऽर्थोऽवभासते-युज्यमानको भवतीति, तदेवं श्लोकपूर्वार्द्ध काकाक्षिगोलकन्यायेनाक्रियावादिमते ऽप्यायोज्यमिति । साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाहमू. (५३९) सम्मिस्सभावं च गिरा गहीए, से मुम्मुई हो अनानुवाई। इमं दुपक्खं इममेगपक्खं, आ हंसु छलायतणं च कम्मं ।। वृ.स्वकीययगागिरा-वाचा स्वाभ्युपगमेनैव गृहीते तस्मिन्नर्थेनान्तरीयकतयावासमागते सति तस्याऽऽयातस्यार्थस्य गिरा प्रतिषेधं कुर्वाणाः सम्मिश्रीभावम्' अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, वाशब्दाप्रतिषेधे प्रतिपाद्येऽस्तित्वमेव प्रतिपादयन्ति, तथाहिलोकायतिकास्तावस्वशिष्येभ्योजीवाद्यभावप्रतिपादकंशास्त्रप्रतिपादयन्तो नान्तरीयकतयाऽऽस्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययोवा । बौद्धा अपि मिश्रीभावमवमुपगताः, तद्यथा - ॥१॥ “गन्ता च नास्ति कश्चिद्गतयः षङ्बौद्धशासने प्रोक्ताः। गम्यत इति च गति स्याच्छुति कथं शोभना बौद्धी?। तथा- कर्मनास्तिफलंचास्ती' त्यसतिचात्मनि कारकेकथंषगतयः?, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्यचास्थितत्वेन क्रियाऽभावान नानागतिसंभवः, सर्वाण्यपि कर्माण्यवन्धनानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति तथा Page #237 -------------------------------------------------------------------------- ________________ २३४ सूत्रकृताङ्ग सूत्रम् १/१२/-/५३९ ॥१॥ “मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ।। आवीचिनरकं यान्ति ।' एवमादिकरयागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं स्यात्, तथा जातिजरामरणरोगसोकोत्तममध्यमाधमत्वानिच नस्यु, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मवत्त्वं चावेदयति, तथा -- ॥१॥ “गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसद्दशाः। मृगतृष्णानीहाराम्बुचन्द्रिकालातचक्रसमाः। इति भाषणाच्च स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । यदिवा-नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति, तथा चोक्तम् -- ॥१॥ “यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति? । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ।। इत्यादि, तदेवं वौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तित्वमेव प्रतिपादयन्ति ।। तथा सांख्य अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सतिस्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेणबन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां स्ववाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्युपगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाचाक्रियामेवाभ्युपगमयन्तः स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं स्ववाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भाव च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितं । यदिवा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुष्टान्तैर्वाकुलीक्रियमाणः सन् सम्यगुत्तरं दातुसमर्थो यत्किंञ्चनभाषितया 'मुम्मुई होइ'त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्याछान्दसत्वाच्चायमर्थोद्रष्टव्यः, तद्यथा-मूकादपि मूको मूकमूको भवति, एतदेवदर्शयतिस्याद्वादिनोक्तंसाधनमनुवदितुंशीलमस्येत्यनुवादी तत्प्रतिषेधादननुवादी, सद्धेतुभिव्याकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षासाधनं तथाऽदूषयित्वा च स्वपक्षं प्रतिपादयन्ति, तद्यथा ___'इदम्' अस्मदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः, इदं चैवंभूतमपि सदि(कमि)त्याहद्वौ पक्षावस्येति द्विपक्ष-सप्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथाच विरोधिवचनत्वं तेषां तथा प्राग्दशितमेव, यदिवेदमस्मदीयं दर्शनं द्वौ पक्षावस्येति द्विपक्षकर्मबन्धनिर्जरणंप्रतिपक्षद्वयसमाश्रयणात्, तत्समाश्रयणंचेहामुत्र च वेदनां चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव पुष्पकल्पां स्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतां वेदनां समनुभवन्तीति, एवमन्यदपि कर्मोभयेद्यमभ्युपगम्यते, तच्चेदं प्राणी प्राणिज्ञान' मित्यादि पूर्ववत्, तथेदमेकः पक्षोऽस्येत्येकपक्षं इहैव जन्मनि तस्य वेद्यत्वात्, तच्चेदम् -- Page #238 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १२, अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नान्तिकं चेति । तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवमन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं-छलं नवकम्बलो देवदत्त इत्यादिकं 'आहुः' उक्तवन्तः, चशब्दादन्यच्च दूषणाभासादिकं, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा पडायतनानि - उपादानकरणानि आश्रवद्वाराणि श्रोत्रेन्द्रिया दीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति ॥ मू. (५४०) ते एवमक्खति अबुज्झमाणा, विरुवरुवाणि अकिरियवाई । जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं ॥ वृ. साम्प्रतमेतद्दूषणायाह- 'ते' चार्चाकबौध्धादयोऽक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युद्-ग्राहयन्तो 'विरूपरूपाणि' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा || 9 || -- "दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिद्यन्ति ॥ २३५ तथा पृथिव्यापस्तेजो वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्नेन्द्रजालमरूमरीचिकानिचयद्विचन्दादिप्रतिभासरूपत्वात्सर्वस्येति । तथा 'तथा सर्वं क्षणिकं निरात्मकं ' 'मुक्तिस्तु शून्यताटेस्तदर्था शेषभावना' इत्यादीनि नानाविधानि शास्त्राणि व्युदग्राहयन्त्यक्रियात्मानोऽक्रियावादिन इति । ते च परमार्थमबुध्यमाना यद्दर्शनम् 'आदाय' गृहीत्वा बहवो मनुष्याः संसारम् 'अनवदग्रम्' अपर्यवसानमरहट्टघटीन्यायेन 'भ्रमन्ति' पर्यटन्ति, तथाहि लोकायतिकानां सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तम् - 119 11 " तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । साऽस्तिचेत्सैव नस्तत्त्वं, नत्सिद्धौ सर्वमस्तु सत् ॥ न च प्रत्यक्षमेर्वैकं प्रमाणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारोच्छेदः स्यादिति । बौद्धानामप्ययन्तक्षणिकत्वेन वस्तुत्वाभावः प्रसजति, तथाहियदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रिया करोति, क्षणिकत्वहानेः, नापि यौगपद्येन एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टंवा, नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यञ्चोक्तं- 'दानेन महाभोगा' इत्यादि तदार्हतैरपि कथञ्चिदिष्य एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति । मू. (५४१) नाइच्चो उएइ न अत्थमेति, न चंदिमा वड्ढति हायती वा । सलिला न संदंति न वंति वाया, वंझो नियतो कसिणे हु लोए । वृ. पुनरपि शून्यमताविर्भावनायाह- सर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावन्निरुन्धन्तीति दर्शयति-आदित्यो हि सर्वजनप्रतीतो जगादीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा ? यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्पं वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न Page #239 -------------------------------------------------------------------------- ________________ २३६ सूत्रकृताङ्ग सूत्रम् 9/१२/-/५४१ सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो नम्र वन्ति । तथा वाताः सततगतयो न वान्ती । किंबहुनोक्तेन?, कृत्स्नोऽप्ययंलोको वन्ध्यः' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते तन्मायास्वप्नेन्द्रजालकल्पमिति । मू. (५४२) जहाहि अंधे सह जोतिणावि, रूवाइ नो पस्सति हीननेत्ते। संतपि ते एवमकिरियवाई, किरियं न पस्संति निरुद्धपन्ना ।। वृ.एतत्परिहर्तुकाम आह-यथा ह्यन्धो-जात्यन्धः पश्चाद्वा हीननेत्रः अपगतचक्षु 'रूपाणि घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तक्रियां चास्तित्वादिकां परिस्पन्दादिकां वा न पश्यन्ति । किमिति? -- ___ यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहिआगोपालगनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्धाटनपटीयानादित्योद्गमः प्रत्यहं भवन्नुपलक्ष्यते, तक्रियाच देशाद्देशान्तरावाप्तयाऽन्यत्र देवदत्तादौ प्रतीताऽनुभीयते ।चन्द्रमाश्च प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृध्ध्या प्रवर्धमानः संपूर्णावस्था यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता। सर्वमिदं मायास्वप्नेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात्, यश्चमायां प्रतिपादयेत् यस्य च प्रतिपाधते सर्वशून्यत्वे तयोरेवाभावात्कुतस्तद्वयवस्थितिरिति ?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या अभावेतस्याप्यभावः स्यात्ततःस्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतयाजाग्रदवस्थाऽ वश्यमभ्युपगता भवति, तदभ्युपगमेचसर्वशून्यवहानि, नच स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनु. भूतादेः सद्भावात्, तथा चोक्तम् - ॥१॥ “अणुहूयदिट्टचिंतिय सुयपयइवियारदेवयाऽनूया। सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ।। इन्द्रजालव्यवस्थाऽप्यपरसत्यत्वे सति भवति, तदभावेतु केन कस्य चन्द्रजालंव्यवस्थाप्येत् ?,द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकस्मिंश्च चन्द्रमस्युपलंभकसद्भावे चघटते न सर्वशून्यत्वे, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि - शशोऽप्यस्तिविषाणमप्यस्ति किंवत्र शशमस्तकसमवायिविषाणंनास्तीत्येतत्प्रतिपाद्यते, तदेवं सम्बन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्त्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति । अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनस्त्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्तश्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थं परिच्छेदं चिदधति, तदाह Page #240 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १२, मू. (५४३) संवच्छरं सुविणं लक्खणंच, निमित्तदेहं च उप्पाइयं च । अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अनागताई ।. २३७ बृ. 'सांवत्सर' मिति ज्योतिषं स्वप्नप्रतिपादको ग्रन्थः स्वप्नस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं देहं मषकतिलकादि, उत्पाते भवमौत्पातिकम् - उल्कापातदिग्दाहनिर्घातभूमिकम्पादिकं, तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथाभीममुत्पातं स्वप्नमान्तरिक्षमाङ्ग स्वरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानिच 'जानन्ति' परिच्छिन्दन्ति, नच शून्यादिवादेष्वेतद्धट, तस्मादप्रमाणकेव तैरभिधीयत इति ।। मू. (५४४) केई निमित्ता तहिया भवंति, केसिंचि तं विष्पडिएति नाणं । ते विभावं अणहिजमाणा, आहंसु विज्जापरिमोक्खमेव ।। वृ. एवं व्याख्याते सति आह परः ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहिचतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उदघुष्यते किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् ? अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुमेन छन्दसाऽर्धत्रयोदश शतानि सूत्रं तावन्त्येव सहाणि वृत्तिस्तावत्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह 'केई’त्यादि, छान्दसत्वात्प्राकृतसैल्या वा लिङ्गव्यत्ययः, कानिचिन्निमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं 'विपर्यासं' व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीर्थिकानां ?, तदेवं निमित्तशस्त्रस्य व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भावं' विदायमनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विज्जापलिभोक्खमेव' विद्यायाः श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुः उक्तवन्तः । यदिवा-क्रियाया अमावाद्विद्यया ज्ञानेनैव मोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । कचिञ्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद' त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा:' जडावदन्ति, न च निमित्तस्य तथ्यता, तथाहिकस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसद्धिदर्शनात्, सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एवं केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति यदपि षट्स्थानपतितत्वमुदघोष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभास व्यभिचारे सम्यकप्रमाणव्यभिचाराशङ्का कर्तुं युज्यते । तथाहि मरुमरीचिकानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारी युक्तिसंगतो भवति ? न हि मशकवर्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यघूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्यं कारणं व्यभिचरतीति ततश्च प्रमातुरयमपराधो न प्रमाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति यश्च क्षुतेऽपि , Page #241 -------------------------------------------------------------------------- ________________ २३८ सूत्रकृताङ्ग सूत्रम् १/१२/-/५४४ कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽनुपपन्नः, तथाहि - कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धि साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमवगन्तव्यं, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुति-किल बुद्धः स्वशिष्यानाहूयोक्तवान्, यथा 'द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं तेतद्वचनादच्छन्तस्तेनैव प्रतिषिद्धाः, यथा मा गच्छत यूयम्, इहाचैव पुण्यवान् महासत्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तद्व्यभिचारशङ्केति स्थितम्। मू. (५४५) ते एवमक्खंति समिञ्च लोग, तहा तहा समणा माहणा य। सयं कडं नन्नकडं च दुक्खं, आहेसु विजाचरणं पमोक्खं ।। वृ.साम्प्रतं क्रियावादिमतंदुदूषयिषुस्तन्मतमाविष्कुर्वन्नाह-ये क्रियातएवज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छन्ति ते एवमाख्यान्ति, तद्यथा-'अस्तिमाता पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृत्वा त एवं कथयन्ति ?-क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण 'लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिन्नास्तीति, कथमाख्यान्ति?। 'तथा तथा' तेन प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, तेच श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किञ्च-यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्वं स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेव सुखदुःखयोः संभवः स्यात्, एवंच कृतनाशाकृताभ्यागमौस्याताम्, अत्रोच्यते, सत्मस्त्यात्मसुखदुःखादिकं, न त्वस्त्येव । . तथाहि-यधस्त्येव इत्येवं सावधारणमुच्यते ततश्चनकथञ्चिन्नास्तीत्यापन्नम्, एवं चसति सर्वसर्वात्मकमापद्येत्, तथाच सर्वलोकस्य व्यवहारोच्छेदः स्यात्, नच ज्ञानरहितायाः क्रियायाः सिद्धि, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च॥१॥ “पढमं नामंतओ दया, एवं चिट्ठति सव्यसंजए। अन्नाणी किं काही, किंवा नाही छेवपावयं ॥ इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धरनुपपत्तेरित्यालोच्याह-'आहंसुविजाचणंपमोक्खं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धि, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः तीर्थकरगणधरादयः, कमाहुः?, मोक्ष, कथं?, विद्या च-ज्ञानंचरणंच-क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्याआदित्वान्मत्वर्थीयोऽच, असौ विद्याचरणो मोक्षः-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्ष प्रतिपादयन्ति ।। __यदिवाऽन्यथापातनिका, केनैतानि समवसरणानिप्रतिपादितानि? यच्चोकतं यच्च वक्ष्यते इत्येतदाशङ्कयाह-'ते एवमक्खंती त्यादि, अनिरुद्धा-क्वचिदप्यस्खलिताप्रज्ञायतेऽनयेतिप्रज्ञाज्ञानं येषांतीर्थकृतांतेऽनिरुद्धप्रज्ञाः,त एवम्' अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोकं चतुर्दशरज्वात्मकंस्थावरजङ्गमाख्यंवा ‘समेत्य' केवलज्ञानेन करतलामलकन्यायेन ज्ञात्वा Page #242 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १२, २३९ तथागताः-तीर्थकरत्वं केवलज्ञानंचगताः, श्रमणाः' साधवो 'ब्राह्मणाः' संयतासंयताः,लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठः । यथासमाधिमार्गोव्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किञ्चित्संसारान्तर्गतानामसुमतां दुःखम्-असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयपादितं सुखं, तस्वयम्आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्॥१॥ “सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं! अवराहेसु गणेसुय निमित्तमित्तं परो होइ" एतच्चाहस्तीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम् -- ॥१॥ "क्रियांच सज्ज्ञान वियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम्। निरस्यता क्लेशसमूहशान्यते त्वया शिवायालिखितेव पद्धतिः।। मू. (५४६) ते चक्खु लोगसिह नायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु लोए, जंसी पया माणव! संपगाढा ।। वृ. किञ्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणकारयन्ति, तथाऽस्मिन्लोकेते नायकाः-प्रधानाः, तुशब्दोविशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथवन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं?। हितं, सद्गतिप्रापकमनर्थनिवारकंच, किञ्च-चतुर्दशरज्ज्वात्मके लोके पञ्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा ततैवाहुः, तद्यथायथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति । तथाच महारम्भादिभिश्चतुर्भिस्थानैर्जीवानरकायुष्यावनिवर्तयन्तितावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषादिवृद्धिस्तता तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथातथैव संसारभिवृद्धिरिति । दुष्टमनोवाक्कायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्च' संसारे, प्रजायन्त इति 'प्रजाः' जन्तवः, हे मानव!, मनुष्याणामेवप्रायशउपदेशार्हत्वात्मानवग्रहणं, सम्यगनारकतिर्यङनरामरभेदेन 'प्रगाढाः' प्रकर्षेण व्यवस्थिता इति । लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाहमू. (५४७) जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधव्वा य काया। आगासगामी य पुढोसिया जे, पुणो पुणो विपरियासुवेति ।। वृ. 'ये' केचन व्यन्तरभेदा राक्षसात्मानः, तदग्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अम्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुराः' सौधर्मादिवैमानिकाः, चशब्दाज्योतिष्काः सूर्योदयः, तथा ये गान्धर्वा' विद्याधरा व्यन्तरविशेषा वा, तद Page #243 -------------------------------------------------------------------------- ________________ २४० सूत्रकृताङ्ग सूत्रम् १/१२/-१५४७ ग्रहणं च प्राधान्यख्यापनार्थं, तथा 'कायाः' पृथिवीकायादयः षडपि गृह्यन्त इति । पुनरन्येन प्रकारेण सत्त्वान्संजिधृक्षुराह-ये केचन 'आकाशगामिनः' संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः,तथायेच 'पृथिव्याश्रिताः' पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनर्विविधम्-अनेकप्रकारं पर्यासंपरिक्षेपम-रहट्टघटीन्येन परिभ्रमणमुप-सामीप्येन यान्ति-गच्छन्तीति ।। मू. (५४८) जमाहु ओहं सलिलं अपारगं, जाणाहिणं भवगहणं दुमोक्खं । जंसी विसन्ना विलयंगणाहिं, दुहओऽवि लोयं अनुसंचरंति ।। वृ.किञ्चान्यत्-'यं' संसारसागरम्आहुः उक्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः -स्वयम्भूरमणसलिलौधवदपारं, यथा स्वयम्भूरमणसलिलौघोन केनचिज्जलचरेण स्थलचरेण वा लङ्घयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लङ्घयितुंन शक्यत इतिदर्शयति'जानीहि अवगच्छणमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्घयेयासङ्घयेयानन्तस्थितिकं दुःखेन मुच्यत इति दुर्मोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनर्नास्तिकानाम् ? पुनरपि, भवगहनोपलक्षितं संसारमेव विशिनष्टि। ___'यत्र' यस्मिन् संसारे सावद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधानाअङ्गना विषयाङ्गनास्ताभिः, यदिवा विषयाश्चाङ्गनाश्चविषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिकेपङ्केविषण्णा 'द्विधाऽपि' आकाशाश्रितं पृथिव्याश्रितंच लोकं, यदिवा स्थावरजङ्गमलोकं अनुसंचरन्ति' गच्छन्ति, यदिवा'द्विधाऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या रागद्वेषाभ्यां वा लोक-चतुर्दशरज्वात्मकं स्वकृतकर्मप्रेरिता 'अनुसञ्चरन्ति' बम्भ्रम्यन्त इति ॥ म. (५४९) न कम्मुणा कम्म खति बाला, अकम्मुणा कम्मखवेति धीरा ।. मेघाविणो लोभमयावतीता, संतोसिणो नो पकरेति पावं ॥ वृ.किञ्चान्यत्-तेएवमसत्समवसरणाश्रितामिथ्यात्वादिभिर्दोषैरभिभूताःसावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पापं 'क्षपयन्ति' व्यपनयन्ति, अज्ञानत्वाद्वाला इव बालास्त इति, यथा च कर्मक्षिप्यतेतथा दर्शयति-'अकर्मणातु आश्रवनिरोधेन तु अन्तशःशैलेश्यवस्थायांकर्मक्षपयन्ति 'वीराः' महासत्त्वाः सद्वैद्या इव चिकित्सयाऽऽमयानिति।। मेधा-प्रज्ञा सा विद्यते येषां ते मेघाविनः-हिताहितप्राप्तिपरिहाराभिज्ञा लोभमयंपरिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-वीतरागा इत्यर्थः, सन्तोषिणः' येन केनचित्सन्तुष्ट अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म 'न कुर्वन्ति' नाददति । क्वचित्पाठः, लोभभयादतीता लोभश्चभयंचसमाहारद्वन्द्वः, लोभाद्वाभयं तस्मादतीताः सन्तोषिणइति, न पुनरुक्ताशङ्का विधेयेति, अतो लोभातीतत्वेनप्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये Page #244 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१२, २४१ च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ।। मू. (५५०) ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं। नेतारो अन्नेसि अनन्ननेया, बुद्धा हु ते अंतकडा भवंति ।। वृ.येचलोभातीतास्ते किम्भूता भवन्ति इत्याह-'ते' वीतरागा अल्पकषायावा 'लोकस्य' पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्य-जन्माचरितानि उत्पन्नानि-वर्तमानावस्थायीनि अनागतानि-च भवान्तरभावीनि सुखदुःखादीनि 'तथागतानि' यथैव स्थितानि तदैव अवितथं जानन्ति, नविभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाह्यागमः -- “अनगारेणं भंते! माई मिच्छादिट्ठी रायगिहनयरे समोहए वाणारसीए नयरीए रूवाई जाणइ पासइ ?, जाव से से दंसणे विवज्जासे भवती" त्यादि, ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां संसारोत्तितीप्रूणां भव्यानां मोक्षप्रति नेतारः सदुपदेशंवा प्रत्युपदेष्टारोभवन्ति, नचते स्वयम्बूद्धत्वादन्येन नीयन्ते-तत्त्वावबोधं कार्यन्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः। ते च 'बुद्धाः' स्वयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्चशब्दार्थे विशेषणे वा, तथाच प्रदर्शित एव, तेच भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति । यावदद्यापि भवान्तं न कुर्वन्ति तावप्रतिषेध्यमंशं दर्शयितुमाहमू. (५५१) ते नेव कुव्वंति न कारवंति, भूताहिसंकाइ दुगुंछमाणा। सया जता विप्पनमंति धीरा, विष्णत्ति धीरा य हवंति एगे। वृ. 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तोन स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति नाप्यपरंजल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा' सर्वकालं 'यताः' संयताः पापानुष्ठानानिवृत्ता विविधंसंयमानुष्ठानं प्रति प्रणमन्ति' प्रह्वीभवन्ति। केते?-धीराः' महापुरुषा इति।तथैके केचन हेयोपादेयंविज्ञायापिशब्दात्सम्यकपरिज्ञाय तदेव निशङ्कं यज्जिनः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा "विण्णत्तिवीरा य भवंति एगे' 'एके' केचन गुरुकर्माणोऽल्पसत्वाः विज्ञप्तिज्ञानं, तन्मात्रेणैव वीर नानुष्ठानेन, न च ज्ञानादेवाभिलषितावाप्तिरुपजायते, तथाहि -- ॥१॥ “अधीत्य शास्त्राणि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषःस विद्वान् । संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम् ।। मू. (५५२) डहरे य पाणे वुड्ढे य पाणे, ते आत्तओ पासइ सव्वलोए। उब्वेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिव्वएजा।। वृ. कानि पुनस्तानि भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, तेसर्वेऽपि प्राणाः-प्राणिनःयेच वृद्धाः-बादरशरी 21 Page #245 -------------------------------------------------------------------------- ________________ २४२ सूत्रकृताङ्ग सूत्रम् १/१२/-/५५२ रिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वस्मिन्नपि लोकेयावप्रमाणंममतावदेव कुन्थोरपि, यथावाममदुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपिप्राणिनांदुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा चागमः- "पुढविकाएणं भंते! अक्कतेसमाणे केरिसर्यवेयणं वेएइ!" इत्याद्याःसूत्रालापकाः, इति मत्वा तेऽपि नाक्रमितव्यान संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, षड़जीवसूक्ष्माबादरभेदैराकुलत्वान्महान्तं, यदिवाऽनाद्यनिधनत्वान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति। ___ यद्यपिद्रव्यतःषडद्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधनत्वात्पर्यायाणां नानन्तत्वान्महान् लोकस्तमुप्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणोबुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वत्तानि, तथा नात्रापसदेसंसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिसमन्ताद्ब्रजेत् परिव्रजेत्, यदिवा बुद्धः सन् 'प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन संयमानुष्ठाने परिव्रजेदिति मू. (५५३) जे आयओ परओ वावि नचा, अलमप्पणो होति अलं परेसिं। तंजोइभूतं च सयावसेजा, जे पाउकुजा अनुवीति धम्म ।। वृ. किञ्च-'यः' स्वयं सर्वज्ञआत्मनैलोक्योदरविवरवर्तिपदार्थीदर्शी यथाऽवस्थितं लोकं ज्ञात्वा तथायश्च गणधरादिकः ‘परतः तीर्थकरादेर्जीवादीन् पदार्थान् विदित्वा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी ‘आत्मनस्त्रातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च सदुपदेशदानतानाता जायते। 'त' सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनं च गणधरादिकं ज्योतिर्भूतं' पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन् 'सततम्' अनवरतम् 'आवसेत्' सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तम् ॥१॥ “नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते या धन्ना आवकहाए गुरुकुलवासं न मुंचंति॥ कएवं कुर्युः? इति दर्शयति-चेकर्मपरिणतिमनुविचिन्त्य "माणुस्सखेत्तजाइ" इत्यादिना दुर्लभां च सद्धर्भावाप्तिं सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्मं वा 'अनुविचिन्त्य' पर्यालोच्य ज्ञात्वा वा तमेव धर्मं यथोक्तानुष्ठानतः 'प्रादुष्कुर्यु' प्रकटयेयुः ते गुरुकुलवासंयावजीवमासेवन्त इति, यदिवायेज्योतिर्भूतमाचार्य सततमासेवन्तितएवागमज्ञा धर्ममनुविचिन्त्य 'लोकं पञ्चास्तिकायात्मकं चतुर्दशरज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया । म. (५५४) अत्ताण जो जाणति जो य लोगं, गइंच जो जाणइ नागइंच। जो सासयं जाण असासयंच, जाति मरणं च जणोरवायं ।। वृ. किंचान्यत्-यो ह्यात्मानं परलोकयायिनं शरीराद्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषुप्रवर्ततेसआत्मज्ञो भवति । येनचात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निम्तो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्ती Page #246 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १२, त्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च 'लोकं' चराचरं वैशाखस्थानस्थकटिस्थकर युग्मपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्रं जाना, यश्च जीवानाम् 'आगतिम्' आगमनं कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः ? कैर्वा कर्मभिर्नारकादित्वेनोत्पद्यन्ते ? एवं यो जानाति, तथा 'अनागतिं च' अनागमनंच, कुत्र गतानां नागमनं भवति ? चकरात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारितरात्मकं यो जानाति, तत्रानागति-सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना। २४३ यश्च 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं ' वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात् चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यागमः - 'नेरड्या दव्वट्टयाए सासया भावड्ट्टयाए असासया" एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणं-शाश्वतं संसारः - अशाश्वतस्तद्गतानां संसारिणां स्वकृत- कर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारकतिर्यङ्गनुष्यामरजन्मलक्षणां 'मरणंच' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंसतिविधेति । मरणं पुनस्तिर्यङ्गनुष्ययोः, च्यवनं ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति किञ्च - मू. (५५५) अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरंच, सो भासिउमरिहइ किरियवादं ॥ वृ. 'सत्त्वानां' स्वकृ तकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टनां जातिजरामरणरोगशोककृतां शरीरपीडां चशब्दात्तदभावोपायं यो जानाति, इदमुक्तं भवति-सर्वार्थसिद्धादारतोऽधः सप्तर्मी नरकभुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूप यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम् ' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति । यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहियथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः ॥ 11911 स एव परमार्थतो 'भाषितुं' वक्तुमर्हति, किं तद् ? इत्याह-क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्था: श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव Page #247 -------------------------------------------------------------------------- ________________ २४४ सूत्रकृताङ्ग सूत्रम् १/१२/-५५५ स्वभावोपदर्शनं कृतं, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्ती, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभाबित्वाहुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतसय च मोक्षस्योपादानंद्रष्टव्यमिति, तदेवमेतावन्त एवपदार्थास्तदभ्युपगमेन चास्तीत्यादिकःक्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् ‘जानाति' अभ्युपगच्छतिस परमार्थतः क्रियावादंजानाति ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यकग्वादित्वं कस्मानाभ्युपगम्यते ?, तदुक्तपदार्थानामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानीत्येतेषोडश पदार्था अभिहिताः, तत्रहेयोपादेय प्रवृत्तिरूपतयायेनपदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्चप्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, तत्रेन्दियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षं, तदत्रेन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यक्तं, ज्ञानं, नसुखादिकम्, अव्यपदेश्यमितिव्यपदेश्यत्वे शाब्दप्राप्तेः,अव्यभिचारितद्धिद्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षतान बुध्यते, तथाहि-यत्रात्माऽ. र्थग्रहणं प्रतिसाक्षाद्व्याप्रियतेतदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षतुस्यात्, न चोपचारस्तत्त्वचिन्तायांव्याप्रियतइति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोहष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोष्टंतु चूतमेकं विकसितं दृष्ट्वा पुष्पिताधूता जगतीति यदिवा देवदत्तादौ गतिपूर्विकां स्थानात् स्थानन्तरावाप्तिं दृष्ट्वा ऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्यं प्रति व्यभिचारात, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम् - ॥१॥ “अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । ___नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ॥ अपिच-प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधासाध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ज्ञासज्ज्ञि संबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथकप्रमाणत्वमनुपपन्नमेव, अथ नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपिन सर्व प्रमाणं, किंतर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाहद्व्यतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति।किञ्च-सर्वमप्येतत्त्पमाणमात्मनो ज्ञानज्ञानंचात्मनोगुणः पृथक्पदार्थतयाऽभ्युपगन्तुं नयुक्तो, रूपरसादीनामपिपृथक्पदार्थताऽऽपत्तेः, अथप्रमेयग्रहणेनेन्द्रियार्थतयातेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयंत्वात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ताचेच्छाद्वेषप्रयलसुखदुःखज्ञानानुमेयः, सचजीवपदार्थतया गृहीत एवास्माभिरिति, शरीरंतु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं Page #248 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १२, २४५ जीवाजीव ग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो पात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पीद्गलिकमजीवग्रहणेन गृहीतं, भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथक् पदार्थतया नाभ्युपगन्तुंयुक्ता, तथाहि प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद् आत्मानंदू इषयतीति दोष:, तद्यथा अस्यात्मनो नेदं शरीरपूर्वम्, अनादित्वादस्य नाप्यनुत्तरम् अनन्तत्वात्सन्ततेरिति योऽयमात्मनोऽध्यवसायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः प्रेत्यभावः- परलोकसभावोऽयमपि ससाधनो जीवाजीवग्रहणेनोपात्तः, फलमपि सुखःदुखोपभोगात्मकं तदपि जीवगुण एतान्तर्भवतीति न पृथगुपदेष्टव्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो मोक्षः, स चास्माभिरूपात्त एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषत्वादात्मगुण एव, अविप्रतिपत्तिविषया- पन्नोऽर्थो दृष्टान्तः, असावपि जीवाजीवयोरन्यतरः, न चौतावताऽस्य पृथक्पदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति । सिद्धान्तश्चतुर्विधः, तद्यथा सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थ सर्वतन्त्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि स्पेशादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति १, समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तम्- "नासतो जायते भावो नाभावो जायते सतः" इति २, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धि सोऽधिकरणसिद्धान्तः ३, यतेन्द्रियव्यतिरिक्तोज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोऽर्धा १ इन्द्रियनानात्वं २ नियतविषयाणीन्द्रियाणि ३ स्वविषयग्रहणलिङ्गानि च ४ ज्ञातुर्ज्ञानसाधनानि ५ स्पर्शादिगुणव्यतिरिक्तं द्रव्यं ६ गुणाधिकरण ७ मनियतविषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावेतेऽर्था सिध्यन्ति, नैतैर्विना पूर्वार्थ संभवतीति अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ४, तद्यथा, किं शब्द इति विचारे कश्चिदाह- अस्तु द्रव्यं शब्दः, स तु किं नित्योऽथानित्यः ?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्यात्मगुणत्वाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथगुपादानमिति ४ । ३, अथावयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो बेति हिनोति - गमयति प्रतिज्ञातमर्थमिति हेतु:, तद्यथा-उत्पत्तिधर्मकत्वात्, साध्यसाधर्म्यवैधर्म्यभावे दृष्टान्तः उदाहरणं, यथा घट इति, वैधम्र्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार उपनयः, तद्यथाअनित्यः शब्दः कृतकत्वादू घटवत्तथा चायं, अनित्यत्वाभावे कृतकत्वमपि न भवत्याकाशवत् न तथाऽयमिति, प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमात्रं ततः शब्दस्य पौद्गिलकत्वात्पुद्गलानां चाजीवग्रहणेन ग्रहणान्न पृथगुपादानं न्याय्यम्, Page #249 -------------------------------------------------------------------------- ________________ २४६ सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५ अथ तज्रं ज्ञानं ततो जीवगुणत्वात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषपदार्थताऽभ्युपगमे च पदार्थ बहुत्वं स्याद्, अनेकप्रकारत्वाज्ज्ञानविशेषणामिति । संशयादूर्ध्वं भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तर्क, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपि ज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन्न ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान्न पृथगू निर्देशो न्याय्य इति । तिस्रः कथाः - वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानार्थं : शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्धं छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो वितण्डेति तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्त्वनिर्णयार्थ वादो विधेयो, न छतजल्पादिना तत्त्वावगमः कर्तुं पार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगति इतिः सत्यपि भेदे नैवासां पदार्थता, यतो यदेव परमार्थतो वस्तुवृत्त्या वस्त्वस्ति तदेव परमार्थतयाऽभ्युपगन्तुं युक्तम्, वादास्तु पुरुषे च्छावशेन भवन्तोऽनियता वर्तन्ते न तेषां पदार्थतेति किञ्च पुरुषेच्छानुविधायिनो वादाः कुक्कुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्ति स्यान्न चैतदिष्यत इति । असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः, हेतुवदाभासन्त इति हेत्वाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्वव्यवस्थितिः किं पुनस्तदाभासानां ?, तथाहि - इह यन्नियतं वस्त्वस्ति तदेव तत्त्वं भवितुमर्हति हेतवस्तु क्व चिद्वस्तुनि साध्ये हेतवः क्वचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविघातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेऽभिहिते वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलं, यथा नवः कम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न समासे, तत्रायं छलवादी नव कम्बला अस्येत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यसदर्थाभिधानं तद्यदि छलं न तर्हि तत्त्वं तत्त्वं चेत्र तर्हि छलं, परमार्थरूपत्वात्तत्त्वस्येति, तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयुक्तिः । , दूषणाभासास्तु जातयः, तत्र सम्यग्दूषणस्यापि न तत्त्वव्यवस्थिति, अनियतत्वात् अनियतत्त्वं च यदेवैकस्मिन् सम्यगदूषणं तदेवान्यत्र दूषणाभासं, पुरुषशक्त्यपेक्षत्वाच्च दूषणदूषणाभासव्यवस्थितेरनियतत्वमिति कुतः पुनर्दूषणाभासरूपाणां जातीनाम् ?, अवास्तवत्त्वात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानं, तच्च वादिनोऽसाधनाङ्गचचनं प्रतिवादिनस्त दो षोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम्, एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न त्वेतत्तत्वं भवितुमर्हति वक्तृगुणदोषौ हि परार्थेऽनुमानेऽधिक्रि येते न तु तत्त्वमिति, तदेवं न नैयायिकोक्तं तत्त्वं तत्त्वेनाश्रयितुं युज्यते, तस्योक्तनीत्या सदोषत्वादिति ।। नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यत्वमनुपपन्नं, तथाहि त एव परमाणवः प्रयोगविसनाभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति । Page #250 -------------------------------------------------------------------------- ________________ शाम श्रुतस्कन्धः - १, अध्ययनं -१२, २४७ आकाशकालयोश्चास्माभिरपिद्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपन्न पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च स्वशरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति,मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति, भावमनसश्चजीवगुणत्वादात्मन्यन्तर्भाव इति।यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, यता न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयस्वभावमिति, तथा चोक्तम् - “नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृभेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः । ॥१॥ "न नरः सिंहरूपत्वान्न सिंहो नररूपतः । शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः ।। इत्यादि । अथरूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेविशेषगुणाः, तथा सङ्ग्रयापरिमाणानिपृथक्त्वं संयोगविभागौ परत्वापरत्वे इत्येते सामान्यगुणाः सर्वद्रव्यवृत्तित्वात्, तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराआत्मगुणाः, गुरुत्वं पृथिव्युदकयोर्द्रवत्वं पृथिव्युदकाग्निषुस्नेहोऽम्भस्येव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यस्वभावत्वेन परोपाधिकत्वाद्गुणा एवन भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः 'गुणपर्यायवद् द्रव्य' मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यिमिति न पृथग्भावः । किञ्च-तस्य भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हिभावाद्रव्येशब्दनिवेशस्तदभिधाने त्वतला' वित्यनेन भवति, तत्र घटो रक्तउदकस्याहारको जलवान् सर्वैरेव घट उच्यते, अत्रच घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव आहारकत्वं जलवतोभावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणांगुणानां सद्भावात् द्रव्ये पृथुबुनाकर उदकाधाहरणक्षमे कुटकाख्येशब्दस्य घटादेरभिनिवेशस्तत्रत्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात्, कतरच तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति ? । किमिदानीं रक्तस्य भावो रक्तत्वमितिनभवितव्यं?, भवितव्यमुपचारेण, तथाहि-रक्तइत्येतद्रव्यत्वेनोपचर्य तस्य सामान्य भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते,शब्दसिद्धावेव तस्य कुतार्थत्वादिति । शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौद्गलिकत्वाद्, आकाशस्य चामूर्तत्वादिति। शेषंतुप्रक्रियामात्रंनसाधनदूषणयोरङ्गम्। क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्दिधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्-“सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र नतावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत स्वत एव ?, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाऽजागलस्तनकल्पया विकल्पितया ?, किञ्च-द्रव्यादीनां किं सतां सतया सत्प्रत्यय उतासतां?, तत् यदि सतां स्वत Page #251 -------------------------------------------------------------------------- ________________ २४८ सूत्रकृताङ्ग सूत्रम् १/१२/-/५५५ एव सत्प्रत्ययो भविष्यति किं तया ?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्॥१॥ “स्वतोऽर्था सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसङ्गतः।। इत्यादि । एतदेवदूषणमपरसामान्येऽप्यायोजयं, तुल्ययोगक्षेमत्वात्। किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यतएवेति, तस्यचकथञ्चित्तदव्यतिरेकाद्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्यव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते या तेषु विशेषबुद्धि सा नापरविशेषहेतुकाऽऽश्रयिततव्या, अनवस्थाभयात्, स्वतः समाश्रयणेच तद्वद् द्रव्यादिष्वपि विशेषबुद्धि स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते,सर्वस्य सामान्यविशेषात्मकत्वादिति । एतत्तुप्रक्रियामात्र, तद्यथानित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणिचचतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, इति नियुक्तिकत्वादपकर्णयितव्यमिति।। समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपद्येरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्ति, तस्यचानेकत्वमिति किश्च-अयंसमवायःसम्बन्धः,तस्यच द्विष्ठत्वादयुतसिद्धत्वमेव दण्डदण्डि. नोरिव, वीरणानांच कटोत्पत्तीतद्रूपतया विनाशः कटरूपतयोत्पत्तिरनवयरूपतया व्यवस्थानमिति दुग्धदघ्नोरिवेत्येवं वैशेषिकमतेऽपि न सभ्यपदार्थावस्थितिरिति । साम्प्रतंसाङ्ख्यदर्शनतत्त्वनिरूपणंप्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान्महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति। तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्ण-सितादिगुणानामिव, न च महदादिविकारे जन्येप्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्व्यतिरिक्त-वस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृत्वेनाकिश्चित्करत्वात्, स्वभाववैषभ्याभ्युपगमे तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तंच॥१॥ “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ।। अपिच-महदहकारी संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यह दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणत्वं, नजडरूपायाः प्रकृतेर्विकारावेताविति अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपिन युक्तिक्षमा, यतोयदिबाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचिदनीशंजगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्रकिल त्वगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृगद्रवलक्षणा आपःपक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणामाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणां शुक्रासृकप्रभवोत्पत्ति, नतत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि Page #252 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १२, कारणत्वकल्पनेऽतिप्रसङ्गः स्यात्, अण्डजोद्भिजाङ्कुरादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधनमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्ति कमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति। आत्मनश्चाकर्तृत्वाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थं प्रवृत्तियुक्तिविकलेति अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दायतनं धर्मायतनं घ, धर्माः-सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसातोदयरूपंततोजीवगुणत्वान्जीवेऽन्तर्भावः, अथ तत्कारणंकर्मततः पौद्गलिकत्वादजीव इति । प्रत्यक्षंचतेर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहितत्त्वनिराकरणस्वबुद्धया विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्तवा पदार्था सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ।। मू. (५५६) सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे । नो जीवितं नो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ।।-तिबेमि। वृ. साम्प्रतमध्ययनार्थमुपसंजिहीर्षु सम्यग्वादपरिज्ञानफलामादर्शयन्नाह-'शब्देषु' वेणुवीणादिषुश्रुतिसुखदेषु 'रूपेषुच' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गाय॑मकुर्वाणः, अनेन रागोगृहीतः, तथा गन्धेषु' कुथितकलेवरादिषु 'रसेषुच' अन्तप्रान्ताशनादिषुअदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन्, इदमुक्तं भवति शब्दादिष्विन्त्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नामिकाङक्षेत्, नापि परीषहोपसर्गरभिद्रुतो मरणमभिकाउक्षेत्, यदिवा जीवितमरण-योरनभिलाषीसंयममनुपालयेदिति।तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानंसंयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा-मिथ्यात्वादिनाऽऽदीयते इत्यादनम्-अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव । अध्ययनं-१२ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाशाचार्य विरचिता प्रथमश्रुतस्कन्धस्य द्वादशमध्ययनटीका परिसमाप्ता । (अध्ययन-१३ "याथातथ्यं") वृ. समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य Page #253 -------------------------------------------------------------------------- ________________ २५० सूत्रकृताङ्ग सूत्रम् १/१३/-/५५६/नि. [१२२] चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तनिराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽधिकारोऽयं, तद्यथा शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषुधर्मसमाधिमार्गसमवसरणाख्येषु यदवितयं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथंतदपिलेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहनि. [१२२] नामतहं ठवणतहं दव्वतहं चेव होइ भावतहं । दव्वतहं पुण जो जस्स सभावो होति दव्वस्स ।। नि. [१२३] भावतहं पुण नियमा नायव्वं छव्विहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविनएन अन्झप्पे । वृ.अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्यभावप्रत्ययान्तस्य भवति, तत्र तथाशब्दोल्लङ्घनेन तथाशब्दस्य निक्षेपकर्तुनियुक्तिकारस्यायमभिप्रायः-इहयथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांशएवप्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो यस्य सचित्तादेः स्वभावो द्रव्यप्राधान्यायधस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा योयस्यमार्दवादिस्वभावोऽचित्तद्रव्याणांचगोशीर्षचन्दनकम्बलरलादीनां द्रव्याणां स्वभावः तद्यथा॥१॥ उण्हे करेइ सीयं सीए उण्हत्तणंपुण करेइ । कंबलरयणादीणं एस सहावो मुणेयव्यो ।। भावतथ्यमधिकृतयाह-भावतथ्यंपुनः नियमतः' अवश्यंभावतयाषड्विधेऔदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाजातः क्षायिकःअप्रति-पातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादि-संयोगान्निष्पन्नः सान्निपातिक इति । ___ यदिवा-'अध्यात्मनि आन्तरं चतुर्धा द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्रज्ञानतथ्यंमत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यंशङ्काद्यतिचाररहितंजीवादितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचत्वारिंशभेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्दिधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह -- नि. [१२४] जह सुत्तं तह अत्थो चरणं चारो तहत्ति नायव्वं । संतंभि (य) पसंसाए असती पगयं दुगुंछाए। Page #254 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१३, २५१ वृ. 'यथा' येन प्रकारेण यथा पद्धत्त्या सूत्रं व्यवस्थितं 'तथा' तेनैव प्ररकारेण 'अर्थो' व्याख्येयोऽ- नुष्ठेयश्च, एतद्दर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम्अतो यथासूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्वैव भावार्थं गाथापश्चार्धेन दर्शयितुमाह -- यद्वस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे 'सति' विद्यमाने यथावद्व्याख्यायमाने संसारोत्तारणकारणत्वेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते त्वर्थे असति' अविद्यमाने संसारकारणत्वेनवा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं नभवति, इदमुक्तं भवति-यदि सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदिभवति व्याख्यायतेऽ. नुष्ठीयतेच संसारनिस्तरणसमर्थश्च भवतिततोयाथातथ्यमिति भवति,असति त्वर्थेऽक्रियमाणे चसंसारकारणत्वेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ।। एतदेव द्दष्टान्तगर्भ दर्शयितमाह - नि. [१२५] आयरियपरंपरएण आगयंजो उछेयबुद्धीए । __कोवेइछेयवाई जमालिनासं स नासिहिति॥ आचार्या-सुधर्मस्वामिजम्वूनामप्रभावार्यरक्षिताद्यास्तेषांप्रणालिका-पारम्पर्यं तेनागतंयद्व्या ख्यानं-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपिकृतं भवति, यस्तु कुतर्कदामातमानसो मिथ्यात्वोपहतद्दष्टितया छेकबुद्धया' निपुणबुद्धया कुशाग्रीयशेमुषीकोऽहमितिकृत्वा 'कोपयति' दूषयति-अन्यथा तमर्थं सर्वज्ञप्रणीतमपिव्याचष्टे-कृतं कृतमित्येवं ब्रूयात, वक्ति चन हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धः। सएवं छेकवादी' निपुणोऽहमियेवंदादी पण्डिताभिमानी जमालिनाशं जमालिनिह्वववत् सर्वज्ञमतविकोपको ‘विनङ्क्षयति' अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्था क्रिया मृत्खननाद्या घटएवोपचरति, तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेककालत्वात् क्रियमाणमेव कृतं भवति, श्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गतेकान्यकुब्जं देवदत्तोगत इति व्यपदेशः, तथा दारुणि छिद्यमाने प्रस्थकोऽयं व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आहनि. [१२६] न करेति दुरखमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुक्करिसो वजेअव्वो जतिजणेणं ।। वृ. यो हि दुर्गृहीतविद्यालवदध्मिातः सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूद्यमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्ष-विनासं न करोति आत्मवर्गामातमानसो, यत एवं तस्मादात्मोत्कर्षः- अहमेव सिद्धान्तार्थवेदी नापरः कश्चित्मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः-त्याज्यो यतिजनेन' साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं पुननिमदः?, तथा चोक्तम् - ॥१॥ "ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते? ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे Page #255 -------------------------------------------------------------------------- ________________ २५२ सूत्रकृताङ्ग सूत्रम् १/१३/-/५५६/नि. (१२६] सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू. (५५७) आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं। सओ अधम्मं असओ असीलं, संतिं असंतिं करिस्सामि पाउं ।। वृ. अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते-यथातथाभावो याथातथ्यं-तत्त्वं परमार्थः, तच्च परमार्थचिन्तायांसम्यगज्ञानादिकं, तदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तन्त्र सम्यग्दर्शनम्-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते। एतत्सम्यगज्ञानादिकं पुरुषस्य जन्तोर्यजातम्-उत्पन्नतदहं प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तदोषांश्चाविर्भाविष्यामि, 'नानाप्रकारं' वा विचित्रं पुरुषस्य स्वभावम्-उञ्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नानाप्रकारं स्वभावं फलं च पश्चार्धेन दर्शयति-'सतः' सत्पुरुषस्यशोभनस्य सदनुष्ठायिनः सम्यगदर्शनज्ञानचारित्रवतो 'धर्म' श्रुतचारित्राख्यं दुर्गतिगमनधरणलक्षणंवा तथा 'शीलम्' उद्युक्तविहारित्वं तथा शान्ति' निर्वृतिमशेषकर्मक्षयलक्षणां ‘करिस्सामिपाउ'त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि तथा 'असतः' अशोभनस्य परतीर्थिकस्यगृहस्थस्यवापार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्मपापं तथा 'अशीलं' कुत्सितसीलमशान्तिं च-अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति । अत्र च सतो धर्मं शीलं शान्तिं च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्तिं चेत्येवं पदघटना योजनीया, अनुपात्तस्य चशब्देनाक्षेपो द्रष्टव्य इति ।। मू. (५५८) अहो य राओ असमुट्ठिएहि, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्यारमेवं फरुसं वयंति ।। वृ. जन्तोगुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आह'अहोरात्रम्' अहर्निशंसम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा तथागतेभ्यो' वा तीर्थद्भ्यो 'धर्म' श्रुतचारित्राख्यं प्रतिलभ्य-संसारनिःसरणोपायंधर्ममवाप्यापिकर्मोदयान्मदभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकृदाद्याख्यातं 'समाधि' सम्यग्दर्शनादिक मोक्षपद्धतिम् अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निलवा बोटिकाश्च स्वरुचिविरचितव्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति-कुमार्ग प्ररूपयन्ति । ब्रुवते च-असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रद्दधानाः श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽऽरोपितं संयमभारंवोढुमसमर्थाः क्वचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्तस्तं 'शास्तारम्' अनुशासितारं चोदकं पुरुषं वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति॥ मू. (५५९) विसोहियं ते अनुकाहयंते, जे आतभावेण वियागरेज्जा । ___ अट्ठाणिए होइ बहुगुणाणं, जे नाणसंकाइ मुसंवदेजा ।। Page #256 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १३, २५३ वृ. किञ्च विविधम्- अनेकप्रकारं शोधितः कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यगदर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं मोक्षमार्गं 'ते' स्वाग्रहग्रहग्रस्ता गोष्ठामा हिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति - अनुकथयन्ति । ये चैवंभूता आत्मोत्कर्षात्स्वरुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थं व्युदस्यान्यथा 'व्यागृणीयुः' व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थं कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति। आत्मभावव्याकरणंच महतेऽनर्थायेति दर्शयति- 'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः । "सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥ #19 11 यदिवा गुरुशुश्रूषादिना सम्यगज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतनां गुणानामनायतनमसौ भवति, क्वचित्पाठ:- 'अट्टाणिए होंति बहूनिवेस 'त्ति अस्यायमर्थः-अस्थानम्-अभाजनमपात्रमसौ भवति सम्यगज्ञानादीनां गुणानां, किंभूतो ? - बहु:अनर्थसंपादकत्वेनासदभिनिवेशों यस्य स बहुनिवेशः, यदिवा - गुणानामस्थानिकः - अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति । किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्गृहीतज्ञानलवालेपिनो ज्ञाने श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृषावादं वदेयुर्यथाऽहं ब्रवीमि तथैव युज्यते नान्यथेति ॥ मू. (५६०) जे यावि पुट्ठा पलिउंचयंति, आयाणमठ्ठे खलु वंचयित्ता । असाहुणी ते इह साहुमाणी, मायण्णि एसंति अनंतघातं ॥ वृ. किञ्चान्यत्-ये केचनाविदितपरमार्थाः स्वल्पतया समुत्सेकिनोऽपरेण पृष्टाःकस्मादाचार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्यं ज्ञानावलेपेन निहनुवाना अपरं प्रसिद्धं प्रतिपादयन्ति, यदिवा मयैवैतत्स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंति' त्ति निवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निहुवते । त एवं पलिकुञ्चिका निह्नवं कुर्वाणा आदीयत इत्यादानं - ज्ञानादिकं मोक्षो वा तमर्थं वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव । एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायाम् 'इह' अस्मिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति 'अनन्तशो' बहुशो 'घातं ' विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम् एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तंच - 119 11 "पाचं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥ तदेवमात्मोत्कर्षदोषाद्बोधिलाभमप्युहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् । Page #257 -------------------------------------------------------------------------- ________________ २५४ सूत्रकृताङ्ग सूत्रम् १/१३/-1५६० मानविपाकमपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहमू. (५६१) जे कोहणे होइ जगट्ठभासी, विओसियं जे उ उदीरएजा। अंधे व से दंडपहं गहाय, अविओसिए धासति पावकम्मी। वृ. यो ह्यविदितकषायविपाकः,प्रकृत्यैव क्रोधनोभवतितथा 'जगदर्थभाषी' यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्धभाषी, तद्यथाब्राह्मणं डोडमिति ब्रूयात्तथा वणिज किराटमिति शूद्रमाभीरमिति श्वपाकंचाण्डालमित्यादितथा काणं काणमिति तथा खझं कुब्जं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचिप्रकारेणसदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः। _ विओसिय'ति विविधमवसितंवर्यवसितमुपशान्तं द्वन्द्वं-कलहंयःपुनरप्युदीरयेत्, एतदुक्तं भवति-कलहकारिमिर्मिथ्यादुष्कृतादिना परस्परंक्षामितेऽपितत्तद्ब्रूयाद्येन पुनरपितेषां क्रोधोदयो भवति। साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः-चक्षुर्विकलो ‘दण्डपथ गोदण्डमार्ग प्रमुखोज्ज्वलं 'गृहीत्वा' आश्रित्य व्रजन सम्यगकोविदतया धृष्यते' कण्टकश्वापदादिभिः पीङ्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा अविओसिए'त्ति अनुपशान्तद्वन्द्वः पापम् अनार्यं कर्म-अनुष्ठानं यस्यासौपापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति ॥ मू. (५६२) जे विग्गहीए अन्नायभासी, नसे समे होइ अझंझपत्ते । उवायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे ॥ वृ. किञ्चान्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धंस विद्यतेयस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्तेतथापियुद्धप्रियः क्वचिद्भवति तथाऽन्याय्यं भाषितुंशीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यश्चैवंभूतो नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझञ्झाप्राप्तैः-अकलहप्राप्तैः सम्यगद्दष्टिभिरसौ समो न भवति यतः अतो नैवंविधन भाव्यम, अपि त्वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । __ एवमनन्तरोद्दिष्टदोषी सन्नुपपातकारी-आचार्यनिर्देशकारी-यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः-लज्जा संयमो मूलोत्तरगुणभेदभिन्नस्तत्र मनो यस्यासौ टीमनाः, यदिवा-अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु द्दष्टिर्यस्यासावेकान्तष्टिः, पाठान्तरं वा “एगंतसड्ढि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः तद्यथा-ज्ञानापलिकुञ्चकोऽक्रोधीत्यादि तावदझञ्झाप्राप्त इति, स्वत एवाह अमाइसवे'त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छद्मरहित इत्यर्थः, नगुर्वादीन्छद्मनोपचरति नाप्यन्येन केनचित्सार्धं छद्मव्यवहारं विधत्त इति ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१३, २५५ मू. (५६३) से पेसले सुहुमे पुरिसजाए, जञ्चन्निए चेव सुउजुयारे। बहुपि अनुसासिएजे तहचा, समे हु से होइ अझंझपत्ते ।। घृ. पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विग्नः क्वचित्प्रमादस्खलिते सत्याचार्यादिना बह्वपि 'अनुशास्यमानः' चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्यस भवति तथार्चः, यश्चशिक्षांग्राह्यमाणोऽपितथा! भवति स 'पेशलो' मिष्टवाक्यो विनयादिगुणसमन्वितः ‘सूक्ष्मः' सूक्ष्मदर्शित्वात्सूक्ष्मभाषित्वाद्वा सूक्ष्मः ‘स एव पुरुषजातः' स एव परमार्थतः पुरुषार्थकारीनापरोयोऽनायुधतपस्विजनपराजितेनापिक्रोधेनजीयते, तथाऽसावेव 'जात्यन्वितः' सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण तथास एवसुष्टु-अतिशयेनऋजुः-संयमस्तत्करणशीलः-ऋजुकरः, यदिवा 'उज्जुचारे'त्ति यथोपदेशंयःप्रवर्ततेन तुपुनर्वक्रतयाऽचार्यादिवचनंविलोमयति-प्रतिकूलयति, यश्च तथार्चःपेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः क्वचिदवक्रः 'समो' मध्यस्थो निन्दायां पूजायां च न रुष्यति नापितुष्यतितथा अझंझा-अक्रोधोऽमायावा तांप्राप्तोऽझंझाप्राप्तः, यदिवाऽझंझाप्राप्तैःवीतरागैः 'समःतुल्यो भवतीति ॥ मू. (५६४) जे आवि अप्पं वसुमंतिमत्ता, संखाय वायं अपरिक्ख कुञ्जा। तवेण वाहं सहिउत्तिमत्ता, अन्नं जणं पस्सति बिंबभूयं ।। व.प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापिकश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु-द्रव्यं तच्च परमार्थचिन्तायां संयमस्तद्वन्तमात्मानंमत्वाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यग्विधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मत्वा तथा सभ्यक्-परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् ।। तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिष्टतदेहोऽस्तीत्येवं मत्वाऽऽत्मोत्कर्षाभिमानीति अन्यं जनं' साधुलोकं गृहस्थलोकंवा 'बिम्वभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वालिङ्गमात्रधारिणंपुरुषाकृतिमात्रं वा पश्यति' अवमन्यते तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति किञ्चान्यत्मू. (५६५) एगंतकूडेण उ से पलेइ, न विजती मोनपयंसि गोत्ते । जे माणणद्वेण विउक्कसेजा, वसुमन्नतरेण अबुज्झमाणे ।। वृ. कूटवत्कूटं यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षेण लीयते प्रलीयते-अनेकप्रकार संसारंबंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ 'न विद्यते' न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपदं-संयमस्तत्र मौनीन्द्रे वा पदे सर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनटि-गां-वाचं त्रायते-अर्थाविसंवादनतः पालय-तीतिगोत्रंतस्मिन्समस्तागमाधारभूत इत्यर्थः । उच्चैौत्रेवावर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदे न वर्तते, यश्च माननं-पूजनं सत्कारस्तेनार्थः-प्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानं, यो हिमाननार्थेन-लाभपूजासत्कारादिना मदं कुर्यान्नासौ सर्वज्ञपदे विद्यत इति पूर्वेण संबन्धः, तथा वसु-द्रव्यं तच्छेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन __ Page #259 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १ /१३/-/५६५ परमार्थमबुध्यमानो माद्यति पठन्नपि सर्वशास्त्रापि तदर्थं चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति । मू. (५६६) जे माहणो खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा । जे पव्वईए परदत्तभोई, गोत्ते ण जे धब्भति मानबद्धे ॥ २५६ वृ. सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति'उग्रपुत्रः' क्षत्रियविशेषजातीयः तथा 'लेच्छइ' त्ति क्षत्रियविशेष एव तदेवमादिविशिष्टकुलोद्भूतो यथावस्थितसंसारस्वभावेदितया यः 'प्रव्रजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुष्ठायी । 'गोत्रे' उच्चैर्गोत्रे हरिवंशरथानीये समुत्पन्नोऽपि नैव 'स्तम्भं' गर्वमुपयायादिति, किंभूते गोत्रे ? -'अभिमानबद्धे' अभिमानास्पदे इति एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रव्रजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात् नैवासी मानं कुर्यादिति तात्पर्यार्थः ॥ मू. (५६७) न तस्स जाई व कुलं व ताणं, नन्नत्थ विज्जाचरणं सुचिण्णं । निक्खम्म से सेवइऽगारिकम्मं, न से पारए होइ विमोयणाए ॥ वृ. न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोद्धुरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभिमानो जात्यादिक ऐहिकामुष्मिक - गुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतच्चोपलक्षणम्, अन्यदपि मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तरकत्वेन त्राणसमर्थं तद्दर्शयति । ज्ञानं च चरणं च ज्ञानचरणं तस्मादन्यत्र संसारोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्त्वोपबृंहितं सत् सुष्ठु चीर्णं सुचीर्णं संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वचनात् एवंभूते सत्यपि मोक्षमार्गे ‘निष्क्रम्यापि' प्रव्रज्यां गृहीत्वापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते' अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां गृहस्थानामङ्गं कारणं जात्यादिकं मदस्थानं, पाठान्तरं वा 'अगारिकम्मं 'ति अगारिणां कर्मअनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते । न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्षयकारीन भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति । मू. (५६८) निक्किंचणे भिक्खु सुलूहजीवी, जे गारवे होइ सलोगगामी । आजीवमेयं तु अबुज्झमाणो, पुणो पुणो विप्परियासुर्वेति ॥ वृ. पुनरप्यभिमानदोषाविर्भावनायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षुःपरदत्तभोजी तथा सुष्ठु रूक्षम् - अन्तप्रान्तं वल्लचणकादि तेन जीवितुं प्राणधारणं कर्तुं शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरविप्रयो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी भवति । स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिञ्चनत्वं सुरूक्षजीवित्वं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामात्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं-जातिजरामरणरोग शोकोपद्रवमुपैति - गच्छति, तदुत्तरणायाभ्युद्यतो वा तत्रैव निमज्जतीत्ययं विपर्यास इति । Page #260 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १३, २५७ यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभि शिष्यगुणैर्भाव्यमित्याह मू. (५६९) जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य । आगाढपन्ने सुविभावियप्पा, अन्नं जणं पन्नया परिहवेज्जा ।। वृ. भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षु' साधुः, तथा सुष्ठु साधुशोभनं हितं मितं प्रियं वदितुं शीलमस्येत्यसौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम् - औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं तत्प्रतिभानं विद्यते यस्यास प्रतिभानवान्- अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया यथायोगमाचष्टे । तथा 'विशारदः' अर्थग्रहणसमर्थो बहुप्रकारार्थकथनसमर्थोवा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा-अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठु विविधं भावितो -धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात्, तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यं जनं स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि किमनेन वाक्कुण्ठेन दुर्दुरूटेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमस्ति ? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्“अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कुत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पेण ।। इत्यादि । मू. (५७०) एवं न से होइ समाहिपत्ते, जे पत्रयं भिक्खु विउक्क सेज्जा । अहवाऽवि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपन्ने ॥ 119 11 वृ. साम्प्रतमेतद्दोषाभिधित्सयाऽऽह 'एवम्' अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्षं कुर्वन्त्रशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समाधि' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासी परमार्थेदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति- यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वप्रज्ञया भिक्षु 'उत्कर्षेद्' गर्वं कुर्यात्, नासौ समाधिं प्राप्तो भवतीति प्राक्तनेन सम्बन्धः । अन्यदपि मदस्थानमुद्घट्टयति- ' अथवे 'ति पक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसइ' त्ति निन्दति परिभवति, वक्ति च न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाद्युपकरणोत्पादको विद्यते, किमन्यैः स्वोदर भरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं 'बालप्रज्ञो' मूर्खप्रायोऽपर जनापवादं विदध्यादिति ॥ मू. (५७१) पन्नामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से | 217 Page #261 -------------------------------------------------------------------------- ________________ २५८ सूत्रकृताङ्ग सूत्रम् १/१३/-1५७१ वृतदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसद्दशैर्भूयते यतोऽतः प्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह-प्रज्ञया-तीक्ष्णबुद्धया मदःप्रज्ञामदस्तंच, तपोमदं च निश्चयेन नामयेन्नि मयेद्अपनये, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं भदं न कुर्यात् । तथा उञ्चैर्गोत्रेइक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदंचनामयेदिति आ-समन्ताज्जीवन्त्यनेनेत्याजीवः-अर्थनिचयस्तंगच्छति-आश्रयत्यसावाजीवगः-अर्थमदस्तंचचतुर्थ नामयेत्, चशब्दाच्छेषानपि मदान्नामयते, तन्नामनाचासौ पण्डितः' तत्त्ववेत्ताभवति, तथाऽसावेव समस्तमदानोदक उत्तमः पुद्गल-आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थःउत्तमोत्तमो-महतोऽपि महायान् भवतीत्यर्थः ॥ मू. (५७२) एयाइं मयाइं विगिंच धीरा, नतानि सेवंति सुधीरधम्मा। ते सव्वगोत्तावगया महेसी, उच्च अगोतंच गतिं वयंति।। वृ.साम्प्रतंमदस्थानानामकरणीयत्वमुपदर्योपसंजिहीर्षुराह- एतानि प्रज्ञादीनिमदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय 'विगिच'त्ति पृथक्कुर्यादात्मनोऽपनयेदितियावत्, घी:बुद्धिस्तया राजन्त इति धीरा-विदितवेद्यानैतानिजात्यादीनि मदस्थानानि सेवन्ति-अनुतिष्ठन्ति, के एते? ये सुधीरः-सुप्रतिष्ठितो धर्म-श्रुतचारित्राख्यो येषां तेसुधीरधर्माणः,तेचैवंभूताः परित्यक्तसर्वमदस्थानामहर्षयस्तपोविशेषशोषितकल्मषाःसर्वस्मादुचैर्गोत्रादेरपगता गोत्रापगताः सन्त उच्चां-मोक्षाख्यां सर्वोत्तमां वा गतिं व्रजन्ति गच्छन्ति, चशब्दात्पञ्चमहाविमानेषुकल्पातीतेषुवा व्रजन्ति, अगोत्रोपलक्षणाचान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम् किञ्चमू. (५७३) भिक्खूमुयचे तह दिट्ठधम्मे, गामंच नगरं च अनुप्पविस्सा। से एसणं जाणमनेसणंच, अन्नस्स पाणस्स अनानुगिद्धे ।। वृ. स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्काराभावादर्चा-तनुः शरीरं यस्य स मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनाऽर्चापद्मादिका लेश्या यस्य स भवति मुदर्चः-प्रशस्तलेश्यः, तथा दृष्टः-अवगतो यथावस्थितो धर्मश्रुतचारित्राख्योयेनसतथा- सचैवंभूतः क्वचिदवसरे ग्रामनगरमन्यद्वामडम्बादिकमनुप्रविश्य भिक्षार्थमसावुत्तम- धृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणां च-उद्गमदोषादिकां तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः' अनध्युप-पन्नः सम्यग्विहरेत्, तथाहि-स्थविरकल्पिक द्विचत्वारिंशद्दोषरहितांभिक्षा गृह्णीयुः, जिनकल्पिकानां तु पञ्चस्वभिग्नहो द्वयोर्ग्रहः, ताश्चेमाः॥१॥ “संसट्टमसंसट्ठा उद्धड तह होति अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ अथवा यो यस्याभिग्रहः सा तस्यैषणाअपरात्वनेषणेत्येवमेषणानेषणाभिज्ञः क्वचिप्रविष्टः समाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति ॥ Page #262 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध: - १, अध्ययनं - १३, वृ. तदेवं मू. (५७४) अरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एगंतमोनेन वियागरेजा, एगस्स जंतो गतिरागती य । भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततया च मृतकल्पदेहस्य सुध्ष्टधर्मण एषणानेषणाभिज्ञस्यान्नपानादावमूर्छितस्य सतः क्वचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्क मोदयादरति संयमे समुत्पद्येत तां चोत्पन्नामसौ भिक्षु संसारस्वभावं परिगणय्य तिर्यङ्नारकादिदुःखं चोठप्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्याभिमवेद, अभिभूय चासावेकान्तमीनेन व्यागृणीयादित्युत्तरेण सम्बन्धः । तथा रतिंच 'असंयमे' सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदाभिभूय च संयमोधुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि - बहवो जनाः साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एवं चरति तच्छीलश्चैकचारी, सच प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात्, स च बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमाबाधया किञ्चित्धर्मसंबद्धं ब्रूयात्, किं परिगणय्यैत्कुर्यादिः त्याह यदिवा किमसौ ब्रूयादिति दर्शयति- 'एकस्य' असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' मनं परलोके भवति, तथा आगति- आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च"एकः प्रकुरुते कर्म, भूनक्त्येकश्च तत्फल् । जायते म्रियते चैक, एको याति भवान्तरम् ।। 119 11 २५९ इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्यहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौनः -संयमस्तेन तत्प्रधानं वा ब्रूयादिति । मू. (५७५) सयं समेच्चा अदुवाऽवि सोचा, भासेज धम्मं हिययं पयाणं । जे गरहिया सणियाणप्पओगा, न तानि सेवंति सुधीरधम्मा ।। वृ. किञ्चान्यत्- 'स्वयम्' आत्मना परोपदेशमन्तरेण 'समेत्य' ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्ष तत्कारणानि च सम्यगदर्शनज्ञानचारित्राण्येतत्सर्वं स्वत एवावबुध्यान्यस्माद्वाऽऽचार्यादिः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत । किंभूतं ? - प्रजायन्त इति प्रजाः स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति । उपादेयं प्रदर्श्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापार धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽसंशारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगोः, तद्यथा-कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निर्व्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोदघट्टनया मर्भवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते' न ब्रुवत इति । Page #263 -------------------------------------------------------------------------- ________________ २६० सूत्रकृताङ्ग सूत्रम् १/१३/-/५७६ मू. (५७६) कैसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज्ज असदहाणे। आउस्स कालाइयारं वघाए, लद्धानुमाने य परेसु अटे॥ वृ.किञ्चान्यत्-केषाञ्चिन्मिध्यादृष्टीनांकुतीर्थिकभावितानांस्वदर्शनाऽऽग्रहिणां 'तर्कया' वितर्केण स्वमतिपर्यालोचनेन 'भावम्' अभिप्रायं दुष्टान्तःकरणवृत्तित्वमबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया तीर्थकतिरस्कारप्रायं वचो ब्रूयात्, सच तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् 'क्षुद्रत्वमपि गच्छेद्' तदविरुपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति। क्षुद्रत्वगमनमेव दर्शयति-सनिन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं' परिक्षेपस्वभावं कालातिचारं-दीर्घस्थितिकमप्यायुः संवर्तयेत्, एतदुक्तं भवति-धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादि ? कंच देवताविशेषं नः ? कतरद्वा दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक् परिज्ञाय यथार्ह धर्मदेशना विधेया, यश्चैतदबुद्धवा किञ्चिद्धर्मदेशनाद्वारेणपरविरोधकृद्धचो ब्रूयात्स परस्मादैहिकामुष्मिकयोर्मरणादिकमपकारं प्राप्नुयादिति, यत एवं ततोलब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः परेषु' प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्या अर्थान् सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति । अपिचमू. (५७७) कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सव्वओ आयभावं। स्वेहिं लुप्पंति भयावहेहिं, विजंगहाया तसथावरेहिं ।। वृ. 'धीरः' अक्षोभ्यः सद्बुद्धयलङ्कु तो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठान गुरुलघुकर्मभावंवातथा 'छन्दम्' अभिप्रायं सम्यक् विवेचयेत् जानीयात्, ज्ञात्वाचपर्षदनुरूपामेव धर्मकथिको धर्मदेशनांकुर्यात्सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दूष्यते,अपितुप्रसन्नता व्रजति, एतदभिसंधिमानाह-विशेषेण नयेद्-अपनयेत्पर्षदः पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणंच कुर्यात्, 'आयभावं'ति क्वचित्पाठः । तस्यायमर्थ-'आत्मभावः' अनादिभवाभ्यस्तो मिथ्यात्वादिकस्तमपनयेत्, यदिवाऽऽत्मभावो-विषयगृभुताऽतस्तमपनयेदिति। एतदर्शयति-रूपैः' नयनमनोहारिभि स्त्रीणामङ्गप्रत्यगर्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूत रूपैः? - भयावहै.' भयमावहन्ति भयावहानि । इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः प्रादुर्भवन्ति जन्मान्तरे च तिर्यङ्नरकादिके यातनास्थाने प्राणिनोविषयासक्ता वेदनामनुभवन्तीत्येवं विद्वान् पण्डितोधर्मदेशनाभिज्ञोगृहीत्वा पराभिप्रायंसम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् । मू. (५७८) न पूयणंचेव सिलोयकामी, पियमप्पियं कस्सइ नो करेजा। सव्वे अणढे परिवजयंते, अनाउले या अकसाइ भिक्खू ।। वृ.पूजासत्कारादिनिरपेक्षेणचसर्वमेव तपश्चरणादिकं विधेयंविशेषतोधर्मदेशनेत्येतदभिप्रायवाहान-साधुर्देशनां विदधानो न पूजन-वस्त्यात्रादिलाभरूपम-मिकाक्षेत्रापि श्लोकं श्लाघां कीर्तिम्आत्मप्रशंसां कामयेद् अभिलषेत्। तथाश्रोतुर्यत्प्रियंराजकथाविकथादिकंछलितकथादिक Page #264 -------------------------------------------------------------------------- ________________ A श्रुतस्कन्धः - १, अध्ययनं - १३, २६१ च तथाऽप्रियं च तत्समाश्रितदेव- ताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्मसम्यग्दर्शनादिकंकथयेत्, उपसंहारमाह-'सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् ‘वर्जयन्' परिहरन् कथयेद् 'अनाकुलः' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति । मू. (५७९) आहत्तहीयं समुपेहमाणेसव्वेहिं पाणेहिं निहाय दंड। नोजीवियं नो मरणाहिकंखी, परिव्वएज्जा वलयाविमुक्के ।। -त्तिबेमि । वृ.सर्वाध्ययनोपसंहारार्थमाह आहत्तहीय' मित्यादि, यथातथाभावोयाथातथ्यं-धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्वं सूत्रानुगतं सम्यकत्वंचारित्रंवा तत् 'प्रेक्षमाणः पर्यालोचयन सूत्रार्थं सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मबादरभेदभिन्नेषु पृथिवीकायादिषु दण्डयन्ते प्राणिनो येन स दण्डः-प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लङ्घयेदिति । एतदेव दर्शयति___'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकाङ्क्षी स्यात् परीषहपराजितो वेदनासमुद्घात (समय)हतो वा तद्वेदनाम सहमानो जलानलसंपातापादितजन्तूपमर्दैननापि मरणाभिकाङ्क्षी स्यात् । तदेवं याथातथ्यमुप्रेक्षमाणः सर्वेषुप्राणिषूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानंचरेद्-उद्युक्तविहारीभवेत् मेघावी' मर्यादा व्यवस्थितोविदितवेद्यो वा वलयेन-मायारूपेण मोहनीयकर्मणावा विविधं प्रकर्षेणमुक्तो विप्रमुक्त इति।इति परिसमाप्तयर्थे ब्रवीमीति पूर्ववत्। अध्ययनं-१३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता प्रथमः श्रुतस्कन्धस्य त्रयोदशमध्ययनटीका परिसमाप्ता। (अध्ययनं-१४ "ग्रन्थ") वृ. उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययनेयाथातथ्यमिति सम्यक्चारित्रमभिहितं,तञ्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्यागश्चानेनाध्ययनेन प्रतिपाद्यतइत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽधिकारोऽयं । तद्यथा-सबाह्याभ्यन्तरग्रन्धपरित्यागो विधेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदादुनगुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाहनि. [१२७] गंथो पुवुद्दिटो दुविहो सिस्सो यहोति नायव्यो। पव्वावण सिक्खावण पगयं सिक्खावणाएउ॥ वृ. ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्यनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थ योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो' द्विप्रकारो ज्ञातव्यो भवति, तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षा वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह (तु) पुनः Page #265 -------------------------------------------------------------------------- ________________ २६२ सूत्रकृताङ्ग सूत्रम् १/१४/-/५७९ / नि. [१२७] शिक्षाशिष्येण 'प्रकृतम्' अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः । नि. [१२८ ] सो सिक्खगो य दुविहो गहणे आसेवणाय नायव्वो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥ वृ. यथाप्रतिज्ञातमधिकृत्याह यः शिक्षां गृह्णाति शैक्षकः स द्विविधो द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादिः सकाशाच्छिक्षां-इच्छामिच्छातहकारादिरूपां गृहह्णति शिक्षति, तथा शिक्षितां चाभ्यस्यति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह - शिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः । नि. [१२९] आसेवणाय दुविहो मूलगुणे चैव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥ वृ. साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह-यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- 'मूलगुणे' मूलगुणविषये आसेवमान:सम्यगमूल- गुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽ प्यासेवना- शिक्षक भवति, तत्रापि मूलगुणे पञ्चप्रकारः- प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणा- त्पञ्चविधो भवति मूलगुणेष्वासेवना शिक्षकः, तथोत्तरगुणविषये सम्यपिंण्डविशुद्धयादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः 11911 'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥ यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- 'उत्तरगुणे' उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति ॥ शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा शिष्यापेक्षया हि । नि. [१३०] आयरिओऽविय दुविहो पव्वावतो व सिक्खवंतो य । सिक्खावंतो दुविहो गहणे आसेवणे चैव ॥ वृ. आचार्यो 'द्विविधो' द्विभेदः, एक यः प्रव्रज्यां ग्राहयत्यपरस्तुयः शिक्षामिति, शिक्षयन्नपि द्विविधः - एको यः शिक्षाशास्त्रं ग्राहयनति पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति सम्यगनुष्ठानं कारयति । नि. [१३१] गाहाविंतो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ।। वृ. तत्र सूत्रार्थतदुभयभेदादग्राहयन्नप्याचार्यस्त्रधा भवति । आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्दिविधो भवति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं कस्तं सत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम् मू. (५८०) गंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं वसेज्जा । ओवायकारी विनयं सुसिक्खे, जे छेय विप्पमायं न कुजा ।। वृ. ‘इह’ प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रध्यते आत्मा येन स Page #266 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययन-१४, २६३ ग्रन्थो-धनधान्यहिरण्यद्विपदचतुष्पदादि 'विहाय' त्यक्त्वा प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपांच शिक्षांकुर्वाणः-सम्यगासेवमानः सुष्टुशोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं ‘वसेत्', यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत्-तं सम्यक् कुर्यात् । आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यविहारं न प्रतिपद्यते तावदाचार्यवचनस्थावपातो-निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते-अपनीयते कर्म येन स विनयस्तं सुष्टु शिक्षेद्-विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति। तथा यः ‘छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयंचावाप्नोतीति मू. (५८१) जहा दियापोतमपत्तजातं, सावासगा पविउं मन्नमाणं। तमचाइयं तरुणमपत्तजातं, ढंकाइ अव्वत्तगमं हरेजा ।। वृ.यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यते सच बहुदोषभाग भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयत्राह-'यथेतिदृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः' पक्षिशिशुरव्यक्तः । तमेव विशिनष्टि-पतन्ति-गच्छन्ति तेनेति पत्रं-पक्षपुटं न विद्यते पत्रजातं-पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्-स्वनीडात् प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयंति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाःपिशिताशिनः 'अव्यक्तगम गमनाभावे नंष्टुमसमर्थः 'हरेयुः' चञ्च्चादिनोक्षिप्य नयेयुव्यापदियेयुरिति ।। मू. (५८२) एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं बुसिमं मन्नमाणा । दियस्स छायं व अपत्तजायं, हरिसणं पावधम्मा अनेगे। वृ.एवंद्दष्टान्तंप्रदर्श्यदान्तिकंप्रदर्शयितुमाह-एव' मित्युक्तप्रकारेण, तुशब्दःपूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्ता प्रतिपादिता इहत्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् । 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्यच गच्छसमुद्रान्निसारयन्ति, निसारितं च सन्तं विषयोन्मुखतामपादितमपगतपरलोक- भयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा 'बुसिमन्ति चारित्रं तद् असदनुष्ठानतोनिसारंमन्यमाना अजातपक्ष 'द्विजशावमिव' पक्षिपोतमिव ढकादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायक-लुषितान्तरात्मानः कुतीर्थिकाःस्वजना राजादयो वाऽनेके बहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि -- __ पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा-युष्मदर्शने नाग्निप्रज्वालनविषापहारशिस्वाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिःशठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनाद Page #267 -------------------------------------------------------------------------- ________________ २६४ सूत्रकृताङ्ग सूत्रम् १/१४/-/५८२ यश्चैवं विप्रलम्भयन्ति, तद्यथा-आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा, त्वमेवास्माकं सर्वस्वं, त्वया विना सर्वं शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावनयन्ति, एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारः प्रतार्यापहरेयुरिति॥ मू. (५८३) ओसाणमिच्छे मणुए समाहिं, अनोसिए नंतकरिति नचा। ओभासमाणे दवियस्स वित्तं, न निकसे बहिया आसुपन्नो । वृ.तदेवमेकाकिनः साधोर्यतो बहवोदोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह-'अवसान' गुरोरन्तिके स्थानं तद्यावञ्जीवं 'समाधि' सन्मार्गानुष्ठानरूपम् 'इच्छेद्' अभिलषेत् 'मनुजो' मनुष्यः साधुरित्यर्थः। सएव चपरमार्थतोमनुष्योयोयथाप्रतिज्ञातंनिर्वाहयति, तच्चसदागुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यतेनान्यथेत्येतद्दर्शयति गुरोरन्तिके अनुषितः' अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणोयथाप्रतिज्ञातस्यवानान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोऽनुसर्तव्यः, तद्रहितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तंच॥१॥ “नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य॥ तथाऽजां गलविलग्नवालुकां पार्णिप्रहारेण प्रगुणां दृष्ट्वाऽनुपासितगुरुरज्ञो राज्ञी संजातगलगण्डांपाणिप्रहारेण व्यापादितवान्, इत्यादयः अनुपासितगुरोर्बहवोदोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानयामर्यादया गुरोरन्तिके स्थातव्यमितिदर्शयति-'अवभासयन् उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषरहितस्य सर्वज्ञस्य वा वृत्तम्अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो वोद्भासयेदिति। तदेवं यतो गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो 'न निष्कसेत्' न निर्गच्छेत् गच्छादुर्वन्तिकाद्वा बहिः, स्वेच्छाचारी न भवेद्, 'आशुप्रज्ञ' इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणंज्ञात्वा क्षिप्रमेवाचार्योपदेशात्स्वतएववा निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाहमू. (५८४) जे ठाणओय सयणासणे य, परक्कमे यावि सुहाहुजुत्ते। समितीसुगुत्तीसु य आयपन्ने, वियागरिते य पुढो वएज्जा ।। वृ. यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च' स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतश्च, साधोः-उद्युक्तविहारिणो ये समाचारास्तैःसमायुक्तःसुसाधुयुक्तः, सुसाधुर्हि यत्रस्थानं कायोत्सर्गादिकं विधत्तेतत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्गं च मेरुरिव निष्प्रकम्पः शरीरनिस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भुवं कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत्, तत्रापि जाग्नदिव नात्यन्तं निःसह इति। Page #268 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं-१४, २६५ एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासीसुसाधुर्भवतीति स्थितम् । अपिचगुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासुआगता-उत्पन्नाप्रज्ञा यस्यासावागतप्रज्ञः-संजातकर्तव्याकर्तव्यविवेकः स्वतोभवति, परस्यापि च व्याकुर्वन् कथयन्पृथक्पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ।। मू. (५८५) सदाणि सोचा अदु भेरवाणि, अनासवे तेसु परिव्वएजा। निइंच भिक्खू न पमाय कुजा, कहंकहं वा वितिगिच्छतिन्ने ।। वृ. ईसिमित्याधुपेतेन यद्विधेयं तद्दर्शयितुमाह-'शब्दान्' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् श्रुत्वा' समाकाथवा 'भैरवान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनत्वेनवागृह्णातीत्याशवोनाश्रवोऽनाश्रयः, तेष्नुकूलेषुप्रतिकूलेषुश्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थोरागद्वेषरहितोभूत्वापरि-समन्ताव्रजेत्परिव्रजेत्-संयमानुष्ठायी भवेत्, तथा निद्रांच' निद्राप्रमादं च 'भिक्षु सत्साधुः प्रमादाङ्गत्वान्न कुर्यात् । एतदुक्तं भवति-शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकंनविदध्यात्।तदेवंगुरुकुलवासात्स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सांचित्तविप्लुतिरूपांतीर्णः-अतिक्रान्तो भवति, यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः कथंकथमप्यन्तंगच्छेद्?, इत्येवंभूतांविचिकित्सांगुरुप्रसादाद्वितीर्णोभवति, अथवा यांकाञ्चिच्चित्तविप्लुर्ति देशवसर्वगतां तां कृत्स्नां गुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपितदपनयनसमर्थः स्यादिति ॥ मू. (५८६) डहरेण बुड्ढेणऽनुसासि ए उ, रातिणिएणावि समव्वएणं । सम्म तयं थिरतो नाभिगच्छे, निजंतए वावि अपारए से। वृ.किञ्चान्यत्-सगुर्वन्तिके निवसन्क्वचित्प्रमादस्खलितःसन्वयःपर्यायाभ्यां क्षुल्लकेनलघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा' वयोऽधिकेन श्रुताधिकेन वा 'अनुशासितः' अभिहितः, तद्यथा-भवद्विधानाभिदमीटक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रतिचोदितः कुप्यतियथा अहमप्यनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशासनं सम्यक् स्थिरतः-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत । चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीयमान' उह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽऽचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति॥ मू. (५८७) विउद्वितेणं सम्पयाणुसिट्टे, डहरेण वुड्ढेण उ चोइए य। अधुट्ठियाए घडदासिए वा, अगारिणं वा समयानुसिढे ।। www. Page #269 -------------------------------------------------------------------------- ________________ २६६ सूत्रकृताङ्ग सूत्रम् १/१४/-/५८७ वृ. साम्प्रतं स्वपक्षचोदनानन्तरतः स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः - परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा - नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि यदिवा व्युत्थितः संयमाद्धष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन - अर्हठाणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमं प्रदर्थ्याभिहितः, तद्यथा - नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्याध्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता अत्युत्थिताः, यदिवा-दासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि - 'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुर्यात्, एतदुक्तं भवति । अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुर्न कुप्येत्, किं पुनरन्येनेति ? तथा 'अगारिणां' गृहस्थानां यः 'समयः अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति । एतदेवाह मू. (५८८) न तेसु कुज्झे न य पव्वहेज्जा, न यावि किंची फरुसं वदेज्जा । तहा करिस्संति पडिस्सुणेज्जा, सेयं खु मेयं न पमाय कुज्जा ।। बृ. 'तेषु' स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद अन्यस्मिन् वा दुर्वचनेऽभिहितेन कुप्येद् एवं च चिन्तयेत् । || 9 11 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मति कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ॥ तथा नाप्यपरेण स्वतोऽधमेनापि चोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत् दण्डादि प्रहारेण पीडयेत् न चापि किञ्चित्परुषं तत्पीडादिकारि 'वदेत्' ब्रूयात् । ममैवायमसदनुष्ठायिनो दोषो, येनायमपि मामेवं चोदयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येव मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिध्यादुष्कृतादिना निवर्तेत्, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतदुद्भ्यात्क्वचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति । पू. (५८९ ) वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव मज्झं इणमेव सेयं, जं मे बुहा समनुसासयति ॥ वृ. अस्यार्थस्य द्दष्टान्तं दर्शयितुमाह- 'वने' गहने महाटव्यां दिग्भ्रमेण कस्यचिद्वयाकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा 'अमूढाः' सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितम्' अशेषापायरहितमीप्सितस्थानप्रापकं 'मार्ग' पन्धानम् ' अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदेतद् बुद्धाः सम्यगनुशासयन्ति सन्मार्गेऽवतारयन्ति पुत्रमिव पितर तन्ममैव श्रेय इति मन्तव्यम् ! Page #270 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १४, मू. (५९०) अह तेण मूढेण अमूढगरस, कायव्व पूया सविसेसजुत्ता । एओवमं तत्थ उदाहु वीरे, अनुगम्म अत्थं उवणेति सम्मं ॥ वृ. पुनरप्यस्यार्थस्य पुष्टयर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य' सत्पथोपदेष्टु पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीरः' तीर्थकरोऽन्यो वागणधरादिकः ‘अनुगम्य’बुद्धवा 'अर्थं' परमार्थं चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा । अहमनेन मिथ्यात्ववनाज्जन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा - 119 11 २६७ गेहमि अग्गिजालाउलंमि जह नाम इज्झमाणंमि । जो बोइ सुयंतं सो तस्स जणो परमबंधू ॥ जहवा विससंत्तं भत्तं निद्धमिह भोक्तुकामस्स । जोवि सदोसं साहइ सो तस्स जणो परमबंधू ॥ ॥२॥ पू. (५९१) नेता जहा अंधकारंसि राओ, मग्गं न जाणाति अपस्समाणे । से सूरिअस्स अट्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि ।। बृ. अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते यथा हि सजलजलधराच्छादित बहलान्धकारायां रात्रौ 'नेता' नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि 'भार्गं' पन्थानमन्धकारावृतत्वात्स्वह- स्तादिकमपश्यन्न जानाति न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिकचक्रे सम्यगाविर्भूते पाषाणदरिनिम्नोन्नतादिके मार्गं जानाति - विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षु परिच्छिनत्ति - दोषगुणविचारणतः सम्यगवगच्छतीति । एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमधिकृत्याहमू. (५९२) एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥ वृ. यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीते तमसि पश्चाज्जानाति एवं तु 'शिष्यकः' अभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टःअपुष्कलः सम्यगपरिज्ञातो धर्म- श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावपुष्टधर्मा, सचागीतार्थ-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्मं न जानातीति न सम्यक् परिच्छिनत्ति, स एव तु पश्चाद्गुरुकुलवासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमत्वान्निपुणः सूर्योदयेऽपगताचरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति । इदमुक्तं भवति यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्था प्रतीतयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निशङ्क प्रतीयन्त इति । अपिच कदाचिच्चक्षुषाऽन्यताभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा-मरुमरीचिकनिचयो जलभ्रान्त्या किंशुकनिचयोऽभ्याकारेणापीति । न च सर्वज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचार:, तद्व्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धुमशक्यत्वादिति Page #271 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् १/१४/-/५९३ २६८ मू. (५९३) उडूढं अहेयं तिरियं दिसासु, तसा य जे थावरा जे य पाणा । सयाजए तेसु परिव्वज्जा, मणप्पओसं अविकंपमाणे ॥ वृ. शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह ऊर्ध्वधस्तिर्यगत् दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता, द्रव्यतस्तु दर्शयति त्रस्यन्तीति त्रसाः- तेजोवायू द्वीन्द्रियादयश्च, तथा येच स्थावराः-स्थावरनामकर्मोदयवर्तिनः पृथिव्यबूवनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राण- धारणाप्राणिनस्तेषु, 'सदा' सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत् परिसम्ताद्व्रजेत् संयमानुष्ठायी भवेत् । भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसाऽपि न मङ्गुलं चिन्तयेद्, 'अविकम्पमानः' संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति । मू. (५९४) कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥ वृ. गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं वा विशिष्टेन प्रष्टव्यकालेनाचायदिरवसरं ज्ञात्वा प्रजायन्त इति प्रजा-जन्तवस्तासु प्रजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्तादवा जन्तुगतं पृच्छेदिति । स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयतिमुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य वीतरागस्य तीर्थकरस्य वा वृत्तम् - अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति कथमित्याह-‘तद्' आचार्यादिना कथितं श्रोत्रे कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदेशकारी आज्ञा विधायी सन्पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत् चेतसि व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति । 'संख्याय' सम्यक् ज्ञात्वा 'इम' मिति वक्ष्यमाणं केवलिन इदं कैवलिकं- केवलिना कथितं समाधिं-सन्मार्गं सम्यगज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति । पू. (५९५) अस्सिं सुटिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खति तिलोगदंसी, न भुज्जमेयंति पमायसंगं ॥ वृ. किंचान्यत्- 'अस्मिन्' गुरुकुलवासे निवसता यच्छुतं श्रुत्वा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तस्मिन् समाधिभूते मोक्षमार्गे सुष्ठु स्थित्वा 'त्रिविधेने 'ति मनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानस्त्राणकरणशीलो वा तस्य स्वपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवतिअशेषद्वन्द्वोपरमो भवति तथा निरोधम्-अशेषकर्मक्षयरूपम् 'आहुः' तद्विदः प्रतिपादितवन्तः । क एवमाहुरित्याह- त्रिलोकम्-ऊर्ध्वाधस्तिर्यगलक्षणं द्रष्टुं शीलं येषां ते त्रिलोकदर्शिनः Page #272 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१४, २६९ तीर्थकृतः सर्वज्ञास्ते 'एवम्' अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा आचक्षते' प्रतिपादयन्तीति । एतदेवसमितिगुप्त्यादिकं संसारोत्तारणसमर्थ ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं 'प्रमादसङ्गं मद्यविषयादिकं सम्बन्धविधेयत्वेन प्रतिपादितवन्तः ।। किञ्चान्यत्मू. (५९६) निसम्म से भिक्खुसमीहिय, पडिभाणवं होइ विसारए य। आयाणअट्ठी बोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ।। वृ. सगुरुकुलवासी भिक्षुः द्रव्यस्यवृत्तं निशम्य' अवगम्य स्वतः समीहितं चार्थ-मोक्षार्थं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान्' उत्पन्नप्रतिभो भवति । तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छोतॄणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादान-सम्यगज्ञानादिकं तेनार्थ स एव वाऽर्थः आदानार्थः स विद्यते यस्थासावादनार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान व्यवदानं-द्वादशप्रकारं तपो मौनंसंयम आश्रवनिरोधरूपस्तदेवमेतौ तपःसंयमावुपेत्य-प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च । 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारं'ति क्वचित्पाठः, बहुशो भ्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स भारः-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यकत्व उत्कृष्टतः सप्ताष्टौ वा भवान म्रियते नो मिति। मू. (५९७) संखाइ धम्मंच वियागरंति, बुद्धा हु ते अंतकरा भवंति। ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ।। वृतदेवं गुरुकुलनिवासितयाधर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्यासद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं धर्मं श्रुतचारित्राख्यं 'व्यागृणन्ति प्रतिपादयन्ति, यदिवा स्वपरशक्ति परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति । ते चैवंविधा बुद्धाःकालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति। तेयथावस्थितधर्मप्ररूपका 'द्वयोरपि परात्मनोः कर्मपाशविमोचनयास्नेहादिनिगडविमोचनया वाकरणभूतयासंसारसमुद्रस्य पारगा भवन्ति।तेचैवंभूताः? "सम्यक्शोधित' पूर्वोत्तराविरुद्धं 'प्रश्न' शब्दमुदाहरन्ति, तथाहि-पूर्वबुद्धया पर्यालोच्य कोऽयंपुरुषः कस्यचार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक्परीक्ष्य व्याकुर्यादिति, अथवापरेण कञ्चिदर्थं पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तम् - ॥१॥ "आयरियसयासा वधारिएण अत्येण झरियमुनिएणं । तो संघमज्झयारे ववहरिउंजे सुहं होंति ॥ तदेवं ते गीतार्था यथावस्थितं धर्मं कथयन्तः स्वपरतारका भवन्तीति । मू. (५९८) नोछायएनो ऽविय लूसएज्जा, माणं न सेवेञ्ज पगासणं च । नयावि पन्ने परिहास कुजा, नयाऽऽसियावाय वियागरेजा ।। Page #273 -------------------------------------------------------------------------- ________________ २७० सूत्रकृताङ्ग सूत्रम् १/१४/-/५९८ कृ.सच प्रश्नमुदाहरन् कदाचिदन्यथापिब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वाद्रलकरण्डकल्पः कुत्रिकापणकल्पोवाचतुर्दशपूर्विणामन्यतरोवा कश्चिदाचार्यादिमि प्रतिभावनवान्-अर्थविशारदस्तदेवंभूतः कुतश्चिन्निभित्ताश्रीतुः कुपितोऽपिसूत्रार्थं 'नछादयेत्' नान्यथा व्याख्यानयेत्स्वाचार्यवानापलपेत्धर्मकथांवा कुर्वन्नार्थंछादयेद् आत्मगुणत्कर्षाभिप्रायेण वापरगुणानछादयेत्तथा परगुणात्र लूषयेत्-नविडम्बयेत्शास्त्रार्थंवा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेतान मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादितेत्येवमात्मकं मानम्अभिमान-गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न वापि 'प्रज्ञावान्' सुश्रुतिकः परिहासं' केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरितदुपहासप्रायं परिहासं न विदश्चात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ मू. (५९९) भूताभिसंकाइ दुगुंछमाणे, न निव्चहे मंतपदेण गोयं । न किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि न संवएज्जा ॥ वृ, किंनिमित्तमाशीर्वादोन विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वाद 'सावा सपापंजुगुप्समानोन ब्रूयात्तथा गाायत इति गोत्रं-मौनं वाकसंयमस्तं मन्त्रपदेन' विद्यापमार्जन विधिना ननिर्वाहयेत्' ननिसर कुर्यात् । यदिवागोत्रं-जन्तूनांजीवितं मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'ननिहियेत्' नपनयेत्। एतदुक्तं भवति-न राजादिना साधु जन्तुजीवितोपमर्दकं मन्त्रं कुर्यात, तथा प्रजायन्त इति प्रजाः-जन्तवस्तासु प्रजासु मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभपूजासत्कारादिकम् ‘इच्छेद्' अभिलषेत्, तथा कुत्सितानाम् असाधूनांधर्मान्-वस्तुदानतर्पणादिकान् ‘न संवदेत्' नब्रूयायदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथा व्याख्यान वा कुर्वन् प्रास्वात्मश्लाघारूपां कीर्तिं नेच्छेदिति। किञ्चान्यत्मू. (६००) हासं पि नो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे। नो तुच्छए नो यविकंथइजा, अनाइले या अकसाइ भिक्खू ।। वृ.यथा परात्मनोहस्यमुत्पद्यतेतताशब्दादिकं शरीरावयमन्यान्वा पापधर्मान् सावद्यामनोवाक्कायव्यापारान् ‘नसंधयेत्' न विदध्यात्, तद्यथा-इदंछिन्द्धि भिन्द्धि, तता कुप्रावचनिकान् हास्यप्रायं नोप्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा॥१॥ "मृद्वी शय्या प्रातरूत्थाय पेया, मध्ये भक्तं पानकंचापराह्ने। द्राक्षाखण्डं शर्कराचार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥ - इत्यादिकंपरदोषोद्भावनप्रायं पापबन्धकमितिकृत्वा हास्येनापिन वक्तव्यं तथा ओजो' रागद्वेषरहितः सबाह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकार ज्ञपरिज्ञया विजानीयात्प्रत्याख्यानपरिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिकममप्रतारकं 'परुष' कर्मसंश्लेषाभावाग्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयवाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वापरूष-संयम विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्। Page #274 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१,अध्ययनं-१४, २७१ तथा स्वतःकञ्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकंवाऽवाप्य नतुच्छो भवेत् नोन्माद गच्छेत्, तथा 'न विकत्थयेत् नात्मानं श्लाधयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्वयेत्' नात्यन्तंचमढयेत, तथा 'अनाकुलो' व्याख्यानावसरेधर्मकथावसरेवाऽनाविलोलाभादिनिरपेक्षो भवेत्, तथा सर्वदा 'अकषायः' कषायरहितो भवेद् "भिक्षुः साधुरिति । मू. (६०१) संकेज याऽसंकितभाव भिक्खू, विभजवायं च वियागरेजा। भासादुवं धम्मसमुट्टितेहि, वियागरेजा समया सुपने।। वृ.साम्प्रतं व्याख्यानविधिमधिकृत्याह-'भिक्षु' साधुर्व्याख्यानं कुर्वन्नर्वाग्दर्शित्वादर्थनिर्णय प्रति अशङ्कितभावोऽपि 'शङ्केत' औद्धत्यं परिहरन्नहमेवार्थस्तु वेत्ता नापरः कश्चिदित्येवं गर्वन कुर्वीत किंतु विषममर्थं प्ररूपयन्साशङ्कमेव कथयेट्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थन तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं-पृथगर्थनिर्णयवादं व्यागृणीयात् । यदिवा विभज्यवादः-स्याद्वादस्तं सर्वत्रस्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्य पृथक्कृत्वा तद्वादं वदेत्, तद्यथा-नित्यवाद द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्था सन्ति, परद्रव्यादिभिस्तुन सन्ति, तथा चोक्तम्॥१॥ “सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात् ? । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते। इत्यादिकं विभज्यवादंवदेदिति।विभज्यवादमपिभाषाद्वितयेनैव ब्रूयादित्याह-भाषयो:आधचरमयोः सत्यासत्यामृषयोद्विकं भाषाद्विकं तद्भाषाद्वयंक्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदावा 'व्यागृणीयात्' भाषेत, किंभूतः सन् ?-सम्यक्-सत्संयमानुष्ठानेनोस्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवकृत्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणीयादिति। मू. (६०२) अनुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकक्कसेणं । नकत्थई भास विहिंसइजा, निरुद्धगं वावि नदीहइजा ।। वृ.किञ्चान्यत्-तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्यगवबुध्यत, अपरस्तु मन्दमेघावितया वितथम्-अन्यथैवाभिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा-तेन तेन हेतूदाहरणसधुक्तप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्सयन् यथा यथाऽसौ बुध्यते तथा तथा 'साधु सुष्टुबोधयेत् न कुत्रचिन्छुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत् __ तथाप्रश्नयतस्तद्भाषामपशब्दादिदोषटामपिधिग्मूर्खासंस्कृतमते! किंतवानेनसंस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं 'न विहिंस्यात्' न तिरस्कुर्याद् असंबद्धदघट्टनतस्तंप्रस्नयितारं न विडम्बयेदिति । तथा निरुद्धम्-अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुदरणार्कविटपिकाष्टिका न्यायेन्य कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्तानुप्रसक्त्या 'न दीर्घयेत्' न दीर्घकालकं कुर्यात्, तथा चोक्तम् - Page #275 -------------------------------------------------------------------------- ________________ २७२ ॥ १ ॥ सूत्रकृताङ्ग सूत्रम् १/१४/-/६०२ "सो अत्थो वत्तव्वो जो भण्णइ अक्खरेहिं थोवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारं ।। तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यवल्पाक्षरं महार्थं तदिह प्रशस्यत इति ॥ मू. (६०३) समालवेज्जा पडिपुत्रभासी, निसामिया समिया अट्ठदंसी । आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥ वृ. अपिच-यत्पुनरतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग् -शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनतश्चालपेद् भाषेत समालपेत्, नाल्पैरेवाक्षरैरुकृत्वा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्तादिभिः श्रोतारमपेक्ष्य प्रतिपृणभाषी स्याद्अस्खलिता- मिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचायदिः सकाशाद्यथावदर्थं श्रुत्वा निशम्य अवगम्य च सम्यग यथावस्थितमर्थं गुरुसकाशादवधारितमर्थं प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी स एवंभूतः संस्तीर्थ कराज्ञया सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम्' अवदातं पूर्वापराविरुद्धं निरवद्यं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविषये चापवादं तथा स्वपरसमययोर्यथास्वं वचनमभिवदेत् । एवं चाभियुञ्जन् भिक्षुपापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्क्षमाणो निर्दोषं वचनमभिसन्धयेदिति । पुनरपि भाषाविधिमधिकृत्याह मू. (६०४) अहाबुइयाइं सुसिक्खएज्जा, जइज्जया नातिवेलं वदेज्जा । से दिट्टिमं दिट्ठिन लूसएज्जा, से जाणई भासिउं तं समाहिं ॥ वृ. यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्ठु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया त्वनवरतमुद्युक्त विहारितयाऽऽ सेवेत, अन्येषां च तथैव प्रतिपादयेद्, अतिप्रसक्तलक्षणनिवृत्तये त्वपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलक्ष्य नातिवेलं वदेद् अध्ययनकर्तव्यमर्यादां नातिलङ्घयेत्सदनुष्ठानं प्रति व्रजेद्वा, यथावसरं परस्पराबाधया सर्वा क्रियाः कुर्यादित्यर्थः स एवंगुण जातीयो यथाकालवादी यथाकालचारी च 'सम्यगष्टिमान्' यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् 'द्दष्टिं' सम्यगदर्शनं 'न लूषयेत्' न दूषयेत् । इदमुक्तं भवति-पुरुषविशेषं ज्ञात्वा तथा तथा कथनीयमपसिद्धान्तदेशना परिहारेण यथा यथा श्रोतुः सम्यक्त्वं स्थिरिभवति, न पुनः शङ्कोत्पादनतो दूष्यते, यश्चैवंविधः स 'जानाति ' अवबुध्यते 'भाषितुं' प्ररूपयितुं 'समाधिं' सम्यगदर्शनज्ञानचारित्राख्यं सम्यचित्त व्यवस्थानाख्यं या तं सर्वज्ञोक्तं समाधिं सम्यगवगच्छतीति ॥ भू. (६०५) अलूसए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज्ज ताई । सत्थारभत्ती अणुवीइ वायं, सुयं च सम्मं पडिवाययंति । वृ. किंचान्यत्- 'अलूस' इत्यादि, सर्वज्ञोक्तमागमं कथयन् 'नो लूषयेत्' नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत्, तथा 'न प्रच्छन्नभाषी भवेत्' सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तच्छत्रभाषणेन न गोपयेत् यदिवा प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत, तद्धि सिद्धान्तर Page #276 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१४, २७३ हस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम् - ॥१॥ "अप्रशान्तमतौ शास्त्रसद्मावप्रतिपादनम्। दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे ।। इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं तदर्थवा संसारावायी-त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथासूत्रंन कर्तव्यमित्याह-परहितैकरतः शास्ता तस्मिन्शास्तरिया व्यवस्थिता भक्ति-बहुमानस्तयातद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन नकदाचिदागमबाधा स्यादित्येवंपर्यालोच्य वादंवदेत्, तथा यच्छ्रुतमाचार्यदिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्यऋणमोक्षप्रतिपद्यमानः प्रतिपादयेत्' प्ररूपयेन्न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति।। मू. (६०६) से सुद्धसुत्ते उवहाणवंच, धम्मंचजे विंदति तत्थ तत्थ। आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ।। -त्तिबेमि। वृ. अध्ययनोपसंहारार्थमाह-'स' सम्यगदर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम् अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्र-प्रवचनं यस्यासौशुद्धसूत्रः, तथोपधानं तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमेतद्विद्यतेयस्यासावुपधानवान्, तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते। ___ 'तत्र तत्रे'तिय आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलो' निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'त' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं प्रतिपादयितुं, नापरः कश्चिदिति । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वद्व्याख्येयाः। अध्ययनं-१४ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य चतुर्दशमध्ययनटीका परिसमाप्ता। (अध्ययनं-१५ आदानीय/जमतीयं) वृ.अथ चतुर्दशाध्ययनानन्तरंपञ्चदशमारभ्यते,अस्यचायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यमिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो याद्दगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोयक्रम अन्तर्गतोऽर्थाधिकारोऽयं, तद्यथा. आयतचारित्रेण साधुनाभाव्यं नामनिष्पनेतुनिक्षेपेआदानीयमिति नाम, मोक्षार्थिनाऽ Page #277 -------------------------------------------------------------------------- ________________ २७४ सूत्रकृताङ्ग सूत्रम् १/१५/-/६०६/नि. [१३२] शेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यतआदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेप कर्तुकामो नियुक्तिकृदाह-- नि. [१३२] आदाणे गहणंमि य निक्लेवो होति दोण्हवि चउक्को । एगट्ठ नाणठं च होज पगयं तु आदाणे॥ नि. [१३३] जं पढमस्संतिमए बितियस्स उतं हवेज्ज आदिनि । एतेणादाणिज्जं एसो अन्नोऽवि पन्जाओ। वृ.अथवा 'जमतीयं तिअस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तब ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिनातदित्यादानं, कर्मणिल्युट प्रत्ययः, करणेवा, आदीयतेगृह्यते स्वीक्रियतेविवक्षितमनेनेतिकृत्वा । आदानंच पर्यायतो ग्रहणमित्युच्यते, ततआदानग्रहणयोनिक्षेपो भवति द्वौ चतुष्क, तद्यथानि. [१३४] नामादी ठवणादी दव्वादी चेव होति भावादी। दव्वादी पुण दव्वस्स जो सभावो सए ठाणे॥ वृ. नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा । भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधाधुदयो मिथ्यात्वाविरत्यादिकंवा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यगज्ञानादिकं वेत्येतदर्थ-प्रतिपादनपरमेतदेववाऽध्ययनंद्रष्टव्यमिति,एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति। एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्नेन्द्रादिवदेकार्थम्-अभिन्नार्थं भवेत् , शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण च नानार्थं भवेत् । इह तु 'प्रकृतं प्रस्ताव 'आदाने' आदानविषयेयत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति। आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थ उभयतश्चद्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण:आद्यन्तपदसशत्वेनादानीयंभवति, एतेन प्रकारेण-आद्यन्तपदसशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्यायः' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादान दिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादी भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इतमेव वाऽध्ययनम्, आधन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेनिक्षेपं कर्तुकाम आह-आदेनामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादि दर्शयति-द्रव्यादि पुनः 'द्रव्यस्य' परमाण्वादेर्य 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने स्वकीये पर्याये प्रथमम् Page #278 -------------------------------------------------------------------------- ________________ अध्ययनं - १५, श्रुतस्कन्धः - १, २७५ आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्यः आद्यः परिणतिविशेषः क्षीरस्य विनाशकाल - समकालीनः, एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः ?, तथाहि । उत्पादविनाशी भावाभावरूपी वस्तुधर्मी वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति । नि. [१३५] आगमनोआगमओ भावादी तं वुहाउवदिसंती । नोआगमओ भावो पंचविहो होइ नायव्वो । वृ. साम्प्रतं भावादिमधिकृत्याह- भावः - अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरणगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति तद्यथा-आगमतो नोआगमतश्च तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् 'पञ्चविधः' पञ्चप्रकारो भवति, तद्यथा- प्राणाति-पातविरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति । नि. [१३६ ] आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपाद अक्खराई च तत्थादी ॥ वृ. तथा 'आगमओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा-यदेतद्गणिनःआचार्यस्य पिटकं सर्वस्वमाधारो वा तद्द्वादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकत्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम्, एवंविधो बहुप्रकारो भावादिर्द्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां त्वङ्गानामाचाराङ्गमादिस्तस्यापि ज्ञपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि 'सुयं' ति पदं तस्यापि सुकार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशक श्लोकपादपदवर्णादिर्द्रष्टव्य इति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्मू. (६०७) जमतीतं पडुपनं, आगमिस्सं च नायओ । सव्वं मन्नति तं ताई, दंसणावरणंतए । वृ. अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽ हति तथोक्यं समाधिं भाषितुं यश्च यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति । परम्परसूत्रसम्बन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतद्बुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति । तदेवं प्रतिपादितसम्बन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावि तस्यासौ सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो 'नायकः' प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वं च परिज्ञाने सति भवत्यतस्तदुपदिश्यते - 'सर्वम्' Page #279 -------------------------------------------------------------------------- ________________ २७६ सूत्रकृताङ्ग सूत्रम् १/१५/-1६०७ अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्च मनुतेअसीजानातिसम्यकपरिच्छिनत्तितत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौ-त्राणकरणशीलः, यदिवा 'अयवयपयमयचयतयणयगता' वित्यस्य धातोर्धप्रत्ययः, तयनंतायःसविद्यतेयस्यासी तायी, 'सर्वे गत्यर्था ज्ञानार्थी' इतिकृत्वा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञःसर्वदर्शीचेत्युक्तंभवति, नच कारणमन्तज्ञानार्थीइतिकृत्वा सामान्यस्यपरिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं भवति, न च कारणमन्तरेण कार्य भवतीत्यतइदमपदिश्ते-दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणेतु घातिचतुष्टयस्यान्तकृद् द्रष्टव्य इति। मू. (६०८) अंतए वितिगिच्छाए, से जाणति अनेलिसं। अनेलिसस्स अक्खाया, न से होइ तहिं तहिं ।। वृ. यश्च धातिचतुष्टयान्तकृत्स ईद्दग्भवतीत्याह-विचिकित्सा-चित्तविप्लुति संशयज्ञानं तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थ परिच्छेदादन्ते वर्तते, इदमुक्तं भवति-तत्र दर्शनावरणक्षयप्रतिपादानात् ज्ञानाद्, भिन्नं दर्शनमित्युक्तं भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोरचिन्त्यशकत्युपेतत्वात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणक्षयप्रतिपादनेन निरस्तोभवतीति, यश्चघातिकर्मान्तकृदतिक्रान्तसंशयादिज्ञानः सः ‘अनीशम्' अनन्यसशं जानीते न तत्तुल्य वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयस्त्रपेणैव विज्ञान विद्यत इत । इदमुक्तं भवति-न तज्ज्ञानमितरजनज्ञानतुल्यम्, अतो यदुक्तं मीमांसकैः-सर्वज्ञस्य सर्वपदार्थपपरिच्छेदकत्वेऽभ्युपगम्यमाने सर्वदा स्पर्शरूपरसगन्धवर्णशब्दपरिच्छेदादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यं, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि शेषहेतोरभावादर्हत्येव संप्रत्ययो नोपपद्यते, तथा चोक्तम् - ॥१॥ "अर्हन् यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रभा? । ____ अथोभावि सर्वज्ञौ, मतभेदस्तयोः कथम्? । इत्यादि, एतत्परिहारार्थमाह-'अनीशस्य अनन्यसद्दशस्य यः परिच्छेदक आख्याताच नासौ 'तत्रतत्र' दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनि सर्वं क्षणिकमिच्छन् पर्यायानेवेच्छतिन द्रव्यं, द्रव्यमन्तरेण च निर्बीजत्वात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छाताऽवश्यमकामेनापितदाधारभूतं परिणामिद्रव्यमेष्टव्यं, तदनभ्युपगमात्र नासौसर्वज्ञइति।तथाअप्रच्युतानुत्पन्नस्थिरैकस्वभावस्यद्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयमानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपिन सर्वज्ञ इति, तता क्षीरोदकवदभिन्नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञत्वम् । असर्वज्ञत्वाच्च तीर्थान्तरीयाणांमध्ये न कश्चिदप्यनीशस्य-अन्यसशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यर्हन्नेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य स्वाख्यातेतिन तत्र तत्रेति स्थितम्। Page #280 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१५, २७७ मू. (६०९) तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए। सया सच्चेण संपन्ने, मित्तिं भूएहिं कप्पए । वृ. साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञत्वमर्हतश्च सर्वज्ञत्वं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह-तत्र तत्रेतिवीप्सापदं यद्यत्तेनार्हताजीवाजीवादिकंपदार्थजातंतथा मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृत्वा संसारकारणत्वेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्वं पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातंस्वाख्यातं । तीर्थिकवचनं तु 'न हिंस्याद्भूतानीति भणित्वा तदुपमर्दकारम्भाभ्यनुज्ञानापूर्वोत्तरविरोधितयातत्र तत्रचिन्त्यमानं नियुक्तिकत्वान्नस्वाख्यातं भवति,सचाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सद्यो हितत्वाच्च सत्यः ‘स्वाख्यातः' तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो ह्यनृतकारणं तेच तस्यन सन्तिअतः कारणाभावात्कार्याभाव इतिकृत्वा तद्वचो भूतार्थप्रतिपादक, तथा चोक्तम् -- ॥१॥ “वीतरागा हि सर्वज्ञा, मिथ्या नब्रुवते वचः । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम्॥ ननु च सर्वज्ञत्वमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम् “सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तुपश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? ।। इत्याशङ्कयाह- सदा सर्वकालं सत्येन अवितथभाषणत्वेनसंपन्नोऽसौ अवितथभाषणत्वं चसर्वज्ञत्वे सतिभवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञानासंभवे सर्वत्रापरिज्ञानमाशङ्कयेत, तथा चोक्तम् - ___ “सशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञत्वं तस्य भवतएष्टव्यम्, अन्यथा तद्वयसः सदासत्यतानस्यात्, सत्योवासंयमः सन्तः-प्राणिनस्तेभ्यो हितत्वाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा' सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नश्चासौ 'भूतेषु जन्तुषु मैत्री तद्रक्षणपरतया भूतदयां कल्पयेत्' कुर्यात, इदमुक्तं भवति । परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत्, तथा चोक्तम्॥१॥ मातृवत्पर दाराणि परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥ मू. (६१०) भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ। बुसिमंजगं परिनाय, अस्सिं जीवितभावना ॥ वृ. यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भ तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः' अनन्तरोक्तो भूताविरोधकारी 'धर्म' स्वभावः पुण्याख्यो वा 'वुसीमओ'त्ति तीर्थकृतोऽयं सत्संयमवतो वेति। तथा सत्संयमवान्साधुस्तीर्थकृद्धा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणी-तागमपरिज्ञाने वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन् जगतिमौनीन्द्रेवाधर्मेभावनाः पञ्चविंश- तिरूपा द्वादशप्रकारा वा या अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः Page #281 -------------------------------------------------------------------------- ________________ २७८ सूत्रकृताङ्ग सूत्रम् १/१५/-/६१० सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति । सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाहभावणाजोगसुद्धप्पा, जले नावा व आहिया । नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टइ ॥ मू. (६११) वृ. भावनाभिर्योगः सम्यकप्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारस्वभावो नीरिव जलोपर्यवतिष्ठते संसारोदन्यत इति, नौरिव यथा जलेऽ निमज्जनत्वेन प्रख्याता एवमसावपि संसारोदन्वति न निमज्जतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमाय- तचारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखामकात्संसारात् 'त्रुट्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति । मू. (६१२) तिउट्टई उ मेघावी, जाणं लोगंसि पावगं । तुति पावकम्माणि, नवं कम्ममकुव्वओ ॥ वृ. अपिच स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो. मनोवाक्कायेभ्योऽशुभेभ्यस्त्रुट्यति, यदिवा अतीव सर्वबन्धनेभ्यस्त्रुट्यति-मुच्यते अतित्रुट्यतिसंसारादतिवर्तते 'मेघावी' मर्यादाव्यवस्थितः सदसद्विवेकी वाऽस्मिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापकं कर्म सावद्यानुष्ठानरूपं तत्कार्यं वा अष्टप्रकारं कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् तस्त्रुट्यति । तस्यैवं लोकं कर्म वा जानतो नवानि कर्माण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते वा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति ॥ सू. (६१३) अकुव्वो नवं नत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई न मिजई ॥ वृ. केषाञ्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ स्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवतीदमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि ‘नवं’ प्रत्यग्रं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिकृत्वा, कर्माभावे च कुतः संसाराभिगमनं ?, कर्मकार्यत्वात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाऽभावाद्रागद्वेषरहिततया स्वदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माटप्रकारमपि कारणतस्तद्विपाकतश्च जानाति, नमनं नाम-कर्मनिर्जरणं तच्च सम्यक् जानाति, यदिवा कर्म जानाति तन्नामच, अस्य चोपलक्षणार्थत्वात्तद्भेदाश्च प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते । संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनास्मिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि भ्रियते, यदिवा-जात्या नारकोऽयं तिर्यगयोनिकोऽयमित्येवं न मीयते न परिच्छिद्यते, अनेन च कारणाभावात्संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते । "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ ॥ १ ॥ Page #282 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१५, २७९ इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तप्रतिपादिकाया युक्तेरसंभवादिति । मू. (६१४) मिजई महावीरे, जस्स नत्यि पुरेकडं। वाउव्व जालमचेति, पिया लोगंसि इथिओ॥ वृ.किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकर्मानजात्यादिना मीयते' परिच्छिद्यते, नभ्रियतेवा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन न म्रियते-न पूर्यते, किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृतं' जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य ‘नास्ति' न विद्यते पुरस्कृतं, पुरस्कृतकर्मोपादानाभावाच्च न तस्यजातिजरामरणैर्मरणं संभाव्यते । तदाश्रवद्वारनिरोधाद्, आश्वाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वालां' दहनामिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं लोके' मनुष्यलोके हावभावप्रधानत्वात् 'प्रिया' दयितास्तत्रियत्वाञ्च दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाचेति, तथा चोक्तम॥१॥ "स्मितेन भावेन मदेन लज्जया, परामुखैरर्घकटाक्षवीक्षितैः । वचोभिरीष्यार्कलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ।। ॥२॥ स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ।। इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति?, अत्रोच्यते, केषाञ्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः -- ॥१॥ “न मांसभक्षणे दोषो, न मधेन च मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला॥ इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एवधर्मः इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानिइदंतुनिरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि,अथवा सर्वाण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराघनमितिकृत्वा येन केनचिन्निर्देशो न दोषायेति ।। -अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाहमू. (६१५) इथिओ जे न सेवंति, आइमोक्खा हु ते जणा। तेजणा बंधणुम्मुक्का, नावकंखंति जीवियं ।। वृ.येमहासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणया स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलषन्तित एवंभूताजना इतरजनातीताः साधव आदौप्रथमं मोक्षः-अशेषद्वन्दोपरमरूपो येषांते आदिमोक्षाः-प्रधानभूतमोक्षाख्यपुरुषार्थोथताः, आदिशब्दस्य प्रधानवाचित्वात्, न केवल Page #283 -------------------------------------------------------------------------- ________________ २८० सूत्रकृताङ्ग सूत्रम् १/१५/-१६१५ मुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्तयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकाङ्क्षन्ति' नाभिलषन्ति असंयमजीवितम्अपरमपिपरिग्रहादिकं नाभिलषन्ते, यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षकताना 'जीवितं' दीर्घकालजीवितं नाभिकाङ्क्षन्तीति । मू. (६१६) जीवितं पिट्टओ किच्चा, अंतं पावंति कम्मुणं। कम्मुणा संमुहीभूता, जे मग्गमनुसासई। १. किंचान्यत्-'जीवितम्' असंयमजीवितं पृष्ठतः कृत्वा' अनाहत्य प्राणधारणलक्षणं वाजीवितमनाध्त्य सदनुष्ठानपरायणाः 'कर्मणां' ज्ञानावरणादीनाम् 'अन्तं प्रयवसानंप्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेनजीवितनिरपेक्षाः संसारोदन्वतोऽन्तं-सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमानुवन्ति।सर्वदुःखविमोक्षलक्षणंमोक्षमप्राप्ताअपिकर्मणा-विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूताघातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवंभूता इत्याह-ये विपच्यमानतीर्थकृनामकर्माणः समासादितदिव्यज्ञाना मार्ग मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति । मू. (६१७) अनुसासणं पुढो पाणी, वसुमं पूयणासुते। अनासए जते दंते, दढे आरयमेहुणे ।। वृ.अनुशासनप्रकारमधिकृत्याह-अनुशास्यन्ते सन्मार्गेऽवतार्यन्तेसदसद्विवेकतः प्राणिनो येनतदनुशासन-धर्मदेशनया सन्मार्गावतारणंतत्पृथक्पृथक् भव्याभव्यादिषुप्राणिषुक्षित्युदकवत् स्वाशयवशादनेकधा भवति, यद्यपिचअभव्येषु तदनुशासनंनसम्यक्परिणमतितथापिसर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वीपघातकारिन यथावत् परिणमति, तथा चोक्तम्॥१॥“सद्धर्मीजवपनानघकौशल्य, यल्लोकबान्धव! तवापि खिलान्यबूवन् । तत्राद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः।। किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यंसचमोक्षप्रतिप्रवृत्तस्यसंयमः तद्विद्यते यस्यसौ वसुमान, पूजनं-देवादिकृतमशोकादिकमास्वादयति-उपभुङ्कतइति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौसत्संयमवानित्याशङ्कयाह-न विद्यते आशयः-पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽना-स्वादकोऽसौ, तद्गतगा(भावात्, सत्यप्युपभोगे यतः प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणत्वात्, कुतो? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम्उपरतमपगतंमैथुनं यस्यस आरतमैथुन:-अपगतेच्छामदनकामः, इच्छामदनकामाभावाच्च संयमे ढोऽसौ भवति, आयतचारित्रत्वाच्चदान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच्च प्रयतः,प्रयत्लवत्त्वाच्च देवादिपूजनानास्वादकः, तदनास्वादनाच्च सत्यपि द्रव्यतः परिभोगेसत्संयमवानेवासाविति मू. (६१८) नीवारे व न लीएज्जा, छिन्नसोए अनाविले। ___ अनाइले सया दंते, संधि पत्ते अनेलिसं॥ घृ. अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह-नीवारः-सूकरादीनां पशूनां वध्यस्थान ___ Page #284 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १५, प्रवेशनभूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं, यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनाने न स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्वो 'न लीयेत' न स्त्रीप्रसङ्ग कुर्यात्, किंभूतः सन्नित्याह - २८१ छिन्नानि अपनीतानि स्रोतांसि संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिस्रोताः, तथा 'अनाविलः' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो 'सदा' सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईग्विधश्च कर्मविवरलक्षणं भावसंधिम् 'अनीध्शम्' अनन्यतुल्यं प्राप्तो भवतीति । किञ्च सू. (६१९) अनेलिसस्स खेयत्रे, न विरुज्झिज्ज केणइ । मणसा वयसा चेव, कायसा चैव चक्खुमं ॥ वृ. 'अनीध्शः' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्व केनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्रीं भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- 'मनसा' अन्तःकरणेन प्रशान्तमनाः, तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति । पू. (६२०) से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंते खुरो वहती, चक्क अंतेण लोडती ॥ खू. अपिच हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीध्शस्य खेदज्ञो भव्यमनुष्याणां चक्षुसदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ ?, यः 'काङ्क्षायाः ' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवर्तीति विवक्षितमर्थं साधयति ?, साधयत्येवेत्यमुमुर्थं दृष्टान्तेन साधयन्नाह - 'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपिरथाङ्गामन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥ मू. (६२१) अंताणि धीरा सेवंति, तेन अंतकरा इह । इह माणुस्सए ठाणे, धम्माराहिउं नरा ।। बृ. अमुभेवार्थमाविर्भवयन्नाह - 'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्त्वा विषयसुखनिस्पृहाः 'सेवन्ते' अभ्यस्यन्ति तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति । 'इहे' ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयः अन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये- यवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति - यू. (६२२) निट्ठियड्डा व देवा वा, उत्तरीए इयं सुयं । सुयं च मेयमेगेसिं, अमणुस्सेसु नो तहा ॥ वृ. इदमेवाह- 'निष्ठितार्था' कृतकृत्या भवन्ति केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामग्र्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चोत्तरविमानावसाना देवा Page #285 -------------------------------------------------------------------------- ________________ २८२ सूत्रकृताङ्ग सूत्रम् १/१५/-/६२२ भवन्तीति एतल्लोकोत्तरीये प्रवचने श्रुतम् आगमः एवंभूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह-यथा मयैतल्लोकोत्तरीये भगवत्यर्हत्युपलब्धं, तद्यथा अवाप्तसम्यक्त्वादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । मनुष्यगतावेवैतन्नान्यत्रेति दर्शयितुमाह 'सुयं मे' इत्यादि पश्चार्द्ध, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशिष्याणामेकेषामिदमाह - यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा - देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति - इदमेव स्वनामग्राहमाहमू. (६२३) अंत करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुन एगेसिं, दुल्लभेऽयं समुस्सए ॥ वृ. न ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात्, तयथैकेषां वादिनामाख्यातं, तद्यथा देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह - आर्हते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथायुगसमिलादिन्यायावाप्तकथञ्चित्कर्मविवरात् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिर्महा - समुद्रप्रभ्रष्टरत्लवत्पुनर्दुर्लभो भवति, तथा चोक्तम् ॥१॥ "ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् - मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।। (इत्यादि) इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहचाओ, जे धम्मटुं वियागरे ॥ पू. (६२४) वृ. अपिच- 'इतः ' अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो 'बोधि' सम्यगदर्शनावाप्तिः सुदुर्लभा उत्कृष्टः अपार्धपुद्गलपरावर्तकालेन यतो भवति, तथा 'दुर्लभा' दुरापा तथाभूता - सम्यगदर्शनप्राप्तियोग्या । 'अर्चा' लेश्याऽन्तःकरणपरिणतिकृतधर्मणामिति, यदिवाऽर्चा मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्र सुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थं व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः तेषां तथाभूताच सुदुर्लभा भवतीति । जे धम्मं सुद्धमक्खंति, पडिपुन्नमनेलिसं । मू. (६२५) अनेलिसस्स जं ठाणं, तरस जम्मकहा कओ ? ॥ घृ. किञ्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगारः त एवंभूताः परिहितैकरताः 'शुद्धम्' अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्णं यथाख्यातचारित्ररूपं वा 'अनीशम्' अनन्यसध्शं धर्मम् आख्यान्ति अनुतिष्ठन्ति । तदेवम् 'अनीध्शस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा ?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत ? इति तथोक्तम् । Page #286 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१५, २८३ - - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः।। मू. (६२६) कओ कयाइ मेघावी, उप्पजंति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सनुत्तरा।। इत्यादि । वृ.किंचान्यत्-कर्मबीजाभावात् 'कुतः कस्मात्कदाचिदपि 'मेघाविनो' ज्ञानात्मकाःतथाअपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते ?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः। तथा तथागताः' तीर्थकृद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ- निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारंकुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञाभवन्तीति ।। किञ्चान्यत्मू. (६२७) अनुत्तरेय ठाणे से, कासवेण पवेदिते। जं किच्चा निव्वडा एगे, निर्ल्ड पार्वति पंडिया ।। वृ.नविद्यते उत्तरं-प्रधानं यस्मादनुत्तरं स्थानंतच तत्संयमाख्यं काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानस्वामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमाविर्भावयन्नाह - 'यद् अनुत्तरं संयमस्थानं एके महासत्त्वाः सदनुष्ठायिनः कृत्वा' अनुपाल्य 'निवृताः' निर्वाणमनुप्राप्ताः, निवृताश्च सन्तः संसारचक्रवालस्य निष्ठां पर्यवसानं ‘पण्डिताः' पापाड्डीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थ ः। मू. (६२८) पंडिए वीरियं लहूं, निग्घायाय पवत्तगं। धुणे पुव्वकडं कम्म, नवं वाऽवि न कुव्वती ।। वृ.अपिच-'पण्डितः' सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्यं तपोवीर्यं वा 'लब्ध्वा' अवाप्य,तदेव वीर्यं विशिनष्टि-निशेषकर्मणो 'निर्थाताय' निर्जरणायप्रवर्तकपण्डितवीर्य तन्त्र बहुमवशतदुर्लभं कथञ्चित्कर्मविवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वनेकेषु यत्कृतम्-उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान्न करोत्यसाविति। मू. (६२९) कुव्वती महावीरे, अनुपुब्बकडं रयं । रयसा संमुहीभूता, कम्मं हेचाण जं मयं ।। वृ. किञ्च-'महावीरः' कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'नकरोति' नविधत्ते, यतस्तयाक्तनोपात्तरजसैवोपादीयते, सच तत्त्पाक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च यन्मतमष्टप्रकारं कर्म तत्सर्वं हित्वा' त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति । मू. (६३०) अभविंसु पुरा वीरा, आगमिस्सावि सुब्बता।। दुनिबोहस्स मग्गस्स, अंतं पाउकरा तिने-त्तिबेमि ।। ___ वृ. अन्यञ्च-'जम्मय'-मित्यादि, सर्वसाधूनां यत् ‘मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, Page #287 -------------------------------------------------------------------------- ________________ २८४ सूत्रकृताङ्ग सूत्रम् १/१५/-१६३० तद्विशिनष्टि-शल्यं-पापानुष्ठानं तज्जनितंवा कर्मतत्कर्तयति-छिनत्तियत्तच्छल्यकर्तनंतच्च सदनुष्ठानं उद्युक्तविहारिणः साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारंतीर्णा, अपरेतु सर्वकर्मक्षयाभावात् देवा अभूवन, ते चाप्तसम्यक्त्वाः सचारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति। 0 सर्वोपसंहारार्थमाह-'पुरा' पूर्वस्मित्रनादिके काले बहवो ‘महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करष्यन्ति चेत्याह । यस्य दुर्निबोधस्य-अतीव दुष्प्रापस्य ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, त च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्ती, ब्रवीमीति पूर्ववत् । अध्ययनं-१५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाशाचार्यविरचिता प्रथम श्रुतस्कन्धस्य पञ्चदशमध्ययनटीका परिसमाप्ता। (अध्ययनं-१६ “गाथा") वृ.उक्तंपञ्चदशमध्ययनं, साम्प्रतंषोडशमारभ्यते, अस्यचायमभिसंबन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषुयेऽर्था अभिहिता विधिप्रतिषेधद्वारेणतान्तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, तेचामीअर्थाः, तद्यथा-प्रथमाध्ययनेस्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभि कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भवति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकलोपसर्गान् सम्यक् सहमानः साधुर्भवतिचतुर्थे तुस्त्रीपरीषहस्यदुर्जयत्वात्तजयकारीतिपञ्चमेतुनरकवेदनाभ्यः समुद्विजमानस्तप्रायोग्यकर्मणो विरतः सन्माधुत्वमवाप्नुयात् षष्ठेतु यथा श्रीवीरवर्धमानस्वामिनाकर्मक्षयोद्यतेन चतुर्ज्ञानिनाऽपि संयमं प्रति प्रयन्तः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परिहारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तुबालवीर्यपरिहारेण पण्डितवीर्योधतेन सदा मोक्षाभिलाषिणा भाव्यं । नवमे तु यथोक्तं क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तुसंपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यगदर्शनज्ञानचारित्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्तेद्वादशे तुतीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषुश्रद्धानं विधत्तेत्रयोदशेतुशिष्यगुणदोषविज्ञः सद्गुणेषुवर्तमानः कल्याणभाग्भवति चतुर्दशेतु प्रशस्तभावग्रभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यतइति। तदेवमनन्तरोक्तेषुपञ्चदशस्वध्ययनेषुयेऽर्था प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्तुपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽ-धिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः । नामनिष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम । तत्र गाथानिक्षेपार्थं नियुक्तिकृदाह ___ Page #288 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१६, २८५ नि. [१३७] नामंठवणागाहा दव्वगाहा य भावगाहाय। पोत्थगपत्तगलिहिया सा होई दव्वगाहा उ॥ वृ. तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापिनामस्थापने क्षुणत्वादनाध्त्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्यशरीरव्यत्तिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा । ॥१॥ जयति नवनलिनकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुललियगयविक्कमो भगवं ।। अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । नि. [१३८] होति पुण भावगाहा सागारूवओगभावनिप्फन्ना। महुराभिहाणजुत्ता तेणं गाहत्तिणं बिंति ।। वृ. भावमाथामधिकृत्या- हभावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायप-शमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्युच्यते, समस्तस्यापिच श्रुतस्य क्षायोप-शमिकभावे व्यवस्थितत्वात्, तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते इति।पुनरपि तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोप- निबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्तिवातामिति गाथा, यतएवमतस्तेन कारणेन गाथामिति तांब्रुवते णिमितिवाक्यालङ्कारे एनां वा गाथामिति नि. [१३९] माहीकया व अत्था अहव न सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नोऽवि पज्जाओ। वृ.अन्यथावा निरुक्तिमधिकृत्याह-गाथीकृताः' पिण्डीकृता विक्षिप्ताः सन्तएकत्रमीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्दः'अनिबद्धंच यल्लोके, गाथेति तत्पण्डितैः प्रोक्तम्" । एषः अनन्तरोक्तो गाथाशब्दस्य पर्यायो' निरुक्तं तात्पर्यार्थोद्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकृता वाऽर्था सामुद्रेण वाछन्दसेति गाथेत्युच्यते, अन्यो वास्वयम्भूह्य निरुक्तविधिना विधेय इति। पिण्डितार्थग्राहित्वमधिकृत्याहनि. [१४०] पन्नरससुअज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिडियवयणेणऽत्थं गहेति तम्हा ततो गाहा।। वृ. पञ्चदशस्वप्यध्ययनेषुअनन्तरोक्तेषु पिण्डितः' एकीकृतोऽर्थोयेषांतानिपिण्डितानि तेषु सर्वेष्वपि य एवं व्यवस्थितोऽस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यस्माद् ग्रन्थात्येतदध्ययनं षोडशं ततः' पिण्डितार्थग्रथनाद्गाथेत्युच्यत इति । 'तत्त्वभेदपर्यायाख्ये तिकृत्वा तत्त्वार्थमधिकृत्याहनि. [१४१] सोलमसे अज्झयणे अनगारगुणाण वण्णणा भणिया। - गाहासोलसनामं अन्झयणमिणं ववदिसंति ।। वृ. षोडशाध्ययने अनगाराः-साधवस्तेषां गुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतोवर्णनाऽभिहिता उक्ताऽतो गाथाषोडशाभिधानमध्ययनमिदं व्यपदिशन्ति प्रतिपादयन्ति।उक्तो नामनिष्पन्ननिक्षेपनियुक्त Page #289 -------------------------------------------------------------------------- ________________ २८६ सूत्रकृताङ्ग सूत्रम् १/१६/-/६३०/ नि. [१४१] यनुगमः, तदनन्तरंसूत्रस्पर्शिकनियुक्तनुगमस्यावसरः, सच सूत्रे सति भवति, सूत्रंच सूत्रानुगमे, असावप्यवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुचारणीयं, तम्चेदम् मू. (६३२/१) अहाह भगवं-एवं से दंते दविए योसट्टकाएत्ति वञ्चे माहणेत्ति वा १ समणेत्ति वा २ भिक्खूत्ति वा ३ निग्गंथेत्तिवा४ पडिआह-भंते ! कहनु दंते दविए वोसट्टकाएत्ति बच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा निग्गंथेत्तिवा? तं नो ब्रूहि महामुनी! ।। इतिविरए सव्वपावकम्मेहिं पिजदोसकलह० अब्भक्खाण० पेसुन्न० परिपरिवाय० अरतिरति० मायामोस० मिच्छादसणसल्लविरए समिए सहिए सया जए कुज्झे नो माणी माहणेत्ति बच्चे। वृ. 'अथे' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु बुध्येतेत्यनेनाभिहितं, अत आद्यन्तयोर्मङ्गलत्वात्सर्वोऽपि श्रुतस्कन्धोमङ्गलमित्येतदनेनावेदितंभवति।आनन्तर्येवाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते । अथानन्तरमाह-'भगवान्' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः ससाधुर्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् 'द्रव्यंच भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहित्वाद्वाजात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति व्युत्सृष्टकायः। तदेवंभूतः सन्पूर्वोक्ताध्ययनार्थेषुवर्तमानःप्राणिनःस्थावरजङ्गमसूक्ष्मबादरपर्याप्तकापप्तिकभेदभिन्नान्मा हणत्ति प्रवृत्तिर्यस्यासौ महानोनवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुहिनोब्राह्मण इति वा वाच्यः, तथा श्राम्यति-तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा समं-तुल्यं मित्रादिषु मनः-अन्तःकरणं यस्य स समनाः सर्वत्र वासीचन्दनकल्प इत्यर्थः, तथा चोक्तम् - ___ “नस्थिय सि कोइ वेसो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्मिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षु स साधुर्दान्तादिगुणोपेतो भिक्षुरितिवाच्यः। तथा सबाह्याभ्यन्तरग्रन्थाभावान्निग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्यत्सृष्टकायश्च निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् ! भदन्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन्ब्राह्मणः श्रमणोभिक्षुर्निग्रन्थ इति वाच्यः तदेतत्कथं? यद्भगवतोक्तं ब्राह्मणादिशब्दवाच्यत्वं साधोरिति, एतन्त्रः-अस्माकं 'ब्रूहि आवेदय ‘महामुने !' यथावस्थितत्रिकालवेदिन् । इत्येवं पृष्टो भगवान् ब्राह्मणादीनांचतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रम प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिसन् ‘विरतो निवृत्तःसर्वेभ्यः पापकर्मभ्यःसावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषः-अप्रीतिलक्षणः कलहोद्वन्द्वाधिकरणमभ्याख्यानम्-असदभियोगःपैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिचादः क्वा परदोषापादनं अतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिविषयाभिष्वदोमाया-परवञ्चना तया कुटिलमतम॒षावाद:-असदर्थाभिधानंगामश्चंब्रुवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्त्वमिति, यथा माया Page #290 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१६, २८७ ॥१॥ नत्थि न निच्चो न कुणइ कयं न वेएइ नस्थि निव्वाणं ।। नत्थिय मोक्खोवाओ छम्मिच्छत्तस्स ठाणाइं॥ इत्यादि, एतदेवशल्यं तस्मिंस्ततो वा विरतइति, तथासम्यगितः समितः-ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभि तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने तदनुष्ठानमपिन कषायैर्निसारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपिन क्रुध्येत-आकुष्टः सन्त्र क्रोधवशगोभूयात्, नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपिन गर्वं विदध्यात्, तथा चोक्तम् - ॥१॥ "जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं। अवसेस मयट्ठाणा परिहरियव्वा पयत्तेणं ।। अस्यचोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मकोन विधेय इत्यादिगुणकलितः साधुर्माहन इति निशङ्ख वाच्य इति साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह मू. (६३२/२) एत्थवि समणे अनिस्सिए अनियाणे आदाणंच अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजंच दोसंच इच्छेव जओ जओ आदानं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुव्वं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए समणेत्ति बच्चे। वृ.अत्राप्यनन्तरोक्तेविरत्यादिकेगुणसमूहे वर्तमानः श्रमणोऽपिवाच्यः एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वा “श्रितो' निश्रितः न निश्रोतोऽनिश्रितः-क्वचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानो-निराकाङ्क्षोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठान वा,तथाऽतिपातनमतिपातः,प्राणातिपात इत्यर्थः,तंचप्राणातिपातंज्ञपरिक्षयाज्ञात्वाप्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृषावादस्तं च, तथा 'बहिद्धंतिमैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत्। उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोधम्-अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां च-परवञ्चनात्मिकां लोभ-मूछस्विभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनोबोधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिज्ञाय परिहरेदिति । एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च ततस्ततः प्राणातिपातादिकादनर्थदण्डादादानात् पूर्वमेव-अनागतमेवात्महितमिच्छन्प्रतिविरतो भवेत्-सर्वस्मादनहेतुभूतादुभयलोकविरुद्धाद्वा सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् । यश्चैवंभूतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः । मू. (६३२/३) एत्थवि भिक्खू अणुनए विणीए नामए दंते दविए बोसट्टकाए संविधुणीय विरुवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाने उवहिएठिअप्पा संखाएपरदत्तभोई भिक्खूत्ति वच्चे। वृ. साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अत्रापी'ति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्तिहेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्तेत एवावगन्तव्याः, अमीचान्येतद्यथा-नउन्नतोऽनुनतः, तत्रद्रव्योन्नतः शरीरेणोच्छ्रितःभावोत्रतस्त्वभिमानग्रहग्रस्तः, W Page #291 -------------------------------------------------------------------------- ________________ २८८ सूत्रकृताङ्ग सूत्रम् १/१६/-/६३२/३ तप्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाहविनयालङ्क तो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादौ प्रहो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थ । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्प्रतिकर्मतया 'व्युत्सृष्टकायश्च परित्यक्तदेहश्च यत्करोतितद्दर्शयति-सम्यक् 'विधूय' अपनीय विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उच्चावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधूननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीषहोपसगाँश्च विधूयाध्यात्मयोगेनसुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम् अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति तथा सम्यगुत्थानेन-सच्चारित्रोद्यमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसर्गरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्पाप तां कर्मभूमेर्बोधेः सुदुर्लभत्वं चावाप्यच सकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थनिर्वर्तितमाहारजातं तैर्दत्तं भोक्तुंशीलमस्य परदत्तभोजी, सएवंगुणकलितो भिक्षुरिति वाच्यः । तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अभी चान्ये अपदिश्यन्ते, तद्यथा-- मू. (६३२/४) एस्थविनिग्गथे एगेएगविऊबुद्धे संछिन्नसोएसुसंजते सुसमितेसुसामाइए आयवायपत्तेविऊ दुहओवि सोयपलिच्छिन्ने नो पूयासकारलाभट्ठीयम्मट्ठी धम्मविऊ नियागपडि वन्नेसमिय चरे दंते दविए वोसट्टकाए निग्गंथेत्ति वच्चे से एवमेव जाणह जमहं भयंतारो। तिबेमि वृ. एको रागद्वेषरहिततयाओजाः, यदिवाऽस्मिन्संसारचक्रवालेपर्यटन्नसुमान्स्वकृतसुखदुःखफलमाक्त्वेनैकस्यैव परलोकगमनतया सदैककएव भवति। तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्त्वेकक एव भवति । तथैकमेतात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित, यदिवैकान्तविदएकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित्, अथवैको-मोक्षः संयमो वा तं वेत्तीति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतत्वात्कर्माश्रवद्वाराणियेन सतथा, सुष्ठुसंयतःकूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टुपञ्चभिः समितिभिः सम्यगितःप्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधत्मिकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मस्वतत्त्ववेदीत्यर्थः। तथा विद्वान्' अवगतसर्वपदार्थस्वभावोनव्यत्ययेन पदार्थानवगच्छति।ततोयत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाणस्याभावादित्यभिप्रायः। तथा 'द्विधाऽपी'तिद्रव्यतो भावतश्च, तत्रद्रव्यस्रोतांसियथास्वं विषयेष्विन्द्रियप्रवृत्तयः Page #292 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१६, २८९ भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतयारागद्वेषाभावाच्च परिच्छिन्नानि येन सपरिच्छिन्नोस्रोताः,तथा नोपूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयति-धर्म-श्रुतचारित्राव्यस्तेनार्थ स एव वाऽर्थो धर्मार्थ स विद्यते यस्यासौ धमार्थीति, इदमुक्तं भवति-न पूजाद्यर्थ क्रियासुप्रवर्ततेअपितुधर्मार्थीति।किमिति?, यतोधर्मयथावत्तत्फलानिचस्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्मं च सम्यग् जानानो यत्करोति तद्दर्शयति-नियागो-मोक्षमार्ग सत्संयमो वातं सर्वात्मनाभावतः प्रतिपन्नः नियागपडिवनोत्ति, तथाविधश्च यत्कुर्यात् तदाह-समियं तिसमतां समभावरूपांवासीचन्दनकल्पां'चरेत्' सततमनुतिष्ठेत् । किंभूतः सन्?,आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमा-हनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थइतिवाच्यः।तेऽपि माहनादयः शब्दानिर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जनाअपि कथञ्चिदेकार्था इति । साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमहा-'से' इतितधन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यस्मादहं सर्वज्ञाज्ञया ब्रवीमि।न च सर्वज्ञा भगवन्तः परिहितैकरता भयात्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत् अध्ययनं-१६ समाप्तम् उक्तोऽनुगमः, साम्प्रतं नयाः, तेच नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशासंग्रहादयः षट्, समभिरूढत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहणुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दस्त्रयः। तेचद्रव्यास्तिकपर्यायास्तिकान्तर्भावाव्यास्तिकपर्यायास्तिकाभिधानी द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानी द्वौ, तत्रापिज्ञाननयोज्ञानमेव प्रधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येकं मिथ्याष्टित्वाज्ज्ञानक्रिययोश्च परस्परापेक्षितया मोक्षाङ्गत्वा-दुभयमत्र प्रधान, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम् - ॥१॥ नायम्मि गिहियव्वे अगिहियवंमिचेव अत्थंमि। जइयव्वमेव इति जो उवएसो सो नओ नाम ।। ॥२॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता। तंसव्वनयविसुद्धं जंचरणगुणडिओ साहू॥ प्रथमः श्रुतस्कन्धः समाप्त मुनिदीपरत्न सागरेण संशोधिता सम्पादिता सूत्रकृताङ्गस्य प्रथमः श्रुतस्कन्धस्य टीका परिसमाप्ता। [219 Page #293 -------------------------------------------------------------------------- ________________ २९० सूत्रकृताङ्ग सूत्रम् २/-1-1६३२/४/ नि. [१४२] ॐ श्रुतस्कन्धः-२ ॥ वृ. प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धेयोऽर्थ समासतोऽभिहितः असावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, तएव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यतइत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्य सम्बन्धीनि सप्तमहाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छब्दाध्ययनशब्दयोनिक्षेपार्थं नियुक्तिकृदाहनि. [१४२] नामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु महतंमि निक्खेवो छव्विहो होति॥ वृ.नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महतिषश्विधो निक्षेपो भवति, तत्रनामस्थापने सुज्ञाने,द्रव्यमहदागमतो नोआगमतश्च, आगमतोइतातत्र चानुपयुक्तः, नोआगमतस्तुज्ञशरीर भव्यशरीरव्यतिरिक्तंसचित्ताचित्तमिश्रभेदात्रिधा, तत्रापिसचित्तद्रव्यमहत्औदरिकादिकं शरीरं, तत्रौदारिकं योजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियतु योजनशतसहस्रपरिमाणं, तैजसकार्मणे तुलोकाकारप्रमाणे, तदेतदौदारिकवक्रियतैजसकार्मणरूपं चतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत्समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रतुतदेवमत्स्यादिशरीरं, क्षेत्रमहतू लोकालोकाकाशं, कालमहत्सर्वाद्धा। भावमहदीदयिकादिभावरूपतया षोढा, तत्रौदयिकभावःसर्वसंसारिषु विद्यत इतिकृत्वा बह्वाश्रयत्वान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽभव्यानमनादिसपर्यवसितोभव्यानांसादिसपर्यवसितोनारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साधपर्यवसितत्वात्कालतोमहान्, बायोपशमिकोऽप्याश्रयबहुत्वादनाद्यपर्यवसितत्वाञ्च महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभमत्वेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयत्वादाश्रयमहत्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुत्वादेव महानिति। नि. [१४३] नामंठवणादविए खेत्ते काले तहेव भावे य। एसो खलु अज्झयणे निक्खेवो छबिहो होति ॥ वृ. उक्त "महद्" अध्ययनस्यापि नामादिकं षोढा निक्षेपं दर्शयितुं नियुक्तिकृदाहअध्ययनस्य नामादिकः षोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यं, तस्य पूर्वानपूर्व्या प्रथममिदं पश्चानुपूर्त्यां तु सप्तममनानुपूर्त्यां तु सप्तगच्छगतायाः श्रेण्या अन्योऽन्याभ्यासेन द्विरूपोनेसति पञ्चाशच्छन्य-त्रिंशदधिकानि भवन्ति । नाम्नितुषण्णामिन्न, तत्रापिक्षायोपशमिकेभावे, सर्वस्यापिच श्रुतस्य क्षायोपशमिकत्वात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु स्वसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोपमया स्वसमयगुणव्यवस्थापन, समवतारे तुयत्र यत्र समवतरति तत्र तत्रलेशतः समवतारितमेवेति । उपक्रमानन्तरंनिक्षेपः, सचनामनिष्पन्ने निक्षेपे पौण्डरीकमित्य Page #294 -------------------------------------------------------------------------- ________________ २९१ श्रुतस्कन्धः - २, उपोद्घात नियुक्तिः __२९१ स्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह । नि. [१४४] नामंठवणादविए खेत्ते काले य गणण संठाणे। __ भावे य अट्ठमे खलु निक्खेवो पुंडरीयस्स ।। वृ. 'नाम' मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यपौण्डरीकमभिधित्सुराह ! नि. [१४५] जो जीवो भविओ खलुववज्जिकामो यपुंडरीयंमि। सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ॥ वृ. 'जो' इत्यादि, यः कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेवदर्शयति'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वेतपद्मेषुवनस्पतिकायविशेषेष्वनन्तरभवे भावीस द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्गारे, भावपौण्डरीकंत्वागमतः पौण्डरीकपदार्थ ज्ञस्तत्र चोपयुक्त इति । एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह -- नि. [१४६] एगभविए य बदाउए य अभिमुहियनामगोएय। एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स !! वृ. 'एगे' त्यादि, एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेषूत्पत्स्यते स एकभविकः, तथा तदासनतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासनतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति ॥१॥ "भूतस्य भाविनोवा भावस्य हि कारणं तु यल्लोके । तव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ? ।। इतिवचनात्, इहच पुण्डरीककण्डरीकयोध्रांत्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डीरकमिति । नि. [१४७] तेरिच्छिया मणुस्सा देवगणा चेव होंतिजे पवरा। ते होंति पुंडरीया सेसा पुण कंडरीया उ॥ वृ.तत्रच नरकर्जासुतिसृष्वपि गतिषुये शोभनाः पदार्थास्तेपीण्डरीकाः शेषास्तुकण्डरीका इत्येतप्रतिपादयन्नाह-'तेरिच्छिये'त्यादि कण्ठया, तत्र तिर्यक्षु प्रधानस्य पौण्डरीकत्वप्रतिपादनार्थमाह-- नि. [१४८] जलयर थलयर चयरा जे पवरा चेव होंति कंता या जे असभावेऽनुमया ते होति पुंडरीयाउ॥ धृ. जलधरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरःपरिसपेषु मणिफणिनो भुजपरिसपेषु नकुलादयः खेचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावेन प्रकृत्यालोकानुमतास्ते च पौण्डरीका इव प्रधाना भवन्ति।मनुष्यगती प्रधाना विष्करणायाह - नि. [१४९] अरिहंत चक्कवट्ठी चारण विजाहरा दसारा य । जे अन्ने इड्ढिमंता ते होंति पोंडरीया उ॥ वृ. 'अरिहंते' त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, Page #295 -------------------------------------------------------------------------- ________________ २९२ सूत्रकृताङ्ग सूत्रम् २/-/-/६३२/४/ नि. [१४९] तथा चक्रवर्तिनः षटखण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महात- पस्विनः तथा विद्याधरा वैताढ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थत्वादन्येऽ पीक्ष्वाक्वादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति । नि. [१५० ] भवणवइवाणमंरजोतिसवेमाणियाण देवाणं । जे तेसिं पवरा खलु ते होति पुंडरीया उ ॥ वृ. साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाह - 'भवणे' त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवराः - प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति । नि. [१५१] कंसाणंदूसाणं मणिमोत्तियसिलपवालमादीणं । जे अ अचित्ता पवरा ते होंति पोंडरीया उ ॥ वृ. साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकत्व - प्रतिपादनायाह- 'कंसणा' मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दूष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थकुज्जन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवत्यार्दय एव प्रधानकटककेयूराद्यलङ्कारालङ्कृता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकामिधित्सयाऽऽह नि. [१५२] जाई खेत्ता खलु सुहाणुभावाई होति लोगंमि । देवकुरुमादियाई ताई खेत्ताइं पवराई ।। वृ. 'खित्तानी' त्यादि, यानि कानित्तिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह । नि. [१५३] जीवा भवट्टितीए कायठितीए य होति जे पवरा । ते होंति पोडरीया अवसेसा कंडरीया उ ।। घृ. 'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवर्त्यानन्तरभवे त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेषूत्पद्यन्त इतिकृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति । कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह नि. [१५४] गणणाए रज्जू खलु संठाणं चैव होति चउरंसं । एयाइं पोंडरीगाई होति सेसाई इयराई ॥ वृ. गणनया-सङ्ख्यया पौण्डरीकं चिन्त्यमानं दशप्रकारस्य गणितस्य मध्ये 'रज्जु' रज्जुगणितं Page #296 -------------------------------------------------------------------------- ________________ २९३ श्रुतस्कन्धः - २, उपोद्घात नियुक्तिः प्रधानत्वात्पीण्डरीकं, दशप्रकारं तुगणितमिदं - ॥१॥ “परिकम्म १ रज्जु २ रासी ३ ववहारे ४ तह कलासवण्णे ५ य। पुग्गल ६ जावंतावं७ घणेय ८घणवग्ग ९ वग्गेय १०॥ षण्णां संस्थानानांमध्येसमचतुरस्रंसंस्थानप्रवरत्वात्पीण्डरीकमित्येवमेते द्वेअपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ।। साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽहनि. [१५५] ओदइए उवसभिए खइए य तहा खओवसमिए । परिणामसन्निवाए जे पवरा तेवि तेचेव ॥ वृ. 'ओदई त्यादि, औदयिके भावे तथौपशमिके क्षायिके क्षायोपशमिके पारिमाणिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवराः' प्रधानाः 'तेऽपि औदयिकादयो भावाः ‘त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिकेसमस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिकेविपुलमतिश्चतुर्दशपूर्ववित्पमावधयोव्यस्ताः समस्तावा, पारिणामिके भावेभव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषुस्वबुद्धयापौण्डरीकत्वेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरकप्रतिपादनायाहनि. [१५६] अहवावि नाणदंसणचरित्तविनए तहेव अज्झप्पे। जे पवरा होंति मुनी ते पवरा पुंडरीया उ॥ वृ. 'अहवावी'त्यादि, अथवापि भावपौण्डरीकमिदं, तद्यथा-सम्यगज्ञाने तथा सम्यग्दर्शने सम्यकचारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि' च धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकत्वेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति।तदेवंसम्मविनमष्टधापौण्डरीकस्य निक्षेपंप्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह - नि. [१५७] एत्थं पुन अहिगरो वणस्सतिकायपुंडरीएणं । भावमि असमणेणं अज्झयणे पुंडरीअंमि ।। वृ. 'अत्र' पुनदृष्टान्तप्रस्ताव अधिकारो' व्यापारः सचित्ततिर्यग्योनिकैकेन्द्रियवनस्पतिकायद्रव्यपीण्डरीकेण जलरुहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपीण्डरीकेण सितशतपत्रेण, तथा भावे 'श्रमणेनच' सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनाऽस्मिन्नध्ययने पौण्डरीकाख्येऽधिकार इति। गता निक्षेपनियुक्तिः, अधुना सूत्रस्पर्शिकनियुक्तेरवसरः, साच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं (अध्ययनं-१ “पौण्डरीक") मू. (६३३) सुयं मे आउसंतेणं भगवयाएवमक्खायं-इह खलु पोंडरीए नामज्झयणे, तस्स णं अयमढे पण्णत्ते-से जहानामए पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लद्धट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए तत्थ तत्य देसे Page #297 -------------------------------------------------------------------------- ________________ २९४ सूत्रकृताङ्ग सूत्रम् २/१/-/६३३ तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अनुपुव्वुट्ठिवा, तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अनुपुब्बुट्टिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा । तीसे णं क्खरिणी बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए वुइए, अनुपुव्वुट्ठिए उस्सिते रुइले वनमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अनुपुव्युट्ठिया ऊसिया रुइला जाव पडिरूवा, सव्यावंति च णं तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एवं महं पउमवरपोंडरीए बुइए अनुपुव्वुट्ठिए जाव पडिरूवे । वृ. अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं - 'से एवमेव जाणह जमहं भयंतारो' त्ति तदेवदेव जानीत भयस्य त्रातारः !, तद्यथा श्रुतं मयाऽऽ युष्मता भगवतैवमाख्यातम्, आदिसूत्रेण च सह सम्बन्धोऽयं, तद्यथा-यद्भगवताऽऽख्यातं मया च श्रुतं तद्बुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह- 'इह' प्रवचने सूत्रकृद्दितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणान्त्रोपमा भविष्यतीतिकृत्वा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह' त्ति तद्यथार्थः स च वाक्योपन्यासार्थः, नामशब्दः सम्भावनायां, सम्भाव्यते पुष्करिणीध्ान्तः, पुष्कराणिपद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी 'स्याद्' भवेदेवम्भूता, तद्यथा 'बहु' प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथ बहुः प्रचुरः सीयन्ते - अवबध्यन्ते यस्मिन्नसौ सेयः - कर्दमः स यस्यां सा बहुसेवाप्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा प्रचुरोदकभृतेत्यर्थः । तथा लब्धः प्राप्तः पुष्करिणीशब्दान्वर्धतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, तथा पौण्डरीकाणि- श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहुपद्मेत्यर्थः । तथा प्रसादः प्रसन्नता निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वादेवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि- राजहंसचक्रवाकसारसादीनिगजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साऽभिरूपेति, तथा प्रतिरूपाणि प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छत्वात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबम्बानि क्रियन्ते सा प्रतिरूपेति, यदिवा- 'पासादीया दरिसणीया अभिरुवा पडिरूव' त्ति पर्याया इत्येते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः । तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे' त्यनेन वीप्सापदेन पौण्डरीकैर्व्यापकत्वमाह, 'देशे देशे' इत्यनेन त्वेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नि' त्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति, यदिवा- 'देशे देशे' इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रे'ति, कोऽर्थ ? -देशे देशे तस्मिंस्तस्मिन्निति च, कोऽर्थ : ?, देशैकदेश इति यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि प्रचुराणि Page #298 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - १, पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थं, पौण्डरीकग्रहणं श्वेत शतपत्रमतिपत्त्यर्थं वरग्रहणमप्रधाननिवृत्त्यर्थं तदेवम्भूतानि बहूनि पद्मवरपौण्डरीकाणि 'बुइय'त्ति उक्तानि प्रतिपादितानि विद्यन्ते इत्यर्थः । २९२ 'आनुपूर्व्येण' विशिष्टरचनया स्थितामि, तथोच्छ्रितानि पङ्कजले अतिलङ्घयोपरि व्यवस्थि:तानि तथा 'रुचि' दीप्तिस्तां लान्ति - आददति रुचिलानि-सद्दीप्तिमन्ति, तथा शोभनवर्णगन्धरसस्पशवन्ति, तथा प्रासादीयानि - दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः णमिति वाक्यालङ्कारे 'बहुदेशमध्यभागे' निरुपचरितमध्यदेशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्व्येणव्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत् तथा प्रासादीयंदर्शनीयं अमिरूपतरं प्रतिरूप मिति । साम्प्रतमेतेवानन्तरोक्तं सूत्रद्वयं 'सव्वावंति च णं ती 'त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः 'सव्वावंति 'त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समच्चये, णमिति वाक्यालङ्कारे इति । मू. (६३४) अह पुरिसे पुरित्थिमाओ दिसाओ आगम्य तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एवं पउमवरपोंडरीयं अनुपुव्वुट्ठियं ऊसियं जाव पडिरूवं । तए णं से पुरिसे एवं वयासी । अहमंसि पुरिसे खेयने कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्क मन्नू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्टु इति बुया से पुरिसे अभिक्क मेति तं पुक्खरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंतेसेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हब्याएनो पाराए, अंतरा पोक्खरिणीए सेयंसि निसण्णे पढमे पुरिसजाए वृ. 'अथ' अनन्तरमेवम्मूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च 'तीरे' तटे स्थित्वा तदेतत्पद्मं प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या 'वदेत्' ब्रूयात्- 'अहमंसि' त्ति पुरुषः, किम्भूतः ? - 'कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीमः पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावानिष्क्रान्तः परिणतबुद्धिः 'मेघावी' प्लवनोत्प्लवनयोरुपायज्ञः । तथा 'अबालो' मध्यमवयाः षोडशवर्षोपरिवर्ती 'मार्गस्यः सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति परक्रमज्ञः, यदिवा-पराक्रमः - सामर्थ्यः तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेर्तोऽहम् 'एतत्' पूर्वोक्तविशेषणकलापोतेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स् वामीतिकृत्वेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत्-अभिक्रामेत् तदभिमुखं गच्छेत् । यावद्या वच्चा सौ तदवतरणाभिप्रायेणाभिमुखं क्रामेत्तावत्तावञ्चा णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांश्च 'सेयः' कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीणः सद्विवेकेन रहितस्त्यक्त्वा तीरं सुबव्यत्ययाद्वा तीराट्प्रहीणः प्रभ्रष्टः अप्राप्तश्च Page #299 -------------------------------------------------------------------------- ________________ २९६ सूत्रकृताङ्ग सूत्रम् २/१/-/६३४ विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयं - कर्दमस्तस्मिन्निषण्णो-निमग्न आत्मान- मुद्धर्तुमसमर्थः, तस्माश्च तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः 'नो हव्वाए' त्ति नार्वाक्तटवर्त्यसौ भवति 'नो पाराए' त्ति नापि विवक्षितप्रदेशप्राप्तया पारगमनाय वा समर्थो भवति। एवमसावुमयभ्रष्टो मुक्तमुक्तोलीवदनर्थायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजातः पुरुषजातीय इति । मू. (६३५) अहावरे दोचे पुरिसजाए, अह पुरिसे दक्खिणाओ दिसा ओ आगम्मं तं पुक्खरिणि तीसे पुक्खरिणीए तीरे ठिञ्चा पासति तं महं एवं पउमवरपोंडरीयं अनुपुव्वुट्ठियं पासादीयं जाव पडिरूवं तं च एत्थ एगं पुरसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरिणीए सेयंसि निसन्नं, तए णं से पुरिसे तं पुरिसं एवं वयासीअहोणं इमे पुरिसे अखेयने अकुलसे अपंडिए अवियत्ते अमेहावी बाले नो मग्गत्थे नो मग्गविऊ नो मग्गस्स गतिपरक्कमन्नू जनं एस पुरिसे, अहं खेयने कुसले जाव पउमवरपोंडरीयं उन्नक्खिस्सामि, नो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कभन्नू अहमेयं परमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्टु इति वच्चा । - से पुरिसे अभिक्क मे तं पुक्खरिणि, जावं जावं च णं अभिक्क मेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउभवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरिणीए सेयंसि निसन्ने दोच्चे पुरिसजाते । वृ. 'अथ' प्रथमपुरुषादनन्तरम् 'अपरो' द्वितीयः पुरुषजातः पुरुष इति । अथवेति वाक्योपन्यासार्थे, अथ कश्चित्पुरुषो दक्षिणाद्दिगभागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपौण्डरीकमानुपूर्व्येणव्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् 'अत्रच' अस्मिंश्च तीरे व्यवस्थितः, तंच पूर्वव्यवस्थितमेकं पुरुषंपश्यति, किम्भूतं? तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमुभयभ्रष्टमन्तराल एवावसीदन्तं दृष्ट्वा च तमेवमवस्थं पुरुषं ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेत् । 'अहो' इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे निमग्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोव्यक्तोऽमेघावी बालो न मार्गस्थो नो मार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अकुशलत्वादिके कारणमाह- 'यद्' यस्मादेष पुरुष एतत्कृतवान्, तद्यथा - अहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्याभीत्येवं प्रतिज्ञातवान्, न चैतत्पद्यवरपौण्डरीकम् 'एवम्' अनेन प्रकारेण यथाऽनेनोत्क्षेप्नुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति ॥ ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह- 'अहमंसीत्यादि जाव दोञ्चे पुरिसजाए' त्ति, सुगमं । पू. (६३६) अहावरे तच्चे पुरिसजाते, अह पुरिसे पच्चत्थिमाओदिसाओ आगम्मतं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिञ्चा पासति तं एगं महं पउमवरपोंडरीयं अनुपुव्वुट्ठियं जाव पडिरूवं, ते तत्य दोनि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हव्वाए नो पाराए जाव सेयंसि निसन्ने, तए णं से पुरिसे एवं व्यासी अहोणं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला नो मग्गत्था नो मग्गविऊ नो मग्गस्स गतिपरक्क मन्नू, जंणं एते पुरिसा एवं मन्ने अम्हे ए तं पउमवर पोडरीयं Page #300 -------------------------------------------------------------------------- ________________ २९७ श्रुतस्कन्धः-२, अध्ययनं-१, उन्निक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा अन्ने । अहमंसि पुरिसे खेयन्त्रे कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्ये मग्गविऊ मग्गस्स गतिपरक्कमन्नू अहमेयं पउमवरपोंडरीयं उन्निखिस्सामित्तिकटु इति वुश्चा से पुरिसे अभिक्कमेतं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाव अंतरा पोखरिणीए सेयंसि निसन्ने, तच्चे पुरिसजाए। वृ.तृतीय पुरुषजातमधिकृत्याह-'अहावरे तच्चे' इत्यादि सुगमं । मू. (६३७) अहावरेचउत्थेपुरिसज्जाए, अह पुरिसे उत्तराओदसाओआगम्मतंपुक्खरिणि, तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं पगं पउमवरपोंडरीयं अनुपुबुट्टियंजाव पडिरूवं, ते तत्थतिनि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसिनिसन्ने, तएणं से पुरिसे एवं वयासी अहोणं इमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नूजण्णं एते पुरिसाएवं मन्नेअम्हे एतं पउमवरपोंडरीयं उत्रिक्खिस्सामो यखलु एयं पउमवरपोंडरीयं एवं उनिक्खयव्वं जहा णं एते पुरिसा मन्ने, अहमंसि पुरिसे खेयने जाव मग्गस्स गतिपरक्कमन्नू, अहमेयं पउमवरपोंडरीयं उनिक्खिस्सामत्तिक? इति वुचा से पुरिसे तंपुक्खरिणिं जावं जावंचणं अभिक्कमेतावं तावं च णं महंते उदए महंते सेए जाव निसन्ने, चउत्थे पुरिसजाए। वृ. यावच्चतुर्थ पुरुषजात इति। मू. (६३८) अह भिक्खूलूहे तीरट्ठी खेयन्ने जाव गतिपरक्कमन्नू अनतराओ दिसाओ वा अनुदिसाओ वा आगम्म तं पुक्खरिणि तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयंनो हव्वाए नो पाराए अंतरा पुक्खरिणीए सेयंसि निसन्ने, तए णं से भिक्खू एवं वयासी अहो णं इमे पुरिसा अखेयन्ना जाव नो मग्गस्स गतिपरक्कमन्नू, जं एते पुरिसा एवं मन्ने अम्हे एयं परमवरपोंडरीयं उन्निक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उनिक्खेतब्वं जहाणं एते पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयंपउमवरपोडरीयं उन्निक्खिस्सामित्तिकट्ठ इति वुच्चा से भिक्खू नो अभिक्कमेतं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा सदं कुञ्जा उप्पयाहि खलु भो परमवरपोंडरीया! उप्पयाहि, अह से अप्पतिते पउमवरपोंडरीए। घृ. साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह-'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि-भिक्षणशीलोभिक्षु-पचनपाचनादिसावद्यानुष्ठानरहितताय निर्दोषाहारभोजी, तथा रूक्षो' रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद्रजो न लगति तथा रागद्वेषाभावात्कर्मरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते तथा-संसारसागरस्यतीरार्थी, तथा क्षेत्रज्ञः स्वेदज्ञोवा, पूर्वव्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, सचान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तांपुष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च Page #301 -------------------------------------------------------------------------- ________________ २९८ सूत्रकृताङ्ग सूत्रम् २/१/-/६३८ चतुरः पुरुषान् पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ? - त्यक्ततीरान् अप्राप्तद्वरपुण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तांस्तदवस्थान् ततोऽसी भिक्षु 'एव' मिति वक्ष्यमाणनीत्या वदेत् । तद्यथा - अहो इति खेदे णमिति वाक्यालङ्कारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम् अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि त्वहमस्मि भिक्षूरूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामिउत्खनिष्यामि समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'नाभिक्रामेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति-तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात् । तद्यथा-ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति । तदेवं दृष्टान्तं प्रदर्श्य दान्तिकं दर्शयितुकामः श्रीमन्ममहावीरवर्धमानस्वामी स्वशिष्यानाहमू. (६३९) किट्टिए नाए समणाउसो !, अट्टे पुण से जाणतव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमंसंति वदेत्ता नमंसित्ता एवं व्यासि-किट्टिए नाएसमणाउसो !, अहं पुर्ण से न जाणाणो समणाउसोत्ति । समणे भगवं महावीरे ते य बहवे निग्गंधे य निग्गंधीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअहं सहेउं सनिमित्त भुजो भुजो उवदंसेमि से बेमि । वृ. 'कीर्तिते' कथिते प्रतिपादिते मयाऽस्मिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एतदुक्तं भवति नास्योदाहरणस्य परमार्थं यूयं जानीथ, एक्मुक्ते भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति तत्प्रह्वैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं वक्ष्यमाणं वदेयुः । तद्यथा 'कीर्तितं' प्रतिपादितं 'ज्ञातम्' उदाहरणं भगवता, अर्थं पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तान्निर्ग्रन्थादीनेवं वदेत्- 'हन्ते' ति संप्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभावयामि' आविर्भावयामि प्रकटार्थं करोमि, तथ 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतु ध्ष्टान्तैश्चित्तसंत- वावारोपयामि, अथवैकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दान्तिकार्थेन वर्तत इति सार्थ पुष्करिणी ध्यन्तस्तं, तथा सह हेतुना - अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थं भूयो भूयोऽपरैरपरैर्हेतु दृष्टान्तैरूपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि श्रृणुत यूयमिति । तदधुना भगवान् पूर्वोक्तस्य दृशन्तस्य यथास्वं दार्शन्तिकं दर्शयितुमाह मू. (६४०) लोयं च खलु मए अप्पाहरु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहड्ड समणाउसो ! से उदए बुइए, कामभोगे य खलु भए अप्पाहड्ड समणाउसो ! से सेए Page #302 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-१, २९९ घुइए, जणजाणवयं च खलु मए अप्पाहढ समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहटुसमणाउसो! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थियाय खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बुइया, धम्मंच खलु मए अप्पाहटु समणाउसो! से भिक्खु वुइए, धम्मतित्थं च खलु मए अप्पाहटु समणाउसो ! से तीरे बुइए, धम्मकहं खलु मए अप्पाहट समणाउसो! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहड समणाउसो ! से उप्पाए बुइए, एवमेयं चखलु मए अप्पाहटु समणाउसो ! से एवमेयं बुइयं। वृ. लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि 'आहृत्य' व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा-मयाऽऽहत्व न परोपदेशतः, सा पुष्करिणी पद्याधारभूतोक्ता, तथा कर्म चाष्टप्रकारं, यद्बलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहृत्य अपाहृत्य वा, एतदुक्तं भवति । हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तत्वेनोपन्यस्तं, कर्मचात्र दान्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा-इच्छारूपा मदनकामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य 'सेयः कर्दमोऽमिहितः, यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा जनं' सामान्येन लोकं, तथा जनपदे भवा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्च समाश्रित्यमया दान्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपौण्डरीकाणि दृष्टान्तत्वेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं द्दष्टान्तत्वेनाभिहितं, तथाऽन्यतीर्थिकान्समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्, तथा धर्मं च खल्वात्मन्याहृत्य श्रमणायुष्मन् !। सभिक्षुः रूक्षवृत्तिरभिहितः, तस्यैवचक्रवत्यादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात्, धर्मतीर्थच खल्वाश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनाचाचित्यमयासभिक्षुसम्बन्धी शब्दोऽभिहितः, तथा निर्वाणं' मोक्षपदमशेषकर्मक्षयरूपमीषतप्रागभाराख्य भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति।साम्प्रतं समस्तोपसंहारार्थमाह-एवं पूर्वोक्तप्रकारेण एतल्लोकादिकंच खल्वात्मन्याहृत्य-आश्रित्य मया श्रमणायुष्मन् !'से एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधादवमेतदुक्तमिति । तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्टान्तिकं दर्शयितुमाह मू. (६४१) इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अनुपुब्वेणं लोगंउववन्ना, तंजहा-आरिया वेगे अनारिया धेगे उञ्चागोत्तावेगे नीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुब्बना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ। Page #303 -------------------------------------------------------------------------- ________________ ३०० सूत्रकृताङ्ग सूत्रम् २/१/-/६४१ महयाहिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छढियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णकोस कोट्टागाराउहागारे बलवं दुब्बल्लपचामित्त ओहयकंटयं निहयकंटयं मिलयकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू निहयसत्तू मिलयसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवन्नओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ - उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसत्यपुत्ता सेणावई सेणावइपुत्ता। तेसिं च णं एगती सड्ढी भवइ कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा मए एस धम्मै सुक्खाए सुपन्नत्ते भवइ, तंजहा- उडूढं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए नो जीवइ, सरीरे धरमाणे धरइ विणट्ठमि य नो धरइ । एयंतं जीवियं भवति, आदहणाए परेहिं निज्जइ, अगणिझामिए सरीरे कवोतवन्नाणी अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पञ्चागच्छंति, एवं असंते असंविज्रमाणे जेसिं तं असंते असंविज्रमाणे तेसिं तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेति-अयमाउसो ! आया दीहेति वा इस्सेति वा परिमंडलेति वा कट्टेति वा तंसेति वा चउरंसेति वा आयतेति वा उलंसिएति वा अहंसेति वा किण्हेति वा नीलेति वा लोहियहालिदे सुकिल्लेति वा सुब्भिगंधेति वा दुब्भिगंधेति वा वित्तेति वा कडुएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुएति वा लहुएति वा सिएति वा उसिणेति वा निद्धेति वा लुक्खेति वा । एवं असंते असंविज्रमाणे जेसिं तं सुयक्खायं भवति- अन्नो जीवो अन्नं सरीरं, तम्हा ते नो एवं उपलब्धंति से जहानामए केइ पुरिसे कोसीओ असिं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो असी अयं कोसी, एवमेव नत्थि केइ पुरिसे अभिनिव्वट्टित्ता णं उवदंसेत्तारी अयमाउसो ! आया इयं सरीरं । से जहानामए केइ पुरिसे मुंजाओ इसियं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहानामए केइ पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहानामए केइ पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहानामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! करतले अयं आमलए, एवमेव नत्थि केइ Page #304 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः-२, अध्ययनं-१, ३०१ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वट्टित्ताणं उवदंसेजा अयमाउसो ! नवनीयं अयंतु दही, एवमेव नत्थि केइ पुरिसे जाव सरीरं। से जहानामए केइ पुरिसे मंसाओ अदि अभिनिव्वट्टित्ता णं उवदंसेजा अयमाउसो! मंसे अयंअट्ठी, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारोअयमाउसो! आया इयं सरीरं। से जहानामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! करतले अयं आमलए, एवमेव नस्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं। से जहानामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वट्टित्ताणं उवदंसेजा अयमाउसो! नवनीयं अयं तु दही, एवमेव नत्थि केइ पुरिसे जाव सरीरं। से जहानामए केइ पुरिसे तिलहितो तिलं अभिनिव्वट्टित्ता णं उवदंसेजा अयमाउसो ! तेल्लं अयंपिनाए, एवमेव जाव सरीरं। सैजहानामए केइ पुरिसे इक्खूतो खोतरसं अभिनिव्वट्टित्ता गं उवदंसेना अयमाउसो ! खोतरसे अयं छोए, एवमेव जाव सरीरं । से जहानामए केइ पुरिसे अरणीतो अगिंग अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! अरणी अयं अग्गी, एवमेव जाव सरीरं। एवं असंते असंविजमाणे जेसिं तं सुयक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं । तम्हा तेमिच्छा। से हंता तं हणह खणह छणह डहह पयह आलुपह विलुपह सहसाकारह विपरामुसह, एतावता जीवे नत्थि परलोए, ते नो एवं विपडिवेदेति, तं० किरियाइ वा अकिरियाइवा सुक्कडेइ वा दुकडेइ वा कल्लाणेइ वा पावएइ वा साहुइवा असाहुइवा सिद्धीइ वा असिद्धीइ वा निरएइवा अनिरएइ वा, एवं ते विरूवरूवेह कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए।॥एवंएगे पागन्भिया निक्खम्ममामगंधम्म पनवेति, तंसदहमाणातं पत्तियमाणातं रोएमाणा साहु सुयक्खाए समणेति वा माहणेति वा कामं खलु आउसो! तुमं पूययामि, तंजहाअसणेण वा पाणवा खाइमेण वासाइमेणवा वत्येण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्येगे पूयणाए समाउटिंसु तत्थेगे पूयणाए निकाइंसु। पुवमेव तेसिं नावं भवति-समणा भविस्सामो अनगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावां कम्मं नो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदिया।ति अन्नपि आयतंतं समनुजाणंति, एवमेव ते इस्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववना लुद्दा रागदोसवसट्टा, ते नो अप्पाणं समुच्छेदेति ते नो परं समुच्छेदेति ते नो अन्नाईपाणाईभूताईजीवाइंसत्ताइंसमुच्छेदेति, पहीणापुब्बसंजोगं आयरियं मग्गं असंपत्ता इति ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए। वृ. 'इह' अस्मिन्मनुष्यलोके, खलुवक्यिालङ्कारे, इहास्मिन् लोके प्राच्या प्रतीच्यां दक्षिणायामुदीच्यामन्यतरस्यांवा दिशि सन्ति' विद्यन्तेएकेकेचनतथाविधामनुष्याःआनुपूर्वेणेमं लोकमाश्रित्योत्पन्ना भवन्ति।तानेवानुपूर्वेण दर्शयति-तद्यथे' त्युपन्यासार्थः,आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषविंशतिजनपदोत्पन्नाः, तद्यतिरिक्तास्त्वनार्या एके केचन ___ Page #305 -------------------------------------------------------------------------- ________________ ३०२ सूत्रकृताङ्ग सूत्रम् २/१/-/६४१ भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा । ॥१॥ सगजवणसवरबब्बर कायमुरुंडोड्डगोडुपक्कणिया। ____ अरबागहोणरोमय पारसखसखासिया चेव ॥ ॥२॥ डोंबिलयलउसबोक्कस भिलंधपुलिंदकोंबभमररुया । कोंचा य चीणचंचुयमालव दमिला कुलग्धा य॥ ॥३॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य। हयकण्णा गयकण्णा अन्ने यअनारिया बहवे॥ ॥४॥ पावा य चंडदंडा अनारिया निग्धिणा निरनुकंपा। धम्मोत्ति अक्खराई जेण न नजति सुमिणेवि।। इत्यादि । तथोच्चैर्गोत्रम्-इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 'नीचैर्गोत्रं' सर्वजनावगीतं येषां ते तथा एके केचननीधैर्गौत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचे!त्रावा । कायोमहाकायः प्रांशुवं तद्विद्यते येषां ते कायवंतः, तथा 'ह्रस्ववन्तो वामनककुब्लवडमादय एके केचन तथाविधनामकर्मो दयवर्तिनः, तथा शोभनवर्णा सुवर्णा-प्रतप्तचामीकरचारुदेहाः, तथा दुर्वणाः-कृष्णरूक्षादिवर्णा एके केचन, तथा सुरूपाःसुविभक्तावयवचारुदेहाः, तथा दुष्टरूपादुरूपाबीभत्सदेहाः,तेषां चोच्चैर्गोत्रादिविशेषमविशिष्टनांमहान्कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति। सविशेष्यते-महाहिमवन्मलवमन्दरमहेन्द्राणामिव सारः-सामर्थ्य विभवोवा यस्यस तथा इत्येवंराजवर्णको यावदुपशान्तडिम्बडमरंराज्यप्रसाधयंस्तिष्ठतीति, तत्र डिम्बः-परानीकशृगालिको डमरं-स्वराष्ट्रक्षोभः, पर्यायी वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधापर्षद्भवति, तद्यथा-उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवं भोगभोगपुत्रादयोऽपिद्रष्टव्याः, शेषंसुगम, यावत्सेनापतिपुत्रा इति, नवरं 'लेच्छइत्ति लिप्सुकः सच वणिगादिः, तथाप्रशास्तारोबुद्ध्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्-धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण-स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रघार्य-तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा-- एतद्यथाऽहं कथयिष्यामि एव'मिति च वक्ष्यमाणनीत्याभवन्तो-यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थकः स्वदर्शनानुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति। तत्राद्यःपुरुषजातस्तजीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा-'ऊर्ध्वम् उपरि पादतलादघश्च केशाग्रमस्तकात्तिर्यक् च त्वक्पर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराद्व्यतिरिक्तोऽस्त्यात्मेत्यतस्त प्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनः पर्यवः कृत्स्नः' संपूर्ण पर्यायः' अवस्थाविशेषः, तस्मिंश्चकायात्मन्यवाप्ते तदव्यतिरेका Page #306 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - 9, ३०३ जीवोऽप्यवाप्त एव भवति, एष च कायो यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात् तथैव कायो यदा 'मृतो' विकारभाग्यवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकत्वात् यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेश्च जीवोऽपीति, तस्मिंश्च विनष्टे सति - एकस्यापि भूतस्यान्यथा भावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तस्मिंश्च विनष्टे तदात्माजीवोऽपि विनष्ट इतिकृत्वा 'आदहनाय' आसमन्ताद्दहनार्थः श्मशानादौ नीयते यतोऽसौ, तस्मिंश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तित्वशङ्का स्यात्, ते च बान्धवा जघन्यतोऽपि चत्वारः आसन्दी मञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्यते न चोपलभ्यते, तस्मात्तज्जी- वस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ जीवोऽसन्- अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः ' अननूभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति तद्यथा - अयमात्माऽऽयुष्मन् शरीराद्बहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र किं दीर्घ- स्वशरीराप्रांशुतरः उत ह्रस्वः - अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा ?, तथा संस्थानानां परिमण्डलादीनां मध्ये किंसंस्थानः ?, तथा कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः ?, षण्णां रसानां मध्ये कतमरसवर्ती ?, तथाऽष्टानां स्पर्शानां मध्ये कतमे स्पर्शे वर्तते ? । तदेवं संस्थावर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसी, तथापि केनापि प्रकारेण संवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति तथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽत्मानमुपलभन्ते । तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं' खङ्गम् 'अभिनिर्वर्त्य' समाकृष्यान्येषामुपदर्शयेत्, तद्यथा-अयमायुष्मन् ! 'असि' खङ्ग्रोऽयं च 'कोशः ' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा - अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति । अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह- तद्यथा वा कश्चित्पुरुषो 'मुञ्जात्' तृणविशेषात् 'इसियं'ति तद्गर्भभूतां शलाकां पृथककृत्य दर्शयेत्, तथा मांसादस्थि तथा करतलादाम - लकं तथा दघ्नो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रसं तथाऽरणितोऽग्निमभिनिर्वर्त्य - पृथकृकृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरापृथग-संवेद्यमानश्चेति । प्रयोगश्चात्र सुखदुःखभाक् परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः घटात्मवत्, व्यतिरेकेण च कोशखड्गवत्, तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनां स्वदर्शनानुरागादेतत्स्वाख्यातं भवति, तद्यथा - अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम्, एतच्च पृथङ् 7 Page #307 -------------------------------------------------------------------------- ________________ ३०४ सूत्रकृताङ्ग सूत्रम् २/१//६४१ नोपलभ्यते तस्मात्तन्मिथ्या यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिकः स्वतः प्राणिनामेकेन्द्रियादीनां 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः खङ्गादिना धातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् ‘एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावानास्ति परलोकः, तदभावाच्यथेष्टमासत तथा चोक्तम्॥१॥ "पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तत्र ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तजीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथाक्रियां वा सदनुष्ठाना मिकाम् अक्रियां वा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोऽपायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सक्रियादिचिन्ताऽपि दूरोत्सादितैव । तथसुकृतं दुष्कृतंवा कल्याणमिति वा पापमिति वा-साधु कृतमसाधुकृतमित्यादिकाचिन्तैवनास्ति, तथाहि-सुकृतानां-कल्याणविपाकिनांसाधुतयाऽवस्थानं दुष्कृतानांच-पापविपाकिनामसाधुत्वेनावस्थानम्, एतदुभयमपि सत्यात्मनि तत्फलमुजि संभवति, तदभावाय कुतोऽनर्थको हिताहितप्राप्तिरिहा स्यातां?।। तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धि, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरकोवा-तिर्यक्नरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैवन भवेत्, तदाधारस्यात्मसद्भावस्यानभ्युपगमादिति भावः ।पुनरपि लोकायतिकानुष्ठानदर्शनायाह-एवंते' इत्यादि 'एवम् अनन्तरोक्तेन प्रकारेण ते नास्तिका आत्माभावं प्रतिपद्य विरूपं-नानाप्रकाररूपं-स्वरूपं येषांतेतथा कर्मसमारम्भाः-सावद्यानुष्ठानरूपाः पशुधातमां सभक्षणसुरापाननिलाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीबलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् ‘समारभन्ते' समाददति तदुपभोगार्थमिति। साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूतं ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिनाभाव्यम्, अतः शरीरात्पृथग्भूतआत्माऽमूर्तीज्ञानवत् तदाधारभूतोऽस्तीति, नचात्माभ्युपगममन्तरेणतज्जीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, श्यन्ते च तथाभूतएव शरीरे म्रियमाणा मृताच, तथा कृतः समागतोऽहं कुतरःचेदं शरीरंपरित्यज्ययास्यामि?, तथा 'इदं' मेशरीरंपुराणं कर्मेत्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथगजीवास्तित्वमश्रद्दधानाः 'प्रागलिभकाः' प्रागल्म्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात्, नचतेवराकाः स्वदर्शनानुरागा तमसावृतदष्टयएतद्विदन्ति यथा-मूर्तस्यायं धर्मोनामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धाष्टान्नाभ्युपगच्छन्ति। तथा 'निष्क्रम्य' चस्वदर्शनविहितां प्रव्रज्यां गृहीत्वा नान्यो जीवःशरीराद्विद्यत इत्येवं यो Page #308 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-१, ३०५ धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषां च तं तथा भूतं धर्म प्रतिपादयन्ति । यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य तथाविधपरिणतेस्तदेवाभिरुचितम, अतो मामकोऽयं धर्म स्वयमभ्युपगच्छन्त्यन्येषांचप्रज्ञापयन्ति, यदिवा-नीलपटाद्य-भ्युपगन्तुःकश्चिदस्त्येवप्रव्रज्याविशेष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-तं सद्दहमाणे त्यादि, 'तं' नास्तिकवाद्युप न्यस्तं धर्मं विषयिणामनुकूलं 'श्रद्दधानाः' स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः' अवितथभावेनगृहन्तःतथा तत्ररुचिंकुर्वन्तः तथा साधु-शोभनमेतद्यत् तथास्वाख्यातो-यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकभयात्सुखसाधनेषु मांसमधादिष्वप्रवृत्ति कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारी भवता हे श्रमण! ब्राह्मण ! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः । ___काममिष्टमेतदस्माकंधर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्यावयमभ्युध्धृताः अन्यथा कापटिकैस्तीर्थिकैञ्चिताः स्युरि ति, तस्मादुपकारिणं त्वां' भवन्तंपूजयामः, अहमपि कञ्चिदायुष्मतो भवतः प्रत्युपकारं करोमि । तदेव दर्शयति-तद्यथा 'असणेणे त्यादि सुगम यावत्पादपुञ्छनकमिति। तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा 'समाउटिंसुत्ति समावृत्ताःप्रीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं स्वदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु “निकाचितवन्तो' नियमितवन्तः, तथाहि भवतेदं तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यम्, अन्यो जीवोऽन्यञ्च शरीरमित्येतच्च परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेव विधेयमित्येवं निकाचितवन्त इति । तत्रये भागवतादिकंलिङ्गमभ्युपगताः पश्चाल्लोकायत ग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां 'पूर्वम्' आदी प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्रकलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा गृहरहिताः तथा निष्किञ्चनाः किञ्चन-द्रव्यंतद्रहिताः तथा 'अपशवो' गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाचनादिक्रियारहितत्वात्, भिक्षणशीला भिक्षवः, कियद्वक्ष्यतेअन्यदपियत्किञ्चित्पापं-सावधंकर्मानुष्टानंतत्सर्वं न करिष्यामीत्येवंसम्यगुत्थानेनोत्थाय पूर्वपश्चात्तेलोकायतिकभावमुपगता आत्मनः-स्वतः पापकर्मभ्योऽप्रतिविरताभवन्ति, विरत्यभावे चयत्कुर्वन्तितद्दर्शयति-पूर्वंसावद्यारम्भानिवृत्ति विधाय नीलपटादिकंच लिङ्गमास्थायस्वयमात्मना सावद्यमनुष्ठानमाददते स्वीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्याददान-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति। एवमेव-पूर्वोक्तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूर्छिता एकीभावतामापन्ना गृद्धाः-काङ्क्षावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषुलुब्धा रागद्वेषा(षवशा) - रागद्वेषवशगाः कामभोगान्धावा,तएवं कामभोगेषुअवबध्धाः सन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्तिकर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान्-प्राणिनः, तथा अभूवन् भवन्ति 2|20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ सूत्रकृताङ्ग सूत्रम् २/9/-/६४१ भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेस्तान्न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात, तेचैवंविधास्तज्जीवतच्छरीरवादिनोलोकायतिकाअजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात्-पुत्रदारादिकाअहीणा:-प्रघ्रष्टा आराधातः सर्वहयधर्मेभ्य इत्यार्यो मार्ग-सदनुष्ठानरूपस्तमसंप्राप्ता इति।। एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तज्जीवतछरीरवादी परिसमाप्त इति ॥ प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याह मू. (६४२) अहावरे दोच्चे पुरिसजाए पंचमहब्भूतिएत्तिआहिजइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति अनुपुब्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे अनारिया वेगे एवं जाव दुरूवा वेगे, तेसिंचणं महंएगे राया भवइ महया० एवं चेव निरवसेसं जाव सेणावइपुत्ता, तेसिंचणंएगतिए सड्ढा भवंति कामंतं समणा य माहणा य पहारिसुंगमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणंधम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअखाए सुपन्नत्ते भवति। इह खलु पंच महाभूता, जेहिं नो विजइ किरियाति वा अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा निरएतिवाअनिरएतिवाअविअंतसोतणमायमवि ।।तंच पिहुद्देसेणं पुढोभूतसमवातंजाणेजा, तंजहा-पुढवी एगे महब्भूते आऊदुच्छे महब्भूते तेऊ तच्चे महब्भूते वाऊ यउत्थे महब्भूते आगासे पंचमे महब्भूते, इच्छेते पंच महब्भूया अनिम्मिया अनिम्माविता अकडा नो कित्तिमा नो कडगा अनाइया अनिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा, पुन एगे एवमाहु-सतो नत्यि विणासो असतो नत्थि संभवो। एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अविअंतसोपुरिसमविकीणित्ता घायइत्ताएत्यंपिजाणाहि नत्थित्थदोसो, ते नोएवं विप्पडिवेदेति, तंजहा-किरियाइवाजावऽनिरएइवा, एवंतेविरुवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइंकामभोगाई समारभंति भोयणाए। एवमेव ते अनारिया विपडिवना तं सद्दहमाणा तं पत्तियमाणा जाव इति,ते नो हवाए नो पाराए, अंतरा कामभोगेसु विसण्णा, दोच्चे पुरिसजाए पंचमहन्भूतिएत्ति आहिए। वृ.अथशब्दआनन्तर्याथै, प्रथमपुरुषानन्तरमपरोद्वितीयःपुरुषएवपुरुषजातः पञ्चभिः पृथिव्यप्तेजोवाय्वाकाशाख्यैश्चरति पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मत्वर्थीयष्ठा, सच सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाघभिधीयते चेति । अत्र च प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सपन्नत्ते भवती'त्येतत्पर्यवसानोऽवगन्तव्य इति । Page #310 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-१, ३०७ सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगम दर्शयितुमाह-'इह' अस्मिन् द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतनि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पञ्चैव, अपरस्यषष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात्, यैर्हि पञ्चभिर्भूतैरप्युपगम्यमानैः 'नः' अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा-निव्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शन-सत्त्वरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्क्ते बुद्धयध्यवसितमर्थं पुरुषश्चेतयते इतिवचनात्,बुद्धिश्चप्रकृतिरेवतद्विकारत्वात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसांचयापचयाभ्यां क्रियाक्रिये स्यातामितिकृत्वा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भावः ।। तथा सुष्टु कृतं सुकृतम् एतच्च सत्त्गुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकिमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्कर्षानुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्त्वसिद्धिः निर्वाणं वा-सिद्धिःअसिद्धिः-संसारः संसारिणां तथा नरकः-पापकर्मणां यातनास्थानम् अनरकस्तिर्यङ्गनुष्यामरणाम्, एतत्सर्वं सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिर्विधत्ते। लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरेव प्रधारूपापन्नैः क्रियते, तथा चोक्तम् । ॥१॥ ‘सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्मकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। इत्यादि। तदेवंसांख्याभिप्रायेणात्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याललोकायतिकाभिप्रायेण त्वात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापनानि नानास्वभावं कार्यं कुर्वन्ति॥तंच तेषांसमवायं पृथग्भूतपदोद्देशेन जानीयातू, तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां समवायः स एकत्वेऽपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती तिकृत्वा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पञ्च महाभूतानि । ॥१॥ “प्रकृतेर्महान् महतोऽहमारस्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ।। इत्येवंक्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादिवद्विनसापरिणामेन निष्पन्नत्वात्, तथानघटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानिन भवन्तीत्यर्थ, तथापरव्यापाराभावतया 'नो' नैव कृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विनसापरिणामेन निष्पन्नत्वात्कृतकव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्यकार्यकर्तृणि, तथा न विद्यते पुरोहितः' कार्यप्रतिप्रवर्तयिता Page #311 -------------------------------------------------------------------------- ________________ ३०८ सूत्रकृताङ्ग सूत्रम् २/१/-/६४२ येषां तान्यपुरोहितानि स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीध्शं जगदिति वचनात्, तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति । तदेवं सांख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेर्नास्ति 'विनाशः ' अत्यन्ताभावरूपो नाप्यसतः शशविषाणादेः संभवः समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, तथा चोक्तम्- "नासतो जायते भावो नाभावो जायते सतः " इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः ॥ तदेवमेतावानेव तावदिति सांख्यो लोकायतिको या माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्मदयुक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेव' भूतमात्र एव जीवकायः, तथा एतावानेव भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति । तथा एतावानेव सर्वलोको यदुत पञ्चमहाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य पदार्थस्याभावादिति तथा एतदेव पञ्चभूतास्तित्वं 'मुखं' कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्यप्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तसस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादिति भावः ॥ स चैवंवाद्येकत्रात्मनोऽकिञ्चित्करत्वादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति दर्शयितुमाह-' से कीण' मित्यादि 'से' त्ति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन्' किञ्चित् क्रयेण गृहंस्तथाऽपरं क्रापयंस्तथा प्राणिनो घ्नन् हिंसन् तथा परैर्घातयन् व्यापादयन् तथा पचनपाचनादिकां क्रिया कुर्वंस्तथाऽपरैश्च पाचयन्, अस्य चोपलक्षणार्थत्वात् क्रीणतः क्रापयतो घ्नतो घातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रियं विक्रीय घातयित्वा अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं 'जानीहि ' अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः । ततश्चैवंवादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद्' वक्ष्यमाणं 'विप्रतिवेयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावधानुष्ठानरूपा एवमक्रिया वा स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उञ्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भः 'विरूपरूपान्' नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति - नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारित्वादार्यान्मार्गाद्विरुद्धं मार्गं प्रतिपन्नाः विप्रतिपन्नाः, तथाहि - सांख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप' मिति वचनात्, आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तसंगतं यतोऽकर्तृत्वात्मनो नित्यत्वाच प्रतिबिम्बोदयोन युज्यते, किंच-नित्यत्वात्प्रकृतेर्महदादिविकारतया नोत्पत्ति स्यात्, अपिच- 'नासतो Page #312 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-१, ३०९ जायतेभावो, नाभावोजायतेसत' इत्याद्यभ्युपगमाप्रधानात्मनोरेव विद्यमानत्वान्महदहकारादेरनुत्पत्तिरेव, एकत्वाच प्रकृतेरेकात्मवियोगेसतिसर्वात्मनां वियोगः स्याद् एकसंबन्धेवा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवंजगद्वैचित्र्यंनस्याद्, आत्मनश्चाकर्तृत्वे तत्कृतौबन्धमोक्षोन स्याताम्, एतच्च हटेष्टबाधितं नापिकारणे सत्कार्यवादो युक्तिभिरनुपपद्यमानत्वात, तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिनां कर्मगुणव्यपदेशानामभावात्, घटार्थिनांच क्रियासुप्रवृत्तेर्न कारणे कार्यमिति लोकायतिकस्यापि भूतानामचेतनत्वात्कर्तृत्वानुपपत्ति, कायाकारपरिणतानां चैतन्याभिव्यकत्यभ्युपगमे च मरणाभावप्रसङ्गः स्यात्, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, नच भूतान्येव धर्मित्वेनपरिकल्पयितुंयुन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं सत्त्वमस्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्या सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तद्दर्शयितुमाह -- तंसद्दहमाणाइत्यादि, तम्' आत्मीयमभ्युपगमंपूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः' प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारंप्रशंसयन्तः, तद्यथा-स्वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-साक्द्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः स्त्रीकामेषु मूर्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा एहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्राणाय नापि परेषामिति । भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति ।। साम्प्रतमीश्वरकरणिकमधिकृत्याह मू. (६४३) अहावरे तञ्चे पुरिसजाए ईसरकारणिए इति आहिज्जइ, इह खलु पादीणं वा ६ संगतिया मणुस्सा भवंति अनुपुचणं लोयं उववन्ना, तं० आरिया वेगे जाव तेसिंचणं महंते एगे राया भवइ जाव सेणावइपुत्ता, तेसिं च णं एगतीए सड्ढी भवइ, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नते भवइ । इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिति, से जहानामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए अरई सिया सरीरे जाया सरीरे संवुड्ढा सरीरे अभिसमण्णागया सरीरमेव अभिभूयचिट्ठति, एवमेव धम्माविपुरिसादियाजावपुरिसमेवअभिभूय चिट्ठति। से जहानामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठति । से जहानामए रूक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय Page #313 -------------------------------------------------------------------------- ________________ ३१० सूत्रकृताङ्ग सूत्रम् २/१/-/६४३ चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठेति । से जहानामए पुकखरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति जंपिय इमं समणाणं निग्गंधाणं उद्दिवं पणीयं वियंजियं दुवालसंगं गणिपिडयं, तंजहा आयारो सूयगडो जाव दिट्टिवातो, सव्वमेवं मिच्छा, न एयं तहियं, न एवं आहातहियं, इमं सञ्चं इमं तहियं इमं आहातहियं, ते एवं सत्रं कुव्वंति, ते एवं सन्नं संठवेति, ते एवं सन्नं सोवठ्ठवयंति, तमेवं ते तज्जाइयं दुक्खं नातिउट्टंति सउणी पंजरं जहा ॥ ते नो एवं विप्पडिवेदेति, तंजहा - किरिया इ वा जाव अनिरए इ वा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए । एवामेव ते अनारिया विप्पडिवना एवं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसण्णेत्ति, तच्छे पुरिसजाए ईसरकारणिएत्ति आहिए। वृ. अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्याये, समस्तस्यापि चेतनाचेतन रूपस्य जगत ईश्वरः कारणं, प्रभाणं चात्रतनुभुवनकरणादिकं धर्मित्वेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्म, संस्थानविशेषत्वात् कूपदेवकुलादिवत् तथा स्थित्वा २ प्रवृत्तेर्वास्यादिवत्, उक्तं च ॥१॥ “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ॥ २ ॥ इत्यादि । तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम् । “एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवद् ॥ इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु' इत्यादि, इहैव - पुरुषजातप्रस्तावे, खलुशब्दो वाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात्, तद्यथा राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति । स चायम्-इह खलु धर्मा-स्वभावाश्चेतनाचेतनरूपाः पुरुष - ईश्वर आत्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं कार्यं येषां ते पुरुषोत्तराः, तथा पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितत्वात् तदात्मकत्वाद्वा, तथा पुरुषेण द्योतिताः- प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरसस्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्मा, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः सर्वेऽप्येते पुरुषमेवाभिभूय: अभिव्याप्य तिष्ठन्ति । अस्मिन्नर्थे ध्ष्टान्तानाविर्भावयन्नाह 'से जहानामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः - , Page #314 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - १, ३११ संभावनायां तद्यथा नाम गण्डं 'स्याद्' भवेत्, संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं - शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं - शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेऽभिसमन्वागतंशरीरमाभिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूयआभिमुख्येन पीडयित्वा तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्गण्ड तिष्ठति न शरीराद्धहिर्भवति, एतदुक्तं भवति-यथा तत्पिटकं शरीरैकदेशभूतं युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तृ पार्यन्ते । यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्मा प्रादुष्यन्ति ते पृथक्कर्तुं न शक्यन्ते, यथा तद्गण्डंशरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्मापुरुषादिकाः पुरुषकारणिकः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्बहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्थात्माद्वैतवादस्य च सुप्रसिद्धत्वाध्ष्टान्त-बहुत्वमित्याह- 'से जहा' इत्यादि, तद् यथा नामारतिः- चित्तोद्वेगलक्षणा 'स्याद्' भवेत्, सा च शरीर- जाता इत्यादि गण्डवन्नेया, दान्तिकेऽप्येवमेव, सर्वे धर्मा पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववज्ञेयं । तथा तद् यथा नाम वल्मीकं- पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभिभूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्तरूपं वा नात्मनः पृथग्मवितुमर्हति पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथिवीजात इत्यादि दृष्टान्तदान्तिके पूर्ववदायोज्ये, तद्यथा नाम पुष्करिणी स्यात्-तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चचर्यः, तथा तद् यथा नाम पुष्कलं प्रचुरमुदकपुष्कलम् उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्बुदः स्याद्, अत्रापि दृष्टान्तदान्तिके, न तस्मादवयविनः पृथग्भूत इति सुगमम् । तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह - यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां' यतीनां 'निर्ग्रन्थानां' निष्किञ्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितंतेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा- आचार इत्यादि यावद्दष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतत्वात् स्वरुचिविरचितरध्यापुरुषवाक्यवत्, तथा नैतत्तध्यं मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरत्ववत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिह्नवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यम्-यथाऽवस्थितोऽथ न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिह्न वेनासद्भूतार्थारोपणमाविष्कृतं, तद् यथा गामश्वं ब्रुवतोऽश्वं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्द्द्द्रष्टव्यानि । तदेवं यदेतद्द्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतत्वान्मिथ्येति स्थितम् इदं तु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । तथेदमेव तथ्यं सद्भूतार्थोद्मासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा Page #315 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/9/-/६४३ ‘एवम्' अनन्तरोक्तयानीत्यासर्वं तनुभुवनकरणादिकमीश्वरकारणिकं तथा सर्वं चेतनमचेतन वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवंसंज्ञानं संज्ञा तामेवंकुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसां संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठु उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तिर्निनीषव- 'स्थापयन्ति' प्रतिष्ठापयन्ति।तेचैवंवादिनस्तमीश्वरकर्तृत्ववादमात्माद्वैतवादंवानातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्वादुःखं नातिवर्तन्ते न त्रोटयन्ति वा, अस्मिन्नर्थे दृष्टान्तमाह-यथा शकुनिपक्षिविशेषो लावकादिकः परं नातिवर्तते पीनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वात्रोटयन्ति । तेचस्वाग्रहाभिमानग्रहग्रस्तानैतद्वक्ष्यमाणं विप्रतिवेदयन्तिनसम्यक्जानन्ति, तद्यथाइयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया-तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनशोभनं वा यावदयमनर-क इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूषैः कर्मसमारम्भैः नानाप्रकारैःसावद्यानुष्ठानैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय-उपभोगार्थमित्येवमनास्तेि विरुद्ध मार्ग प्रतिपन्ना विप्रतिपत्रा न सम्यग्वादिनो भवन्ति, तथाहि - सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासु प्रवर्त ते उतापरेण प्रेरितः ?, तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वर- परिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यरेणेत्येवमनवस्थालता नभोमण्डल- मालिनी प्रसर्पति । किञ्च असावीश्वरो महापुरुषतया वीतरागतोपेतः सन्नेकानरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति ?, अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासुक्रियासुप्रवर्तन्ते, सतुनिमित्तमात्रम्, तदपिनयुक्तिसंगतं, यतःप्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम् अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम्॥१॥ "शस्त्रोषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे। असंबद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? ।। इत्यादि । यत्रोक्तं-सर्वं तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वात् देवकुलादिवदिति, एतदपिन युक्तिसंगतं, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धव्याप्तयसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमात्, नच संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोःप्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः स्यात्, उक्तं च - ॥१॥ “अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्धयेद्वल्मीकस्यापि तत्कृतिः॥ Page #316 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं.१, ३१३ इत्यादि । न चेश्वरकर्तृत्वे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वान्नाश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्वस्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात्, तदभावेचकः केन प्रतिपाद्यते? इत्यप्रणयनमेवशास्त्रस्य, आत्मनश्चैकत्वातत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति॥१॥ “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ॥ इत्यादि।तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्चयुक्तिभिर्विचार्यमाणोनकथञ्चिद्घटां प्राञ्चति, तथापिएते स्वदर्शनमोहमोहितास्तजातीयाहुःखात् शकुनिपारादिवनातिमुच्यन्ते, विप्रतिपन्नाश्च तप्रतिपादिकाभिर्युक्तिभिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्वन्नेयं यावत् ‘नो हव्वाए नो पाराए अंतरा कामभोगेसुविसण्ण'त्ति इत्ययंतृतीयः पुरुषजात ईश्वरकारणिक इति ।सह्येवमाह ॥१॥ “यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । __ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥ इत्याद्यसमजसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितंस्थानमन्तराल एव कामभोगेषु मूर्च्छितो विषण्ण इत्यवगन्तव्यमिति ।। साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह मू. (६४४) अहावरे चउत्थे पुरिसजाए नणयतिवाइएत्ति आहिजइ, इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता चा, तेसिं च णं एगतीए सड्ढी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नते भवइ । इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे नोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे नोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला एगट्टा, कारणमावन्ना। बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जंदुक्खइवा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । मेहावी पुन एवं विप्पडिवेदेति कारणमावने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितणमि वा, नो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावजंति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंतितेएवं संगतियंति उवेहाए, नोएवं विप्पडिवेदेति, तंजहा-किरियाति वाजावनिरएति वा अनिरएति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभंति भोयणाए। एवमेव ते अनारिया विष्पडिवन्ना तंसदहमाणा जाव इति ते नो हव्वाएनो पाराए अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाए नियइवाइएत्ति आहिए । इच्छेते चत्तारि पुरिसजाया Page #317 -------------------------------------------------------------------------- ________________ ३१४ सूत्रकृताङ्गसूत्रम् २/9/-/६४४ नानापन्ना नानाछंदा नानासीला नानादिट्ठी नानारूई नानारंभा नानाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगाआरियंमग्गं असंपत्ताइतिते नोहव्वाएनो पाराए अंतराकामभोगेसुविसण्णा पृ.अथतृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुषएवपुरुषजातोनियतिवादिक आख्यायतेप्रतिपाद्यते, सचैवमाह-नात्र कश्चित्कालेश्वरादिकः कारणंनापिपुरुषकारः,समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम्, उक्तंच॥१॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।। इत्यादि ।। 'इह खलुपाईणं इत्यादिको ग्रन्थः प्रागवन्नेतव्योयावदेष धर्मो-नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति ।। स च नियतिवादी स्वाभ्युपगमं दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, ‘इह' अस्मिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रियाहिदेशाद्देशान्तरावाप्तिलक्षणापुरुषस्य भवति, नकालेश्वरादिनाचोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावस्वतन्त्रौ क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वातुल्यौ, यदिपुनस्तौ स्वतन्त्री भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यौस्यातामिति, अतएकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिदमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाचास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति। साम्प्रतं नियतिवादी परतोद्विभावयिषयाऽऽह-'बालः' अज्ञः पुरुषकारकालेश्वरचादीत्यादिकः, पुनरितिविशेषणार्थः, तदेवदर्शयति-'एव' मिति वक्ष्यमाणनीत्या विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादिर्वा कारणमित्येवमभ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहमस्मि 'दुक्खामि'त्तिशारीरंदुःखमनुभवामितथाशोचामि-इष्टानिष्टवियोगसंप्रयोगकृतंशोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि,तथा पीडामितिसबाह्याभ्यन्तरयापीडयापीडामनुभवामि, तथा परितप्पामित्ति परितापमनुभवामि,तथा जूरामित्तिअनार्यकर्मणिप्रवृत्तमात्मानं गह मि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीड्या कृतवानस्मीत्यर्थः, तथा परोऽपि यदुखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेवदर्शयति-'परोवे त्यादि, तथा परोऽपि यन्मांदुःखयति शोचयतीत्यादिप्राग्वेन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं विप्रतिवेदयति' जानीते स्वकारणं वा परकारणं वा सर्वं दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन इति। तदेवंनियतिवादीपुरुषकारकारणवादिनो बालत्वमापाद्यस्वमतमाह-मेधा मर्यादा प्रज्ञा वातद्वान् मेघावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन इति नियतिरेव कारणं सुखाद्यानुभवस्य, तद्यथा-योऽहमस्मि दुःखयामि शोचयामि तथा 'तिप्पामित्ति क्षरामि 'पीडामिति पीडामनुभवामि परितप्पामित्तिपरितापमनुभवामि, नाहमेवमकार्ष दुःखम्, अपि तु नियतित एवैतन्मय्यागतं, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासावनिच्छन्नपितत्कार्यतयेनदुःखपरम्पराभाग्भवति, Page #318 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - 9, ३१५ कारणमापन्न इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेघावीति सोल्लुण्ठमेतत्, स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्याध्ष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठयते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति- जानाति नात्मकृतं नियतिकारणमापन्नं कारणं चात्रैकस्यासदनुष्ठानरतस्यापि न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्त्रीति । तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह 1 'से बेमी' त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी' ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षुत्रस्यन्तीति त्रसा द्वीन्द्रियादयः स्थावराश्च पृथिव्यादयः प्राणाः प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति, तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम् अवस्थाविशेषं कुब्जकाणखज्जवामनकजरामरणरोगशोकादिकं, बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा ' एवं ' पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयं 'ति नियतिमाश्रित्य 'तदुत्प्रेक्षया' नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति - जानन्ति, तद्यथाक्रिया - सदनुष्ठानरूपा अक्रिया तु-असदनुष्ठनरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्वं दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भर्विरूपरूपान् कामभोगान् भोजनाय उपभोगार्थं सरमारभन्त इति । , - तदेवमेव पूर्वोक्तया नीत्या तेऽ नार्या विरूपं नियतिमार्गं प्रतिपन्ना विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात्, तथाहि असौ नियति किं स्वत एव नियतिस्वभावा उतान्यया नियत्या नियम्यते ? किंचातः ?, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावत्वं किं न कल्प्यते ?, किं बहुदोषया नियत्या समाश्रितया ? | अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था । तथा नियतेः स्वभावत्वान्नियतस्वभावयाऽनया भवितव्यंन नानास्वभावयेति, एकत्वाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतद्दुष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषौ क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं यतस्ययोरेकः क्रियावाद्यपरस्त्वक्रियावादीति कथमनयोस्तुल्यत्वम्, अथैकया नियत्या तथानियतत्वात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात्, अप्रमाणत्वं च प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं यद्दुः रवादिकमहमनुभवामि तन्नाहमकार्षमित्यादि, तदपि बालवचनप्रायं यतो जन्मान्तरकृतं शुभमशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरत्वादसुमतां, तथा चोक्तं - ॥१॥ 'यदि क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ ॥ २ ॥ (तथा) - 'यदुपात्तमन्यजन्मनि शुभशुभमं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नो कर्तु देवासुरैरपि हि ।' Page #319 -------------------------------------------------------------------------- ________________ ३१६ सूत्रकृताङ्ग सूत्रम् २/9/-/६४॥ तदेवंतेनियतिवादिनोऽनार्याविप्रतिनपन्नास्तमेव नियुक्तिकंनियतिवादं श्रद्दधानास्तमे च प्रतीयन्ते इत्यादि तावन्नैयं यावदन्तरा कामभोगेषु विषण्णा इतिचतुर्थ पुरुषजातः समाप्तः साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तञ्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनियति वादपक्षाश्रयिणश्चत्वारः पुरुषानानाप्रकाराप्रज्ञा-मतिर्येषांतेतथा नाना-भिन्नश्छन्द:-अभिप्रार येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः दर्शनं येषां ते तथ नानास्त्रपा रूचि-चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा नानाप्रकारेण-परस्परभिन्नेनाध्यवसायेन संयुक्ताधर्मार्थमुद्यताः,प्रहीणः-परित्यक्तः पूर्वसंयोगे, मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा -- तथा आराधातः सर्वहयधर्मेय॑इत्यार्योमार्गानिर्दोषः पापलेशासंपृक्तस्तमार्यमार्गमसंप्राप्त इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयो 'नो हव्वाए' इति परित्यक्तत्वान्माता पित्रादिसंबन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजोभवन्ति, तथा 'नो पाराएति असंप्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिन भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्वन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एक कामभोगेषु विषण्णा' अध्युपपन्ना दुष्पारपङ्कमग्ना इव करिणो विषीदन्तीति स्थितम् । उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह मू. (६४५) से बेमिपाईणंवा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अनारिय वेगे उञ्चागोया वेगे नीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूव वेगे दुरूवा वेगे, तेसिंचणंजणजाणवयाई परिग्गहियाइंभवंति, तं० अप्पयरा वा भुजयरा वा तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुहिता सतो वावि एगे नायओर उवगरणं च विपजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे नायओ य उवगरणं । विप्पजहाय भिक्खायरियाए समुठ्ठिता। जेते सतो वा असतो वा नायओय अनायओय उवगरणं च विष्पजहाय भिक्खायरियाए समुट्टिता पुव्वमेव तेहिं नायं भवइ, तंजहा-इह खलु पुरिसे अन्नमनं ममहाए एवं विप्पडिवेदेति, तंजहाखेत्तं मे वत्थू मे हिरण्णं मे सुवन्नं मे धणं मे धन्नं मे कंसं मे दूसं मे विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मे सदा मे लवा मे गंधा मे रसा मे फास मे, एते खलु मे कामभोगा अहमवि एतेसिं। से मेहावी पुव्वामेव अप्पणो एवं समभिजाणेज्जा, तंजहा-इह खलु मम अन्नयरे दुस्खे रोयातंके समुष्पजेज्जा अनिढे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे नो सुहे से हता भयंतारो ! कामभोगाइं मम अन्नयरं दुक्खं रोयातंक परियाइयह अनिटुं अकंतं अप्पियं असुभ अमणुन्नं अमणामंदुक्खं नो सुहं, ताऽहंदुक्खामि वा सोयामि वाजूरामि वा तिप्पामि वा पीडामि वापरितप्पामि वा इमाओ मेअन्नयराओ दुक्खाओ रोगातंकाओपडिमोयह अनिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुनाओ अमणामाओदुक्खाओ नो सुहाओ। एवामेव नो ल्ध्ध पुव्वं भवइ, इह खलु कामभोगानो ताणाए वा नो सरणाए वा, पुरिसेवा एगता पुब्बिं कामभोगे विप्पजहति, कामभोगा वा एगता पुब्बिं पुरिसं विप्पजहंति, अन्ने खलु Page #320 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - १, ३१७ कामभोगा अन अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो ? इति संखाएणं वयं च कामभोगेहिं विप्यजहिस्सामो, से मेहावी जाणेज्जा बहिरंगमेतं, इणमेव उवनीयतरागं । तंजहा- माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे पेसा मे नत्ता मे सुहा मे सुहा मे पिया मे सहा मे सयणसंगंथसंयुया मे, एते खलु मम नायओ अहमवि एतेसिं, एवं से मेहावी पुव्यामेव अप्पणा एवं समभिजाणेजा, इह खलु मम अन्नवरे दुक्खे रोयातंके समुप्पज्जेज्जा अणि जाव दुक्खे नो सु, से हंता भयंतारी ! नायओ इमं मम अन्नयरं दुक्खं रोयातंक परियाइयइ अणि जाव नो सुहं, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्यामि वा । इमाओ मे अन्नयतो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवइ, तेसिं वावि भयंताराणं मम नाययाणं इमं अन्नयरं दुक्खे रोयातंके समुपज्जेज्जा अणिट्टे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं नाययाणं इमं अन्नयरं दुक्खं रोयातंकं परियाइयामि अनिट्टं जाव नो सुहे, मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमा- ओ णं अन्नयराओ दुक्खातो रोयातंकाओ परिभोएमि अणिट्टाओ जाव नो सुहाओ, एवमेव नो लद्धपव्वं भवइ । अन्नरस दुक्खं अन्नो न परियाइयति अन्त्रेण कडं अन्नो नो पडिसंवेदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह खलु नातिसंजोगा नो ताणाए वा नो सरणाए वा, पुरिसे वा एगता पुव्वि नातिसंजोए विप्पजहति, नातिसंजोगा वा एगता पुव्वि पुरिसं विप्पजहंति, अन्ने खलु नातिसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अनमनेहिं नातिसंयोगेहिं मुच्छामो ?, इति संखाए णं वयं नातिसंजोगं विप्पजहिस्सामो। से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवनीयतरागं, तंजहा हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं से सलं मे सीलं मे वण्णो मे तया मे छाया मे सोयं मे चक्खू मे घाणं मे जिब्बा मे फासा मे ममाइजइ, वयाउ पडिजूरइ, तंजहा - आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ बलियतरंगे गाए भवइ, किव्हा केसा पलिया भवंति । तंजा-जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपि य अनुपुव्वेणं विप्पजहियव्वं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेज्जा, तं जीवा चेव अजीवा चेव, तसा चेव थावरा चेव ॥ घृ. याध्क्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थस्योपदर्शनाय प्रस्तावभारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः 'सन्ति' भवन्ति, तद्यथा- आर्या आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्या' शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादि कुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः ' प्रांशयः, तथा 'इस्वा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णा' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि' खातोच्छ्रिता Page #321 -------------------------------------------------------------------------- ________________ ३१८ सूत्रकृताङ्ग सूत्रम् २/१/-१६४५ दीनि तानि परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वाप्रभूततराणि वा भवन्ति। तथा तेषामेवच जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषुचार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषुवर कुलेषु आगम्य' जन्म लब्ध्वाऽभिभूयच विषयकषायादीन् परीषहोपसर्गान्वा सम्यगुस्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्वन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा 'सतो' विद्यामानानपि वा एके केचन महासत्त्वोपेता ज्ञातीन्' स्वजनान्तथा उपकरणं च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण 'हित्वा त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतोवा ज्ञातीनुपकरणं च विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः । ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव-प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा-'इह' जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा 'प्रवेदयति' जानात्येवं परिच्छिनत्ति, तद्यथा-'क्षेत्रं' शालिक्षेत्रादिकं वास्तु' खातोच्छ्रितादिकं 'हिरण्यं धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं' शालिगोधूमादिकं 'कांस्यं' कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरलमणिमौक्तिकानि “संखशिल'त्ति मुक्तशैलादिकाः शिलाः 'प्रवालं' विद्रुमं, यदिवा-'सिलपवालं'ति श्रिया युक्तंप्रवालं श्रीप्रवालंवर्णादिगुणोपेतं तथा रत्तरयणं'ति रक्तरलं-पद्मरागादिकंतथा 'सत्सारं शोभनसारमित्यर्थःशूलमण्यादिकं, तथा 'स्वापतेयं रिक्थं द्रव्यजातं, सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः' कोष्ठपुटादयः 'रसामधुरादयः मांसरसादयो वा 'स्पर्शा' मृद्वादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थ प्रभविष्यामीत्येवं संप्रधार्य।। समेघावीपूर्वमेवात्मानं विजानीयाद् एवं पर्यालोचयेत्, तद्यथा-'इह' संसारेखलुशब्दोऽवधारणे, इहैव-अस्मिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरदुखं-शिरोवेदनादिकं आतङ्को वाऽऽशु जीवितापहारीशूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तःअप्रियः अशुभोऽमनोज्ञोऽवनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपो यदिवान मनागमनाक् 'मे' ममनितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्यापि परिहारार्थं च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितत्वादिति । अत्र च यदुक्तमपि पुनरुच्यते तदत्यादरव्यापनार्थं तद्विशेषप्रतिपादनार्थं चेति, तदेवंभूतंदुःखं रोगातङ्क वा 'हन्त' इति खेदे भयात्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं मया पालिताः परिगृहीताश्चततो यूयमपीदंदुःखं रोगातङ्क वा परियाइयह'त्ति विभागशः परिगृहीत यूयम्, अत्यन्तपीडयोद्विग्नः पुनस्तदेव दुःखं रोगातङ्गं वा विशेषणद्वारेणोधारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतभूतमवना-मकंवा दुःखमेवैतत् ततोऽशुभमित्येवंभूतं ममोत्पत्रं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववत्रेयमिति, अतोऽमुष्मान्मामन्यतरस्मादुःखाद्रोगातकाद्वा प्रतिमोचयत यूयम्, अनिष्टादिविशेषणानि तु पूर्ववद्व्याख्येयानि। Page #322 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - 9, ३१९ प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न घायमर्थस्तेन दुःखितेन 'एतमेवे 'ति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवति न हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति- 'इह' अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितु- माह- 'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः- प्राणी 'एकदा ' व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, सचैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते “किमित वयं पुनरेतेष्वनित्येषु परभूतेष्वन्येषु कामभोगेषु मूच्छ कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग् ज्ञात्वा कामभोगान् वयं 'विप्रजहिष्यामः' त्यक्ष्याम् इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह- 'से मेहावी' स 'मेघावी' सश्रुतिकः एतज्जानीयात्, तद्यथायदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्बाह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा - माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेघावी पूर्वमेवात्मनैवं समभिजानीयादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह' अस्मिन भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्येत ततोऽसौ तद्दुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तद्यथा-इमं ममान्यतरं दुःखातङ्कमुत्पत्रं परिगृण्हीत यूयमहमनोत्पन्न दुःखातङ्केन पीडयिष्यामीत्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां दुःखमोचनायालमिति दर्शयितुमाह- 'तेसिं वावी' त्यादि, सर्वं प्राग्वद्योजनीयं यावदेवमेव नो लब्धपूर्वं भवतीति, किमित्येवं नोपलब्धपूर्वं भवतीत्याह - " न 'अन्नरस दुक्ख' मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यदुःखमुत्पद्यते तदन्यस्य संबन्धि दुःखमन्यो- मातापित्रादिकः कोऽपि न प्रत्यापिबति, तस्मात्पुत्रादेर्दुखेनासह्येनात्यन्तपीडिताः स्वजना नापि तद्दुःखमात्मनि कर्तुमलं किमित्येवमाशङ्कयाह-'अन्नेण कड' मित्यादि, 'अन्येन' जन्तुना कषायवशगेन इन्द्रियानुकूलतया भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यकृतागमकृतनाशी स्यातां, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम् ॥१॥ “परकृतकर्मणि यस्मान्न क्रामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥ यस्मात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह- 'पत्तेय 'मित्यादि, एकमेकं प्रति प्रत्येकं स्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च Page #323 -------------------------------------------------------------------------- ________________ ३२० सूत्रकृताङ्गसूत्रम् २/१/-/६४५ ॥१॥ “एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ।। इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझाकलहस्तदग्रहणात्कषायाः परिगृह्यन्ते,ततः प्रत्येकमेवासुमता मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्ति, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितत्वात्, तथा प्रत्येकमेव 'मन्नत्तिमननं चिन्तनं पर्यालोचनमितियावत्, तथा प्रत्येकमेव विष्णु त्तिविद्वान्, तथाप्रत्येकमेव सातासातरूपवेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह-'इतिखलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेणयतो नान्येन कृतमन्यः प्रतिसंवेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः-स्वजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्यतदुद्धरणेन त्राणाय-नत्राणंकुर्वन्ति,नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति?, यतः पुरुष एकदा' क्रोधादयादिकाले ज्ञातिसंयोगान् विप्रजहाति' परित्यजति, स्वजनाचनबान्धवा' इति व्यवहारदर्शनात्, ज्ञातिसंयोगावैकदातदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-स्वसम्बन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत्, तद्यथा-अन्ये खल्वमीज्ञातिसंयोगा मत्तो भिन्ना इत्वरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैातिसंयोगैमूंछौं कुर्म ?, न तेषु मूच्र्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञात्वा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिनो विदितवेद्या भवन्तीति। साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स मेघावी' सश्रुतिक एतद्' वक्ष्यमाणं जानीयात्, तद्यथा-बाह्यतरमेतत् यज्ज्ञतिसंबन्धनम्, इदमेवान्यदुपनीततरम्-आसन्नतरं, शरीरावयवानांभिन्नज्ञातिभ्यआसन्नतरत्वात्, तद्यथा-हस्तौ ममाशोकपल्लवसध्शी तथा भूजौकरिकराकारी पुरपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ यथा ममन तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगम,यावत्स्पर्शास्पर्शनन्द्रियं 'ममाति' ममीकरोति, याद्दने नताद्दगन्यस्येतिभावः, एतच्चहस्तपादादिकंस्पर्शनेन्द्रियपर्यवसानंशरीरावयवसंबन्धित्वेन विवक्षितं यत्किमपि वयसः परिणामात्-कालकृतावस्थाविशेषात् 'परिजूरइत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तस्मिंश्च प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्मश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमरणेनप्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्त्वचश्छायातोऽपचीयते, अत्रच सनत्कुमारदृष्टान्तो वाच्यः, तथाजीयति शरीरेश्रोत्रादीनीन्द्रियाणिनसम्यक् स्वविषयं परिच्छेतुमलं, तथा चोक्तम् - "बाल्यं वृद्धिर्वयो मेघा त्वकचक्षुशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥ तथा च विशिष्टवयोहान्या 'सुसंघितः' सुबद्धः संधि-जानुकूपरादिको 'विसंधिर्भवति' Page #324 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - 9, ३२१ विगलितबन्धनो भवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा चोक्तम् । ॥१॥ "वलिसंततमस्थिशेषितं, शिथिलस्नायुवतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः ? | तथा कृष्णाः केशा वयः परिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयः परिणामापादितसन्मतिरेतद्भावयेत्, तद्यथा यदपीदं शरीरमुदारं- शोभनावयवरूपोपेतं विशि हारोपचितम् एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येदवगम्य शरीरानित्यतया संसारासारतां 'संख्याय' अवगम्य परित्यक्तसमस्त गृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थं भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेव लोकद्वैविध्यं दर्शयितुमाह तद्यथा - जीवाश्च प्राणधरणालक्षणास्तद्विपरीताश्चाजीवाधर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा त्रस्यन्तीति त्रसा द्वीन्द्रिययादयः तथा तिष्ठन्तीति स्थावराः - :- पृथिवीकायादयः । तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते । साम्प्रतं तदुपमर्दकव्यापारकुर्तन् दर्शयन्नाह मू. (६४६) इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्त्रेणवि समारंभावेति अन्नंपि समारभतं समनुजाणंति । इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हावेति अन्नंपि परिगिण्हंतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अनारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणावि सारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरवासं बसिस्सामो, कस्स णं तं हेउं ?, जहा पुव्वं तहा अवरं जहा अवरं तहा पुव्वं, अंजू एते अनुवरया अनुवट्ठिया पुनरवि तारिसगा चेव । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुव्वंति इति संखाए दोहिवि अंतेहिं अदिस्समाणो इति भिक्खू रीएज्जा । से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से ववेयकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ वृ. ‘इह' अस्मिन् संसारे खलुर्वाक्यालङ्कारे गृहम् अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणा वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच्च सपरिग्रहाः, तथा 221 Page #325 -------------------------------------------------------------------------- ________________ ३२२ सूत्रकृताङ्ग सूत्रम् २/9/-/६४६ ब्राह्मणाश्चैवंविधा एव, एतेषांच सारम्भकत्वं स्पष्टतरंसूत्रेणैवदर्शयति-यइमे प्राग्वावर्णितानसाः स्थावराश्च प्राणिनस्तान स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापार स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापारस्वत एव कुर्वन्तीत्यर्थः, तथाअन्यांश्च समारम्भयन्तिसमारम्भकुर्वतश्चान्यान् समनुजानन्ति। तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाश्च, तेच सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति-यइमेप्रत्यक्षाःकामप्रधाना भोगाःकामभोगाःकाम्यन्त इतिकामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना भवेयुः, तदुपादानभूता वाऽर्था, तांश्च सचित्तानचित्तान्वाऽर्थान् 'ते' कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' इत्यादि, इह-अस्मिन् जगति ‘सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भा-सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद्अहमेवात्र स्वल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतत्रिश्रयातदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते साम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इत्यर्थः । ननु च यदि तत्रिश्रया पुनरपिविहर्तव्यं किमर्थते त्यज्यन्त इतिजाताशङ्गः पृच्छति-'कस्य हेतोः केन कारणेन तदेतद्गृहस्यश्रमणब्राह्मणत्यजनमभिहितमिति,आचार्योऽपिविदिताभिप्राय उत्तरंददाति, यथा'पूर्वम्' आदौ सारम्भपरिग्रहत्वं तेषांतथा पश्चादपि' सर्वकालमपिगृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्व गृहस्थभावेसारम्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, श्रमणाश्च केचन तथा 'पूर्व गृहस्थभावे सारम्भा- सपरिग्रहस्तथा जपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह-यथा अपरम्' अपरस्मिनप्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते यतिनेत्याह-तथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्यावृत्तिर्भविष्यतीत्यतः . साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । . यथाचैतेगृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दयितुमाह'अंजू इतिव्यक्तमेतदेते गृहस्थादयो यदिवा-'अञ्जू इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्ता येऽपि कथञ्चिद्धर्मकरणायोस्थितास्तेऽप्युद्दिष्टभोजित्वात्मावद्यानुष्ठानपरत्वाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपिताशा एव-गृहस्थकल्पाएवेति ।।साम्प्रतमुपसंहरति-यइमे-गृहस्थादयस्ते 'द्विघाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददतेयदिवा रागद्वेषाभ्यामुभाभ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यांपापानि कुर्वत इत्येवं 'संख्या' परिज्ञाय द्वयोरप्यन्तयोः' आरम्भपरिग्रहयो रागद्वेषयोर्वा अध्श्यमानः' अनुपलभ्यमानोयदिवारागद्वेषयोविन्ती-अभावी Page #326 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - 9, तयोरादिश्यमानो-रागद्वेषाभाववृत्तित्वेनापदिश्यमानः सन्नित्येवंभूतो 'भिक्षु' भिक्षणसीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत्' प्रवर्तेत, एतदुक्तं भवति य इमे ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनित्यं स्वप्नेन्द्रजालस शमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वं परिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थितम् । स पुनरप्यहमधिकृतमेवार्थं विशेषिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकायादिशोऽन्यतरस्याः समायातः स भिक्षुर्द्वयोरप्यन्तयोरध्श्यमानतया सत्संयमेरीयमाणः सन् 'एवम्' अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव' मिति परिज्ञातकर्मत्वाद्यपेतकर्मा भवति - अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति एतच्च तीर्थकरगणधरादिभिर्ज्ञातज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तयप्रवृत्तस्यात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्वं मनस्याधायाह- ३२३ मू. (६४७) तत्थ खलु भगवता छज्जीवनिकाय हेऊ पन्नत्ता, तंजहा- पुढवीकाए जाव तसकाए, से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउट्टिजमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिजमाणस्स वा परियाविजमाणस्स वा किलामिजमाणस्स वा उद्दविज्जमाणस्स जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्छेवं जाण सच्चे जीवा सव्वे भूता सच्चे पाणा सव्वे सत्ता दंडेण वा जाव कवालेण वा आउट्टिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिजमाणा वा परियाविजमाणा वा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायभवि हिंसाकारणं दुक्खं भयं पडिसंवेदेति, एवं नञ्च सव्वे पाणा जाव सत्ता व हंतव्वा न अज्जावेयव्वा न परिघेतव्वा न परितावेयव्वा न उद्दवेयव्या । से बेमि जेय अतीता जेय पडुप्पन्ना जेय आगमिस्सा अरिहंता भगवंता सव्वे ते एवमाइक्खंति एवं भाति एवं पन्नवेति एवं परूवेति-सव्वे पाणा जाव सत्ता न हंतव्वा न अज्जावेयव्वा न परिघेतव्वा न परितावेयव्वा न उद्दवेयव्वा एस धम्मे धुवे नीतिए सासए समित्र लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाव विरते परिग्गहातो नो दंतपक्खालणेणं दंते पक्खालेजा नो अंजणं नो वमणं नो धूवणे नो तं परिआविएज्जा । से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिव्वुडे नो आसंसं पुरतो करेज्ज इमेण मे दिद्वेण वा सुएण वा मएण वा विनाएण वा इमेण वा सुधरियतवनियम बंभचेरवासेण इमेण वा जायामायावुत्तिएणं धम्भेणं इओ चुए पेचा देवे सिया कामभोगाण बसवती सिद्धे वा अदुक्खमसुभे एत्थवि सिया एत्यवि नो सिया ।। से भिक्खु सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुछिए विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ पिच्छादंसणसल्लाओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू । Page #327 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/१/-/६४७ जे इमे तसथावरा पाणा भवंति ते नो सयं समारंभइ नो वऽण्णेहिं समारंभावेति अन्ने समारभंतेवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उचट्ठिए पडिविरते से भिक्खू । जे इमे कामभोगा सचित्ता वा अचित्ता वा ते नो सयं परिगिण्हंति नो अत्रेणं परिगिण्हावेति अन्नं परिगिण्हतंपि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू जंपिय इमं संपराइयं कम्मं कज्जइ, नो तं सयं करेति नो अन्नाणं कारवेति अन्नंपि करेंतं न समनुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते । सेभिक्खू जाणेजा असणं वा ४ अस्सि पडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाई सत्ता समारंभ समुद्दिस्स कीतं पामिच अच्छित्रं अनिसट्टं अभिहडं आहद्दुद्देसियं तं चेतियं सिया तं अप्पणो पुत्ताईणट्ठाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संनिहिसंनिचओ किज्जइ इहएतेसिं प्राणवाणं भोयणाए नो सयं भुंजइ नो अन्नेगं भुंजावेति अन्नंपि भुंजंतं न समनुजाणइ इति, से महतो आयाणाओ उबसंते उबट्ठिए पड़िविरते । ३२४ त्या भिक्खू परकडं परनिट्ठितमुग्गमुष्यायणेसणासुद्धं सत्थाईयं सत्यपरिणामियं अविहंसियं एसियं वेसियं सामुदानियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवनेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगमृतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले । सेभिक्खू मायने अन्नयरं दिसं अनुदिसं वा पडिवन्ने धम्मं आइक्खे विभए किट्टे उवट्टिएसु वा अनुवट्ठिएस वा सुस्सूसमाणेसु पवेदए, संतिविरतिं उवसमं निव्वाणं सोयवियं अजवियं मद्दवियं लाघवियं अनतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अनुवाई किट्टए धम्मं ॥ से भिक्खु धम्मं किट्टमाणे नो अन्नरस हेउं धम्भमाइक्खेज्जा, नो पाणस्स हेउं धम्ममाइक्खेज्जा, नो वत्थस्स हे धम्ममाइक्खेजा, नो लेणस्स हेडं धम्ममाइक्खेजा, नो सयणस्स हेउं धम्ममाइक्खेजा, नो अन्नेसिं विरुवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्था कम्मनिजरट्ठा धम्ममाइक्खेज्जा । इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा निसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा निसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड त्तिबेमि ॥ एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिन्नायकम्मे परिन्नायसंगे परिन्नायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे । तंजहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुतीति वा कतीति वा विकृति वा भिक्खुति वा लूहेति वा तीरट्ठीति वा चरणकरणपारविउत्तिबेमि वृ. 'तत्रे' ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता' उत्पन्नज्ञानेन तीर्थकृता षडजीवनिकाया हेतुत्वेनोपन्यस्ताः, तद्यथा पृथिवीकायो यावत्त्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाह तद्यथा नाम मम 'असातं' दुःखें Page #328 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-१, ३२५ वक्ष्यमाणैःप्रकारैरुत्पद्यतेतथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना लेलुना' लोष्ठेन 'कपालेन' कपरण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्यः कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्यादावभिधातादिना परिताप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपिहिंसाकरंदुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुट्यमानानां यावलोमोत्खन- नमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पननं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनोनहन्तव्यान व्यापादयितव्या 'नाज्ञापयितव्या' बलात्कारेण व्यापारे न प्रयोक्तव्यः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः। __ सोऽहं ब्रवीमि, एतत् न स्वमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीतायेचविदेहेषु वर्तमानाः सीमन्धरादयोये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः अर्हन्तः' अमरासुरनरेश्वराणांपूजार्हा भगवन्त-ऐश्वर्यादिगुणकलापोतेताः सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति' प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदिभाषन्ते, स्वत एव, नयथा बौद्धानांबोधिसत्त्वप्रभावात् कुड्यादिदेशनत इति, एवं प्रकर्षण ज्ञापयन्ति हेतूदाहरणादिभिः, एवंप्ररूपयन्ति नामादिभिर्यथा सर्वेप्राणान हन्तव्या इत्यादि, 'एष धर्म' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः' क्षान्त्यादिरूपेण इत्येवं च 'अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोकं चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः' तीर्थकृभिः 'प्रवेदितः' कथित इत्येवंसर्वं ज्ञात्वास भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताधावत्परिग्रहादिति, एतदेव दर्शयितुमाह 'नो दंत' इत्यादि, इहपूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाःप्रतिपाद्यन्ते,तत्रअपरिग्रहोनिष्किञ्चनः सन् साधु! 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात्तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात्तथा नो शरीरस्य स्वीयवस्त्राणां वाधूपनं कुर्यात् नापिकासाद्यपनयनार्थतंधूमं योगवर्तिनिष्पादितमापिबेदिति । साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रियासावद्या विद्यते इत्यक्रियः, संवृतात्मकतया सांपरायिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यतेक्रोधोअस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाञ्चोपशान्तः-शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति। 'नोआसंसं' इत्यादि, नो नैवाशंसांपुरस्कृत्यममानेन विशिष्टतपसाजन्मान्तरे कामभोगावाप्तिभविष्यतीत्येवंभूतामाशंसांनपुरस्कुर्यादिति, एतदेवदर्शयितुमाह-'इमेण में इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन हटेनामर्षीषध्यादिना तथ पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन्, तथा 'मएण वत्ति ‘मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचायदिः सकाशाद्विज्ञातेन-अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां Page #329 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/9/1६४७ विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रमात्रावृत्तिना धर्मेणानुष्ठितेन इतः' अस्माद्भवाच्युतस्य प्रेत्य जन्मान्तरेस्यामहंदेवः, तत्रस्थस्य चमेवशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः शुभाशुभकर्मप्रकृत्य- पेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चर-णादिनाऽऽगामिनि काले ममाणिमालधिमेत्यादिकाऽथ्प्रकारा सिद्धिर्भविष्यतीत्यनयाच सिद्धासिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणेच कारणमाह-"एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताद्दुष्प्रणिधानसद्भावेसति कदाचित्सिद्धि स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिस्यात, तथा चोक्तम-“जेजत्तिया उहेऊभवस्सते चेवतत्तिया मोक्खे" इत्यादि।यदिवाऽत्राप्यणिमाघष्टगुणकारणेतपश्चरणदी सिद्धिः स्यात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपिवास्यादिति,एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुंयुज्यते इति, सिद्धिश्चाष्टप्रकारेयं-अणिमा १ लधिमा२ महिमा ३ प्राप्ति४प्राकाम्यं ५ ईशत्वं ६ वशित्वंण्यत्रकामावसायित्वमिति ८,तदेवमैहिकार्थमामुष्मिकाथ कीर्तिवर्णश्लोकाद्यर्थचतपोन विधेयमितिस्थितम्।साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेषाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूर्च्छितः' अगृद्धोऽनध्युपपन्नः, तथा राजनादिशब्देषुकर्कशेषुअद्विष्टः, एवंरूपरसगन्धस्पर्षेष्वपिवाच्यमिति पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-विरए कोहाओ' इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादिसुगमं यावदिति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खुति, सभिक्षुर्भवतियोमहतः कर्मोपादानादुपशान्तः सत्संयमेवोपस्थितःसर्वपापेभ्यश्च विरतः प्रतिविरत इति ।। एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारमन्ते प्राण्युपमर्दकमारम्भ नारम्भन्त इतियावत्, तथा नान्यः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति। साम्प्रतं कामभोगनिवृत्तिमधिकृत्याह-'जेइमे' इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, तेच सचित्ता अचित्ता भवेयुः, तांश्च न स्वतो गृह्णीयाननाप्यन्येन ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति ।। साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिकं,तच तत्पद्वेषनिहवमात्सर्यान्तरयाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीवत इति ॥ साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-'से भिक्खू इत्यादिस भिक्षुर्यत्पुनरेवंभूतमाहारजातंजानीयात् 'अस्सिं पढियाए त्ति एतत्प्रतिज्ञया' आहारदान-प्रतिज्ञयायदिवा 'अस्मिन्पर्याये साधुपर्याये व्यवस्थितमेकंसाधुंसाधर्मिकं समुद्दिश्य कश्चिच्छ्रावकः प्रकृतिभद्रको वा साध्वाहारदानार्थं 'प्राणिनः' व्यक्तेन्द्रियान् “भूतानि त्रिकालभावीनि जीवान् आयुष्कवधरणलक्षणान् सत्त्वान् सदासत्त्वोपेतान् समारभ्य' तदुपमर्दकमारम्मं विधाय 'समुद्दिश्य' तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रमेवणद्रव्यविनिमयेन 'पामिच्छति उद्यतकम् 'आच्छेद्य' मित्यन्य-स्मादाच्छिद्य अनिसृष्ट मिति परेणानुत्संकलितम् अभ्याहृतमिति साध्वभिमुखं Page #330 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-१, ३२७ ग्रामादेरानीतम् ‘आहृत्य" उपेत्य साध्वर्थंकृतमुद्देशिकमित्येवंभूतमाहारजातं साधवेदत्तं स्यात्, तञ्चाकामेन तेन परिगृहीतं स्यात्, तदेवं दोषदुष्टंच ज्ञात्वा स्वयं न मुञ्जीत नाप्यपरेण भोजयेत्न च भुआनमपरं समनुजानीयादित्येवं दुष्टाहारदोषानिवृत्तो भिक्षुर्भवतीति। अथपुनरेवंजानीयादित्यादि, तद्यथा-विद्यते तेषांगृहस्थानामेवंभूतो वक्ष्यमः 'पराक्रमः' सामर्थ्यमाहारनिर्वर्तनं प्रत्यारम्भस्तेनच यदाहारजातंनिवर्तितं यस्यचार्थाय' यत्कृतेतत् चेतित'मिति दत्तं निष्पादितं 'स्याद् भवेत्, यत्कृतेच तनिष्पादितं तत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्वनिमित्तमेवाहारदिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थं यावदादेशाय-आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशः-प्राघूर्णकस्तदर्थं वा पृथक्प्रहेणार्थ विशिष्टाहारनिर्वर्तनं क्रियते । तथा श्यामा -रात्रिस्तस्यामशनमाशः श्यामाश्स्तदर्थं, प्रातरशनं प्रातराशः - प्रत्यूषस्ये व भोजनं तदर्थं सन्निधिसंनिचयो विशिष्टाहार संग्रहस्य संचयः क्रियते। अनेन चैतप्रतिपादितं भवति-बालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षटनं क्रियते, तस्य चायमभहितः संभवः, स च 'संनिधिसंचय' इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत्, अत्र च परकृतपरनिष्ठिते चत्वारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैवच निष्ठितं, तस्य कृतमन्यस्यनिष्ठितम्, अन्यस्य कृतं तस्यैव निठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितत्वात्, तत्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीदूत्या- दिकाः षोडशैव तथैषणादोषाः शङ्किातादयो दश, एवमेभिद्विचत्वारिंशद्दोष रहितत्वाच्छुद्धं । तथा शस्त्रम्-अग्न्यादिकं तेनातीतं प्रासुकीकृतं शस्त्रपरिणामित'मिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धसादिभिश्च परिणमितं, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं-नसम्यक् निर्जीवीकृतमित्यर्थःतप्रतिषेधादविहिसितं, निर्जीवमित्यर्थः, तदप्येषितम्अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, वैषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिकं समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम्, एतदुक्तं भवति-मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञंगीतार्थेनोपात्तमशनम्-आहारजातं, तदपिवेदनावैय्यावृत्त्यादिके कारणेसति, तत्रापिप्रमाणयुक्तं नातिमात्र, प्रमाणं चेदम् - ॥१॥ “अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए। वाउपवियारणहा छब्भागं ऊणयं कुज्जा ॥ इति। एतदपिनवर्णवलाद्यर्थ किंतुयावन्मात्रेणाहारेणदेहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपालनम्-अभ्यङ्गो व्रणस्य च लेपनं-प्रलेपस्तदुपमयाआहारमाहरेत्, तथा चोक्तम्॥१॥ “अमंगेण वसगडं न तरइ विगई विणा उ जो साहू। सो रागदोसरहिओ मत्ताए विहीइ तं सेवे॥ एतदेवदर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा Page #331 -------------------------------------------------------------------------- ________________ ३२८ सूत्रकृताङ्ग सूत्रम् २/9/-१६४७ प्रवर्तते सा तथा तया-संयमयात्रामत्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाऽहिर्बिलं प्रविशन् तूर्णं प्रविशति एवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सर्पणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यतइति।तदेव चाहारजातंदयितुमाह-'अत्रं भक्तम् अत्रकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं मैक्षं परिभोगकाले मुञ्जीत, तथा पानकं पानकाले, नातितृषितो मुभीत नाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोगंवा कुर्यात्, तथा लयनं गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानम् अन्यदा त्वनियमः, तथा शय्यतेऽस्मिन्निति शयनं-संस्तारकः सचशयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयंनिद्राविमोक्षो गीतार्थानां प्रहरमेकमिति। सभिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रांजानातीतितद्विधिज्ञः सन्अन्यतरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत्-प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद्धर्मफलानिचकीर्तयेद्-आविर्भावयेत्,तच्च धर्मकथनंपरहितार्थप्रवृत्तेनसाधुना सम्पगुपस्थितेषु शिष्येषु अनुपस्थितेषुवा-कौतुकादिप्रवृत्तेषु 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेद्' आवेदयेप्रकथयेदितियावत् । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह-'संतिविरई इत्यादि शान्ति-उपशमः क्रोधजयस्तप्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति-अशेषक्लेशोपशमरूपा तस्यै-तदर्थं विरतिः शान्तिविरतिस्तां कथयेत, तथा उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा निर्वृति निर्वाणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धताव्रतामालिन्यं 'अनवियंति आर्जवम्अमायित्वंतथा मार्दवं-मृदुभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत्,तथा लाघवियंतिकर्मणां लाघवापादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननं, सामप्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अतिपतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तप्रतिषेधानतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत्' कथयेत्, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति । साम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शयितुमाह-स भिक्षु परकृतपरनिष्ठिताहारभोजीयथाक्रियाकालानुष्ठायी शुश्रूषतसुधर्मंकीर्तयेत् नात्रस्य हेतोर्ममायमीश्वरोधर्मकथाप्रवणो विशिष्टमाहारजातंदास्यतीत्येतन्निमित्तंन धर्ममाचक्षीत,तथा पानवस्त्रलयनशयननिमत्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम् उच्चावचानां कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेद्, अपरप्रयोजननिरपेक्ष एवधर्मकथयेदिति॥धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह-इह खलु तस्से'त्यादि, 'इह' अस्मिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षोर्गुणवतः 'अन्तिके' समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुत्वा "निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीराः' कर्मविदारणसहिष्णवो ये चैवंभूतास्ते “एवं' पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सस्मिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताः सर्वोपरता तथात एवसर्वोपशान्ताजितकषायतया शीतलीभूताः तथातएव सर्वात्मतयासर्वसामर्थेन सदनुष्ठाने उद्यम कृतवन्तोयेचवंभूतास्तेऽ-शेषकर्मक्षयंकृत्वा परि-समन्तानिवृताः Page #332 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-१, ३२९ - परिनिर्वृताः अशेषकर्मक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् । साम्प्रतमध्ययनोपसंहारार्थमाह-एव मितिपूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुपुनरपि सामान्यतो विशिष्यते-धर्मश्रुतचारित्राख्यस्तेनार्थीधर्मार्थी, यथावस्थितं परमार्थतो धर्मसर्वोपाधिविशुद्धं जानातीति, धर्मवित्, तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातः, तं चाश्रित्य तत्यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं, सच प्राप्तो वा स्यात्पद्मवरपौण्डरीकम्-अनुग्राह्यं पुरुषविशेषं चक्रवर्त्यादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् मतिश्रुतावधिमन:पर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, सचैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षु परिसमन्तात् ज्ञातं कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्गः-सम्बन्धः सबाह्याभ्यन्तरो येन स तथा, परिज्ञातो निसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सहहितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा' सर्वकालं 'यतः' संयतःप्राग्व्यावर्णितनियमकलापोपेतः,सएवंगुणकलापान्वितएतद्वचनीयः, तद्यथा श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः । उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिगुप्तः, तथामुक्त इवमुक्तः, तथा विशिष्टतपश्चरणोपेतोमहर्षिः,, तथा मनुतेजगतस्त्रिकालवस्थामिति मुनिः, तथा कृतमस्यास्तीतिकृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान्सद्विद्योपेतः,तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारत्वेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरण-मूलगुणाः क्रियत इति करणम्उत्तरगुणास्तेषां पारं-तीरंपर्यन्तगमनं तद्वेत्तीति चरणकरणपारविदिति। इतिशब्दः परिसमाप्ती । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ।। साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदान्तिकयोस्तात्पर्यार्थ गाथाभिर्नियुक्तिकृद्दर्शयितुमाहनि. [१५८] उवमा य पुंडरीए तस्सेवय उवचएण निजुत्ती। ___ अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति । वृ.इह 'उपमा' दृष्टान्तः ‘पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टो पायेनोद्धरणं, दान्तिकाधिकारस्तु पुनरत्र भणितःअभिहितश्चक्रवत्यदिभव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्वादिति । नि. [१५९] सुरमणुयतिरियनिरओवंगे मणुया पहूचरित्तम्मि। अविय महाजणनेयत्ति चक्कवष्टिमि अधिगारो॥ वृ. पूज्यत्वमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवदियो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामित्वात् इतर जनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह Page #333 -------------------------------------------------------------------------- ________________ ३३० सूत्रकृताङ्ग सूत्रम् २/१/-/६४७/ नि. [१६०] नि. [१६०] अविय हुभारियकम्मा नियगा उक्क स्सनिरयठितिगामी। तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति ।। वृ. 'अविय' इत्यादि,गुरुकर्माणोऽपिमनुजा आसंकलितनरकायुषोऽपि नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदान्तिकयोस्तात्पर्यार्थं प्रदर्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह -- नि. [१६१] जलमालकद्दमालं बहुविहवल्लिगहणं च पुक्खरिणि । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं।। वृ. 'जलमाले त्यादि, जलमालाम्-अत्यर्थप्रचुरजलांतथाकर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्का तथा बहुविधवल्लिगहनां च पुष्करिणीं जाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, दृष्ट्वेति क्रियाध्याहारः, किंचान्यत् - नि. [१६२] पउमं उल्लंघेत्तु ओयरमाणस्स होइ वावती। किं नत्स्थि से उवाओ जेणुल्लंघेज्ज अविवन्नो । वृ. 'पउमं' इत्यादि, तन्मध्ये पद्मवरपौण्डरीकंगृहीत्वा समुत्तरतोऽवश्य यापत्ति प्राणानां भवेत्, किंतत्र कश्चिदुपायः स नास्ति? येनोपायेन गृहीतकमलः सन्तांपुष्करिणीमुल्लङ्घयेदविपन्न इति। तदुल्लङ्घनोपायं दर्शयितुमाह - नि. [१६३] विजा व देवकम्म अहवा आगासिया विउव्वणया । पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ।। वृ 'विद्या वे' त्यादि, विद्या वा काचिप्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौण्डरीकः सन्नुल्लङ्घयेत्तां पुष्करिणीम्, एष च जिनैरुपायः समाख्यात इति । सर्वोपसंहारार्थमाह - नि. [१६४] सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विज्जा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ वृ. 'सुद्धप्पे' त्यादि, शुद्धप्रयोगविद्या सिद्धा जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, साम्प्रतं नयाः, तेच पूर्ववद्रष्टव्या इति ।। अध्ययनं-१ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता द्वीतीय श्रुतस्कन्धस्य प्रथममध्ययनटीका परिसमाप्ता। (अध्ययनं-२ क्रियास्थान) वृ. व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्यचायमभिसंबन्धः, इहानन्तराध्ययने पुष्करिणीपीण्डरीकदृष्टान्तेन तीर्थकाः सम्यङमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तत्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति Page #334 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः । ३३१ तद्यथा- भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रीयास्थानानि कर्मबन्धकारणानि सम्यक् परिहर्तव्यानि तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्ततोऽर्थाधिकारोऽयं, तद्यथा - कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति । नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयन्निर्युक्तिकृदाहनि. [१६५ ] किरियाओ भणियाओ किरियाठाणंति तेन अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य ॥ नि. [१६६ ] दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाने । इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥ नि. [१६७ ] नामंठवणा दविए खेतेऽद्धा उड्ड उवरती वसही । संजमपग्गहजोहे अचलगणण संधणा भावे ॥ नि. [१६८ ] समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सच्वे परिक्खेज्जा ।। बृ. तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणत्वेनाऽऽवश्यकान्तर्वर्तिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहिं किरियाठाणेहिं' ति अस्मिन्सूत्रेभिहिताः । यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे चेति । तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह - तत्र द्रव्ये द्रव्यविषये या क्रिया एजनता 'एजृकम्पने' जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रिया, सापि प्रयोगाद्विनसया वा भवेत्, तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति । भावक्रिया त्वियं, तद्यथा-प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्यापथक्रिया सम्यक्त्वक्रिया सम्यङ्गिध्यात्वक्रिया मिथ्यात्वक्रिया चेति । तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाक्काययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाक्काययोद्वयोरप्युपयोगः, तथा चोक्तम् । "गिण्हइ यकाइएणं निसिरइ तह वाइएण जोगेण” गमनादिका तु कायक्रियैव १, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्चक्रसलिलकुम्भकारव्यापारैर्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि घटो मृत्पिण्डादिकयैव सामग्र्या क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्याध्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्त Page #335 -------------------------------------------------------------------------- ________________ ३३२ सूत्रकृताङ्ग सूत्रम् २/२/- /६४७ / नि. [१६८] मोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यङ्घिथ्यात्वक्रिया तु तद्योग्या प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बन्धाति साऽभिधीयते ७, मिथ्यात्वक्रिया तु सर्वाप्रकृतीर्विंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बन्धाति सा मिथ्यात्वक्रियेत्वा मिधीयते ८ । साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलट्ठाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिकनिर्युक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्या क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाह-क्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउ'त्ति अधिकारी व्यापारः, सम्यकप्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसंधनारूपं च गृह्यते, सम्यकप्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिकाक्रियाग्रहणाञ्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति । यथा चैवं तथा स्वत एव सूत्रकारः 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्राचादुकपरीक्षायामपि 'नायओ उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारयितव्यं, तच्छेदम्मू. (६४८) सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु किरियाठाणे नामज्झयणे पन्नत्ते, तस्से णं अयमट्टेइह खलु संजूहेणं दुवे ठाणे एवमाहिज्जति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चैव अनुवसंते चैव ॥ तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अथमट्टे पन्नत्ते, इह खलु पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा - आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णावेगे दुव्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे ॥ तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए तंजहा- नेरइएसु वा तिरिक्खजोगिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति । तेसिं पियणं इमाई तेरस किरियाठाणाइं भवतीतिमक्खायं, तंजहा- अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिठ्ठीविपरियासियादंडे ५ मोसवत्तिए ६ अदिन्नादाणवत्तिए ७ अज्झत्यवत्तिए ८ मानवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए वृ. सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थ इह खलु 'संजूहेणं' ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेत्तं धर्म्यं विपरीतमधर्म्यं, कारणशुद्धा च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपशमप्रधाने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्त्वाः समासन्नोत्त Page #336 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३३३ रोत्तर शुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वगिणोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पश्चात्सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितत्वात्पूर्वं धर्मस्थानमुपशमनस्थानं च प्रदर्शितं, पश्चात्तद्विपर्यस्तमिति ।। साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्त्याऽऽदावेव स्थानं भवति तदधिकृत्याह - 'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयत्तथा प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विभङ्गो विभागो विचारस्तस्यायमर्थ इति । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः पुरुषाः, ते चैवंभूता भवन्तीत्याह, तद्यथा- आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः तद्विपरीताश्चानार्या एके केच न भवन्ति यावद्दूरूपाः सुरूपाश्चेति । 'तेषां च' आर्यादीनाम् 'इदं' वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः पापोपादानसंकल्पस्तस्य समादानं-ग्रहणं 'संपेहाए' त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति- 'तंज' त्यादि, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्तद्भेदवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणाः' प्राणिनो विद्वांसो वेदना-ज्ञानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासातरूपां वेदनामनुभवन्तीति । अत्र चत्वारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभवन्ति २ असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीवास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्याववस्तुभूताविति, 'तेषांच' नारकतिर्यङ्गनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि' वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह- 'तंज' त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः । ‘आत्मार्थाय’स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजन मेव सावद्यक्रियानुष्ठानमनर्थदण्डः २ तथा हिंसनं हिंसा प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकस्माद् अनुपयुक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादन- मिति ४, तथा टेर्विपर्यासो- रज्वामित्र सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः, तद्यथालेटुकादि- बुद्या शराद्यमिधातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिह्नवास- द्भूतारोपणरूपः ६, तथा अदत्तस्य परकीयस्या SSदानं स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिको दण्डः, तद्यथा-निर्निमितमेव दुर्मना उपहतमनः संकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठेते ८, तथा जात्याद्यष्टमदस्थानापहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोष- स्तव्प्रत्ययिको दण्डो भवति १०, तथा माया- परवञ्चनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्डइति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्तस्येर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति । 'यथोद्देशस्तथा निर्देश' इतिकृत्वा प्रथमात्क्रियास्थानादारभ्य व्याचिख्यासुराह मू. (६४९) पढमे दंडसमादाणे अट्ठादंडत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे, Page #337 -------------------------------------------------------------------------- ________________ ३३४ सूत्रकृताङ्ग सूत्रम् २/२/-1६४९ आयहेउवा नाइहेउंवा अगारहेउवा परिवारहेउवा मित्तहेउवा नागहेउंचाभूतहेउंवा जक्खहेर्ड वातंदंडंतसथावरेहिपाणेहि सयमेव निसिरितिअन्ननविनिसिरावेतिअन्नपि निसिरंतंसमनुजाणइ, एवं खलु तस्स तम्पत्तियं सावर्जति आहिजइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए। वृ. याथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थ, तद्यथा नाम कश्चित्पुरुषः पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी आत्मनिमित्तम्' आत्मार्थं तथा 'ज्ञातिनिमित्तं स्वजनाद्यर्थं तथा अगारं-गृहं तन्निमित्तं तथा परिवारों दासीकर्मकरादिकः परिकरो वा-गृहादेवृत्त्यादिकस्तनिमित्तं तथा मित्रनागभूतयक्षाद्यर्थ 'तं' तथाभूतं स्वपरोपघातरूपं दण्डं त्रसस्थावरेषु प्राणिषु स्वयमेव 'निसृजति निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपात्तं कर्म ‘आधीयते' सम्बध्यते इति । एतप्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ।। म. (६५०) अहावरे दोच्चे दंडसमादाने अनट्ठादंडवत्तित्ति आहिजइ, से जहामनामए केइ पुरिसे जे इमे तसा पाणा भवंति ते नो अचाए नो अजिणाए नो मंसाए नो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए नो हिंसंति मेत्ति नो हिंसिस्संति मेत्ति नो पुत्तपोसणाए नो पसपोसणयाए नो अगारपरिवहणताए नो समणमाहणवत्तणाहेउं नो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अनट्ठादंडे। से जहानामए केइ पुरिसेजे इमे थावरा पाणा भवंति, तंजहा-इक्कडाइ वा कडिणा इवा जंतुगा इ वा परगा इ वा मोक्खाइ वा तणाइ वा कुसाइ वा कुच्छगाइ वा पव्वगाइ वा पलाला इवा, ते नो पुत्तपोसणाएनो पसुपोसणाए नोअगारपडिवूहणयए नो समणमाहणपोसणयाए नो तस्स सरीरगस्स किंचि विपरियाइत्ता भवंति, सेहंताछेत्ता लुंपइत्ता विलुपइत्ताउद्दवइत्ताउन्झिउं बाले वेरस्स आभागी भवति, अनट्ठा दंडे। से जहानामए केइ पुरिसे कच्छंसि वा दहसि वा उदगंसि वा दवियंसि वा वलयंसि वा नूमंसिवा गहणंसि वा गहणविदुग्गंसिवा वर्णसिवा वणविदुग्गंसि वापब्वयंसि वापब्वयविदुग्गंसि वा तणाई ऊसविय उसविय सयमेव अगनिकायं निसिरति अन्नेनवि अगनिकायं निसिरावेति अन्नंपिअगनिकायंनिसिरितंसमनुजाणइअनट्ठादंडे, एवं खलुतस्सतप्पत्तियंसावञ्जन्तिआहिजइ, दोचे दंडसमादाने अनट्ठादंडवत्तिएत्ति आहिए। वृ.तथापरं द्वितीयंदण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुनाव्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन 'अभी संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तांश्चासौ हिंसन्न - शरीरं 'नो' नैवार्चाय हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम्, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालश्रृङ्गविषाणनखस्नाय्वस्थ्यस्थिमजा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुनापि हिंसन्ति नापिहिंसयिष्यन्तिमा मदीयं चेति, तथा नो 'पुत्रपोषयायेति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं-गृहं Page #338 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३३५ तस्य परिवहणम्-उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय तत्' प्राणव्यपरोपणं भवति । __ इत्येवमादिकंकारणमनपेक्ष्यैवासी क्रीडया तच्छीलतया व्यसनेन वाप्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिकाविकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता अन्यतरागावयवविकर्तनतः तथ विलुम्पयिता अक्ष्युतपाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाधार्मिकवत्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वाःअज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निनिमित्तवमेव पञ्चेन्द्रियप्राणिपीडनतोयथाऽनर्थदण्डो भवति तथा प्रतिपादितम्, अधुनास्थावरानधिकृत्योच्यते'सेजहे त्यादि, यथा कश्चित्पुरुषोनिर्विवेकः पथिगच्छन्वृक्षादेः पल्लवादिकंदण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति ___ जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा-इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिक्कडाममानयाप्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनि रपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किञ्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पति हन्ता छेत्तेत्दि यावज्जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयंवनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः । साम्प्रतमग्न्याश्रितमाह-से जहे' त्यादि, तद्यथा नामकश्चित्पुरुषःसदसद्विवेकविकलतयाकच्छादिकेषुदशसुस्थानेषुवनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोवधिःस्थानि कृत्वा 'अग्निकायं' हुतभुजं 'निसृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवाई 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं सावधंकर्म' महापातकमाख्यातम्, एतच्चद्वितीयमनर्थदण्डसमादानमाख्यातमिति तृतीयमधुना व्याचिख्यासुराह-- मू. (६५१) अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिञ्जइ, से जहानामए केइपुरिसे ममंवा ममिवा अन्नं वा अनि वा हिंसिसुवा हिंसइवा हिंसिस्सइवातंदंडतसथावरेहिं पाणेहिं सयमेव निसिरति अन्ननवि निसिरावेति अन्नपि निसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिनइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए। वृ.अथापरंतृतीयंदण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानामकश्चित् 'पुरुषः' पुरुषकार वहन् स्वतो भरणभीरुतयावा मामयंघातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं ममीकारोपेतंपरशुरामवत्कार्तवीर्यं जघानान्यं वाकञ्चनायं सर्पसिंहादियापादयिष्यतीति मत्वा सादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्चादेरयमुपद्रवकारीतिकृत्वातत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्यतीत्येवंसंभाविते त्रसेस्थावरेवा तंदण्डं प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति Page #339 -------------------------------------------------------------------------- ________________ ३३६ सूत्रकृताङ्ग सूत्रम् २/२/-/६५१ अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते इत्येतत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति । मू. (६५२) अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसुं आयामेत्ता णं निसिरेजा, स मियं वहिस्सामित्तिकट्टु तित्तिरं वा वट्टगं वा चडगं वा लावगं वा कवोयगं वा कवि वा कविंजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे । से जहानामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा रालाणि वा निलिमाणे अन्नयरस्स तणस्स वहाए सत्यं निसिरेजा, से सामगं तणगं कुमुदुगं वीहीउसियं कलेसुयं तणं छिंदिस्सामित्तिकट्टु सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावज्जं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ।। वृ. अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोञ्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावद्वनदुर्गे वा गत्वा मृगैः हरिणैराटव्यपशुभिर्वृत्ति-वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति- मृगेषु प्रणिधानम् अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः क्व मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थं कच्छादिषु गन्ता भवति, तत्र च गतः सन् द्रष्ट मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् 'इषु' शरं 'आयामेत्त'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान्, स च तेनेषुणा तित्तिरादिकं पक्षिविशेषं व्यापादयिता भवति, तदेवं खल्बसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं 'स्पृशति' घातयति सोऽ कस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्याकम्माद्दण्डमाह- 'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवलादि शाल्यादेः- धान्यजातस्य 'श्यामादिकं' तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं 'शस्त्रं' दात्रादिकं निसृजेत् स च श्यामादिकं तृणं छेत्स्यामीतिकृत्वाऽ- कस्माच्छालिं वा यावत् ालकं वा छिन्द्याद्रक्षणीयस्यैवासावकस्माच्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्शयति, तदेवं खलु 'तस्य' तत्कर्तु 'तव्यत्ययिकम्' अकस्माद्दण्डनिमित्तं 'सावद्य' मिति पापम् 'आधीयते' सम्बध्यते, तदेतच्चतुर्थं दण्डसमादानकमस्माद्दण्ड- प्रत्ययिकमाख्यातमिति मू. (६५३) अहावरे पंचमे दंडसमादाणे दिट्टिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहानामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुहाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्त्रमाणे मित्ते हयपुव्वे भवइ टिड्डिविपरियासियादंडे । से जहानामए केइ पुरिसे गामघायंसि वा नगरघायंसि वा खेडे० कब्बड० भडबघायंसि Page #340 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- २, अध्ययनं-२, ३३७ चा दोणमुहघायंसिवा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसिवा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ दिडिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, पंचमेदंडसमादाणे दिद्धिविपरियासियादंडवत्तिएत्ति आहिए। घृ.अथापरं पञ्चमं दण्डसमादानं सृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रातृभगिनीभार्यापुत्रदुहितृस्नुषादिभि सार्धं 'वसन्' तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्वं भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् । पुनरप्यन्यथा तमेवाह- से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं तेन' भ्रान्तमनसा वभ्रमाकुलेनाचौर एवहतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु 'तस्य' दृष्टिविपर्यासवत् तव्यत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति ॥ मू. (६५४) अहावरे छटे किरियट्ठाणे मोसावत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे आयहेउं वा नाइहेउं वा अगारहेउं या परिवारहेउं वा सयमेव मुसं वयति अन्नेनवि मुसं वाएइ मुसंवयंतंपिअन्नंसमणुजाणइ, एवंखलु तस्स तप्पत्तियंसावजंतिआहिजइ, छटेकिरियट्ठाणे मोसावत्तिएत्ति आहिए। वृ. अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो भवतीतिकृत्वादण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिहवरूपमसद्भूतोद्भावनस्वभावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो का कश्चिञ्चौराः, स च चौरमपिसद्भूतमप्यर्थमपलपति, तथा परमचौरंचौरमिति वदति, तथाऽन्येन मृषावादंभाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते। तदेवंखलुतस्य योगत्रिककरणत्रिकेणमृषावादं वदतस्तप्रत्ययिकंसावाकर्म आधीयते' सम्बध्यते तदेतत्षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति ।। म.(१५५/अहावरेसत्तमे किरियट्ठाणे अदिनादाणवत्तिएत्तिआहिज्जइ.सेजहानामए केइ पुरिसे आयहेउंवा जाव परिवारहेउं वासयमेव अदिन्नं आदियइ अनेनवि अदिन्नं आदियावेति अदि–आदियंतंअन्नंसमणुजाणिइ, एवंखलुतस्सतप्पत्तियंसावर्जतिआहिजइ, सत्तमेकिरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिए। घृ.अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेद्गृहणन्तमप्यपरंसमनुजानीयादित्येवंतस्यादत्तादानप्रत्ययिकं कर्मसम्बध्यते।इति सप्तमं क्रियास्थानमाख्यातमिति 2] 22] Page #341 -------------------------------------------------------------------------- ________________ ३३८ सूत्रकृता सूत्रम् २/२/-1६५६ मू. (६५६) अहावरे अट्ठमे किरियट्ठाणे अन्झत्थवत्तिएत्ति आहिजइ, से जहानामए केइ पुरिसे नत्थि णं केइ किंचि विसंवादेति सयमेव हीने दीने दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हस्थमुह अट्ठज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्यया आसंसइया चत्तारिठाणा एवमाहिजइ - तं० कोहे माने माया लोहे, अन्झस्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, अट्ठमे किरियट्ठाणे अज्झत्यवत्तिएत्ति आहिए। वृ.अथापरमष्टमंक्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोप्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभावने वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा भूतश्च यदवस्थो भवतितद्दर्शयति-करतले पर्यस्तं मुखं यस्य सतथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतयाधर्मध्यानाहरवर्ती निर्निमित्तमेव द्वन्द्वोपहतवद्धयायति तस्यैवं चिन्ताशोकसागरवगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशितानि वा-निसंशयानि चत्वारि वक्ष्यमाणानिस्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथाक्रोधस्थानं मानस्थानमायास्थानंलोभस्थानमिति । ते चावश्यंक्रोधमानमायालोभाआत्मनोऽधि भवन्याध्यात्मिकाः, एभिरेव सद्भिर्दुष्टं मनोभवति।तदेवंतस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसंकल्पस्य 'तप्रत्ययिकम्' अध्यात्मनिमित्तं सावधं कर्म 'आधीयते' संबध्यते तदेवमष्टममेतक्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति । मू. (६५७) अहावरे नवमे किरियट्ठाणे माणवत्तिएत्ति आहिजइ, से जहानामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परंहीलेति निदेति खिसति गरहति परिभवइ अवमण्णेति, इत्तरिए, अयं, अहमंसि पुण विसिठ्ठजाइकुलबलाइगुणोववेए। एवंअप्पाणंसमुक्कस्से, देहचुएकम्मबितिए अवसेपयाइ, तंजहा-गब्भाओगब्मं ४जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंड़े थद्धे चवले माणियावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, नवमे किरियाठाणे माणवत्तिएत्ति आहिए। वृ.अथापरंनवमंक्रियास्थानमानप्रत्ययिकमाख्यायते, तद्यधानाम कश्चित्पुरुषोजात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रुतलाभैश्चर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्धाहीलयति तथा निन्दति जुगुप्सतेगर्हति परिभवति, एतानि चैकार्थिकानिकथञ्चिभेदं वोटप्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिकः तथा मत्तः कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबला Page #342 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३३९ दिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति।साम्प्रतंमानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैवलोके गर्हितो भवति, अत्रच जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचित्र कुलमदः,अपरस्य कुलमदो नजातिमदः, परस्योभयम, अपरस्यानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादियावदष्टभिः पदैः षट्पंचाशदधिकंशतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गःशुद्ध इति।। परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते-स्वायुषः क्षये देहाच्चुतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः-परतन्त्रः प्रयाति, तद्यथा-गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्गर्भमेवमगर्भादगर्भम् एतच्च नरककल्पगर्भदुःखापेक्षाया मभिहितम्, उत्पद्यमानदुःखापेक्षया त्विदमभिधीयते-जन्मन एकस्मादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं व्रजति, तथा नरकदेश्यात्श्वपाकादिवासाद्रल- प्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुध्धृत्य सिंहमस्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमी संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति तथा स्तब्धश्चपलो यत्किञ्चकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्प्रत्ययिकं' माननिमित्तं सावधं कर्म 'आधीयते' सम्बध्यते । नवममेतक्रियास्थानमाख्यातमिति। मू. (६५८) अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे माईहिं वा पितीहिं वाभाईहिं वा भइणीहिं वा भजाहिं बाधूयाहिं वा पुत्तेहिं वासुण्हाहिं वा सद्धिं संवसमाणे तेसिं अनयरंसि अहालहुगंसि अवराहसि सयमेव गुरुयं दंडं निवत्तेति। तंजहा-सीओदगवियडसि वा कायं उच्छोलित्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगनिकाएणं कायं उबड़हित्ता भवति, जोत्तेण वा वेत्तेण वा नेतेण वा तयाइ वा कण्णेण वा छियाए वा लयाए वा अन्नयरेण वा दवरएण पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वाकवालेणवाकायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति । तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिमंसियाविभवति, एवं खलु तस्स तप्पत्तियं सावनंति आहिज्जति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए। वृ. अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पोमातापितृसुहृत्स्वजनादिभिःसार्धं परिवसंस्तेषांचमातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लधुतमेऽप्यपराधे वाचि दुर्वचनादिके तथा कायिके हस्तपादादिके संघट्टनरूपे कृते सति स्वयमेव-आत्माना क्रोधामातोगुरुतरं दण्डं' दुःखोत्पादकं 'निर्वर्तयति' करोति, तद्यथाशीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ 'तस्य' अपराधकर्तु कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'काय' शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतैलेनकाधिकादिना वा कायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसावा कायमुपदाहयिता भवति, Page #343 -------------------------------------------------------------------------- ________________ ३४० सूत्रकृतासूत्रम् २/२/-१६५८ तथा योत्रेण वा वेत्रेणे वा नेत्रेण वा त्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः तस्य अपराधकर्तु 'शरीरपाश्र्वाणि उद्दालयितुं ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति। तदेवमल्पापराधनिन्यतिमहाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्भनसस्तदनिष्टाशङ्कया भवन्ति, तस्मिंश्च प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारश्च पुरुषजातोऽल्पेऽप्यपराधेमहान्तं दण्डंकल्पयतीति, एतदेवदर्शयितुमाहदण्डस्य पार्वं दण्डपावं तद्विद्यते यस्यासौ दण्डपावी स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरुस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्य परेषां च अस्मिन्लोके' अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात, तथापरस्मिन्नपि जन्मन्यसावहितः, तच्छीलतयाचासौ यस्यकस्यचिदेव येनकेनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, सचात्यन्तक्रोधनो वधबन्धविच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतयामर्मोदघट्टनतः पृष्ठिमांसमपिखादेत्तत्तदसौ ब्रूयात्येनासावपि परः संज्वलेत् ज्वलितश्चान्येषामपकुर्यात्, तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति । अपरेपुनरष्टमंक्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमंतुपरदोषप्रत्ययिकं, दशमं पुनः प्राणवृत्तिकं क्रियास्थानमिति॥ मू. (६५९) अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिजइ, जे इमे भवंतिगूढायारातमोकसिया उलुगपत्तलहुया पव्वयगुरुयातेआयरियाविसंता अनारियाओ भासाओवि पउजंति, अन्नहासंतं अप्पाणं अनहा मन्नति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं आइक्खियव्वं अनं आइक्खंति। से जहानामए केइ पुरिसे अंतोसल्ले तं सवं नो सयं निहरति नो अन्नण निहरावेति नो पडिविद्धंसेइ, एवमेव निण्हवेइ, अविउट्टमाणे अंतोअंतोरियइ, एवमेवमाईमायंकडुनो आलोएइ णो पडिक्कमेइ नो जिंदइ नो गरहइ नो विउट्टइ नो विसोहेइ नो अकरणाए अब्भुढेइ नो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ। माई अस्सिं लोए पञ्चायाइ मानि परंसि लोए पञ्चायाइ निंदइ गरहइ पसंसइ निश्चरइन नियट्टइ निसिरियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, एक्कारसमे किरियहाणे मायावत्तिएत्ति आहिए। वृ. अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा-ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ?-गूढ आचारो येषां ते गूढाचाराः-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरूपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलत्वेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकाषिणस्त एव च काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः।तेचस्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपिपर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, तेचाऽऽर्यदेशोत्पन्ना अपि Page #344 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३४१ सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थं चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थं स्वमतिपरिकल्पित भाषाभिरपराविदिताभिर्भाषन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथासाध्वाकारेण मन्यन्ते व्यवस्थापयन्तिच, तथाऽन्यत्सृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ वादितया व्याकरणे प्रवीणस्तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थं पृष्टस्तदर्थानभिज्ञः कालातिपातार्थं शरत्कालं व्यावर्णयति, तथाऽन्यस्मिंश्चार्थे कथयतव्येऽन्यमेवार्थमाचक्षते ॥ तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चतुराणां विपाकोद्भवनाय ध्टान्तं दर्शयितुमाह 'से जहे' त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः - मध्ये शल्यं-तोमरादिकं यस्य सोऽन्तः शल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न स्वतो 'निर्हरति' अपनयतिउद्धरति नाप्यन्येनोद्धारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्ये वाऽ पृष्टो वा तच्छल्यं निष्प्रयोजनमेव 'निह्नुते' अपलपति, तेन च शल्येनासावन्तर्वर्तिना 'अविउट्टमाणे' त्ति पीड्यमानः 'अंतो अंतो' त्ति मध्ये मध्ये पीड्यमानोऽपि 'रीयते' व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । साम्प्रतं दान्तिकमाह- 'एवमेवेत्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासी 'मायी' मायाशल्यवान् यत्कृतकार्यं तन्मायया निगूहयन् मायां कृत्वा न तां मायामन्यस्मै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिकं तन्मायाशल्यं निन्दति, तद्यथा- धिङ्मां यदहमेवंभूतमकार्यं कर्मोदयात्तत् कृतवान्, तथा नापि परसाक्षिकं गर्हति आलोचना- र्हसमीपे गतो च जुगुप्सते, तथा 'नो विउट्टति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मकं विविधम्- अनेकप्रकारं त्रोटयति अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया निर्वर्त्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्यं सेवित्वाऽऽलोचनार्हायात्मानं निवेद्य तदकार्याकरणतया - ऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्याति नोद्युक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयमानोऽपि 'यथाऽर्हम्' अकार्यनिर्वहणयोग्यं प्रायः चित्तं शोधयतीति प्रायश्चित्तं तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं 'प्रतिपद्यते' अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोऽस्मिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवामिश्रम्भणत्वेन 'प्रत्यायाति' प्रख्यातिं याति तथाभूतश्च सर्वस्यापि अविश्वास्यो भवत, तथा चोक्तम् ॥१॥ "मायाशीलः पुरुषः " ( यद्यपि न करोति किञ्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः ) | इत्यादि, तथाऽतिमायावित्वादसी परस्मिन् लोके जन्मान्तरावाप्ती सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयन्त्रन्यायेन प्रत्यागच्छतीति तथा नानाविधैः प्रपञ्चैर्वञ्चयित्वा परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयित्वाऽऽत्मानं प्रशंसयति, तद्यथा-असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्- "येनापत्रपते साधुरसाधुस्तेन तुष्यती 'ति । एवं चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति तथाविदानुष्ठायी भवतीति निश्चरति । तत्र च गृद्धः संस्तस्मान्मातृस्थानान्न निवर्तते, तथाऽसौ मायावलेपेन 'दण्डं' प्राण्युपमर्दकारिणं 'निसृज्य' पातयित्वा पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, सच Page #345 -------------------------------------------------------------------------- ________________ ३४२ सूत्रकृताङ्ग सूत्रम् २/२/-/६५९ मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतोभवति-असमाहतअनङ्गीकृता शोभना लेश्या येनसतथाआर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापिभवति।तदेवंखलुतस्य 'तात्ययिकं मायाशल्यप्रत्ययिकंसावा कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिकं व्याख्यातं ।। एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधियते मू. (६६०) अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिजइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया नो बहुसंजया नो बहुपडिविरया सब्बपाणभूतजीवसत्तेहिं ते अप्पणो सच्चामोसाइं एवं विउंजंति, अहं न हंतव्यो अन्ने हंतव्या अहं न अन्जावेयव्यो अन्ने अञ्जावेयव्वा अहं न परिघेतव्यो अन्ने परिघेतब्वा अहं न परितावेयच्चो अन्ने परितावेयव्वा अहं न उद्दचेयव्यो अन्ने उद्दवेयव्वा । एवमेव ते इथिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाई घउपंचमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अत्रयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवति, ततो विय्यमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पञ्चायंति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, दुवालसमे किरियट्ठाणे लोभवत्तिएति आहिए इच्चेयाइंदुवाल । स किरियाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअब्वाइं भवंति।। वृ. एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरेग्रामादिकमुपजीवन्तो ग्रामस्यान्तेसमीपे वसन्तीति ग्रामान्तिकाः, तथा क्वचित् कार्यमण्डलप्रवेशादिके रहस्यं येषांते कचिद्राहसिकाः, ते च 'न बहुसंयता न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन बसेषु दण्डसमारम्भ विदधति, एकेन्द्रियो पजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा न बहुविरता नसर्वेष्वपि प्राणातिपातविरमणादिषुव्रतेषु वर्तन्ते, किंतु? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविर्भावयितुमाह 'सव्वपाणे'त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्वेभ्य आत्मना-स्वतः अविरताःतदुपमर्दकारम्भादविरता इत्यर्थः। तथा ते पाषण्डिका आत्मना-स्वतो बहूनि सत्या मृषाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति प्रयुञ्जन्ति ढवत इत्यर्थ, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्या मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति। तद्यथा अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं'शूद्रं व्यापाद्य प्राणायाम जपेत किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये त्यादि, अपरं चाहं वर्णोत्तमत्वात् नाज्ञापयितब्धोऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना Page #346 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३४३ कर्मकरणाय न ग्राह्योऽन्ये तु शूद्रा ग्राह्या इति, किं बहुनोक्तन ?, नाहमुपद्रावयितव्यो- जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं तेषां परपीडोपदेशनतोऽति मूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्संभरीयां विषमध्टीनां न प्राणातिपादविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना त्वनादिभवाभ्यासाहुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह- 'एवमेवे' त्यादि, 'एवमेव ' पूर्वोक्तेनैव कारणेनातिमहत्वादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु चशब्दादिषु मूर्छिता गृद्धा प्रथिता अध्युपपन्नाः । अत्र चात्यादरख्यापनार्थं प्रभूतपर्यायग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्- "मूलमेयमहम्मस्, महादोससमुस्सय' मित्यादि, इह च स्त्री सङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽ सक्ता यावन्तं कालमासते तत्सूत्रेणैव दर्शयति यावद्वर्षाणि चतुष्पञ्चष दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभिप्रायकं, प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते इति दर्शयतितस्माच्चौपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्त्वापि गृहवासं 'भुक्त्वा भोग भोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् भुक्त्वा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्याष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम रहिताः ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता अपि किल्बिषिकेषु स्थानेषूत्पत्स्यन्ते तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः च्युताः किल्चत्र बहुलास्कमशेषेणैलवन्मूका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषत्वमवाप्य यथैको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए 'त्ति तमस्त्वेन - अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकत्वेनापगतावाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीर्थिकानां परमार्थतः सावद्यानुष्ठानादिनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तव्यत्ययिकं' लोभप्रत्ययिकं सावद्यं कर्माधीयते । तदेतल्लोभप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति । 7 साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह- 'इति' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः साधुः, तमेव विशिनष्टिमा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृत्वा क्षपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति ।। मू. (६६१) अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस अनगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंड मत्तनिक्खेवणा Page #347 -------------------------------------------------------------------------- ________________ ३४४ सूत्रकृताङ्ग सूत्रम् २/२/-/६६१ समियस्स उच्चारपासवणखेलसिंधाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तबंभयारिस्स । आउत्तं गच्छमाणस्स आउत्तं चिट्टमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अत्थि विमाया सुहुमा किरिया इरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए निज्जिण्णा सा बद्धा पुट्ठा उदीरिया वेइया निजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिज्जइ, तेरसमे किरियटठाणे ईरियावहिएत्ति आहिज्जइ । से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एयाइंचेव तेरस किरियाणाई भासिंसु वा भासेति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविस्संति वा, एवं चैव तेरसमं किरियट्टाणं सेविंसु वा सेवंति वा सेविस्संति वा । घृ. अथापरं त्रयोदश क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापथिकम्, एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं त्विदं सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनो वाक्कायक्रियस्य या क्रिया तया यत्कर्म तदीर्यापथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा ? कीद्दकर्मफला वा ? इत्येतद्दर्शयितुमाह'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मत्वं तदर्थमात्मत्वार्थं संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य त्वसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात्, तदेवमात्मार्थं संवृतस्यानगारस्येर्यापथिकादिभिः पश्चिभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रहणताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थं वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्त्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृह्णतो निक्षिपतो वा यावच्चक्षुपक्षम्निपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः स्थातुम्, अग्निना ताप्यमानोद- कवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्- "केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यद्बध्यते कर्म तस्य च कर्म तठप्रथमसमय एव बद्धं स्पृष्टं चेतिकृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये निर्जीर्णा एतदुक्तं भवति कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्धध्यमानमेव स्पृष्टतां संश्लेषं याति, द्वितीयसमये त्वनुभूयते तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च तदेव सेर्यापथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले त्ति आगामिनि Page #348 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-२, ३४५ तृतीयसमयेतत्कमपिक्षयाऽकर्मतापिच भवति, एवं तावद्वीतरागस्येयाप्रत्ययिककर्म 'आधीयते' सम्बध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । येपुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तुयानि प्रागुक्तानीर्यापथवानि द्वादशक्रियास्थानानितेषु वर्तन्तेतेषांचतद्वर्तिनामसुमनां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कषाया नियमाद्भवन्ति, कषायिणश्च योगाः, योगिनस्त्वेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थिति, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इतिस्थितम्॥एतानित्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिनैवोक्तानि अपि त्वन्यैरपीत्येतद्दर्शयितुमाह - 'से बेमी त्यादि, सोऽहं ब्रवीमीति, ययागुक्तं तद्बा ब्रवीमीति, तद्यथा-ये तेऽतिक्रान्ता ऋषभादयस्तीर्धकृतो येच वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तःसर्वेऽपितेपूर्वोक्तान्येतानि त्रयोदशक्रियास्थानान्यभाषिषुः भाषन्तेभाषिष्यन्ते च। तथा तत्स्वरूपतस्तद्विपाकतश्चप्ररूपितवन्तःप्ररूपयन्ति प्ररूपयिष्यन्तिच।तथैतदेव त्रयोदशं कियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति यथावासशोपकरणाः प्रदीपास्तुल्यप्रकाशाभवन्ति एवं तीर्थकृतोऽपिनिरावरणत्वात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति। ___साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह मू. (६६२) अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु नानापन्नाणं नानाछंदाणं नानासीलाणं नानादिट्ठीणं नानारूईणं नानारंभाणं नानाज्झवसाणसंजुत्ताणं नानाविहपावसुयज्झयणं एवं भवइ, तंजहा - भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं सुभगाकरं दुब्भगाकरं गमाकरं मोहणकरं आहब्वणिं पागसासणि दव्वहोमं खत्तियविजं चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्वं वायसपरिमंडलं पंसुवुद्धिं केसवुटुिंमंसवुद्धिं रुहिरवुट्टिवैतालिं अद्धवेतालिं ओसोवणिं तालुगधाडणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणिं-- एवमाहआओ विजाओ अन्नस्स हेउँपउंति पाणस्स हेउंपउंजंति वत्थस्स हेउं पउंजंति लेणस्स हेउं पउंजंति सयणस्स हेउं पउंजंति, अन्नेसिंवा विरूवरूवाणं कामभोगाण हेउं पउजंति, तिरिच्छं ते विजं सेवेति,ते अनारिया विप्पडिवत्रा कालमासे कालं किच्चा अन्नयराइं आसुरियाई किब्बिसियाइंठाणाइंउववत्तारोभवंति, ततोऽवि विप्पमुच्चमाणा भुजो एलमूयताएतमअंधयाए पञ्चायति। __ . अस्मात्रयोदशक्रिस्थानप्रतिपादनादुत्तरं यदन न प्रतिपादितं तदधुनोत्तरभूतेनाने सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे प्रथमश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूतामिश्चूलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रेमूलसंहितायां श्लोकस्थाननिदानशारीरचिकित्सितकल्पसंज्ञकायां यन्नाभिहितंतदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि Page #349 -------------------------------------------------------------------------- ________________ ३४६ सूत्रकृताङ्ग सूत्रम् २/२/-/६६२ पूर्वेण यन्त्राभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते - मृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा केशाश्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिना विजयादिति, सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गोज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्चपुरुषविचयविभङ्गस्त- मेवंभूतं ज्ञानविशेषमाख्यास्यामिप्रतिपादायिष्यामि, याध्शानां चासौ भवति तांल्लेशतः प्रतिपादयितुमाह- 'इह खलु' इत्यादि, 'इह ' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षटस्थानपतिता भवन्ति । # तथा छन्द:- अभिप्रायः स नाना येषां ते तथा तेषां नानाशीलानां तथा ननारूपा दृष्टिःअन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानी त्रिषष्ठधिकानि प्रमाणमगवन्तव्यं, तथा नाना रूचिर्येषां ते नानारुचयः, तथाहिं-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृपितानामिदं नानाविधं पापश्रुताध्ययनं भवति, तद्यथा - भूमौ भवं भौमं निर्धातभूकम्पादिकं, तथोत्पातं कपिहसितादिकं, तथा स्वप्नं गजवृषभसिंहादिकं तथाऽन्तरिक्षम् - अमोधादिकं, तथा अङ्गे भवमाङ्गम्-अक्षिबाहुस्फुरणादिकं, तथा स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, तथा लक्षणंयवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनं-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा - दुर्भगमपि सुभगमाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां- गर्भाधानविधायिनीं, तथा मोहो- व्यामोहो वेदोदयो वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणीं विद्यामधीयते, तथा पाकशासनीम् इन्द्रजालसंज्ञिकां तथा नानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोञ्चाटनादिकैः कार्यैहोमोहवनं यस्यां सा द्रव्यहवनातां, तथा क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या स्वगोत्रक्रमेणायात । तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापायतीति दर्शयति - चंदचरिय' मित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्च वर्णस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं त्विदं- सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो वीथीत्रयचारादिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषु मण्डलेषु भवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति । तथा मृगा- हरिणशृगालादय आरण्यास्तेषां दर्शनरूतं ग्रामनगरप्रवेशादी सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चेमाः - वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साच किल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाऽपस्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी Page #350 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, गान्धार्यवपतन्युत्पतनी जृम्भणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रकामण्यन्तर्धानकरणीत्येवमादिका विद्या अधीयते, आसां चार्य संज्ञातोऽवसेय इति, नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भाषानिबद्धा वा चित्रफलाः, अवपतनी तु जपन् स्वत एव पतत्यन्यं वा पातयत्ये-वमुत्पतन्यपि द्रष्टव्या । तदेवमेवमादिका विद्या आदिग्रहणात्प्रज्ञप्तयादयो गृह्यन्ते । एताश्च विदायः पाषण्डिका अविदितपरमार्था गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थं प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम्-उञ्चावचानां शब्दादीनां कामभोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽ सेवनमनिष्टकारीति दर्शयितुमाह- 'तिरिच्छ' मित्यादि, तिरश्चीनाम्अननुकूलां सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्य एव द्रष्टव्याः, ते च स्वायुषः क्षये कालमासे कालं कृत्वा यदि कथञ्चिद्देवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः च्युता यदि मनुष्येषूत्पद्यन्ते तत्र च तत्कर्मशेषतयैडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते । साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यतेमू. (६६३) से एगइओ आयहेडं वा नायहेडं वा सयणहेडं वा अगारहेउं वा परिवारहेडं वा नायगं वासहवासियं वा निस्साए अदुवा अनुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेद ४ अदुवा गठिछेदए ५ अदुवा उरभिए ६ अदुवा सोवरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा मच्छिए १० अदुवा गोधायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४ ॥ ३४७ एगइओ आनुगामियभावं पडिसंधाय तमेव अनुगामियानुगामियं हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।। से एगइओ उवचरयभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिचा हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । से एगइओ संधिछेदगभावं पडिसंधाय तमेव संधि छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । से एगइओ गंठिछेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ || से एगइओ उरब्भियभावं पडिसंघाय उरब्भं वा अन्नंतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । एसो अभिलावी सव्वत्थ । से एगइओ सोयरियभावं पडिसंधाय महिसं वा अन्नतरं वा तसं पाणं जाव उवक्खाइत्ता भवइ || से एगइओ वागुरियाभावं पडिसंधाय मियं वा अन्नतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।। से एगइओ सउणियभावं पडिसंधाय सउणि वा अन्नतरं वा तसं पाणं हंता जाव उचक्खाइत्ता भवइ ॥ से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अन्नतरं वा तसं पाणं हंता जाव उवक्खाइत्ता Page #351 -------------------------------------------------------------------------- ________________ ३४८ सूत्रकृताङ्ग सूत्रम् २/२/-१६६३ भवइ ।। से एगइओ गोधायभावं पडिसंधाय तमेव गोणं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।।से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजवियहंता जाव उवक्खाइत्ता भवइ॥ से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।। से एगइओ सोवणियंतियभावं पडिसंधाय तमेव मणुस्सं वा अन्नयरं वा तसं पाणं हताजाव आहारं आहारेति, इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ। वृ.स एकः कदाचिन्निस्त्रिंशः साम्प्रतापेक्षीअपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-स्वजनास्तन्निमित्तंतथाऽगारनिमित्तं-गृहसंस्करणार्थ सामान्येन वाकुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञातएव ज्ञातकःपरिचितस्तमुद्दिश्य तथा सहवासिकं वा-प्रातिदेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः - तानि च दर्शयितुमाह-'अदुवे' त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षयापक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, सचाकार्याध्यवसायेन विवक्षितस्थानकालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तंगच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थं संधिच्छेदको भवति-चौर्यप्रतिपद्यते, अथवोर मेषैश्चरत्यौरभ्रमिकः अथवासौकरिका भवति, अथवा शकुनिभिपक्षिभिश्चरतीति शाकुनिकः अथवावागुरया-मृगादिबन्धनरज्ज्वाचरतिवागुरिकःअथवा मत्यैश्चरति मात्स्यिकः, अथवा गोपालभावंप्रतिपद्यते, अथवा गोघातकः स्याद्, अथवाश्वमिश्चरति शौवनिकः शुनांपरिपालको भवतीत्यर्थः,अथवा 'सोवणियं तिश्वभिपापर्द्धिकुर्वन्मृगादीनामन्तंकरोतीत्यर्थः। तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रैकः कश्चिदात्माद्यर्थं अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय' सहगन्तृभावेनानुकूल्यंप्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षीतमेवगच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खङ्गादिना हसतपादादेः तथा भेत्ता वज्रमुष्टयादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथाविलुम्पयिताकशाप्रहारादिभिरत्यन्तदुःखोत्पादनेनतथाअपद्रावयिता जीविता-धपरोपणतो भवतीत्येवमादिकं कृत्याऽऽहारमाहारयत्यसौ, एतदुक्तं भवतिगलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्यतंबहुविधैरुपायैर्विश्रम्भे पातयित्वाभोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारिदकां भोगक्रिया विधत्ते । इत्येवमसी महभिरैः कर्मभिः-अनुष्ठानैर्महापातकभूतैतिीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहिअयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानंतथा बन्धयति तथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङनरामररूपतयाऽऽख्यात इति। तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा Page #352 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३४९ तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ।। अथैकः कश्चिव्यतिपथेन- अभिमुखेन चरतीति प्रातिपथिक स्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभि ख्यापयतीति ।। अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं' खचखननत्वं प्रतिपाद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृत्वातमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन् खत्रं खनन् प्राणिनां छेत्ता भेत्ता विलुम्पयिता भवतीति एतच्च कृत्वाऽऽहारमाहायतीति एतचोपलक्षणमन्यांश्च कामभोगान् स्वतो भुङ्गेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति । अथैकः कश्चिदसदनुष्ठायी घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् । अथैकः कश्चिदधर्मकर्मवृत्ति उरभ्रा उरणकास्तैश्चरति यः स औरधिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्येोरभ्रं वाऽन्यं वा त्रसं प्राणीनं स्वमांसपुष्टयर्थं व्यापादयित, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् । अत्रान्तरे सौकरिकपदं तच्च स्वबुध्धया व्याख्येयं, सौकरिकाः, श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चत् क्षुद्रसत्वो 'वागुरिकभावं' लुब्धकत्वं 'प्रतिसंधाय' प्रतिपद्य वागुरया 'मृगं' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थं स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेता भेत्ता भवति, शेषं पूर्ववत् ।। अथैकः कश्चिदधमोपायजीवी शकुना लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रतिसंधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ।। अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्यं जलचरंप्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात्, शेषं सुगमम् । अथैकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ।। अथैकः कश्चित्कूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादये, तस्य च हननादिकाः क्रियाः कुर्यादिति । अथैकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति पद्य' सारमेयपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकराकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिदनार्यो निर्विवेकः 'सोवणियंतियभावं' ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः पर्यंन्तवासीत्यर्थ, शौवनिकश्चासावान्तिकश्च शीवनिकान्तिकः क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति, तदसौ तद्भावं प्रतिसंधाय दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं त्रसं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् लुटूप्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वद्याख्येयं तद्यथा- पुरुषं व्यापादयेत् तस्य च हन्ता छेत्ता इत्यादि, तृनलुट्प्रत्ययौ प्रागपि योजनीयाविति । तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति ॥ उक्ताऽ सदाजीवनोपायभूता वृत्तिः, इदानीं क्वचित्कुतश्चिन्निमित्तादभ्युपगमं दर्शयतिमू. (६६४) से एगइओ परिसामज्झाओ उट्ठित्ता अहमेयं हणामित्तिकट्टु तित्तिरं वा वट्टगं Page #353 -------------------------------------------------------------------------- ________________ ३५० सूत्रकृताङ्ग सूत्रम् २/२/-1६६४ वा लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ से एगइओकेणइ आयाणेण विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहावतीण वा गाहावइपुत्ताण वासयमेव अगनिकाएणंसस्साइंझामेइअनेनवि अगनिकाएणंसस्साइंझामावेइ अगनिकाएणं सस्साइंझामंतंपिअन्नं समनुजाणइ इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भव। से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेति अन्ननवि कप्पावेति कप्पंतंपि अन्नं समनुजाणइ इति से महया जाव भवइ । से एगइओ केणइ आयाणेणं विरुद्ध समाणए अदुवाखलदाणेणं अदुवा सुराथालएणं गाहावतीण वागाहावइपुत्ताण वा उसालाओवागोणसालाओवाघोडगसालाओवा गद्दभसालाओ या कंटकबोंदियाए पडिपेहित्ता सयमेव अगनिकाएणं झामेइ अन्ननवि झामावेइ झामंतंपि अन्नं समनुजाणइ इति से महया जाव भवइ । से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहावतीण वा गाहावइपुत्ताण वा कुंडलं वा मणि वा मोत्तियं वा सयमेव अवहरइ अन्नेनवि अवहरावइ अवहरंतंपि अन्नं समणुजाणइ इति से महय जाव भवइ । से एगइओ केणइवि आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं समणाण वा माहणाण वा छत्तगंवा दंडगं वा भंडगं वा मत्तगं वा लढिं वा भिसिगंवा चेलगं वा चिलिमिलिगं वा धम्मयं वा छेयणगंवा चम्मकोसियं वा सयमेव अवहरति जाव समनुजाणइ इति से महया जाव उवक्खाइत्ता भवइ । सेएगइओ नो वितिगिंछइ तं०-गाहावतीण वागाहावइपुत्ताण वा सयमेव अगनिकाएणं ओसहीओ झामेइजाव अन्नपि झामंतंसमनुजाणइ इतिसे महयाजाव उवक्खाइत्ता भवति ।।से एगइओ नो वितिगिंछइ, तं०-गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेइ अन्ननवि कप्पावेति अन्नपि कप्पंतं समणुजाणइ। से एगइओ नो वितिगिंछइ तं०-गाहावतीण वा गाहावइपुत्ताण वाउट्टसालाओवाजाव गद्दभसालाओ वा कंटकबोदियाहिं पडिपेहित्ता सयमेव अगनिकाएणं झामेइ जाव समनुजाणइ से एगइओ वितिगिछइ, तं०-गाहावतीण वा गाहावइपुत्ताण वा जाव मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ। __ से एगइओ नो वितिगिंछइ तं०-समणाण वा माहणाण वा छत्तगं वा दंडगं वा जाव चम्मच्छेदणगंवा सयमेव अवहरइ जाव समनुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ।। से एगइओ समणं वा माहणं वा दिस्सा नानाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवाणं अच्छराए आफालित्ता भवइ, अदुवाणंफरुसंवदित्ता भवइ, कालेणविसे अनुपविट्ठस्स असणं वा पाणं वा जाव नो दवावेत्ता भवइ। जेइमे भवन्ति वोनमंता भारवंताअलगावसलगा किवणगासमणगा पव्वयंतिते इणमेव जीवितं धिजीवितं संपडिबूहेंति, नाइ ते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पति ते पिट्टति ते परितप्पति ते दुक्खणजूरणसोयणतिप्पण Page #354 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२,अध्ययनं-२, ३५१ पिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणंतेमहयाआरंभसमारंभेणंविरुयरूवेहिं पावकम्मकिच्चेहिउरालाइंमाणुस्सगाई भोगभोगाई भुंजित्तारो भवंति। तंजहा-अन्नं अनकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले सपुवावरं च णं न्हाए कयबलिकम्मेकयकोउयमंगलपायच्छित्ते सिरसा न्हाए कंठमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तमगलदामकलावे अहतवत्थपरिहिएचंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडेसब्बराइएणंजोइणा झियायमाणेणं महयाहयमट्टगीयवाइययंतीतलतालतुडियधणमुइंगपडुपवाइयरवेणं उरालाइंमाणुस्सगाई भोगभोगाइं जमाणे विहरइ। तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्मुटुंति, भणह देवाणुप्पिया! किं करेमो ? किं आहरेमो ? किं उवमेणो ? किं आचिट्ठामो ! किं भे हियं इच्छियं किंभे आसगस्स सयइ?, तमेव पासित्ता अनारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणंदुल्लहबोहियाए यावि भविस्सइ। इचेयस्स ठाणस्स उठ्ठिया वेगे अभिगिझंति अनुठ्ठिया वेगे अभिगिझंति अभिझंझाउरा अभिगिझंति, एस ठाणे अनारिए अकेवले अप्पडिपुन्ने अनेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्याणमग्गे अनिजाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे अमाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए। वृ.अयंचात्र पूर्वस्माद्विशेषः-पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात, इह तु कुतश्चिनिमित्तात्साक्षाजनमध्ये प्राणिव्यापादनप्रतिज्ञां विधाबोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थयैवंभूतां प्रतिज्ञा विदध्यात्-यथाऽहम् 'एन' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तृन लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।। इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथच्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धाअभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह सेएगइओ इत्यादि,अथैकः कश्चित्प्रकृत्याक्रोधनोऽसहिष्णुतया केनचिदादीयत्इत्यादानं शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वावाचाविरुध्येत, रूपादानेनतुबीभत्सं कञ्चन द्दष्टवाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं त्वादानंसूत्रेणैवदर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्यदानं खलस्य वाऽल्पधान्यादेनं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं-कोशकादि तेन विवक्षितलाभा भावात् कुपितः गृहपत्यादेस्तेन कुर्यादित्याह-स्वयमेवाग्निकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्यापयेदं - दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति। Page #355 -------------------------------------------------------------------------- ________________ ३५२ सूत्रकृताङ्ग सूत्रम् २/२/१६६४ __साम्प्रतमन्येन प्रकारेण पापोपादनमाह-अथैकः कश्चित्केनचितु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'धूरीयाओ तिजवाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, इत्येवमसावात्मानं पापने कर्मणोपाख्यापयिता भवति॥किञ्च-अथैकः कश्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तसंबन्धिनामुष्ट्रादीनांशाला-गृहाणि 'कंटकबोंदियाए'त्तिकण्टकशाखाभिः 'प्रतिविधाय' पिहित्वा स्थगित्वा स्वयमेवाग्निना दहेत् । शेषं पूर्ववत् ॥ अपिच-अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धि कुण्डलादिकंद्रव्यजातंस्वयमेवापहरेदवशिष्टंपूर्ववत् साम्प्रतंपाखणिडकोपरि कोपेन यत्कुर्यात्तद्दर्शयितुमाह-अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपराजितो वाऽन्येन वा केनचिनिमित्तेन कुपितः सनेतत्कुर्यादित्याह-तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां केनचिदादानेन कुपितः सन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वाहरन्तं समनुजानीयात् इत्यादि पूर्ववत् ।। एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् दृढमूढतया 'नो वितिगिंछइत्ति 'नविमर्षति' न मीमांसते, यथाऽनेने कृतेन ममामुत्रानिष्टफलं स्यात्, तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात्, एतदेवोद्देशतो दर्शयति-तद्यथा-गृहपत्यादेर्निनिमित्तमेवतत्कोपमन्तरेणैव स्वयमेवात्मनाऽग्निकायेन-अग्निनौषधीः-शालिव्रीह्यादिकाः भापयेत्-दहेत् तथाऽन्येन दाहयेद्दहन्तंच समनुजानीयादित्यादि। तथेहामुत्रच दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसंबन्धिनाक्रमेलकादीनांजवादीनवयवांश्छिन्द्यात् ।।तथा शालांदहेत्॥तथा गृहपत्यादेः संबन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ।। तथा श्रमणब्राह्मणादीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्य येऽभिहितास्त एव तदभावेनाभिधातव्या इति । साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽमिधीयन्ते-अथैकः कश्चिदभिगृहीतमिथ्याष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादनाभूतैः कर्मभिरामानमुपख्यापयिता भवतीति, एतदेव दर्शयति-'अथवे त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, क्वचित्साधुदर्शने सति मिथ्यात्वोपहतष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन्साधुमुद्दिश्यावज्ञया अप्सरायाः' चप्पुटिकायाःआस्फालयिता भवत्यथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात्, तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं विदध्यादसत्यं वा ब्रूयात्, तथा भिक्षाकालेनापि से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चाप्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादेर्नोदापयिता भवति, अपरंच दानोद्यतं निषेधयति तत्प्रत्यनीकतया, एतच ब्रूते-ये इमे पाषण्डिका भवन्तितएवंभूता भवन्तीत्याह-'वोण्णन्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा भारेणकुटुम्बभारेणपोट्टलिकादिभारेणवाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा:-क्रमागतंकुटुम्बं पालयितुमसमर्था ते पाषण्डव्रतामाश्रयन्ति, तथा चोक्तम् - ॥१॥ गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नरा धन्याः, क्लीबाः पाषण्डमाश्रिताः॥ Page #356 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३५३ इत्यादि, तथा वसलग त्ति वृषला अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकाः, तथा 'कृपणाः' क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति ॥ साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसद्वृत्तमाविर्भावयन्नाह ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव ‘जीवितं’ परापवादोद्घट्टनजीवंति 'धिग्नीवितं' कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृंहन्ति, एतदेवासदवृत्तजीवितं प्रशंसन्तीति भावः । ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनम् - अनुष्ठानं 'किञ्चिदपि' स्वल्पमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुखयन्ति पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा तत्कुर्वन्ति येनाधिकं शोचन्ते, परानपि शोचयन्तिदुर्भाषितादिभिः शोकं धोत्पादयन्ति तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा तिप्यन्ति-सुखाच्यावयन्त्यात्मानं परांश्च, तथा ते वराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीड्यन्ते परांश्च पीडयन्ति, तथा ते पापेन कर्मणा परितप्यन्ते अन्तर्दह्यन्तेपरांश्च परितापयन्ति । तदेवं तेऽ सद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति । एवं भूताश्च सन्तस्ते महताऽऽरम्भेण प्राणिव्यापादनरूपेण तथा महात समारम्भेण प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्च' नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोद्भटान् समग्रसामग्रीकान् मधुमद्यमांसाद्युपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावधानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयितुमाह- 'तंज' त्यादि तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेणपूर्वाह्नकर्तव्येनापरेण च - अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं तथा परं च यत् क्रियते विलोपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम्, इदमुक्तं भवति यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह-तद्यथा विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि अवतारणकादीनी मङ्गलानि च-सुवर्णचन्दनद ध्यक्षतदूर्वा सिद्धार्थकादर्शकस्पर्शनादीनि तथा दुःस्वप्नादिप्रतिधातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटश्च २ स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो-हढा वयवकायो युवेत्यर्थः तथा 'वग्धारियं' तिप्रलम्बितं श्रोणीसूत्रं कटिसूत्रं मल्लदामकलापश्च येन स तथा, तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्याम्-उच्चायां ‘भहालियाए 'त्ति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' मद्रासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्रतत्रादिरवेणोदारान्मानुष्यद्वान् भोगभोगान्मुञ्जानौ 'विहरति' प्रविचरति विजृम्मतीत्यर्थः ।। तस्य च क्वचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयनो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, तेच किं कुर्वाणाः ?, एतद्वक्ष्यमाणमूचुः, तद्यथा-भण-आज्ञापय स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमं, यावध्धृ दयेप्सितमिति, तथा किं च 'ते' युष्माकम् 'आस्यकस्य' मुखस्य 'स्वदते' स्वादु प्रतिभाति Page #357 -------------------------------------------------------------------------- ________________ ३५४ सूत्रकृताङ्ग सूत्रम् २/२/-/६६४ यदिवा यदेवास्य-भवदीयास्यस्यम्न वति निर्गच्छति तदेव वयं कुर्म इति । तथा 'तमेवे त्यादि, तमेवराजानंतथा क्रीडमानं दृष्ट्वा अन्येऽनार्याएवं वदन्ति, तद्यथादेवः खल्वयं पुरुषः, तथा देवस्नातको देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं हष्ट्वा 'आर्याः' विवेकिनः सदाचारवन्त एवब्रुवते, तद्यथा-अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यथः, तथा धूयते रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं-कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतंधूतम्-अष्टप्रकारं कर्मयस्य सोऽतिधूतः, तथाऽती- वात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इदमुक्तं भवति-यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्यामरेषु उत्पद्यते, ताग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह-'नेरइए' इत्यादि, नरकेषुभवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुवृत्तो दुर्लभबोधिकश्चायं बाहुल्येनभविष्यति । इदमुक्तं भवति-दिक्षुमध्ये दक्षिणा दिग्अशस्ता, गतिषु नरकगतिः,पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधुप्रद्वेषिणोदानान्तरायविधायिनो दिगादिकमशस्तंदर्शितम्, अन्यदपियदशस्तंतिर्यग्गत्यादिकमबोधिलाभादिकंच तद्योजनीयमस्येति एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकत्वं सुदेवत्वंशुक्लपाक्षिकत्वंतथा सुमानुषत्वायातस्य सुलभबोधिस्वमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्वं भवतीति।साम्प्रतमुपसंजिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य श्रृङ्गारमूलस्यसांसारिकस्यपरित्यागबुध्ध्या एकेकेचन विपर्यस्तमतयः पाषण्डिकोत्थानेनोस्थिताः परमार्थमजानाना अभिगिज्झंति'त्ति आभिमुख्येन लुभ्यन्ते लोभवशगा भवन्तीत्यर्थः। तथा एके केचन साम्प्रतेक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एवसन्तः अभिझंझ'त्ति झञ्झा-तृष्णातदातुराः सन्तोऽर्थेष्वत्यर्थंलुभ्यन्ते, यतएवमतोऽदःस्थानामनार्यानुष्ठानपरत्वादनार्य महापुरुषानुचीर्णन भवति, तथान विद्यते केवलमस्मिन्नित्यकेवलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सद्गुणविरहातुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनैयायिकम्-असन्यायवृत्तिकमित्यर्थः, तथा रगेलगेसंवरणे' शोभनं लगन-संवरणंइन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगत्वं न विद्यते सल्लगत्वमस्मिन्नित्यसल्लगत्वम् इन्द्रीयासंवरणरूपमित्यर्थः। यदिवा शल्यवच्छल्यं-मायानुष्ठानमकार्यं तद्गायति कपयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगत्वमिति, तथा न विद्यते सिद्धेः-मोक्षस्य विशिष्ठस्थानोपलक्षितस्य मार्गो यस्मिंस्तदसिद्धिमार्ग,तथान विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणायामार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यस्मिंस्तदमुक्तिमार्ग, तथान विद्यते परिनिर्वृतेः-परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः-पन्था यस्मिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते सर्व दुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुतएवंभूतंतस्थानमित्याशङ्कयाह “एगंते त्यादि, एकान्तेनैवतत्स्थानंयतोमिथ्याभूतं-मिथ्यात्वोपहतबुद्धीनांयतस्तद्भवत्यत एवासाधु असवृत्तत्वात्, न ह्ययं सत्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं Page #358 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-२, ३५५ प्रथमस्य स्थानस्याधर्मपाक्षिकस्यपापोपादानभूतस्य विभङ्गो-विभागोविशेषःस्वरूपमितियावत् साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह मू. (६६५) अहावरे दोन्चस्स हाणस्स धम्मपक्खस्स बिभंगे एवमाहिजइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा-1 आयरिया वेगेअनारिया वेगे उच्चायोगा वेगेनीयागोयावेगे कायमंता वैगे हस्समंता वेगे सुवन्ना वैगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिंचणे खेत्तवत्यूणि परिग्गहियाइंभवतं, एसो आलायगो जहा पोंडरीए तहा नेतब्बो, तेणेव अभिलावेण जाव सव्वोवसंता सब्बताए पनिरिब्बुडेत्तिबेमि। एस ठाणे आरिए केवले जाब सव्वदुक्खप्पहीणमग्गे एगंतसम्म साह, दोबस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए। वृ.अथे'त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य' पुण्योपादानभूतस्य विभङ्गो विभागः स्वरूपंसमाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनंप्रतीचीममुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके केचन कल्याणपरम्पराभाजः 'पुरुषा मनुष्याः, तेचवक्ष्यमाणस्वभावाभवन्ति, 'तद्यथे'त्ययमुपप्रर्शनार्थः,आर्या एकेकेचनार्यदशोत्पन्नाः, तथाऽनार्या शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरवयवं मणितव्यम् यावत्ते एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि । तदेवमेतत्स्थानं 'कैवलिकं प्रतिपूर्णनैयायिकमित्यादिप्राग्वद्विपर्ययेण नेयं यावद्दिवतीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो' विभागः स्वरूपमाख्यातमिति ।। साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह मू. (६६६) अहावरे तच्चस्स हाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया आवसहिया गामनियंतिया कण्हुईरहस्सिता जाव ते तओ विप्पमुच्चमाणा भुजो एलमूयत्ताए तमूत्ताए पञ्चायति । एसठाणे अनारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तबस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए। वृ. अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते । अत्रचाधर्मपक्षणयुक्तोधर्मपक्षोमिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काञ्चित्तथाप्रकारां प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धत्वादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षितासाधकत्वानिरर्थकतामापद्यते, ततोमिथ्यात्वानुभावात मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः-कन्दमूलफलाशिनस्तापसादयो ये चावसधिका:-आवसथो-गृहं तेन चरन्तीत्यावसथिकाः-गृहिणः,ते चकुतश्चित्पापस्थानानिवृत्ताअपिप्रबलमिथ्यात्वोपहतबुद्धयः, तेयधप्युपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्बिषि Page #359 -------------------------------------------------------------------------- ________________ ३५६ सूत्रकृताङ्ग सूत्रम् २/२/-/६६६ केषूत्पद्यन्त इत्यादि सर्वं पूर्वोक्तं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते। तदेवमेतत्स्थानमनार्यकेवलम्-असंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं "विभङ्गो' विभागः स्वरूपमाख्यातमिति ।। उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतंतदाश्रिताः स्थानिनोऽभिधीयन्ते-यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानकमाश्रित्याह मू. (६६७) अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप लोई अधम्मपलजणा अधमम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरति । हणछिंद भिंद विगत्तगालोहियपाणीचंडारुद्दाखुद्दासाहस्सियाउकुंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुला दुस्सीलादुव्वया दुप्पडियाणंदाअसाहू सव्वाओ पाणाइवायाओ अप्पडिविरया जावजीवाए जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावजीवाए सब्बाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओ पहाणुम्मदणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमलालंकाराओ अप्पडिविरया जावजीवाए सव्वाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावञ्जीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावजीवाए सवाओ हिरण्णसुवण्णधनधन्नमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावजीवाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए। सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावजीवाए सव्वाओ करणकारावणाओ अप्पडिविरया जावजीचाए सव्वाओ पयणपयावणाओ अप्पडिविरया जावजीवाए सव्वाओ कुट्टणपिट्टणतज्जणताडणवहबंधपरिकिलेसाओ अप्पडिविरया जावजीवाए,जेआवण्णेतहपगारा सावञ्जा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहिं कज्जंति ततो अप्पडिविरया जावजीचाए, से जहानामए केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्यआलिसंदगपलिमंथगमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति। एवमेवतहप्पगारे पुरिसजाए तित्तिरवट्टगलावगकवोतकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमादिएहि अयंते कूरे मिच्छादंडं पउंजंति, जावि य से बाहिरिया परिसा भवइ, तंजहा-दासे इ वा पेसे इवा भयए इवा भाइले इ वा कम्मकरएइ वा भोगपुरिसे इवा तेसिंपिय णं अत्रयरंसि वा अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेइ । तंजहा-इमं दंडेह इमं मुंडेह इमं तज्जेह इमंतालेह इमं अदुयबंधणं करेह इमंनियलबंधणं करेह इमं हड्डिबंधणं करेह इंम चारगबंधणं करेह इमं नियलजुयलसंकोदियमोडियं करेह इस हत्यछिन्नयं करेह इमं पायछिन्नयंकरेह इमं छनछिन्नयं करेह इमं नक्कओहसीसमुहछिन्नयंकरेह वेयगछहियं अंगछहियंपक्खाफोडियंकरेह इमंनयणुप्पाडियं करेह इमंदसणुप्पाडियंवसणुपाडियं जिब्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सूलाइयं करेह सूलाभिन्नयं करेह Page #360 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३५७ खारवत्तियं करेह वझवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदवयंगं कागणिमंसरवावियंगंभत्तपाणनिरुद्वगं इमं जावजीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह। जावी य से अभितरिया परिसा भवइ, तंजहा-माया इवा पियाइ वा भाया इ वा भगिनी इवा भजा इ वा पुत्ता इ वा धूताइवा सुण्हाइवा, तेसिपि यणं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निवत्तेइ, सीओदगवियडंसि उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिट्टति परितप्पंति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवहबंधणपरिकिलेसाओ अपडिविरया भवंति। एवमेव ते इत्यिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपचमाई छद्दसमाइंवा अप्पतरो वा श्रुजतरो वा कालं जितुभोगभोगाइं पविसुइत्ता वेरायतणाई संचिणित्ता बहूई पावाइंकम्माई उस्सन्नाइं संभारकडेण कम्मणा से जहानामए अयगोले इवा सेलगोले इवा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइटाणे भवइ, एवमेव तहप्पगारे पुरिसजाते वज्जबहुलेधूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले नियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किच्चाधरणितलमिइवइत्ता अहे नरगतलपइट्ठाणे भवइ। वृ.अथापरोऽन्यःप्रथमस्य स्थानस्याधर्मपाक्षिकस्य विभङ्गो विभागः स्वरूपं व्याख्यायते'इह खलु' इत्यादि, सुगमं यावन्मनुष्याएवंस्वभावाभवन्तीति।एतेच प्रायोगृहस्थाएव भवन्तीत्याह'महेच्छा' इत्यादि, महती-राज्यविभवपरिवारादिकासतिशायिनी इच्छा-अन्तःकरणप्रवृत्तिर्येषां तेमहेच्छाः, तथा महानारम्भो-वाहनोष्ट्रमण्डलिकागन्त्रीप्रवाहकृषिपण्डपोषणादिको येषां तेमहारम्भाः,येचैवंभूतास्ते महापरिग्रहा:-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः क्वचिदप्यनिवृत्ताः,अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथाअधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा-अनुमोदनं येषां ते भवन्धर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां तेतथा,एवमधर्मप्रायजीविनः, तथाअधर्ममेव प्रविलोकयितुंशीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथाअधर्मप्रायेषुकर्मसुप्रकर्षणरज्यन्तइतिअधर्मप्ररक्ताः, रलयोरैक्यमिति रस्यस्थाने लकारोऽत्र कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेनसावधानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्ती'ति कालमतिवाहयन्ति । पापानुष्ठानमेवलेशतो दर्शयितुमाह-‘हणछिन्दभिन्दे'त्यादिस्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं भिन्द्धिशूलादिना, विकर्तकाः-प्राणिनामजिनापनेतारः अतएव लोहितपाणयः, तथा चण्डा रौद्रा-निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारित्वात् तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गायं तेन बहुलाः-तप्रचुरास्ते तथा, तत्रोधं कुञ्चनं-शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं-प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया-वञ्चनबुद्धि प्रायोवणिजामिवनिकृतिस्तु बकवृत्या Page #361 -------------------------------------------------------------------------- ________________ ३५८ सूत्रकृताग सूत्रम् २/२/-/६६७ कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थं गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्याऽऽचार्योपाध्यायसंघाटकात्मार्थं चत्वारो मोदका अवाप्ताः, तु-कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येणकस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलाः-तप्रधाना इत्यर्थः, उक्तंच॥१॥ “सो होई सातिजोगो दव्वं जंछादियण्णदव्वेसु । दोसगुणा वयणेसुय अत्यविसंवायणं कुणइ ।। एते चोत्कुञ्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चिक्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाः-चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणस्वभावा इत्यर्थः, तथा दुष्टानिव्रतानि येषां ते तथा यथामांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धाजन्मान्तरविधिद्वारेणसनिदानमेवव्रतं गृह्णन्ति, तथादुःखेनप्रत्यानन्धन्ते दुष्प्रत्यानन्द्याः, इदमुक्तंभवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारमीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम् - ॥१॥ “प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम्। दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वायसाः॥ यतएवमतोऽसाधवस्त पापकर्मकारित्वात्, तथा यावजीवं' यावतप्राणधारणेनसर्वस्माप्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वस्मादपिकूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादेमैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोपकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्योयावज्जीवं येऽप्रतिविरता भवन्तीति तथा सर्वस्मात्स्नानोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावनीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादकं लोघ्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकाप्रतिविस्तरविधेः परिकररूपात्परिग्रहादप्रतिविरताः, इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं-पुरुषोक्षिप्तमाकाशयानं "गिल्लि'त्ति पुरुषद्वयोरिक्षप्ता झोल्लिका 'थिल्लित्ति वेगसराद्वयविनिर्मितो यानविशेषः तथा 'संदमाणिय'त्ति शिबिकाविशेष एव, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः।। तथा सर्वतः-सर्वस्माक्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावजीवयेति, तथा सर्वस्माद्धिरण्यसुवणदिः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टन-तर्जनाताडनवधबन्धादिनायः परिक्लेशः प्राणिनांतस्मादविरताः, साम्प्रतमुप Page #362 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-२, संहरति-ये चान्ये तथाप्रकाराः परपीडाकारिणः सावद्याः कर्मसमारम्भा अबोधिकाः-बोध्यभावकारिणःतथा परप्राण-परितापनकरा-गोग्राहबन्दिग्रहग्रामघातात्मकायेऽनार्यक्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावजीवयेति।। पुनरन्यथा बहुप्रकारमधार्मिकपदंप्रतिपिपादयिषुराह-'तद्यथे'-त्युपप्रदर्शनार्थो नामशब्दः संभावनायां, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ये कलममसूरतिलमुद्गादिषु पचनपाचनादिकया क्रियया स्वपरार्थमयता-अप्रयलवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमारोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिप्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां “यथा राजा तथा प्रजा" इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषां बाह्या पर्षद्भवति, तद्यथा-'दासः' स्वदासीसुतः 'प्रेष्यः' प्रेषणयोग्यो भृत्यदेश्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी तथा 'भागिको' यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते 'कर्मकरः'प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य लघावप्यपराधे गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च ।। सच नायकस्तेषां दासादीनांबाह्यपर्षद्भूतानामन्यतरमिंस्तथा लघावप्यपराधे-शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्क्ते तद्यथा-इमं दासं प्रेष्यादिकं वा सर्वस्वापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् ॥ याऽपिचक्रूरकर्मवतामभ्यन्तरापर्षद्भवति, तद्यथा-मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद्नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परस्मिन्नपि लोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोकयन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधबन्धपरिक्लेशादप्रतिविरता भवन्ति । तेच विषयासक्ततया एतत्कुर्वन्तीत्येतद्दर्शयितुमाह-एवमेवपूर्वोक्तस्वभावाएवं तेनिष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च - शब्दादिषु इच्छाकामेषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयः, ते च भोगासक्ता व्यपगतपरलोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरंवाकालंप्रभूततरंवाकालंभुक्त्वा भोगभोगान्इन्द्रियानुकूलान् मधुमद्यमांसरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि वैरानुबन्धान अनुप्रसूय-उत्पाद्य विधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि' प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषुयातनास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानिकर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वानरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति सम्बन्धः अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह - Page #363 -------------------------------------------------------------------------- ________________ ३६० सूत्रकृताङ्ग सूत्रम् २/२/-/६६७ _ 'सेजहानामए' इत्यादि, तद्यथा नामायोगोलकः-अयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलयाधोधरणीतलप्रतिष्ठानो भवति । अधुना दार्टान्तिकमाह-'एवमेवे'त्यादि, यथाऽसावयोगोलकोवृत्तत्वाच्छीघ्रमेवाधोयात्वेवमेव तथाप्रकारः पुरुषजातः, तमेवलेशतो दर्शयति-वज्रवद्वजं गुरुत्वाकर्मतबहुलः-तयुचरोबध्यमानककर्मगुरुरित्यर्थः तथा घूयत इति धूतं-प्राग्बद्धं कर्म तप्रचुरः, पुनः सामान्येनाह-पङ्कयतीति पझ्-पापं तद्बहुलः, तथा तदेव कारणतो दर्शयितुमाह-वैरबहुलो' वैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो-मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल' इति सातिशयेनद्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तबहुलः-तत्करणप्रचुरः, तथाअयश:-अश्लाघाअसद्वृत्ततया निन्दा, यानि यानि परापकार भूतानि कर्मानुष्ठानानि विधत्तेतेषुतेषुकर्मसु करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः कालमासे' स्वायुपः क्षये कालं कृत्वा पृथिव्याःरत्नप्रभादिकायास्तलम् 'अतिवर्त्य योजनसहस्रपरिमाणमतिलझ्यनरकतलप्रतिष्ठानोऽसौ भवति नरकस्वरूपनिरूपणायाह मू. (६६८) तेणं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मैदवसाममसरूहिरपूयपडलचिक्खिल्ललित्तानुलेवणतला असुई वीसा परमदुब्भिगंधा कण्हाअगणिवन्नाभा कक्खडफासादुरहियासा असुभा नरगा असुभा नरएसु वेयणाओ। नो चैव नरएसु नेरइया निदायंति वा पयलायंति वा सुई वा रतिं वा धिति वा मतिं वा उवलभंते, तेणं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसंचंडं दुक्खं दुग्गं तिव्वंदुरहियासं नेरइया वेयणं पच्चनुभवमाणा विहरंति। वृ. णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता बहिरपिचतुरम्नाअधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानंपुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्रयचतुरसंस्थाना एव भवन्ति, तथा नित्यमेबान्धतमसं येषु ते नित्यान्धतमसाः, क्वचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थं तेषामेव विशेषणान्याह-'मेदवसे' त्यादि, दुष्कृतर्मकारिणां तेनरकास्तहुखोत्पादनायैवंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानिसङ्कास्तैर्लिप्तानिपिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽसूक्लेदप्रधानत्वाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमावलिप्तत्वात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभारूपतः स्पर्शतस्तु कर्कशः-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा । किंबहुना?,अतीव दुःखेनाधिसह्यन्ते, किमिति?, ___ यतस्तेनरकाः पञ्चानामपीन्द्रियार्थानामशोभनत्वादशुभाः, तत्र च सत्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुराणां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च Page #364 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीषन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, तामुज्वलां तीव्रानुभावेनोत्कटामित्यादिविशेषणविशिष्टां यावद्वेदयन्ति अनुभवन्तीति । अयं तावदयोगोलकपाषाणध्ष्टान्तः शीघ्रमधोनिमज्जनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह - मू. (६६९) से जहानामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ निन्नं जओ विसमं जओ दुग्गं तओ पवडति, एवामेव तहष्पगारे पुरिसजाए गातो गब्भं जम्मातो जम्मं माराओ मारं नरगाओ नरगं दुक्खाओ दुक्खं दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ । एस ठाणे अनारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए । वृ. तद्यथा नाम कश्चिद्वृक्षः पर्वताग्रे जातो मूले छिन्नः शीघ्रं तथा निम्ने पतति, एवमसावप्य - साधुकर्मकारी तत्कर्मवातेरितः शीघ्रमेव नरके पतति, ततोऽप्युद्वृत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्त्राणं भवति यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति । साम्प्रतमुपसंहरति 'एस ठाणे' इत्यादि, तदेतत्स्थानमनार्यं पापानुष्ठानपरत्वाद्यावदेकान्त-मिथ्यारूपमसाधु । तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपमेष व्याख्यातः ३६१ यू. (६७०) अहावरे दोघस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा- अनारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्वतो पाणातिवायाओ पडिविरया जावजीवाए जाव जे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कज्जुंति ततो विपडिविरता जावजीवाए। से जहानामए अनगारा भगवंतो इरियासमिया भासासमिया मणसमिया वयसमिया कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिनिब्बुडा अनासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइ व मुक्क तोया संखो इव निरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धा सारदसलिलं व सुद्धहियया पुक्खर पत्तं व निरुवलेवा कुम्भो इव गुत्तिंदिया विहग इव विप्पमुक्का खग्गविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा बसभी इव जातत्थामा सीहो इव दुद्धरिसा मंदरी इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दित्ततेया जञ्चकंचणगं व जातरूवा वसुंधरा इव सव्वफासविसहा सुहुयहुयासणो विवतेयसा जलंता । नत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउव्विहे पण्णत्ते, तंजहाअंडए इ वा पोयए इ वा उग्गहे इ वा पग्गहेइवा जन्नं जन्नं दिसं इच्छंति तन्नं तन्नं दिसं अपडिबद्धा सुइभूया लहुभूया अप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरति । तेसिं गं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तंजहा चउत्थे भत्ते छट्टे भत्ते Page #365 -------------------------------------------------------------------------- ________________ ३६२ सूत्रकृताङ्ग सूत्रम् २/२/-/६७० अहमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया निक्खित्तचरया उक्खित्तनिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदानचरगा संसदृचरगा असंसठ्ठचरगा तञ्जातसंसठ्ठचरगा दिट्ठलाभिया अदिट्ठलाभिय पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा वरसाहार विरसाहारालूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमड्डिया निव्विगइया वमज्जमसासिणो नो नियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडुआसणिया नेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडुया अनिड्डूहा ( एवं जहोववाइए) धुतकेसमंसुरोमनहासव्वगायपडिकम्मविप्यमुक्का चिट्ठति । ते णं एतेणं विहारेणं विहरमाणा बहूइं वासाई सामन्नपरियागं पाउणति २ बहुबहु आबाहंसि उपपन्नंसि वा अनुपपन्नंसि वा बहूइं भत्ताइं पञ्चक्खन्ति पञ्चक्खाइत्ता बहूई भत्ताइं अणसणाए छेदिति अणसणाए छेदित्ता जस्सट्टाए कीरति नग्गभावे मुंडभावे अण्हाणभावे अदंनवणगे अछत्तए अणोवाहणए भूमिसेज्जा फलगसेज्जा कट्टसेज्जा केसलोए बंभचेरवासे परघरपवेसे लखाक्लद्धे माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकुंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमहं आराहंति, तमठ्ठे आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अनंतं अनुत्तरं निव्वाघातं निरावरणं कसिणं पडिपन्न केवलवरनाणदंसणं समुप्पार्डेति समुप्पाडित्ता ततो पच्छा सिज्झति बुज्झति मुच्चंति परिनिव्वायंति सब्वदुक्खाणं अंतं करेति । गाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्पावसेसेणं कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भयंति, तंजहा -महड्ढिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महानुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्ढिया महज्जुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभिवमुया अंगयकुंडलमट्ठगंडयलकन्नपीढधारी विचित्तहत्याभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमलावणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वन्त्रेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संधारणं दिव्वेणं संठाणेणं दिव्याए इड्ढीए दिव्वाए जुत्तीए दिव्याए पमाए दिव्वाए छायाए दिव्वाए अचाए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्सधम्मपक्खस्स विभंगे एवमाहिए। वृ. अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपम् ' एवं ' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा- 'इह खलु' इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा- न विद्यते सावद्य आरम्भो येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः सावधा आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति । पुनरन्येन Page #366 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३६३ प्रकारेण साधुगुणान् दर्शयितुमाह- तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभि" समितिभिः समिताः 'एव' मित्युपप्रदर्शने औपपातिकमाचाराङ्गसम्बन्धि प्रथममुपाङ्ग तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः यावद्भूतम्- अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरी रास्तिष्ठन्तीति । ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपालय, अबाधारूपे रोगातङ्के समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किं बहुनोक्तेन ! यत्कृतेऽयमय गोलकवन्निरास्वादः करवालधारामार्गवद्दुरध्यवसायः श्रमणभावोऽनुपात्यते तमर्थं सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नुवन्ति, केवलज्ञानावाप्तेरूर्ध्वं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति ॥ एके पुनरेकयाऽर्चया एकेन शरीरेणैकस्माद्वा भवात्सिद्धिगतिं गन्तारो भवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वा अन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, नत्वाभियोगिककिल्बिषिकादिष्विति । एतदेवाह - 'तंज' त्यादि, तद्यथा महद्धर्यादिषु देवलोकेषूत्पद्यन्ते । देवास्त्वेवंभूता भवन्तीति दर्शयति- 'ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महर्ध्यादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह - 'दिव्वेणं रूवेण' मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो 'गत्या' देवलोक - रूपया कल्याणाः -शोभना गत्या वा शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः ॥ मू. (६७१) अहावरे तञ्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवति, तंजहा-अप्पिचछा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चैव वित्ति कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साहू एगच्चाओ पाणाइवायाओ पडिविरता जावजीवाए एगच्चाओ अप्पडिविरया जाव जे यावण्णे तहष्पगारा सावजा अबोहिया कम्ता परपाणपरितावणकरा कज्रंति ततोवि एगचाओ अप्पडिविरया । से जहानामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्वपुण्णपावा आसवसंवरवेयणानिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरकखसकिंनरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिजाइणमेव निग्गंथे पावयणे निस्संकिया निक्कखिया निव्वितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं Page #367 -------------------------------------------------------------------------- ________________ ३६४ सूत्रकृताङ्ग सूत्रम् २/२/-/६७१ परमट्टे सेसे अणट्टे उसियफलिहा अवंगुयदुवारा अचियत्तंते उपरपरधरपवेसा चाउद्दसट्टमुद्दिपुण्णिमासिणीसु पडिपुग्नं पोसहं सम्मं अनुपालेमाणा समणे निग्गंधे फासुएसणिज्जेणं असणपाणखाइमसाइमेणंवत्यपडिग्गहकंबलपायपुंछणेणंओसहभेसजेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहूहिँ सीलव्वयगुणवेरमणपञ्चटक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणा विहरंति। तेणंएयारूवेणंविहारेणंविहरमाणा बहूईवासाइंसमणोवासगपरियागं पाउणंति पाउणित्ता आबाहसि उप्पत्रंसि वा अनुप्पन्नंसि वा बहूई भत्ताई पन्चक्खायंति बहूई भत्ताई पच्चक्खाएत्ता बहूई भत्ताइं अणसणाएछेदेन्ति बहूइं भत्ताइअणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसुदेवत्ताए उववत्रो भवंति, तंजहा - महडिएसुमहन्जुइएसुजावमहासुक्खेसुसेसंतहेवजाव एस ठाणे आयरिएजावएगंतसम्मे साहू । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए । अविरइं पहुच बाले आहिजइ, विरई पडुच्च पंडिए आहिज्जइ, विरयाविरइं पडुच्छ बालपंडिए आहिजइ, तत्थणंजा सा सव्वतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असवदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वतो विरईएस ठाणे अनारंभट्ठाणे आरिए जाव सब्बदुक्खप्पहीणमग्गे एगंतसम्म साहू। तत्थ णं जा सा सव्वओ विरयाविरई एस ठाणे आरंभणो आरंभट्ठाणे एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू। अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच यद्यपि मिश्रत्वाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषुगुणेषु मध्यपतितोदोषोनात्मानं लभते, कलङ्कइवचन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलम्, एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विच्छा-अन्तःकरणप्रवृत्तिर्येषां तेतथा एवंभूता धार्मिकवृत्तयः प्रायःसुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति। तथैकस्मात्-स्थूलात्संकल्पकृतात्प्रतिनिवृत्ता एकस्माच सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । एतस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-'जे यावण्णे' इत्यादि, ये चान्ये सावध नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीडननिर्लाञ्छनकृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिवृत्ता इति । तांश्चविशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थं श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, तेच श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धपुण्यपापाः।इहचप्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि ६श्यन्ते न च टीकासंवाघेकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियते इयेतदवगम्य सूत्रविसंवाददर्शनाञ्चित्तव्यामोहो न विधेय इति । तेश्रावकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तोन धर्माच्याव्यन्तेमेरुरिव निष्पकम्पा ढमार्हते दर्शनेऽनुरक्ताः अत्र चार्थे सुखप्रतिपत्त्यर्थं दृष्टान्तभूतं कथानकं, तच्चेदं तद्यथा-राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रीपधिलब्धसामर्थं परिवसति, स च विद्यादिबलेन पत्तने पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं-यथा देव ! प्रत्यहं Page #368 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-२, पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं क्रियतां प्रसदस्तदन्वेषणेनेति । राज्ञाऽभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये, किंच-यदि पञ्चषैरहोभिर्न लभे चौरं विमर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वहो, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञाच सविशेष नियुक्ताआरक्षकाः । आत्मनाऽप्येकाकी खगखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यानवृक्षकोटरप्रवेसेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पित यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्रचैकासीमन्तिनीअत्यन्तमौषधिभिर्भाविता नेच्छत्यात्मीयमपि भरि, ततस्तद्विद्भिरभिहितं-यथाऽस्याः परित्राटसत्कान्यस्थीनिदुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतं, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्तेतथा तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनुरक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिव्राजा नेच्छत्यपरम् एवं श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने नश्क्यते अन्यथाकर्तुम्, अत्यन्तंसम्यक्त्वौषधेन वासितत्वादिति पुनरपि श्रावकान् विशिनष्टि-'जाव उसियफलिहा' इत्याहि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्तःकरणानि येषां ते तथा, एतदुक्तं भवति __मौनीन्द्रदर्शनावाप्ती सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उदेघाटितगृहद्वारास्तिष्ठन्ति अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा, अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहूनि वर्षाणि शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति । तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षाव्रतानुष्ठायिनः साधूनामौषधवपात्रादिनोपकारिणः सन्तोयथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वाकारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताःसमाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यस्मादुपलब्धपुण्यपापास्तस्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरेकैकं चोत्तरं गृह्णद्भिर्वाच्य, तेच परेण पृष्टाअपृटा वाएतदूचुः,तद्यथा-अयमेव मौनीन्द्रोक्तोमार्गः सदर्थः शेषस्त्वनों, यस्मादेवं प्रतिपद्यन्ते तस्मात्तेसमुच्छ्रितमनसःसन्तः साधुधर्मं श्रावकधर्मंच प्रकाशयन्तो विशेषेणैकादशोपाकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषुपौषधोपवासादौ साधूनप्रासुकेन्प्रतिलाभयन्ति, पाश्चात्ये चकाले संलिखितकायाः संस्तारकश्रमणभावंप्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानंकल्याणपरम्परया सुखविपाकमितिकृत्वाऽऽर्यमिति ।अयंविभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति। Page #369 -------------------------------------------------------------------------- ________________ ३६६ सूत्रकृताङ्गसूत्रम् २/२/-/६७१ उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेणसंक्षेपतो बिभणिषुराह-येयमविरतिः असंयमरूपा सम्यकत्वाभावान्मिथ्यादृष्टेव्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकविकलत्वात् इत्येवम् 'आधीयते व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायतेवा, तथा विरताविरतिंचाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति विरत्याश्रेयण बालपाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह-तस्थ ण' मित्यादि, 'तत्र पूर्वोक्तेषुस्थानेषुयेयं सर्वात्मना सर्वस्मात् 'अविरति' विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यतएवमत एतदनार्य स्थानं निःशूकतया यत्किञ्चनकारित्वाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः' सम्यक्त्वपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारत्वात् पापानुपादानरूपेति। एतदेवाह-तदेतत्स्थानम् अनारम्भस्थान-सावद्यानुष्ठानरहितत्वात्संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराधातं सर्वहियधर्मेभ्यइत्यार्यतथा सर्वदुःखप्रक्षीणमार्ग-अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधुरिति, साधुभूतानुष्ठानात्साधुरिति।तत्रच येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम्, एतदपिकथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुश्चेति। तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितःपक्षत्रयसमाश्रयणेन । साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयति मू. (६७२) एवमेव समणुगम्ममाणा इमेहिं चैव दोहि ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चैव उवसंते घेच अनुवसंते चेव, तत्थ गंजे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तित्रि तैवट्ठाई पावादुयसयाई भवंतीति मक्खायाई। तंजहा-किरियावाईणं अकिरियावाईणं अनाणियवाईणं वेणइयवाइणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि भोक्खमाहंसु तेऽवि लवंति, सावगा! तेऽवि लवंति सावइत्तारो। पृ. 'एवमेव संक्षेपेण सम्यगनुगम्यमाना व्याख्यायमानाःसम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति।तत्रच यदधर्मपाक्षिकंप्रथम स्थानं तत्रामुनित्रीणि त्रिषष्टयधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह 'तंजहे त्यादि, तद्यथेत्युपदर्शनार्थ क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं शीलं येषां ते क्रियावादिनः, ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां, तथा विनय एव परलोकसाधने प्रधान कारणं येषां ते तथा तेषामिति । अत्रच सर्वत्रषष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरंशतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तषष्टिनयिकानांद्वात्रिंशदिति।तत्रच सर्वेऽप्येते मौलास्तच्छिष्याश्च Page #370 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-२, ३६७ प्रवदनशीलत्वाआवादुकाः, तेषांच भेदसंख्यापरिज्ञानोपायआचार एवाभिहित इतिनेह प्रतन्यते ते सर्वेऽप्यार्हता इव परिनिर्वाणम्-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभावमनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्द- सुखस्वरूपमाहुः उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुप्नाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेनतुतदेव कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मानास्तिज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनभताया विच्छेदान्मोक्षभावाविरोधः, तेषांचोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवर्त्यभावे निर्वाणमिति, तथा चाहु:-“न तस्य किञ्चिद्भवति, न भवत्येव केवल मिति । एतच्च तेषां महामोहविजृम्भितं, यतः। ॥१॥ "कर्मचास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् । संसारमोक्षवादित्वमहो ध्यान्ध्यविजृम्भितम् ॥ इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकृतिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारैर्विमोचनंमोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपिन मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद्, इत्यभ्यह्याह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह-'तेऽपि तीर्थिका ‘लपन्ति'ब्रुवते, मोक्षप्रतिधर्मदेशनां विदधति,शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृह्णीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरितितद्वचनंमिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति। तदेवमादितीर्थकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि चतेषांप्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनोभवन्तीति?,अत्रोच्यते, यतस्तेऽप्यहिंसा प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथम्?, सांख्यानां तावज्ज्ञानादेव धर्मोनतेषामहिंसाप्राधान्येन व्यवस्थिता, किंतुपञ्च यमाइत्यादिको विशेष इति।तथा शाक्यानामपि दश कुशलाधर्मपथाअहिंसापितत्रोक्ता, नतुसैव गरीयसी धर्मसाधनत्वेन तैराश्रिता ।वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः तेषु चाभिषेचनादिषु पालोच्यमानेषु हिंसैव संपद्यते । वैदिकानां च हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात्, तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तंच-"ध्रुवः प्राणिवधो यज्ञे"। तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह मू. (६७३) तेसव्वे पावाउयाआदिकराधम्माणंनानापन्ना नानाछंदानानासीला नानादिट्ठी नानारुई नानारंभा नानाज्झवसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सव्वे एगओ चिट्ठति ।। पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपुग्नं अओमएणं संडासएणं गहाय सव्वे पावाउए आइगरे धम्माणं नानापन्ने जाव नानाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया! आइगरा धम्माणं नानापन्ना जाव नानाअज्झवसाणसंजुत्ता! इमं तावतुब्भे सागणियाणं इंगालाणं पाई बहुपडिपुत्रंगहाय मुहत्तयंमुहुत्तगंपाणिणाधरेह, नो बहुसंडासगंसंसारियंकुजा नो बहुअग्गिथंभणियं कुजा नो बहुसाहम्मियवेयावडियं कुजानोबहुपरम्मियवेयावडियंकुजा उज्जुया नियागपडिवन्ना Page #371 -------------------------------------------------------------------------- ________________ ३६८ सूत्रकृताङ्ग सूत्रम् २/२/-/६७३ अमायं कुब्बमाणा पाणि पसारेह इति वुच्चा से पुरिसे तेसिं पावादुयाणं तंसागणियाणं इंगालाणं पाइंबहुपडिपुत्रं अओमएणं संडासएणं गहाय पाणिंसु निसिरति, तए णं ते पावादुया आइगरा धम्माणं नानापन्ना जाव नानाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तए णं से पुरिसे ते सब्वे पावाउए आदिगरे धम्माणं जाव नानाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावादुया ! आइगरा धम्माणं नानापन्ना जाव नानाज्झवसाणसंजुत्ता! कम्हाणंतुब्भे पाणिं पडिसाहरह?, पाणिं नोडहिज्जा, दड्ढे किं भविस्सइ ?, दुक्खंदुक्खंति मन्त्रमाणा पडिसाहरह, एस तुला एसपमाणे एस समोसरणे, पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थ णंजे ते समणा माहणा एवमातिक्खंति जाव परूवेति -सव्वे पाणा जाव सव्वे सत्ता हंतव्वाअजावेयव्या परिघेतव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ते आगंतुछेयाए ते आगंतुभेयाए जाव ते आगंतुजाइजरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते बहूण दंडणाणंबहूणं मुंडणाणं तज्जपाणं तालणाणं अंदुबंधणाणं जाव दोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणंदारिदाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोम्मणस्साणं आभागिणो भविस्संति, अनादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकतारं भुजो भुजो अनुपरियट्टिसंति, ते नो सिझिस्संति नो बुझिस्संति जाव नो सबदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे। तत्थ णं जे ते समणा माहणा एवमाइक्खंति जाव परूवेति-सव्चे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्या न अजावेयव्वान परिधेतव्वा न उद्दवेयव्वा ते णो आगंतुछेयाए तेनो आगंतुभेयाएजाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभवपवंच-कलंकलीभागिणो भविस्संति, ते नो बहूणं दंडणाणं जाव नो बहूणं मुंडणाणं जाव बहूणं दुक्खदोम्मणस्साणं नो भागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं भुजो भुञ्जो नो अणुपरियट्टिस्संति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति। वृ. प्रवदनशीलाः प्रावादुकाः सर्वेऽपि ते' त्रिषष्टयुत्तरत्रिशतपरिमाणा अपि आदिकरा यथास्वं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिन्ना प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकराइत्यनेनेदमाह-स्वरुचिविरचितास्तेन त्वनादिप्रहायाताः, ननु चाहतानामपिआदित्वविशेषणमस्त्येव, सत्यमस्ति, किंतुअनादिर्हेतुपरम्परेत्यनादित्वमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानिबन्धनाभावः तदभावाच भिन्नं परिज्ञानम्, अत एव नानाछन्दाः, छन्दः-अभिप्रायः, भिन्नाभिप्राया इत्यः, तथाहि उत्पादव्ययघ्रौव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेवपदार्थं सत्यत्वेनाश्रित्य नित्यपक्षं समाश्रिताः, तथा शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सध्शापरापरोत्पत्तिविप्रलब्धानां भवतीत्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति।तथा नैयायिकवैशेषिकाः केषाञ्चिदाकाशपरमाण्वात्मादीनामेकान्तेन नित्यत्वमेव कार्यद्रव्याणांच घटपटादीनामेकान्तेना-नित्यत्वमेवाश्रिताः एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूह्या इति । तथा तेतीर्थिका नाना शीलं येषां Page #372 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३६९ ते तथा, शीलं-व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव । तथानाना द्दष्टि:-दर्शनं येषां तेतथा, तथा नाना रुचिर्येषां तेनानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं भवति-अहिंसाऽत्र प्रधानं धमङ्गि, साच तेषां नानाभिप्रायत्वादविकलत्वेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां चैवं व्यवस्थितानामेकःकश्चित्परुषस्तेषां संवित्त्यर्थज्वलतामहाराणां प्रतिपूर्णां पात्रीम्-अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीत्वा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः ! पूर्वोक्तविशेषणविशिष्टा इदमङ्गारभृतं भाजनमकैकं मुहूर्तं प्रत्येकं बिभृत यूयं, न चेदं संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो' मायामकुर्वाणाः पाणिप्रसारयत, तेऽपिचतथैव कुर्यु, ततोऽसौ पुरुषः तद्भाजनं पाणी समर्पयति, तेऽपिच दाहशङ्या हस्तं सङ्कोचयेयुरिति, ततोऽसौतानुवाचकिमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति। एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनाप किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवंसति सर्वेऽपिजन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् ‘आत्मतुलया' आत्मौपम्येन यथाममनाभिमतंदुःखमित्येवं सर्वजन्तूनामित्यवगम्याहिंसैद प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति' तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैवपरमार्थतो धर्म, इत्येवं व्यवस्थिते तत्रये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः ‘एवं वक्ष्यमाणमाचक्षतेपरेषामात्मदायोत्पादनायैवंभाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति व्यवस्थापयन्ति, तथा अनेनप्राण्युपतापकारिणाप्रकारेण परेषां धर्म प्ररूपयन्ति' व्याचक्षते। तद्यथा-'सर्वे प्राणा' इत्यादि, यावद्धन्तयव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादय- प्राणिनामुपतापकारिणी भाषां भाषन्ते आगामिनि कालेऽनेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानिबहूनि प्राप्नुवन्ति । योन्यां जन्मयोनिजन्मतदनेकशो गर्भव्युक्रान्तजावस्थायां प्राप्नुवन्ति, तथासंसारप्रपञ्चान्तर्गतास्तेजोवायुषूञ्चैौत्रोद्वलनेन कलङ्कलीभावभाजी भवन्ति बहुशो भविष्यन्तिच, तथा ते बहूनांदण्डादीनांशारीराणांदुःखानामात्मानं भाजन कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुखदौर्मनस्यानामामागिनो भविष्यन्तीति। किंबहुनोक्तेन?,उपसंहारव्याजेन गुरुतरमनर्थसंबन्धंदयितुमाह-'अणादियं इत्यादि, नास्यादिरस्तीत्यनादि-संसारः, तदनेनेदमुक्तं भवति-यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवदग्रं-पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, [2] 24 Page #373 -------------------------------------------------------------------------- ________________ ३७० सूत्रकृताङ्ग सूत्रम् २/२/-/६७३ तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्वं मिध्येति, 'दीर्घ' मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः समयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति । तदेवंभूतं भूयो भयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अतएवाह-यतस्तेप्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद्, एतदपि कथमिति चेदन्ततः औद्देशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ये कुप्रावचनिका नैव सेत्स्यन्ति नैवते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्तया भोत्स्यन्ते अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृति परिनिर्वाणं-आनन्दसुखावाप्तिस्तांतेनैव प्राप्स्यन्ते, अनेनापिसुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैतेशारीरमानसानांदुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपायातिशयाभावः प्रदर्शितो भवति । एषा तुला' तदेतदुपमानं यथा सावद्यानुष्ठानपरायणाःसावधभाषिणश्चकुप्रावचनिकानसिध्यन्त्येवंस्वयूथ्या अप्यौद्देशिकादिपरिभोगिनो न सिध्यन्तीति । तदेतप्रमाणं प्रत्यक्षानुमानादिकं, तथाहि-प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति,अनुमानादिकमप्यायोज्यं । तथा तदेतत्समवसरणम्आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति। येपुनर्विदितत्त्वाआत्मौपम्येन-आत्मतुलयासर्वजीवेष्यहिंसांकुर्वाणाएवमाचक्षते, तद्यथासर्वेऽपिजीवा दुःखद्विषः सुखलिप्सवस्तेनहन्तव्या इत्यादि।तदेवंपूर्वोक्तंदण्डनादिकंसप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति ।। भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन बिभणिषुराह मू. (६७४) इच्छेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा नो सिन्झिसु नो बुद्धिंसु नो मुन्निसुनो परिनिव्वाइंसुजाव नो सव्वदुक्खाणं अंतं करेंसु वा नो करेति वा नो करिस्संति वा एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिद्धिंसु बुद्धिंसु मुर्बिसु परिणिव्वाइंसु जाव सब्बदुक्खाणं अंतं करेंसु वा करंति वा करिस्संतिचा। एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे आयरखिए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेज्जासित्तिबेमि।। वृ.इत्येतेषुद्वादशसुक्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपःसमवतार्यते, अतएतेषुवर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते नच भोत्स्यन्ते, तथा न मुमुचुर्न मुञ्चन्ति नचमोक्ष्यन्ते, तथा ननिर्वृता न निर्वान्तिन व निर्वास्यन्ति, तथा नदुःखानामन्तं ययुर्नपुनर्यान्तिनच यास्यन्तीति।साम्प्रतंत्रयोदशं क्रियास्थानं धर्मपक्षाश्रितं दर्शयितुमाह-एतस्मिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीतियावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितं तदेवंसभिक्षुर्य पौण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मनाआत्मनो वाऽर्थः आत्मार्थःसविद्यते यस्य सतथा, यो ह्यन्यमपायेभ्योरक्षतिसआत्मातिमवानित्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयंत्वात्महित ऐहिकामुष्मिकापायभीरुत्वात्, तथाऽऽत्मा Page #374 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-२, ३७१ गुप्तो यस्य स तथा, एतदुक्तं भवति । स्वयमेवासीसंयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगीआत्मनोयोगः-कुशलमनःप्रवृत्तिरूप आत्मयोगःसयस्यास्तिस तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मापापेभ्योदुर्गतिगमनादिभ्योरक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनंविधत्तइति, तथाऽऽत्मानंसम्यग्दर्शनादिकेनानुष्ठानेनसंसारचारकान्निः सारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत्, यदिवोपदेशः-आत्मानं सर्वापायेभ्यः प्रतिसंह्रियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभाव्यत इति । इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नयाः पूर्ववद्व्याख्येयाः।। अध्ययनं-२ समाप्तम् मुनी दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता। (अध्ययन-३ "आहार परिज्ञा") वृ. द्वितीयाध्ययनान्तरं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविनासदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, सच मुमुक्षुणोद्देशकादिदोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन सम्बन्धेनाहारपरिज्ञाध्ययनमायातम्, अस्य चत्वार्यनुयोग-द्वाराण्युपक्रमादीनि भवन्ति तत्रेदमध्यनंपूर्वानुपूक्तृतीयपश्चानुपूर्व्यापञ्चममनानुपूर्व्या त्वनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन निरुप्यते।निक्षेपस्त्रिविधः-ओघादि, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनि. [१६९] नामंठवणादविए खेत्ते भावे यहोति बोद्धव्यो। एसो खलु आहारे निक्खेवो होइ पंचविहो । वृ. नामस्थानाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहरपदाश्रय इति, तत्र नामस्थापने अनात्य द्रव्याहारं प्रतिपादयितुमाहनि. [१७०] दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ।। वृ. द्रव्याहारे चिन्त्यमानेसचित्तादिराहारस्त्रिविधोभवति, तद्यथा-सचित्तोऽचित्तोमिश्रश्च, तत्रापि सचित्तःषश्विधः पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च योज्यः, नवरमग्निकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपत्वादिति । क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायतेवा, यदिवा नगरस्ययोदेशोधान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथामथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि। Page #375 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/३// ६७४ / नि. [१७० ] भावाहारस्त्वयं-क्षुधोदयाद्भक्ष्यपर्यायापन्नं वस्तु यदाहारयति स भावाहार इति । तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयत्वात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तम् राईभत्ते भावओ तित्ते वा जाव मधुरे" त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथास्वरविशदमभ्यवहार्यं भक्ष्यं, तत्रापि बाष्पाढ्य ओदनः प्रशस्वते न शीतः, उदकं तु शीतमेव, तथा चोक्तं" शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्यं द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं निर्युक्तुकृदाह- भावाहारस्त्रिविधः - त्रिपकारो भवति, आहारकस्य जन्तोस्त्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाह - नि. [१७१] सरीरेणोयाहारी तयाय फासेण लोमआहारो । पक्खेवाहारी पुण कावलिओ होइ नायव्वो । वृ ओए' त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां दाभ्यामप्याहारयति यावदपर मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम् - ॥१॥ "तेएण कम्मएणं आहारेइ अनंतरं जीवो । तेन परं मिस्सेणं जाव सरीरस्स निष्पत्ती ॥ ओयाहारा जीवा सव्वे अप्पजत्तगा मुणेयव्वा । पजत्तगा य लोमे पक्खेवे होइ नायव्वा ॥ नि. [१७२] वृ. तथा ओजाहारा जीवा सव्वे आहारगा अपजत्ता । लोभाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा, लोमभिराहारो लोमाहारः, तथा प्रक्षेपेण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिस्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्- "चउहिं ठाणेहिं आहारसन्ना समुप्पज्जइ, तंजा - ओमकोट्टयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ मईए ३ तयट्ठोवओगेणं ति साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणीदारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिच्याचक्षतेऔदारिकादिशरीरपर्याप्तयापर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स लोमाहार इति प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामिविशेषेण विशेषमाविर्भावयन्नाह-यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणा विग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तठप्रदेशस्थानात् पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोजाहार इति । पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्तयुत्तर काले लोभाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदैवेति, स च लोभाहारचक्षुष्मताम् अर्वाष्टिमतां न दृष्टिपथमवरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा देवकुरूत्तरकुरु प्रभवा अष्टमभक्ता हाराः, ३७२ Page #376 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं -३, ३७३ संख्येवर्षायुषामनियतकालीयः प्रक्षेपाहार इति।साम्प्रतंप्रक्षेपाहारस्वामिविभागेन दर्शयितुमाह नि. [१७३] एगिदियदेवाणं नेरइयाणंच नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाणजीवाणं ।। घृ. एकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः-पृथिवीकायादयस्तेषां देवनारकाणांच नास्ति प्रक्षेपः, ते हि पर्याप्तयुत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीतिकृत्वा लोमाहाराः, तत्र देवानां मनसा परिकल्पिताःशुभःपुद्गलाः सर्वेणैव कायेनपरिणमन्ति नारकाणांत्वशुभा इत,शेषास्त्वीदारिकशरीराद्वीन्द्रियायस्तिर्यङ्मनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानांकायस्थितेरेवाभावाप्रक्षेपमन्तरेण, कावलिक आहारो जिहेन्द्रयस्य सद्भावादिति, अन्ये त्वाचार्य अन्यथा व्याचक्षते-तत्र योजिलेन्द्रियेणस्थूलः शरीरेनक्षिप्यतेसप्रक्षेपाहारः, यस्तुध्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन प्रयाति स लोभाहार इति ।। साम्प्रतं कालविशेषमधिकृत्वाऽनाहारकानभिधित्सुराह-तत्र । ॥१॥ विग्गहगइमावन्ना केवलिणो समुहया अयोगी या। सिद्धाय अनाहार सेसा आहारगा जीवा ।। अस्या लेशतोऽयमर्थः उत्पत्तिकाले विग्रगती-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहरकाः, शेषास्तुजीवा आहारका इत्यवगन्तव्यं, तत्रभवाद्भवान्तरंयदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापिप्रथमसमये पूर्वशरीरस्थेनाहारितंद्वितीये त्ववक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुः समयोत्पत्तिश्चैवं भवति-त्रसनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशियदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वागमनं, तृतीयेनच बहिनिसरणं, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति । पञ्चसमया तुत्रसनाड्या बहिरेव विदिशो विदिस्त्पत्तौ लभ्यते तत्र चमध्यवर्तिषु अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमययोस्त्वाहारक इति।केवलिसमुदघातेऽपि कार्मणशरीरवर्तित्वात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन् मिश्रशरीरवर्तित्वादाहक इति । नि. [१७४] एवं च दो व समए तिनि व समए मुहुत्तमद्धं वा । सादीयमनिहणं पुन कालमनाहारगा जीवा ।। वृ. मुहुत्तमद्धं च ति अन्तर्मुहूर्तं गृह्यते, तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति हस्वपञ्चाक्षरोद्गिरणमात्रकालंयावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तुशैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति । नि. [१७५] एकं च दो व समए केवलिपरिवजिया अनाहारा । मंथंमि दोण्णि लोए य पूरिए तिन्नि समया उ ।। घृ. साम्प्रतमेतदेवस्वामि-विशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । ते च द्विविग्रहत्रिविग्रहोत्पत्ती त्रिचतुःसामयिकायां द्रष्टव्याः, Page #377 -------------------------------------------------------------------------- ________________ ३७४ सूत्रकृताङ्ग सूत्रम् २/३/-/६७४/ नि. [१७५] चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पस-त्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितम्"एकं द्वौ वाऽनाहारकः" वाशब्दात् त्रीन् वा, आनुपूर्व्या अप्युदय उत्कृष्टतो विग्रहगती चतुरः समयानागमेऽभिहितः, तेच पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति। भवस्थकेवलिनस्तु समुद्घाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाचतुर्थसमयेन सहितायः समया भवन्तीति। नि. [१७६] अंतोमुत्तमद्धं सेलेसीए भवे अनाहारा । __सादीयमनिहणं पुन सिद्धायऽनहारगा होति।। वृ. पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाहशैलेश्यवस्थाया आरम्भय सर्वदाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः,तथाहि-आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषांमध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहारंबहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तवेदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपिन तस्य तत्कृता पीडा, अनन्तवीर्यत्वात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति। -ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासी, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वान्नाहारग्रहणायकारणीभवति,प्राणवृत्तिस्तुतस्यानपवर्तित्वात् आयुषोऽनन्तवीर्यत्वाचान्यथा सिद्धैव,धर्मचिन्तावसरस्वपगतो निष्ठितार्थत्वात्, तदेवं केवलिनः कावलिकाहारो बह्नपायत्वान्न कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं 'घातिकर्मक्षयेकेवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्ति रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा हि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवति? प्रमाणं च-अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत्, सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्तिनिमित्तं तैजसशरीरं३दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे हत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपियदिघातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवनवेदनीयोद्भवायाःक्षुधः किमायातं? येनासौ न भवति, न तयोचायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वेसत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवापीडाच भवत्येव, नचाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति। यदप्युच्यते-वेदनीयस्योदीरणाया अभावाप्रभूततरपुद्गलोदयाभावस्तदभावाञ्चात्यन्तं वेदनीयपीडाऽभावइति वाङ्मात्रं, तथाहि अविरतसम्यग्दृष्टयादिष्वेकादशसुस्थानकेषुवेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषुप्राक्तनेभ्योऽधिकपीडासद्भाव इति, Page #378 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययन-३, ३७५ अपिच-यो जिने सातोदयस्तीव्रः किमसौ प्रचुरपुद्गलोदय नेति?, अतो यत्किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तर्मुहूर्तकालेन परिवर्तनत्वात् । यदपि क्वचित्कैश्चिदमिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्वान्न नो बाधायै, केवलिनां भुक्तेननिवारित्वात् । यदप्युच्यते-आहारविषयाकाङ्क्षारूपाक्षुद्भवति,अभिकाङ्क्षानचाहारपरिगरहबुद्धिः, साचमोहनीयविकारः, तस्य चापगतत्वाकेवलिनोनभुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात्, तथाहिकषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम् “उवसमेण हणे कोहं, माण मद्दवया जिणे। मायंचऽजवभावेण, लोभं संतुट्टिए जिणे॥ मिथ्यात्वसम्यक्त्वयोश्चपरस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्॥१॥ "काम ! जानामि ते मूलं, संकल्पास्किल जायसे । ततस्तं न करिष्यामि, ततो मे न भविष्यसि ।। हास्यादिषट्कमपि चेतोकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोमशीतोष्मादिवञ्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकस्वभावा क्षुदिति। तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते, यथा । ॥१॥ “अपवर्त्यतेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ? ॥ तदेतत् प्लवते, यतच्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति मुके ?, तत्र समस्तवीर्यान्तरायक्षयाभावान्मुक्तिसद्भावइतिचेत्, तदयुक्तं, यतः किं तत्रायुषोऽपवर्तनं स्यात् किंवा चतुर्णांज्ञानानां काचिद्वानिःस्याद्येन भुक्तिरिति, तस्माद्ययादीर्घकालस्थितेरायुष्कंकारणमेवमाहारोऽपि ।यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवंसम्यक्त्वादिकमपीति अनन्तवीर्यतापि तस्याहारग्रहणेसति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानिच भवन्त्येवमाहारक्रियापि, विरोधाभावात, नात्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवंस स्थिते यत्किञ्चिदेतत्।। ___अपिच-एकादशपरीषहावेदनीयकृता जिनेप्रादुष्यन्ति, अपरेतुएकादशज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमम्युपपत्ति केवलिनि मुक्ति साधयति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री चयनिषद्याशय्याऽऽक्रोशवधयाञ्चालाभरोगतृणस्पर्शमल सत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः तेषां च मध्ये ज्ञानावरणीयोत्यौप्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाञ्चासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित्कार्योपपत्ति, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात्, ते चामी Page #379 -------------------------------------------------------------------------- ________________ ३७६ सूत्रकृताङ्ग सूत्रम् २/३/-/६७४/ नि. [१७६] क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एतेच वेदनीयप्रभवाः, तब केवलिनि विद्यन्ते, नच निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडासंभाव्यते, केवलमसावनन्तवीर्यत्त्वान्न विह्वलीभवति, नचासौनिष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडान बाधते आहारमन्तरेण(च) वर्तते, यथा स्वभावेनैवप्रस्वेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतचाप्रमाणकत्वादपकर्णनीयम्। अपिच केवलोत्पत्तेः प्राग्भुक्तैरभ्युपगमारकेवलोत्पत्तावितदेवीदारिकंशरीरमाहाराद्युपसंस्कार्यम्, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्र एवेति। तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादीदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्तया परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति। वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत्किमर्थमसौन भुङ्कते?, नच धाति चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते। तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुदघातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां त्वन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं । नि. [१७७] जोएण कम्मएणं आहारेई अनंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्पत्ती॥ वृ. साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तद्दर्शयति-ज्योति-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकामणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशंगताजीवाःप्रथमाहारंकुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वायावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्ती त्वौदारिकेण वैक्रियेण वाऽऽहारयन्तीति स्थितम् ।। साम्प्रतं परिज्ञानिक्षेपार्थमाह - तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यपरिज्ञांप्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिक्षेतिद्रव्यस्यद्रव्येण वापरिज्ञा द्रव्यपरिज्ञा, साच परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन वैविध्यात्रिविधेति। भावपरिज्ञाऽपि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारःशस्त्रपरज्ञावद्रष्टव्यः ।गता निक्षेपनियुक्ति, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तञ्चेदम् मू. (६७५) सुयंमेआउसंतेणंभगदया एवमक्खायं इह खलुआहारपरिण्णाणा-मज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सव्वती सव्वावंति च णं लोगसि चत्तारि बीयकाया एवमाहिजंति। ___ तंजहा-अग्गबीया मलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतियासत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुक्कमातजोणियातस्संभवातदुवकमाकम्मोवगा कम्मनियाणेणं तत्थवुकमा नानाविहजोणियासु पुढवीसु पुढवीसु रुक्खत्ताए विउद्देति । Page #380 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं. ३, ३७७ तेजीवातेसिंनानाविहजोणियाणं पुढवीणं सिणेहमाहारेति, तेजीवा आहारेतिपुढवीसरीरं आउसरीरंतेउसरीरं वाउसरीरंवणस्सइसरीरं ।। नानाविहाण तसथावराणं पाणाणं सरीरंअचित्तं कुवंति परिविद्धत्थं तं सरीरं युवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं। अवरेऽवियणं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपुग्गलविउविता ते जीवा कम्मोववनगा भवंतित्तिमक्खायं। वृ. सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्वेदमाह-तद्यथा-श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातं, तद्यथा-आहारपरिज्ञेदमध्ययनं, तस्य चायमर्थः-प्राच्यादिषु दिक्षु सर्वत' इत्यूर्वाधो विदिक्षुच 'सव्वावंति'त्ति सर्वस्मिन्नपिलोके क्षेत्रे प्रज्ञापकभावदिगाधारभूतेऽस्मिन् लोके चत्वारो 'बीजकाया' बीजमेव कायो तेषां तेतथा, बीजं वक्ष्यमाणं, चत्वारो 'बीजप्रकाराः समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽ. ग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्तेयेषांकोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजाआर्द्रकादयः, पर्वबीजास्त्त्विवादयः, स्कन्धबीजाः सल्लक्यादयः । नागार्जुनीयास्तु पठन्ति-“वणस्सइकाइयाणं पंचविहा बीजवकंती एवमाहिजइ-तंजहाअग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया समुच्छिमा बीया जायते" यथा दग्धवनस्थलीषु नानाविधानि हरितान्युद्भवन्ति पद्मिन्यो वाऽभिनवतडागादाविति । तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजम्-उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवतिशाल्यकुरस्यशालिबीजमुत्पत्तिकारणम्, एवमन्यदपि द्रष्टव्यं । ___'यथावकाशेने ति यो यस्यावकाशः-यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगायथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च ‘इह' अस्मिन् जगत्येके केचनसत्त्वा येतथाविधकर्मोदयाद्वनस्पतित्पित्सवः, तेहि वनस्पतावुत्पद्यमानाअपिपृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यांसंभवः-सदा भवनंयेषांवनस्पतीनांतेतथा, इदमुक्तं भवति-नकेवलं ते तद्योनिकाः तत्स्थिकाश्चेति, तथा पृथिव्यां संभवः-सदाभवनं येषांवनस्पतीनां तेतथा, इदमुक्तं भवति-न केवलं ने तद्योनिकाःतस्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्प्राबल्येन क्रमः-क्रमणं येषां ते पृथिव्युक्रमाः। इदमुक्तं भवति-पृथिव्यामेव तेषामूर्ध्वक्रमणलक्षणा वृद्धिर्भवति, एवंचते तद्योनिकास्तसंभवास्तव्युक्रमा इत्येतदनुद्यापरं विधातुकाम आह-'कम्मोवगा' इत्यादि, ते हि तथाविधेन वनस्पति- कायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिषूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति, कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतिषूत्पधन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तंच॥१॥ “कुसुमपुरोप्ते बीजे मथुरायांनाङ्कुरः समुद्भवति । यत्रेव तस्य बीजं तत्रैवोत्पद्यते प्रसवः ।। तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा Page #381 -------------------------------------------------------------------------- ________________ ३७८ सूत्रकृताङ्ग सूत्रम् २/३/-/६७५ व्युक्रमाः समागताः सन्तो नानिविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरम्यादिगन्धमृदुककशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्तेते, ते च तत्रोत्पन्नास्तासां पृथिवीनां 'स्नेह स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति। ___एवमप्कायतेजोवायुवनस्पतीनामप्यायोज्यम्, अत्र पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा अण्डोद्भवाद्या जीवामातुरुष्मणा विवर्धमानागर्भस्थाएवोदरगतमाहारयन्तोनातीव पीडामुत्पा दयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसद्दशवर्णरसाधुपेतत्वात् बाधां विदध्यादपीति । __एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भस्मादिकं शरीरमाददति, एवं वाय्वादेरपीति द्रष्टव्यं, किंबहुनोक्तेन?, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरंततेसमुत्पद्यमानाः 'अचित्त'मिति स्वकायेनावष्टभ्यप्रासुकीकुर्वन्ति, यदिवापरिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्प्रासुकं किञ्चित्परितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां पृथिवीकायादीनां तच्छरीरं पूर्वमाहारित मिति तैरेवपृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्-स्वकायत्वेन परिणामितमासीत्तदधुनाऽपिवनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नोवा त्वचास्पर्शनाहारयति, आहार्य चस्वकायत्वेन विपरिणायमति, विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनितेषांपृथिवीयोनिकानांवृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतोवर्णोमूलस्य चान्याश इति, एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा ढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । ___ केषांचिच्छाक्यादीनां वनस्पत्याद्याः स्थावराजीवाएवनभवन्तीत्यतस्तत्प्रतिषेधार्थमाह'तेजीवा' इत्यादि, 'ते' वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणत्वान्जीवानां, तथाहितेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्भावादर्भकवत् जीवाःस्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येवमादयोहेतवोऽत्रद्रष्टव्याः, यदन कैश्चित्स्पष्टेऽपिवनस्पतीनां चैतन्येऽसिद्धानैकान्तिकत्वादिकमुक्तं स्वदर्शनानुरागात् तदपकर्णनीयं, नहि सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानैकान्तिकोपन्यासेन व्यामोह्यते, सर्वस्य कथञ्चिदभ्युपगतत्वाप्रतिषिद्धत्वाच्चेति। ते च जीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदम्-एकेन्द्रियजातिस्थावरनाम व नस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्ना इत्युच्यन्ते न पुनः कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति। एवं तावत्पृथिवीयोनिका वृक्षा अभिहिताः। मू. (६७६) अहावरं पुरक्खायं इहेगतिया सत्तारुक्खजोणिया रुखसंभवा रुक्खवुकमा तञ्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिं रुक्खेहिं Page #382 -------------------------------------------------------------------------- ________________ · श्रुतस्कन्धः - २, अध्ययनं - ३, रुक्खत्ताए विउट्टंति । ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेति । ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिवद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विष्परिणामियं सारूविकडं संतं अवरेवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपुग्गलविउब्विया ते जीवा कम्मोववन्नगा भवतीतिमक्खायं ३७९ वृ. साम्प्रतं तद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतद्दर्शयितुमाह-सुधर्मस्वामी शिष्योद्देशेनेदमाह- अथापरमेतदाख्यातं पुरा तीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं, तद्यथा- 'इह' अस्मिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः' प्राणिनो वृक्षा एव योनि- उत्पत्तिस्थानमाश्रयो येषां ते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषु वृक्षेष्वभिहितं तदेतेष्वपि वृक्षयोनिकेषु वनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति मू. (६७७) अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु रुक्खत्ताए विउट्टंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति । ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संत अवरेऽवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नानावन्ना जावते जीवा कम्मोववन्नगा भवतीतिमवखायं । मू. (६७८) अहावरं पुरक्खायं इ हेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुक्क मा कम्मोवगा कम्पनियाणेणं तत्यवुक्कमा रुक्खजोगिएसु रुक्खेसु मूलत्ताए कंदत्ताए बंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुष्फत्ताए फलत्ताए बीयत्ताए विउट्टंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति । ते जीवा आहारेति पुढवीसरीरं आउतेउवाउ वणस्सइ० नानाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं जाव सारुविकडं संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नानावण्णा नानागंधा जाव नानावहसरीरपुग्गलविउव्विया ते जीवा कम्मोववन्नगा भवतीतिमक्खायं । वृ. साम्प्रतं वनस्पत्यवयवानधिकृत्याऽऽह-अथापरमेतदाख्यातं तद्दर्शयति- 'इह' अस्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति तदवयवाश्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तस्य चापरे तदवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषु स्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति, शेषं पूर्ववत् । इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, तद्यथा-वनस्पतयः पृथिव्याश्रिता भवन्तीत्येकं १, तच्छरीरं अष्कायादिशरीरं वाऽऽहारयन्तीति द्वितीयं २, तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृत्वाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीयौनिकानां वनस्पतीनां शरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थं ४ । Page #383 -------------------------------------------------------------------------- ________________ ३८० सूत्रकृताङ्ग सूत्रम् २/३/-/६७८ एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् । मू. (६७९)अहावरं पुरक्खायंइहेगतियासत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तजोणियातस्संभवा तदुवकमा कम्मोववनगा कम्मनियाणेणंतत्यवुकमारुखजोणिएहिं रुक्खेहिं अज्झारोहत्ताए विउद्घति, ते जीवा तेसिं रुस्खजोणियाणं रुक्खाणं सिणेहमाहारेति । तेजीवाआहारेति पुढवीसरीरंजाव सारूविकडंसंतं, अवरेवियणंतेसिं रुक्खजोणियाणं अन्झारुहाणं सरीरा नानावना जावमक्खायं । वृ.साम्प्रतंवृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽऽख्यातंयद्वक्ष्यमाणमिल्के सत्वावृक्षयोनिका भवन्ति, तत्रय तेपृथिवीयोनिका वृक्षास्तेष्वेवप्रतिप्रदेशतयायेऽपरेसमुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्मकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषुचवृक्षयोनिकेषु वृक्षेषुकर्मोपादाननिष्पादितेषुउपर्युरिअध्यारोहन्तीत्यध्यारुहाः-वृक्षोपरिजातावृक्षा इत्यभिधीयन्ते, तेच वल्लीवृक्षाभिधानाः कामवृक्षाभिधाना वाद्रष्टव्याः, तदभावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चत्वारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, तेच तत्रोत्पत्राः स्वयोनिभूतं वनस्पतिशरीरमाहारयन्ति, तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसात्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथम सूत्रम्, । मू. (६८०) अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जावकम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसुअज्झारोहेसुअज्झारोहताए विउद्घति, तेजीवा तेसिं रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेति। ते जीवा पुढवीसरीरं भाव सारूविकडं संतं, अवरेवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावना जावमक्खायं। वृ. द्वितीयं त्विदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्नाअध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम्। मू. (६८१) अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहत्ताए विउद॒ति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति। Page #384 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः-२, अध्ययन-३, ____ ३८१ तेजीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽविय णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावना जावमक्खायं । वृ.तृतीयंत्विदम्-अथापरंपुराख्यातं, तद्यथा-इहैके सत्त्वाअध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयोनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरेअध्यारुहजीवा आहारयन्त, तृतीये त्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः । मू. (६८२) अहावरं पुरस्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्पनियाणेणंतत्थयुक्कमा अज्झारोहजोणिएसुअज्झारोहेसुमूलत्ताएजावबीयत्ताए विउदंति तेजीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति जाव अवरेऽवि यणं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा नानावना जावमक्खायं । वृ. इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति। मू. (६८३) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव नानाविहजोणियासु पुढवीसुतणत्ताए विउति । ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्खायं ।। वृ.साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्पतिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति । मू. (६८४) एवं पुढविजोणिएसुतणेसुतणत्ताए विउदंति जावमक्खायं। वृ. द्वितीयं तु पृथवीयोनिकेषु तृणेषूत्पद्यन्ते तृणशरीरं चाहारयन्तीति । म. (६८५) एवंतणजोणिएसुतणेसुतणत्ताए विउद्घति, तणजोणियंतणसरीरंच आहारेति जावमक्खाया एवं तणजोणिएसुतणेसुमूलत्ताए जावबीयत्ताए विउद्देति तेजीवाजावएवमक्खायं एवं ओसहीणवि चत्तारिआलावगा। एवं हरियाणवि चत्तारि आलावगा। घृ.तृतीयं तु तृणयोनिकेषु तृणेषुत्पद्यन्ते तृणयौनिकतृणशरीरं चाहारयन्तीति । चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषूत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति। एवमौषध्याश्रयाश्चत्वार आलापका भणनीयाः, नवरमोषधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चत्वार आलापका भणनीयाः । मू.(६८६) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणंतत्थवुकमा नानाविहजोणियासु पुढवीसुआयत्ताए वायत्ताएकायत्ताएकूहणत्ताए कंदुकत्ताए उब्वेहनियत्ताए निव्वेहनियत्ताए सछत्ताएछत्तगत्ताएवासाणियत्ताए कूरत्ताए विउति, Page #385 -------------------------------------------------------------------------- ________________ ३८२ सूत्रकृताङ्ग सूत्रम् २/३/-/६८६ ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति, तेवि जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा नानावण्णा जावमकूखायं, एगो चेव आलावगी सेसा तिन्निनत्थि । अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोगिया उदगसंभवा जाव कम्पनियाणेणं तत्थुवुक्कमा नानाविहजोणिएसु उदएसु रुक्खत्ताए विउट्टंति, ते जीवा तेसिं नानाविहजीणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा नानावण्णा जावमक्खायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुहाणवि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्केके । अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्यवुक्कमा नानाविहजोणिएसु उदएसु उदगत्ताए अबगत्ताए पणगत्ताए सेवालत्ताए कलंबुगत्ताए हडत्ता कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिनत्ताए सुभगत्ताए सोगंधियत्ताए पोडरियमहापोडरियत्ताए सयपत्तत्ताए सहस्सपत्तत्ताए एवं कल्हारकोंकणयत्ताए अरविंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिभगत्ताए विउट्टंति, ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलच्छिभगाणं सरीरा नानावण्णा जावमक्खायं । एगो चेव आलावगो। वृ. कुहणेषु त्वेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः । इहचामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः । इह च स्थावरणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक् प्रदर्शितं चैतन्यम्, साम्प्रतमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाहअथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा- इहैके सत्त्वास्तथाविधकर्मोदयादुदकं योनिः उत्पत्तिस्थानं येषां ते तथा तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षत्वेन व्युत्क्रामन्ति- उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीरम् उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेषं पूर्ववत् नेयं । यथा पृथिवीयोनिकानां वृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं तदुत्पन्नानां त्वपरविकल्पाभावादेक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्प- स्याभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति । मू. (६८७) अहावरं पुरखायं इहेगतिया सत्ता तेसिं चैव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्झारोहेहिं अज्झारोहजोणिएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मूलेहिं जाव बीएहिं पुढविजोणिएहिं तणेहिं तणजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहिवि तिन्नि आलावगा Page #386 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २,अध्ययन-३, ३८३ एवं हरिएहिवि तिनि आलावगा। पुढविजोणिएहिविआएहिं काएहिं जाव कूरेहिं उदगजोणिएहिं रुक्खेहि रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जावबीएहिं एवं अज्झारुहेहिवितिन्नितणेहिपितिनिआलावगा, ओसहीहिंपि तिन्नि, हरिएहिपितिन्नि, उदगजोणिहएहिं उदएहि अवएहिं जावपुक्खलच्छिभएहिं तसपाणत्ताए विउति। ते जीवा तेसिं पुढवीजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झारुहाणं तणाणं ओसहीणं मूलाणं जाव बीयाणं आयाणं कायाणंजाव कुरवाणं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेति। तेजीवाआहारेति युढवीसरीरंजाव संतं, अवरेऽवियणंतेसिंरक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदयजोणियाणं अवगजोणियाणं जाव पुक्खलच्छभगजोणियाणं तसपाणाणं सरीरा नानावण्णा जावमक्खायं वृ. साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह - तद्यथापृथिवीयोनिकैर्वृक्षवृक्षयोनिकैर्वृक्षैस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यरुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाध्यारुहयोनिकैर्मूलादिभिरिति । एवमन्येऽपितृणादयो द्रष्टव्याः । एवमुदकयोनिकेष्वपि वृक्षेषु योजनीयं। तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिधृक्षुराह-'तेजीवा' इत्यादि, ते वनस्पतिषूत्पन्नाजीवाः पृथिवीयोनिकानांतथोदकवृक्षाध्यारुहतृणौषधिहरितयोनिकानांवृक्षाणां यावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथात्रसानांप्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति। तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चत्वार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतंत्रसकायस्यावसरः, सचनारकतिर्यमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्याः-(तथाहि) दुष्कृतकर्मफल भुजः केचन सन्तीत्येवं ते ग्राह्याः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिवर्तित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमानगम्या एव, तेषामप्याहारः शुभ एकान्तेनौजोनिविर्तितो न प्रक्षेपकृत इति, सचाभोगनिवर्तितोऽनाभोगकृतश्च, तत्रानाभोगकृतःप्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्ष सहनिष्पादित इति। शेषास्तु तिर्यङ्गनुष्याः, तेषां च मध्ये मनुष्याणामभ्यर्हितत्वात्तानेव प्राग्दर्शयितुमाह मू. (६८८) अहावरं पुरक्खायं नानाविहाणं मणुस्साणं तंजहा-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलखुयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एस्थ णं मेहुणवत्तियाए नामं संजोगे समुप्पञ्जइ, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउद्देति । तेजीवामाओउयंपिउसुक्कं तंतदुभयंसंसद्वंकलुसंकिब्बिसंतपढमत्ताएआहारमाहारेति, ___ Page #387 -------------------------------------------------------------------------- ________________ ३८४ सूत्रकृताङ्ग सूत्रम् २/३/-/६८८ ततो पच्छा जं से माया नानाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, आनुपुवेण वुड्ढा पिलपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेति, आनुपुब्वेणं वुड्ढा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा नानावण्णा भवतीतिमक्खायं । वृ. अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणन्तीया समाख्यातं, तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां 'यथाबीजेने 'ति यद्यस्य बीजं, तत्र स्त्रियाः सम्बन्धि शोणितं पुरुषस्य शुक्रं एतदुभय-मप्यविध्वस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा 'यथावकाशेने 'ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षि पुरुषस्यो भयाश्रितः षण्ढ इति । अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिर्वर्तितायां योनी 'मैथुनप्रत्ययिको' रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते । तेच प्रथममुभयोरपि स्नेहमाचिन्वन्त्विध्वस्तायां योनी सत्यामिति, विध्वस्यते तु योनिः पञ्चपञ्चाशिका नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्ध्वं ध्वंसमुपगच्छत इति । तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुन्पुंसकभावेन 'विउर्वृति' त्ति वर्तन्ते समुत्पद्यन्त इतियावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रविथः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते- 'सत्ताहं कललं होइ, सत्ताहं होइ बुब्बुयं' इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्व्येणाहारयन्ति 'यथाक्रमम्' वृद्धिमुपागताः सन्तो 'गर्भपरिपाकं' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति । ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्यपरे केचन पुंभावं नपुंसकभावं च इदमुक्तं भवति स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिर्वर्तितो भवति, न पुनर्यो याहि भवे सोऽमुष्मिन्नपिताध्गेवेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभि-लाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्व्येण च वृद्धास्तदुत्तरकालं नवनीत - दध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृङ्गांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधा Page #388 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-३, ३८५ रभूतानि नानावानि शरीराण्याहारयन्तीत्येवमाख्यातमिति । एवंतावद्गर्भव्युक्रान्तिजमनुष्याःप्रतिपादिताः, तदनन्तरंसंमूर्छनजानामवसरः,तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह मू. (६८९) अहावरं पुरक्खायं नानाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिससस्स य कम्मकडातहेव जावततो एगदेसेणं ओयमाहारेति, आनुपुव्वेणं वुड्ढा पलिपागमनुपपन्ना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उभिजमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहाते आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवियणं तेसिं नानाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीरा नानावण्णा जावमक्खायं । अहावर पुरक्खायं नानाविहाणं चउप्पयथलयरपंचिदियतिरिक्खजोणियाणं, तंजहाएगखुराणं दुखुराणं गंडीपदाणं सणफयाणं, तेसिंचणंअहाबीएणं अहावगासेणं इस्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए नाम संजोगे समुप्पजइ, ते दुहओ सिणेहं संचिणंति, तत्य णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउद्देति, ते जीवा माओउयं पिउसुक्कं एवं जहा मनुस्साणं इत्थिंपि वेगयाजणयंतिपुरिसंपिनपुंसर्गपि, तेजीवाडहरा समाणामाउक्खीरं सपिंआहारेति आणुपुव्वेणं बुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽविय णं तेसिं नानाविहाणं चउप्पयथलयरपंचेदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नानावण्णा जावमक्खायं। ___ अहावरंपुरक्खायं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहाअहीणं अयगराणं आसालियाणं महोरगाणं, तेसिंचणंअहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणतं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उभिजमाणे इत्यिं वेगइया जणयंतिपुरिसंपिनपुंसगंपि, तेजीवाडहरा समाणा वाउकायमाहारेति आनुपुब्वेणंवुड्ढा वणस्सइकायंतसथावरपाणे, तेजीवा आहारैति पुढविसरीरंजावसंत, अवरेऽवि यणं तेसिं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा नानावण्णा नानागंधा जावमक्खायं। अहावरंपुरक्खायंनानाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहागोहाणं नउलाणं सिहणं सरडाणं सप्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं बिरालियाणंजोहाणं चउप्पाइयाणं, तेसिं चणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स यजहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडंसंतं, अवरेऽवियणं तेसिं नानाविहाणं भयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं । अहावरंपुरक्खायनानाविहाणंजलचरपंचिंदियतिरिक्खजोणियाणं, तंजहाचम्मपक्खीणं लोमपक्खीणं समुग्णपक्खीणं विततपक्खीणं तेसिंचणं अहाबीएणं अहावगासेणं इत्यीए जहा 225 Page #389 -------------------------------------------------------------------------- ________________ ३८६ सूत्रकृताङ्ग सूत्रम् २/३/-१६८९ उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगातसिणेहमाहारेति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवियणं तेसिं नानाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं। घृ. अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानांसंबन्धिनः कांश्चित्स्वनामग्राहमाह, तद्यथा-मच्छांजावसुंसुमाराण'मित्यादि, तेषां मत्स्यकचछपमकरग्राहसुसुमारादीनां यथाबीजेन-यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्यच स्वकर्मनिर्वर्तितायांयोनावुत्पद्यन्ते ते च तत्राभिव्यक्ता मातुराहारेणेवृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, तेचजीवा जलचरा गर्भावयुक्रान्ताः सन्तस्तदनन्तरं यावद् ‘डहर'त्ति लधवस्तावदप्स्नेहम् अपकायमेवाहारयन्ति आनुप्व्येण च वृद्धाः सन्तो वनस्पतिकायं तथाऽपरांश्च त्रसान् स्थावरांचाहारयन्ति यावत्पञ्चेद्रियानप्याहारयन्ति, तथा चोक्तम् । ॥१॥ "अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः। तिमिनिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति राघवः ।। तथातेजीवाः पृथिवशरीरं-कर्दमस्वरूपंक्रमेणवृद्धिमुपगताःसन्तआहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगम, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् साम्प्रतं स्थलचरानुद्दिश्याह-'अहावर मित्यादि, अथापरमेतदाख्यातं नानाविधानं चतुष्पदानां, तद्यथा-एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां-गोमहिष्यादीनांतथागण्डीपदानां-हस्तिगण्डकादीनांतथा सनखपदानां-सिंहव्याघ्रादीनांयथाबीजेन यथावकाशेन सकलपर्याप्तिमवाप्योत्पधन्ते ते चोत्पन्नाः सन्तस्तदनन्तरंमातुः स्तन्यमाहारयन्तीति, क्रमेणच वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपंगता भवन्तीति। साम्प्रतमुर परिसानुद्दिश्याह-'नानाविधानां बहुप्रकाराणामुरसायेप्रसर्पन्ति तेषां, तद्यथाअहीनामजगराणामाशालिकानां महोरगाणां यथाबीजत्वेन यथावकासेन चोत्पत्याऽण्डजत्वेन पोतजत्वेनवाग निर्गच्छन्तीति।तेच निर्गता मातुरूष्माणवायुंचाहारयन्ति, तेषांच जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं, यावदाख्यातमिति ।। साम्प्रतं भुजपरिसपानुद्दिश्याह-नानाविधानांमुजाभ्यां ये परिसर्पन्तितेषां, तद्यथा-गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेनचोत्पत्तिर्भवति,तेचाण्डजत्वेनपोतजत्वेन चोत्पन्नास्तदनन्तरंमातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगम, यावदाख्यातिमिति। साम्प्रतं खेचरानुद्दिश्याह-नानाविधानांखेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणांचर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्रपक्षिविततपक्षिणांचाहीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा - सा पक्षिणी तदण्डकं स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदूष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चच्चादिकानवयवान् परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत । व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यश्चश्च, तेषां चाहारो द्वेधा-आभोगनिवर्तितोऽना Page #390 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ३, ३८७ भोगनिर्वर्तितश्च, तत्रानाभोगनिवर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु यथास्वं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह मू. (६९०) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणंतत्थवुक्कमा नानाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउट्टंति ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अनुसूयगाणं सरीरा नानावण्णा जावमक्खायं । एवं दुरूवसंभवत्ताए ॥ एवं खुरदुगत्ताए । वृ. अथानन्तरमेतदाख्यातं 'इह' अस्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः' प्राणिनो नानाविधयोनिकाः कर्मनिदानेन स्वकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने ‘उपक्रम्य’ आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा 'अनुसूयत्ताए 'ति अपरशरीराश्रिततया परनिश्रया विवर्तन्ते समुत्पद्यन्ते इतियावत्, ते च जीवा विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते, तथा तत्परिभुज्यमानेषु मञ्चकादिष्वचित्तेषु मत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु मनुष्यादिशरीरकेषु विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरे तु सचित्ते तेजः कायादौ मूषिकादित्वेनोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावूष्मणा संस्वेदजा जायन्ते, तथोदके पूतरकाडोल्लुणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते । तदेवं ते जीवास्तानि स्वयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति । साम्प्रतं पञ्चेन्द्रियमूत्रपुरीषोद्भावनसुमतः प्रतिपादयितुमाह-'एव' मिति पूर्वोक्तपरामर्शः, यथा सचित्ताचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मूत्रपुरीषवान्तादिषु अपरे जन्तवो दुष्टं विरूपं रूपं येषां कृम्यादीनां ते दुरूपास्तत्संभवत्वेन तद्भावेनोत्पद्यन्ते, ते च तत्र विष्ठादौ देहान्निर्गतेऽनिर्गते वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयन्ति, शेषं प्राग्वत् । साम्प्रतं सचित्तशरीराश्रयान् जन्तून् प्रतिपादयितुमाह- 'एव' मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यक्शरीरेषु 'खुरदुगत्ताए' ति चर्मकीटतया समुत्पद्यन्ते, इदमुक्तं भवति जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः प्राणिनः संमूच्छर्यन्ते, तेच तन्मांसचर्मणी भक्षयन्ति, भक्षयन्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटकाः संमूच्छर्यन्ते, ते च तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति । साम्प्रतमप्कायं प्रतिपिपादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह- मू. (६९१) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्पनियाणेणं तत्यवुक्कमा नानाविहाणं तस्थावराणां पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं Page #391 -------------------------------------------------------------------------- ________________ ३८८ सूत्रकृताङ्ग सूत्रम् २/३/-/६९१ वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उड्ढवाएसु उड्ढभागी भवति अहेवाएसु अहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं नानाविहाणं तसथावराणं पागाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि यणं तेसिं तस्थावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा नानावण्णा जावमक्खायं । अहावरं पुरखायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्पनियाणेणं तत्थवुक्कमा तसथावरजोगिएस उदएस उदगत्ताए विउट्टंति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा नानावण्णा जावमक्खायं । अहावरं पुरखायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्क मा उदगजोगिएसु उदसु उदगत्ताए विउट्टंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढबिसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणनवन्ना जावमक्खायं । अहावरं पुरखायं इहेतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उदगजोणिएसु उदएसु तसपाणत्ताए विउट्टंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नानावण्णा जावमक्खायं । बृ. अथानन्तरेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिन् जगत्येके सत्त्वास्तथाविधकमोंदयाद् नानाविधयोनिकाः सन्तो यावत्कर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽ पूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां 'त्रसानां' दर्दुरप्रभृतीनां 'स्थावराणां च' हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादपकायस्य वायुनोपादानकारणभूते सम्यक् 'संसिद्धं' निष्पादितं तथा वातेनैव सम्यग् गृहीतमनकपटलान्तर्निर्वृत्तं तथा वातेनान्योऽन्यानुगतत्वात्परिगतं तथोर्ध्वगतेषु वातेषूर्ध्वभागी भवत्यप्कायो, गगनगतवातवशाद्दिवि संमूर्च्छते जलं, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अप्कायः, एवं तिर्यग्गतेषु वातेषु तिर्यगभागी भवत्यपूकायः । इदमुक्तं भवति-वातयोनिकत्वादप्कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तद्यथा- 'ओस' ति अवश्यायः 'हिमये 'ति शिशिरादौ वातेरिता हिमकणा महिकाः- धूमिकाः करकाः-प्रतीताः 'हरितणुय'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं प्रतीतमिति । 'इह' अस्मिन्नुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रस्थावराणां स्वोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेषं सुगमं यावदेतदाख्यातमिति । तदेवं वातयोनिकमप्कायं प्रदर्श्याधुनाप्कायसंभवमेवाप्कायं दर्शयितुमाहअथापरमाख्यातं 'इह' अस्मिन् जगति उदकाधिकारे वा एके सतत्त्वास्तथाविधकर्मौदया Page #392 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-३, ३८९ द्वातवशोत्पनत्रसस्थावरशरीराधारमुदकं योनि-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषांत्रसस्थावरयोनिकानामुदकानांस्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्याहारयन्ति, तन्त्र पृथिव्यादिशरीरमाहारितं सत्सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम्। तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कार्य दर्शयितुमाह-अथापरमेतदाख्यातं 'इह अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुपद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामासाधारभूतानां शरीरमाहारयन्ति, शेषं सुगम यावदाख्यातमिति ।। साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान्दयितुमाह-अथापरमेतदाख्यातमिहैके सत्त्वा उदकेषुउदकयोनिषुचोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते समुत्पद्यन्ते, तेचोत्पद्यमानाःसमुत्पन्नाचतेषाम् उदकयोनिकानामुदकानांस्नेहमाहारयन्ति, शेषं सुगम यावदाख्यातमिति । साम्प्रतं तेजःकायमुद्दिश्याह मू. (६९२) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा नानाविहाणं तसथावराणं पाणाणंसरीरेसुसचित्तेसुवाअचित्तेसुवाअगनिकायत्ताए विउद्धृति, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहाति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽविय णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा नानावण्णा जावमक्खायं, सेसा तिनि आलावगा जहा उदगाणं । अहावरंपुरक्खायंइहेगतिया सत्ता नानाविहजोणियाणंजावकम्मनियाणेणंतत्थवुकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा बाउकायत्ताए विउद्घति, जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा। वृ.अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन सत्त्वाः' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानांत्रसस्थावराणां प्राणिनांशरीरेषु सचित्तेष्वचितेषु चाग्नित्वेन विवर्तन्ते प्रादुर्भवन्ति, तथाहि पञ्चेन्द्रियतिरश्चांदन्तिमहिषादीनां परस्परंयुद्धावसरे विषाणसंघर्षे सति अग्निरुत्तिष्ठते, एवमचितेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेष सुगमंयावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति। ___ साम्प्रतंवायुकायमुद्दिश्याह-अहावर मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् । साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह मू. (६९३) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं Page #393 -------------------------------------------------------------------------- ________________ ३९० सूत्रकृताङ्ग सूत्रम् २/३/१६९३ तत्यवुकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्ते सु वा पुढवित्ताए सकारत्ताए वालुयत्ताए इमाओ गाहाओ अनुगंतव्वाओ। मू. (६९४) पुढवी य सक्करा वालुया य उवले सिला य लोणूसे। अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥ मू. (६९५) हरियाले हिंगलुए मनोसिला सासगंजणपवाले। अब्भपडलब्भवालय बायरकाए मणिविहाणा।। मू. (६९६) गोमेजए यरुयए अंके फलिहे यलोहियखे य। मरगयमसारगल्ले भुयमोयग इंदनीले य॥ मू. (६९७) चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धब्बे। चंदप्पभवेरुलिए जलकंते सूरकंते य ।। मू. (६९८)एयाओ एएसुभाणियवाओ गाहाओजाव सूरकंतताए विउति, तेजीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारॅति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा नानावण्णा जावमक्खायं, सैसा तिन्नि आलावगा जहा उदगाणं। वृ. अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणांशरीरेषु सचित्तेषु अचित्तेषुवा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा-सर्पशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपिशुक्त्यादिषु मौक्तिकानि व्यावरेष्वपि वेण्वादिषु तान्येवेति, एवमचित्तेषूषरादिषु लवणभावनोत्पद्यन्ते। तदेवं पृथिवीकायिका नानाविधासुपृथिवीषुशर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरलभावेन च बादरमणिविधानतया समुत्पद्यन्ते । शेषं सुगम यावच्चात्वारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो बिभणिषुराह मू. (६९९) अहावरं पुरक्खायं सव्वे पाणा सव्ये भूता सब्वे जीवा सव्वे सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवुकमा सरीरजोणिया सरीरसंभवा सरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चैव विपरियासमवेति ।। से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए-तिबेमि ॥ वृ.अथापरमेतदाख्यातं, तद्यथा-सर्वे 'प्राणाः' प्राणिनोऽत्रच प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तेच नानाविधयोनिका नानविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तदद्वारयाततत्कर्मवशगा नारकतिर्यङनरामरगतिषु जघन्यमध्यमोत्कृष्टिस्थितयो भवन्ति, अनेनेदमुक्तं भवति-यो यागिह भवे स तागेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं-दुःखमुपगच्छतीति॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयाऽऽदितःप्रभृत्युक्तं, तद्यथा-योयत्रोत्पद्यते Page #394 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ३, सतच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चमिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छ्वासं तावद्यतेत सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति । इति परिसमाप्तयर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्यः । अध्ययनं ३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीय अध्ययनटीका परिसमाप्ता । अध्ययनं-४- "प्रत्याख्यान क्रिया" वृ. तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थं शुद्धेतराहारविवेकार्थमाहरपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-इह कर्मोपादान भूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यति इति । साम्प्रतं निक्षेपः, तत्राप्योधनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं नियुक्तिकृदाहनि. [ १७९] नामंठवणादविए अइच्छ पडिसेहए य भावे य । एसी पच्चक्खाणस्स छव्विहो होइ निक्खेवो ॥ ३९१ घृ. नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं षोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातुमिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्या- नमदित्साप्रत्याख्यानं सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽ- दित्साप्रत्याख्यानं, तथा प्रतिषेधप्रत्याख्यानमिदं । तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा - अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानैनाधिकार इति दर्शयितुमाहमूलगुणेसु य पगयं पञ्चक्खाणे इहं अधीगारो । होहु तप्पइया अप्पचक्खाणकिरिया उ ।। नि. [१८० ] Page #395 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/४/-1६९९/नि. [१८०] वृ. मूलगुणाः-प्राणातिपातविरमणादयस्तेषुप्रकृतम्-अधिकारःप्राणातिपातादेःप्रत्याख्यानं कर्तव्यमितियावत् 'इह' प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानंन क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितयातनत्ययिका-तनिमित्ता भवेद्-उत्पधेत अप्रत्याख्यानक्रिया-सावधानुष्ठानक्रिया तव्यत्ययिकश्च कर्मबन्धः तन्निमित्तश्च संसार इत्यतःप्रत्याख्यानक्रियामुमुक्षुणा विधेयेति।गतोनामनिष्पन्नोनिक्षेपः,अधुना सूत्रानुगमे - स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (७००) सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे, तस्स णं अयमढे पन्नत्ते-आया अपच्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्के यावि भवति आया अप्पडिहयअपञ्चक्खायपावकम्मे याविभवति, एसखलु भगवता अक्खाए असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमविन पस्सति, पावे यस कम्मे कञ्जइ। वृ.अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम्-'आहारगुप्तः समितः सहितः सदायतेते'तिएतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशापरम्परसूत्रैरपि संबन्धोऽभ्युह्यः, 'इह' अस्मिन्प्रवचने सूत्रकृताङ्गेवा 'स्वल्वि'ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो वक्ष्यमाणलक्षणः, अततीत्यात्मा जीवः प्राणी, सचानादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थ, तथाहि-साङ्खयानामप्रच्युतानुत्पन्न स्थिरैकस्वभाव आत्मा, सचतृणकुब्जी-करणेऽप्यसमर्थतयाऽकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्म- नोऽभावात् ज्ञानस्य च क्षणिकतयास्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापिप्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशलः क्रियाकुशलस्त-प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् - प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितत्वाद्वालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः, यथा हिद्रव्यसुप्तःशब्दादी विषयानून जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूतएव भवतीति, एवमविचारणीयानिअशोभनतयाऽनिरूपणीयान्यपालोचनीयानि मनोवाकायवाक्यानि यस्य स तथा, तत्र मनःअन्तःकरणं वाग्-वाणी कायो-देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनक्यिग्रहणंकरोतितदेवंज्ञातयति-इह वागव्यापारस्य प्रचुरतया प्राधान्यं, प्रायशस्तत्प्रवृत्तयैव प्रतिषेधविधानयोरन्येषां प्रवर्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाकायवाक्यश्चापि भवतीति, तथाप्रतिहतंप्रतिस्खलितं प्रत्यारुपातं निराकृतं विरतिप्रतिपत्या पापकर्म-असदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मो तप्रतिषेधादसदनुष्ठानपरश्चात्मा भवतीति। Page #396 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-४, ३९३ तदेवमेष-पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावधानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगुप्तत्वाचात्मनः परेषां च दण्डहेतुत्वाद्दण्डः, तदेवंभूतश्चसन्एकान्तेनबालवदालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्चबालसुप्ततयाऽविचाराणिअविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा, यदिवा परसम्बन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्तते, तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपिन पश्यति, तस्यचाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापकर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः। तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत्-अत्र आचार्याभिप्रायं चोदकोऽनूध प्रतिषेधयति मू. (७०१) तत्य चोयए पन्नवर्ग एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणकाएणं पावएनंअहनंतस्स अमणक्खस्स अवियारमणक्यकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे नो कजइ, कस्सणं तं हेउं? चोयए एवं बवीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे काइ, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमविपासओएवगुणजातीयस्स पावे कम्मे कजइ । पुनरवि चोयए एवं बवीति । तत्थणजे तेएवमाहंसु-असंतएणं मणेणंपावएणं असंतीयाएवत्तिए पावियाए असंतएणं काएणं पावएणं अहनंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे काइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ।। तत्थ पत्रवए चोयगं एवं वयासी-तंसम्मंजंमएपुव्वुत्तं, असंतएणंमणेणं पावएणंअसंतियाए वतिए पावियाए असंतएणं कारण पावएणं अहनंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कजति, तंसम्म, कस्सणं तं हेउं? ___ आचार्य आह-तत्थ खलु भगवया छजीवनिकायहेऊ पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया, इच्छेएहिं छहिं जीवनिकाएहिं आया अप्पडिहयपञ्चखायपावकम्मे निचं पसढविउवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसण सल्ले। __आचार्य आह-तत्य खलुभगवया वहएदिलुते पन्नत्ते, से जहानाएवहएसियागाहावइस्स वा गाहावइपुत्तस्स वारन्नो वा रायपुरिसस्सवा खणं निदायपविसिस्सामिखणंलभ्रूणंवहिस्सामि पहारेमाणे से किंनुहु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वारन्नो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लभ्रूणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुत्ते या जागरमाणे वा अमित्तभूए मिच्छासंठिते निश्चं पसढविउवायचित्तदंडे भवति? एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति । आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रन्नो वा रायपुरिसस्स वाखणं निहाय पविसिस्सामि खणं लणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वासुत्ते वाजागरमाणे वा अमित्तभूए मिच्छासंठिते निश्चंपसढविउवायचित्तदंडे, एवमेव बालेवि सव्वेसिं पाणाणं जाव सव्वेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभए Page #397 -------------------------------------------------------------------------- ________________ ३९४ सूत्रकृताङ्ग सूत्रम् २/४/-1७०१ मिच्छासंठिते निश्चं पसढविउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते याविभवइ, सेबाले अवियारमणवयणकायवक्के सुविणमविन पस्सइपावे यसे कम्मे कज्जइ। जहा से वहएतस्स वागाहावइस्स जावतस्स वा रायपुरिसस्स पत्तेयंपत्तेयं चित्तसमादाए दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ । __ वृ.'असंतएणमित्यादि,अविद्यमानेन-असतामनसाऽप्रवृत्तेनाशोभनेनतथावाचा कायेन चपापेनासता तथा सत्त्वानजतः तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकंच कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं कर्म न बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत् । 'कस्य हेतोः' केन हेतुना केन कारणेन तत्पापं कर्म बध्यते?, नात्र कश्चिदव्यक्तविज्ञानत्वात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण मित्यादि, कर्माश्रवद्वारभूतैर्मनोवाकायकर्मभिःकर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसावाचाकायेन चतात्ययिकंकर्मवध्यत इति, इदमेव स्पष्टतरमाह-जतस्सत्त्वान्समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपिपश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पाप कर्मबध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाकायच्यापारस्याभावात्, अथैद्वयापारमन्तरेणापि कर्मबन्ध इष्यते, एवंच सतिमुक्तानामपि कर्मबन्धः स्यात्, न चैतदिष्यते, तस्मान्नैवमस्वप्नान्तिकमविज्ञोपचितं च कर्मबध्यत इति, तत्र यदेवंभूतैरेव मनोवाकायव्यापारैः कर्मबनधोऽभ्युपगम्यते तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्यातएवमुक्तवन्त इतिस्थितम्॥तदेवंचोदकेनाचार्यपक्षंदूषयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूध तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'मित्यादि, यदेतन्मयोक्तंप्राग्यथाऽस्पष्टाव्यक्तयोगानामपिकर्मबध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह-'कस्य हेतोः' केन कारणेन तत्सम्यगितिचेदाह-तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थ खलुशब्दो वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना षड् जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्ताः, तद्यथा-पृथिवीकायिका इत्यादि यावत्रसकायिका इति। कथमेते षड्जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इन्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु षडजीवनिकायेषु प्रतिहतं विन्धितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नगसमासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा तद्भावत्वादेव नित्यं-सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते-प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतुत्वाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह'तंजहे त्यादि, तद्यथाप्राणातिपाते विधेयेप्रशठव्यतिपातचित्तदण्डः,एवंमृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेषामिहैकेन्द्रियविकलेन्द्रियादीनाम निवृत्त Page #398 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ४, त्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं द्रष्टव्यं तद्भावाश्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा - नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्लवते ॥ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाह- 'तत्थ खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयस मन्वितेन तीर्थकृता वधकान्तः ' प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमितात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासी वधकस्तं विशेषेण दर्शयितुमाह'गाहावइस्स वे' त्यादि, गृहस्य पतिर्गृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृत्तपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः, स च वधपरिणाम- परिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । ३९५ तथा राज्ञस्तत्पुत्रस्यवोपरि कुपित एतत्कुर्यादित्याह 'खणं निद्दाय' इत्यादि, क्षणम्-अवसरं 'निद्दाय'त्ति प्राप्य लब्ध्व वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वापरकार्यक्षणे सति तथावध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कञ्चिकालमुदास्ते, सच तत्रैौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति । स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिध्यात्वाविरतिप्रमादकषाययोगानुगतत्वाप्राणातिपातादिदोषवन्तो भवन्तीति, नच तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथा वध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति 'अप्पण्णो' अक्खणयाए तस्स वा पुरिसस्स छिद्दं अलभमाणे नो वहेइ, तं जया मे खगो भविस्सइ तस्स पुरिसस्स छिद्दं लभिस्सामि तया मे स पुरिसे अवस्सं वहेयव्वे भविस्सइ, एवं मनो पहारेमाणे 'त्ति सूत्रं, निगदसिद्धम् । साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्त्राह' से किं नु हु' इत्यादि, आचार्य स्वतो हि निर्णीतार्थोऽसूयया परं पृच्छति किमिति परप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसी वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्वन्नेति ?, एवं पृष्टः परः समतया माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा - हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुमाह-यथाऽसौ बधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह'एवमेवे 'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि वालवद्बालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावा Page #399 -------------------------------------------------------------------------- ________________ ३९६ सूत्रकृताङ्ग सूत्रम् २/४/-/७०१ योग्यतया सर्वेषां प्राणिना व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवतियद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि -- 119 11 “अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमसेषमुद्धरेत् ॥ इत्येवमसावमित्रभूतो मिध्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्धमनुवदन्नाह एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्येकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासक्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति ॥ तदेवं दृष्टान्तदार्थन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतव्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिगं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्री वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽघ्नन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवं रागद्वेषाकुलितो बालवालो ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्ये, घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, इदमुक्तं भवति । यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तव्यत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन कर्मणा बध्यन्ते, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतध्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा- 'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजइति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्वा चोदयति, तद्यथा'तत्थ चोयए पन्नवर्ग एवं वयासीत्यत आरभ्य यावज्जे ते एवमाहंसु मिच्छं ते एवमाहंसु' त्ति तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा - यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः केन हेतुनेति चेत्, तत्र हेतुमाह- 'तत्थ खलु भगवया छ जीवनिकाया हेऊ पन्नत्ता इत्यत आरभ्य यावत् मिच्छादंसणसल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्वव्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं ष्टान्तमाह, तद्यथा- 'तत्थ खलु भगवया वहए दिट्टंते पन्नत्ते इत्यत आरभ्य यावत् खणं लद्धणं वहिस्सामीति पहारेमाणे' त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभिप्रेतां परेण भाणयितुमाह'से किं नु हु नाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोर्धष्टान्ते सत्त्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति- 'जहा से वहए इत्यत आरभ्य यावन्निच्चं पसढविउवायचित्तदंडे 'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह- 'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कज्जइ'ति । Page #400 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-४, ३९७ तदेवं प्रतिज्ञाहेतुष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदाधुना प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनमित्येतत्प्रतिपादयितुमाह-जहा से वहए तस्स वा गाहावइस्स इत्यादियावन्निचं पसढविउवायचित्तदंडे'त्ति, एतानिचप्रतिज्ञाहेतुष्टिान्तोपनयनिगमनान्यर्थतः सूत्रैःप्रदर्शितानि, प्रयोगस्त्वेवंद्रष्टव्यः-तत्ताप्रतिहतप्रत्याख्यातक्रिय आत्मापानानुबन्धीतिप्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तत्वा द्वध्यस्यामित्रभूतस्तथाऽऽत्साऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम्। __एवं मृषावादादिष्वपिपञ्चावयवत्वंयोजनीयमिति, केवलंमृषावादादिशब्दोच्चारणं विधेयं, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डत्वात् तथा नित्यं प्रशठदत्तादानचित्तदण्डवादित्यादि । तदेवं सर्वात्मना षट्स्वपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धित्वे प्रतिपादिते परो व्यभिचारं दर्शयन्नाह मू. (७०२) नो इणढे समढे इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं नो दिट्ठा वा सुया वा नाभिमया वा विनाया वा जेसिं नो पत्तेयं पत्तेयं चित्तसमायाए दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले। वृ. नायमर्थ समर्थः इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूताइति, तत्रपरः स्वपक्षसिद्धयेसर्वेषांप्रत्येकममिन्त्राभावंदर्शयितुंकारणमाह-'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोकेबहवोऽनन्ताः प्राणिनः सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवंततः किमित्याह तेच देशकालस्वभावविप्रकृष्टास्तथाभूता बहवः सन्ति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छ्रयेणे' त्यनेनेदमाह । प्रत्यक्षासनवाचित्वादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्रयेण न कदाचिष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताः प्रातिभेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, नचासौ तान्प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषंसुगमम्, एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते। . मू. (७०३) आचार्य आह-तत्थ खलु भगवया दुवे दिट्ठता पन्नता, तं०-सन्त्रिदिट्टते य असन्निदिलुते य, से किंतं सन्निदिट्टते?,जे इमे सन्निपंचिंदिया पजत्तगाएतेसिणंछजीवनिकाए पडुचतं०-पुढवीकार्य जावतसकायं, से एगइओ पुढवीकारणं किञ्चं करेइवि कारवेइवि, तस्स णं एवं भवइ। एवंखलु अहं पुढवीकारणं किचं करेमिवि कारवेमिवि, नोचेवणं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं करेइवि कारवेइवि से गं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपञ्चखायपावकम्मेयावि भवइ, एवंजावतसकाएतिभाणियध्वं, से एगइओ छजीवनिकाएहिं किच्चं करेइविकारवेइवि, तस्स णं एवं भवइ । Page #401 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/४/-/७०३ एवं खलु छजीवनिकाएहिं किच्चं करेमिवि कारवेमिवि, नो चेव णं से एवं भवइ-इमेहिं बा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे तं० पाणातिवाए जाव मिच्छादंसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपत्रक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जइ, से तं सन्निदिट्ठते । से किं तं असनिदिते ?, जे इमे असन्निणो पाणा तं०- पुढवीकाइया जाव वणस्सइकाइया छट्टा वेगइया तसा पाणा, जेसिं नो तक्का तिवा सन्ना ति वा पन्ना ति वा मणा ति वा वई वा सयं वा करणाए अन्नेहिं वा कारावेत्तए करंतं वा समनुजाणित्तए, तेऽवि णं बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निचं पसढविउवातचित्तदंडा तं० । ३९८ पाणाइवाते जाव मिच्छादंसणसल्ले, इच्चेव जाव नो चेव मणो नो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए पिट्टणयाए परितप्पणयाए ते दुक्खणसोयणजावपरितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति । इति खलु से असन्त्रिणोऽवि सत्ता अहोनिसिं पाणातिवाए उवक्खाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइति जाव मिच्छादंसणसल्ले उवक्खाइज्जति । सव्वजोणियावि खलु सत्ता सन्निणो हुच्चा असन्निणो होति असन्निणो हुच्चा सन्निणो होति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविघूणित्ता असंमुच्छित्ता अननुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकायं संकमंति सत्रिकायाओ वा सन्निकायं संकमंति असन्निकायाओ वा असन्निकार्य संकमंति । जेएए सन्नि वा असन्नि वा सव्वे ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०पाणातिवाए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अस्खाए असंजए अविरए अप्पsिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियारमनवयणकायवक्के सुविणमवि ण पासइ पावे य से कम्मे कज्जइ । वृ. इत्येवं प्रतिपादिते परेण सत्याचार्य आह-यद्यपि सर्वेष्वपि सत्त्वेषु देशकाल - स्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययत्वात्तेष्वमुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकृता द्वौ द्दष्टान्ती 'प्रज्ञप्ती' प्ररूपिती, तद्यथा-संज्ञिदृष्टान्तोऽसंज्ञिष्टान्तश्च । अथ कोऽयं संज्ञिध्टान्तो ?, ये केचन 'इमे' प्रत्यक्षासन्नाः षड् भिरपि पर्याप्तिभिः पर्याप्ताः ईहापोहविमर्शरूपा संज्ञा विद्यन्ते येषां ते संज्ञिनः, पञ्चेन्द्रियाणं येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषांच मध्ये कश्चिदेकः षडजीवनिकायानू प्रतीत्यैवंभूतां 'प्रतिज्ञां' नियमं कुर्यात्, तद्यथा- अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपलवणादिस्वरूपेण 'कृत्यं' कार्यं कुर्यां स चैवं कृतप्रतिज्ञस्तेन तस्मिन् तस्मात्तं वा करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि ध, तस्य च सामान्यकृतप्रतिज्ञस्य विशेषाभिसंघिर्नैव भवति, तद्यथा - अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्यं करोमि कारयामि च स तस्मात्पृथिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र Page #402 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-४, ३९९ खननस्थाननिषीदनत्वग्वर्तनोच्चारप्रश्रवणादिकरणक्रियासद्भावाद्, एवमप्तेजोवायुवनस्पतिष्वपि वाच्य, तत्रापकायेन स्नानपानावगाहन भाण्डोपकरणधावनादिषु उपयोगः, तेजः कायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यजनतालवृन्तोडुपादिव्यापारदिषु प्रयोजनं, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रत्वकशाखाधुपयोगः, एवं विकलेन्द्रियपञ्चेन्द्रियेष्वप्यायोज्यमिति। तथैकः कश्चित् षट्स्वपिजीवनिकायेषुअविरतःअसंयतत्वाच्च तैरसौ 'कार्य' सावद्यानुष्ठान स्वयं करोति कारयति च तत्परैः, तस्य च क्वचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्यथा-एवं खल्वहं षभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपिवाच्यं, तद्यथा-इदंमा वक्तव्यमनृतमीग्भूतंतुन वक्तव्यं, सचतस्मान्मृषावादादनिवृत्तत्वादसंयतोभवति, तथाऽदत्तादानमप्याश्रित्यवक्तव्यं, तद्यथा-इदंमयाऽदत्तादानंग्राह्यमिदं तुन ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतत्वात्प्रत्ययिकंकर्माश्रवति, तथाचासावविरतिप्रत्ययिकं कर्म चिनोतीति, एवं देशकालस्वभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतोऽसौ भवति तत्प्रत्ययिक चकाचिनोतीति, सोऽयं संज्ञिष्टान्तोऽभिहितः । सच कदाचिदेकमेव पृथिवीकार्यव्यापादयति शेषेषु निवृत्तः कदाचिद्वावेवं त्रिकादिकाः संयोगाभणनीया यावत्सर्वानपिव्यापादयतीति ।स चैवं सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्वविषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादी प्रवृत्तो यद्यपि च न तेन विवक्षितकाले केचन पुरुष दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ।। संज्ञिद,दृष्टान्तानन्तरमसंज्ञिहष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञासा विद्यते येषां ते संज्ञिनस्तत्प्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीव्रातीव्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्छितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा-पृथिवीकायिका यावदनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूर्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो येषांनो तर्को' विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयं स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्क संभवति, नैवं तेषामसंज्ञिनांतर्कासंभवन्तीति,तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थेतदुत्तरकालपर्यालोचना, तथाप्रज्ञानं प्रज्ञा-स्वबुद्धयोप्रेक्षणंस एवायमित्येवंभूतंप्रत्यभिज्ञानंच, तथा मननंमनो-मतिरित्यर्थ साचावग्रहादिरूपा, तथाप्रस्पष्टवर्णावाक्साचन विद्यतेतेषामिति, यद्यपिच द्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापिन तेषां प्रस्पष्टवर्णत्वं, तथानचैषां पापं हिंसादिकं करोमि कारयामि येत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वाकारयामीत्येवंभूतोऽध्यवसायोन विद्यते तेषां तदेवं तेऽप्यसंज्ञिनो बालवद्वालाः सर्वेषां प्राणिनांघातनिवृत्तेरभावात्तधोग्य तया घातका व्यापादकाः, तथाहि -- द्वीन्द्रियादयः परोपघातेप्रवर्तन्ते एव,तद्भक्षणादिना, अनृतभाषणमपि विद्यतेतेषामविरतत्वात. केवलं कर्मपरतन्त्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येव दध्यादिभक्षणात तथेदमस्मदीयमिदंचपारक्यमित्येवंभूतविचाराभावाच्चेति, तथातीव्रनपुंसकवेदो-दयानमैथुनाविर Page #403 -------------------------------------------------------------------------- ________________ ४०० सूत्रकृताङ्ग सूत्रम् २/४/-/७०३ तेस्व मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमयालोमा यावन्मिध्यादर्शनशल्यसद्भावश्चतेषामवगन्तव्यः, तत्सद्भावाञ्चतेदिवा रात्रीवासुप्ताजाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह - 'तंजहा इत्यादि,तेह्यसंज्ञिनःक्वचिदपि निवृत्तेरभावात्तात्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्यापाररहितास्तथापिसर्वेषां प्राणिनांदुःखोत्पादनतया तथाशोचनतया-शोकोत्पादनत्वेन तथा 'जूरणतया जूरणं-वयोहानिरूपंतत्करणशीलतया तथा त्रिभ्यो-मनोवाक्कायेभ्य-पातनंत्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए त्ति परिदेवनतया तथा 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति, तत्सद्भावाच्चतप्रत्ययिकेन कर्मणा बध्यन्ते।तदेवं विप्रकृष्टविषयमपि कर्मबन्धप्रदर्शोपसंजिहीर्षुराह-इतिरुपप्रदर्शने खलुशब्दोवाक्यालङ्कारे विशेषणेवा, किं विशिनष्टि __ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषांनतर्को नसंज्ञानप्रज्ञान मनो न वाक्न स्वयं कर्तुंनान्येनकारयितुंनकुर्वन्तमनुमन्तुंवाप्रवृत्तिरस्ति,तेचाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निसंसर्वकालमेवप्राणातिपाते कर्तव्येतद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्तइति, उपाख्यानंचासंज्ञिनोऽपियोग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथा। किमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यत्ववनियतरूपा एवाहोस्वित्संझिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवंचोदिते सत्याहाचार्य-सव्वजोणियावि खलु'इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनोय एवं प्रतिपादयन्ति-'पुरुषः पुरुषत्वमश्नुते पशुरपि पशुत्व'मिति, तदत्रापिसंज्ञिनःसंज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंजिन इति, तन्मतव्यवछेदार्थमाह-सव्वजोणियावी'त्यादि, यदिवाकिं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवानेत्येवमसंज्ञिनोऽपिसंज्ञिकर्मबन्धंग्राक्तनेसत्येवकुर्वान्त्याहोस्विन्नेत्येतदा-शङ्कयाह _ 'सव्वजोणियावी' त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, तेचनारकतिर्यङनरामराअपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशेषणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सत्वाः पर्याप्तपेक्षया यावन्मनःपर्याप्तिननिष्पद्यतेतावदसंज्ञिनः करणतःसन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेवजन्मनि, अन्यजन्मापेक्षयात्वेकेन्द्रियादयोऽपिसन्तः पश्चात्संज्ञिनो भवन्तीति, तथा भूतकर्म-परिणामात, न पुनर्भव्याभव्यत्ववत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतो नानयोयभिचारः, ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रसंज्ञिनो भवन्त्यसंज्ञिनश्च भूत्वां संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा संश्यपिकश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमेतुपुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संझ्यसंज्ञिनोः कर्मपरतन्त्रत्वादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगम For Page #404 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-४, ४०१ नमेवमिहापीति । तत्र प्राक्तनं कर्म युदुदीर्ण यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य अइत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति।तत्रप्राक्तनं कर्म यदुणं यच्च बद्धमास्ते तस्मिन् सत्वेतदविविच्यअपृथक्कृत्य तथाऽविधूय-असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चत्वारोऽप्येकार्थिका अवस्थाविशेषवाऽऽश्रित्य भेदेन व्याख्यातव्याः।तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं असंज्ञिकायादसंज्ञिकार्ययथा नारकाःसावशेषकर्माण एव नरकादुध्धृत्य प्रतनुवेदनेषुतिर्यसूत्पद्यन्ते, एवंदेवाअपिप्रायशस्तत्कर्मशेषतयाशुभस्थानेषूत्पद्यन्तेइत्यवगर्तव्यं, अत्रच चतुर्भंगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षु प्राक्प्रतिपन्नमर्थं निगमयन्नाह 'जेएतेसे'त्यादि, येएतेसर्वाभिरपिपर्याप्तिभिःपर्याप्ताः लब्ध्या करणेनच तद्विकलाश्चापयप्तिकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानित्वादित्यभिप्रायः, तथा सर्वजीवेष्वपि नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं चोदकेन-'तद्यथाइहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत' इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्मसद्भावं दर्शयति-'एवं खलु इत्यादि एवं' उक्तनीत्याखल्ववधारणेऽलङ्कारेवाभगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापंच कर्म क्रिय इति । तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाचनारकतिर्यङ्नरामरगतिलक्षणसंसारमवगम्य संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह मू. (७०४) चोदकः-से किंकुव्वं किं कारवंकहं संजयविरयप्पडिहयपञ्चक्खायपावकम्मे भवइ ?, आचार्य आह तत्थ खलु भगवया छज्जीवनिकाय हेऊ पन्नत्ता, तंजहा-पुढवीकाइया जावतसकाइया। से जहानामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयंपडिसंवेदेभि, इच्छेवंजाण सव्वे पाणा जाव सव्वेसत्तादंडेण वाजावकवालेण वा आतोडिज्जमाणे वा हम्ममाणेवातजिजमाणे वातालिजमाणएवाजाव उवद्दविजमाणे वाजाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति। - एवं नचा सव्वे पाणा जाव सव्वे सत्ता नहंतव्वा जाव न उद्दवेयव्या, एस धम्मेधुवे निइए सासएसमिच्च लोगं खेयन्त्रेहिं पवेदिए, एवंसेभिक्खूविरतेपाणाइवायातोजाव मिच्छादसणसल्लाओ, से भिक्खू नो दंतपक्खालणेणं दंते पक्खालेजा, नो अंजणं नो वमणं नो धूवणितं पिआइते, सं भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिव्वुडे । एस खलु भगवया अक्खाए संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए भवइ-त्तिबेमि। वृ.अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् ‘कथं' वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति?, संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिस्तनिवृत्तेश्च कृतकर्मसंचयाभावस्तदभावानरकादिगत्यभाव इत्येवं पृष्ये सत्याचार्य आह[2[26] Page #405 -------------------------------------------------------------------------- ________________ ४०२ सूत्रकृताङ्ग सूत्रम् २/४/-७०४ 'तत्थ खलु'इत्यादि, तत्र-संयमसद्भावे षड् जीवनिकाया भगवता हेतुत्वेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्यषड्जीवनिकायाःसंसारगतिनिबन्धनत्वेनोपन्यस्ताः एवंतएवप्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् - ॥१॥ “जे जत्तिया य हेऊ भवस्स ते चैव तत्तिया मोक्खे । गणणाईयालोगा दोण्हवि पुण्णा भवे तुल्ला ॥ इत्यादि, इदमुक्तं भवति-यथाऽऽत्मनो दण्डाधुपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष धर्म सर्वापायत्राणलक्षणो 'ध्रुवः अप्रच्युतानुत्पन्नस्थिरस्वभावो नित्य' इति परिणामानित्तायामपिसत्यां स्वरूपाच्यवनात्तथा आदित्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः क्वचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः अयमेवंभूतश्च धर्मः समेत्य' अवगम्य 'लोकं चतुदर्शरज्वात्मकं खेदज्ञैः' सर्वज्ञैःप्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुर्वन् सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः-अव्यापादको यावदेकान्तैनवासी पण्डितो भवति इति परिसमाप्त्यर्थे, ब्रवीमीति, पूर्ववत्, नयाः प्राग्वद्वयाख्येयाः। . अध्ययनं-४ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलावाचार्येण विरविता द्वितीय श्रुतस्कन्धस्य चतुर्यअध्ययनटीका परिसमाप्ता। (अध्ययन-५ आचारश्रुतं) साम्प्रतंपञ्चममारभ्यते, अस्यचायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेनसम्यक्प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति। . तत्रोपक्रमान्तर्गतोऽधिकारोऽयं, तद्यथा-अनाचारंप्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोर्निक्षेपार्थं नियुक्तिकृदाहनि. [१८२] नामंठवणायारे दव्वे भावे य होति नायव्वो। एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ वृ.तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवामितदेशं कुर्वन्नाह । नि. [१८३] आयारसुयं भणियं वज्जेयव्वा सया अनायारा । __ अबहुसुयस्स हु होज्ज विराहणा इत्य जइयव्वं ॥ दृ.आचारश्च श्रुतंचआचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं तु विनयश्रुते भावार्थस्तु वर्जयितव्याः' परिहार्याः ‘सदा' Page #406 -------------------------------------------------------------------------- ________________ ४०३ श्रुतस्कन्धः-२, अध्ययनं-५, सर्वकालं यावजीवंसाधुनाऽनाचारः, तांश्च 'अबहुश्रुतः' अगीतार्थो न सम्यग्जानातीत्यतस्तस्य विराधना भवेत्, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्येत्यतः ‘अत्र' सदाचारे तत्परिज्ञानेचयतितव्यं,यथा हिमार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामीभवतिन चोन्मार्गदोषैयुज्यते एवमनाचारं वर्जयन्नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तत्प्रतिषेधार्थमाहनि. [१८४] एयस्स उ पडिसेहो इहमज्झयणंमि होति नायव्यो। तो अनगारसुयंति य होईनामंतु एयस्स। __ वृ. 'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गिगमनैकहेतोः 'प्रतिषेधो निराकरणं सदाचारप्रतिपत्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽगारकारणमिति, ततः केषांचिन्मतेनैतस्याध्ययनस्यानगारश्रुतमित्येतनाम भवतीति।गतो नामनिष्पनो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्-- मू. (७०५) आदाय बंभचेरंच, आसुपन्ने इमंबई। अस्सिं धम्मे अनायारं, नायरेज कयाइवि ।। वृ.अस्यचानन्तरपरम्परसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रेणसहायम्-एकान्तपण्डितो भवति, कथम् ? -'आदाय ब्रह्मचर्य मिति, परम्परसूत्रसंबधस्त्वयं-'बुध्येत तथात्रोटये बन्धन' किं कृत्वेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रैः संबन्धो वाच्यः, अर्थस्त्वयम्-‘आदाय' गृहीत्वा, किं तद् ?, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनंब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्प्रज्ञः सदसद्विवेकज्ञः, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात्तामाह-'इमां समस्ताध्ययनेनाभिधीयमानां प्रत्यक्षासन्नभूतां वाचम्'इदं शाश्वतमेवे' त्यादिकां कदाचिदपि 'नाचरेत्' नाभिदध्यात्, तथाऽस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'नसमारेत् नविदध्यादितिसम्बन्धः, यदिवाऽऽशुप्रज्ञःसर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगित्वात्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि नाचरेदितिश्लोकार्थः। तत्रानाचारं नाचरेदित्युक्तम्, अनाचारश्चमौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वंतु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं चद्रव्यं नित्यानित्यस्वभावं, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्यात्मको वालोकस्तत्वमिति, ज्ञानंतुमतिश्रुतावधिमनःपर्यायकेवलस्वरूपंपञ्चधा, चारित्रंसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपंपञ्चधैव मूलोत्तरगुणभेदतोवाऽनेकधेत्येवंव्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीद्दशं जगदितिकृत्वाऽनाधपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्व-रूपोदघट्टनपूर्वकमाहमू. (७०६) अनादीयं परिनाय, अनवदग्गेति वा गुणो। सासयमसासए वा, इति दिछिन धारए। वृ. नास्य चतुर्दशरज्ज्वात्मकस्यलोकस्यधर्माधर्मादिकस्यवाद्रव्यस्यादिःप्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं परिज्ञाय' प्रमाणतः परिच्छिद्य तथा 'अनवदग्रम्' अफर्यवसानंच परिज्ञा. Page #407 -------------------------------------------------------------------------- ________________ ४०४ सूत्रकृताङ्ग सूत्रम् २/५/-/७०७ योभयनयात्मकव्युदासेनैकनयदृष्टयाऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वभवतीति शाश्वत-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं स्वदर्शने चानुयायिनं सामान्यांशमवलम्ब्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्वंचोपलभ्यसर्वमिदंशाश्वतमित्येवंभूतां दृष्टिं नधारयेदिति एवं पक्षं न समाश्रयेत् । तथा विशेषपक्षमाश्रित्य वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्चसूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेणच सर्वमशाश्वतम्अनित्यमित्येवंभूतां च धष्टिं न धारयेदिति। मू. (७०७) एएहिं दोहिं ठाणेहिं, ववहारोन विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए। वृ. किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्त्वित्येवंभूतां दृष्टिं न धारयेदित्याह-सर्वं नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्ववहरणं व्यवहारो-लोकस्यैहिकामुष्मिकयोः कार्ययोःप्रवृत्तिनिवृत्तिलक्षणोन विद्यते, तथाहि-अप्रच्युतानुत्पन्निस्थिरैकस्वभावंसर्वंनित्यमित्येवंन व्यवहियते, प्रत्यक्षेणैवनवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात्, तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्यत्वादात्मनो बन्धमोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थकमिति न व्यवहियते। तथैकान्तानित्यत्वेऽपि लोको धनधान्यघटपटादिकमनागतभोगार्थ न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपिक्षणिकत्वादात्मनः प्रवृत्तिनस्यात, तथाचदीक्षाविहारादिकमनर्थकं, तस्मानित्यानित्यात्मके एव स्याद्वादेसर्वव्यवहारप्रवृत्तिः,अतएव तयोर्नित्यानित्ययोः स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरैहिकामुष्पिककार्यविध्वंसरूपमनाचारं मौनीन्द्रारागमबाह्यरूपं विजानीयात्, तुशब्दो विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनिसतिव्यवहारोयुज्यतइत्येतद्विशिनष्टि, तथाहिसामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमिति भवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययम्रौव्याणि चार्हद्दर्शनाश्रितानि व्यवहाराङ्गं भवति । तथा चोक्तम् - ॥१॥ “घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम्। इत्यादि।तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारविजानीयादिति स्थितम् तथाऽन्यमप्यनाचारं प्रतिषेद्धकाम आहमू. (७०८) समुच्छिहिंति सत्यारो, सव्वे पाणा अनेलिसा। गंठिगा वा भविस्संति, सासयंति वनो वए।। वृ. सम्यक्-निरवशेषतया उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्प्राबल्येन सेत्स्यन्ति वा सिद्धिं यास्यन्ति, केते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपत्रा वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकाभिमानग्रहगृहीता युक्ति चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावदभव्यस्य च सिद्धिगमनासंभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत, तथा सर्वेऽपि 'प्राणिनो' जन्तवः 'अनीशा' विसध्शाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां साद्दश्यमस्तीत्येवमप्येकान्तेन नो वदेत्, यदिवा-- Page #408 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-५, ४०५ सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीशा' अभव्या एव भवेयुरित्येवं चनो वदेत्, युक्ति चोत्तरत्र वक्ष्यति । तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वेभविष्यन्तीत्येवमेकमपिपक्षमेकान्तिकंनो वदेत् । यदिवा-'ग्रन्थिका' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इतिशास्तारः सदा सर्वकालंस्थायिनस्तीर्थकरा भविष्यन्ति ‘नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति। मू. (७०९) एएहिं दोहिं ठाणेहिं, ववहारो न विजइ । एएहिं दोहिं ठाणेहिं, अनायारं तु जाणए । वृ.तदेवंदर्शनाचारवादनिषेधं वामात्रेण प्रदश्याधुनायुक्तिदर्शयितुकाम आह-एतयोः' अनन्तरोक्तयोद्धयोः स्थानयोः, तद्यथा-शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वेप्राणिनो ह्यनीद्दशाः-विसद्दशाः सद्दशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते, तथाहि-यत्तावदुक्तं सर्वेशास्तारः क्षयं यास्यन्ती'त्येतदयक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सिद्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपन्न, यतोऽनाद्यनन्तानांकेवलिनांसद्भावाप्रवाहापेक्षया तदभावाभावः। यदप्युक्तम्-'अपूर्वस्याभावेसिद्धिगमनसद्भावेनचव्ययसद्भावाद्भव्यशून्यंजगत्स्या' दित्येतदपि सिद्धान्तरपरमार्थावेदिनो वचनं,यतोभव्यराशेराद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्यादभव्यानां तत्सामण्यभावाद्योग्यदलिकप्रतिमावतदनुपपत्तिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तृणां सिद्धिगमनसभावाअवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वताइति। तथा सर्वेऽपिप्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीशाः-विसशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धभैः कथञ्चित्सध्शाइति, तथोल्लसितसद्वीर्यतयाकेचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्ते नैकान्तेनैकान्तपक्षो भवतीतिप्रतिषिद्धः, तदेवमेतयोरेव द्वयोःस्थानयोरुक्तनीत्याऽनाचारं विजानीयादिति स्थितम् अपिच-आगमेअनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषुभव्यानामनन्तभाग एव सिद्धयतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यंतत्कथं तेषांक्षयः?, युक्तिरप्यत्रसंबन्धिशब्दावेतौ, मुक्तिःसंसारं विना भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति अधुना चारित्राचारमङ्गीकृत्याहमू. (७१०) जे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसं तेहिं वेरंति, असरिसंती य नो वदे ॥ घृ.ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकायावा पञ्चेन्द्रियाअथवा 'महालया' महाकायाः सन्ति' विद्यन्ते तेषांचक्षुद्रकाणामल्पकायानांकुन्थ्वादीनां महानालयःशरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सशं वैर मिति वज्रं कर्म विरोधलक्षणं वा Page #409 -------------------------------------------------------------------------- ________________ ४०६ सूत्रकृताङ्ग सूत्रम् २/५/-/७१० वैरंतत् ‘सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा 'विसद्दशम् असशं तद्वयापत्ती वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसध्शत्वात् सत्यपि प्रदेशतुल्यत्वे न सशं वैरमित्येवमपिनो वदेत् । यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि साध्श्यमसाश्यं वा वक्तुंयुज्येत, नचतद्वशादेवबन्धः अपित्वध्यवसायवशादपि,ततश्चतीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनोऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । मू. (७११) एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए। वृ.एतदेव सूत्रेणैवदर्शयितुमाह-अभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसध्शत्वासशत्वयोर्व्यवहरणंव्यवहारो नियुक्तिकत्वान युज्यते, तथाहि-न वध्यस्य सहशत्वमसशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि । तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सध्शत्वासहशत्वव्यवहारोन विद्यत इति। तथाऽनयोरेवस्थानयोःप्रवृत्तस्यानाचारंविजानीयादिति, तथाहि-यजीवसाम्याकर्मबन्धसध्शत्वमुच्यते, तदयुक्तं, यतो नहिजीवव्यापत्याहिंसोच्यते, तस्शा साश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापत्ताय, तथा चोक्तम् - ॥१॥ “पञ्चेन्द्रियाणि त्रिविधं बलंच, उच्छासनिश्वासमथान्यदायुः । प्राणा दशैते भगवदिभिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। इत्यादि । अपिच भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेत्तुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुध्या रज्जुमपि जतो भावदोषाकर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे 'उच्चालियंमिपाए'इत्यादि, तण्डुलमत्स्याख्यानकंतु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सध्शत्वं स्यादसध्शत्वमिति, अन्यथाऽनाचार इति। पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आहमू. (७१२) अहाकम्माणि मुंजंति, अन्नमन्ने सकम्मुणा। उवलित्तेति जाणिज्जा, अनुवलित्तेति वा पुणो । घ.सा,प्रधानकारणमाधाय-आश्रित्यकर्माण्याधाकर्माणि,तानिचवस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुअन्ते- एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान् विजानी- यादित्येवं नो वदेत, तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्तं भवति-आधाकर्मापि श्रुतोपदेशेन शुद्धमितिकृत्वा भुनानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्ययाकर्मबन्धोभवतीत्येवं नो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृध्द्याऽऽधाकर्म भुमानस्यतन्निमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपिनोवदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यानेति, यत उक्तम् - ॥१॥ "किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम्। पिण्डः शय्या वस्त्रं पात्रं वा भेषजाधंवा ।। Page #410 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-५, ४०७ -तथाऽन्यैरप्यभिहितम्॥१॥ उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति । यस्यामकार्यं कार्यं स्यात्कर्म कार्यं च वर्जयेद् ।। इत्यादि मू. (७१३) एएहिं दोहि ठाणेहिं, ववहारो न विजई। एएहि दोहिं ठाणेहिं, अणनयारं तु जाणए। वृ.किमित्येवंस्थाद्वादः प्रतिपाद्यत इत्याह-द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात्, तथाहि-क्षुप्रीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमईमपि कुर्यात् मच्छादिसदभावतयाचदेहपातेसत्यवश्यंभावीत्रसादिव्याघातोऽकालमरणेचाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च-“सब्बत्थसंजमं संजमाओअप्पाणमेवरक्खेज्जा" इत्यादिनाऽपितदुपभोगेकर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पाद्यमानेषडजीवनिकायवधस्तद्वधेचप्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यव-हरणं व्यवहारो नयुज्यते, तथा ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् । पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाहमू. (७१४) जमिदं ओरालमाहारं, कम्मगंच तहेव य। सव्वत्थ पीरियं अस्थि, नथि सव्वत्थ वीरियं ।। मू. (७१५) एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए। दृ. यदिवा योऽयमनन्तमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाह-'जमिद'मित्यादि, यदिदंसर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निर्वृत्तमौदारिकमेतदेवोरालं निस्सारत्वाद्एतच्च तिर्यमनुष्याणां भवति, तथा चतुर्दशपूर्वविदा क्वचित्संशयादावाहियत् इत्याहारम्, एतदग्रहणाच्च वैक्रियोपादानमपि द्रष्टव्यं,तथा कर्मणा निवृत्तंकार्मणम्, एतत्सहचरितं तैजसमपिग्राह्यम्।औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धः कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-तदेवतद्' यदेवौदारिकं शरीरंतेएवतैजसकार्मणेशरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञांनो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवं शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञांनो निवेशयेत् । युक्तिश्चात्र यद्येकान्तेनाभेदएवततइदमौदारिकमुदारपुद्गलनिष्पत्रंतथैत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमित्तंचेत्येवं भेदेन संज्ञा निरुक्तंकार्यंचनस्यात्।अधात्यन्तिको भेद एव ततो घटवभिन्नयोर्देशकालयोरप्युपलब्धिःस्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिञ्च संज्ञाभेदाभेद इति स्थितं। तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदी प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थ वीरिय मित्यादि, 'सर्वं सर्वत्र Page #411 -------------------------------------------------------------------------- ________________ ४०८ सूत्रकृताङ्ग सूत्रम् २/५/-७१५ विद्यत' इतिकृत्वा सांख्याभिप्रायेणसत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्अतःसर्वसर्वात्मकमित्येवं व्यवस्थिते सर्वत्र घटपटादौ अपरस्य-व्यक्तस्य वीर्यं शक्तिविद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवंसंज्ञांनोनिवेशयेत्, तथा सर्वेभावाः स्वभावेन, स्वस्वभावव्यवस्थिता'इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्यशक्तिरित्येवमपि संज्ञांनोनिवेशयेत्।युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वसर्वात्मकं देशकालाकारप्रतिबन्धात्तुनसमानकालोपलब्धिरिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, नच टेऽनुपपन्न नाम, नच सर्वंमिथ्येत्यभ्युपपत्तुंयुज्यते, यतो दृष्टहानिरष्टिकल्पना घ पापीयसी। किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यञ्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृति प्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमानेसत्त्वरजस्तमसामप्येकत्वंस्यात्, तद्भदेच सर्वस्यतद्वदेवभेद इति।तथा यदप्युच्यते'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादेचाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वाङ्मात्रं,तथाहि-यदि सर्वथा कारणे कार्यमस्ति नतर्युत्पादोनिष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यत, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्ति स्यात्, न चैतद्दष्टमिष्टं वा। - अपिच-एवंसर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवंचनशाल्यङ्कुरार्थी शालीबीजमेवादद्याद् अपि तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतोनासत्कार्यवादइति। तदेवंसर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिधर्मः कथञ्चिदेकत्वं तथा प्रतिनियतार्थकार्यतयायदेवार्थक्रियाकारितदेवपरमार्थतः सदितिकृत्वा कथञ्चिभेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्कका अपि द्रष्टव्याः, ततश्च सर्वं वस्तु सप्तमङ्गीस्वभावं । तेचामी-स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याधपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोटैगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच स्यान्नास्ति चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षयापरस्यतुसामस्त्येन स्वपरद्रव्याधपेक्षयाविवक्षितत्वात्स्यादस्तिचावक्तव्यंचेति, तथैकस्यांशश्यपरद्रव्याद्यपेक्षया परस्यतु परद्रव्याद्यपेक्षयाऽन्यस्यतुयोगपद्येनस्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्तिच नास्ति चावक्तव्यं चेति, इयंच सप्तमङ्गी यथायोगमुत्तरत्रापि योजनीयेति ___ तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह-यदिवा सर्वत्रवीर्यमस्ति नास्ति सर्वत्र वीर्य'मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीर्य' शक्तिरर्थक्रियासामार्थ्यमन्तशः स्वविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा ननिवेशयेत्, सर्वत्र वीर्यनास्तीतिनोएवंसंज्ञा निवेशयेदिति, अनेनाविशिष्टं वस्त्वस्तित्वंप्रसाधितम्, Page #412 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं ५, - इदानीं तस्यैव वस्तु ईषद्विशेषितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाहनत्थि लोए अलोए वा, नेवं सन्नं निवेसए । अत्थि लोए अलोए वा, एवं सन्नं निवेसए । मू. (७१६) वृ. 'लोकः' चतुर्दशरज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनंत्विदं, तद्यथा- प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिमासनासंभवात्, सर्वारातीयमागस्य च परमाण्वात्मकत्वात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यत्वात्, तथा चोक्तम् 109 11 ४०९ “यावधैश्यं परस्तावद्भागः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ ॥१॥ इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमानस्यावयविन एवाभावात्, तथाहि असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्त्तेत ? अंशांशिभावेन वा ?, न सामस्त्येनावयविबहुत्वप्रसङ्गात्, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् तस्माद्विचार्यमाणं न कथञ्चिद्वस्त्वात्मभावं लभते, ततः सर्वमेवैतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसध्शं, तथा चोक्तम् "यथा यथाऽर्थश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते स्वयमर्थेभ्यो, रोचन्ते तत्र के वयम् ॥ इत्यादि । तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञां निवेशयेत् । किंत्वस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसध्शः पञ्चास्तिकायात्मको वा, तद्वयतिरिक्तश्चालोकोऽप्यस्ति, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र- यदि सर्वं नास्ति तत सर्वान्तः पातित्वाप्रतिषेधकोऽपि नास्तीत्यतस्तदभावाप्रतिषेधाभावः अपि च सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्र- जालादिव्यवस्था, अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच , ॥१॥ "सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सद् ॥ इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन, तन्मतं त्वेवंभूतं, तद्यथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोकोऽस्त्येवमलोकोऽपीति स्थितम् । पू. (७१७) नत्थि जीवा अजीबा वा, नेवं सन्नं निवेसए । अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ बृ. . तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह-‘नत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्त्तनालक्षणा न विद्यन्त इत्येवं संज्ञां परिज्ञानं नो निवेशयेत्, नास्तित्वनि-बन्धनं त्विदंप्रत्यक्षेणानुपलभ्यमानत्वाज्जीता न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं ग्निंसर्वं' यद्भूतं यच्च भाव्यमित्यागमात् तथा Page #413 -------------------------------------------------------------------------- ________________ ४१० 7 सूत्रकृताङ्ग सूत्रम् २/५/-/७१७ अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्रविवर्त्तत्वात् नो एवं संज्ञां निवेशयेत्, किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतः स्वसंवित्तिसिद्धोऽहंप्रत्यय ग्राह्यः तथा तद्वयतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानात्वातद्गुणानां भूतचैतन्यवादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ? यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्नकायाकारपरिणति, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते आहोस्विद्विद्यमानं ?, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवत्वम् । तथाऽऽत्माद्वैतवाद्यपि वाच्यः यदि पुरुषमात्रमेवेदं सर्वं कथं घटपटादिषु चैतन्यं नोपलभ्यते ?, तथा तदैक्येऽभेदनिबन्धनानां पक्षहेतध्ष्टान्तानामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्वाद्वादाश्रयणाज्जीवः स्याज्जीवः स्यादजीवः अजीवोऽपिच स्यादजीवः स्याज्जीव इति । एतच्च स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलम्भाष्टव्यमिति जीवास्तित्वे च सिद्धे तन्निबन्धनयोः सदसक्रियाद्वारायातयोर्धर्माधर्मयोरस्तित्वप्रतिपादनायाहमू. (७१८) नत्थि धम्मे अधम्मे वा, नेवं सन्नं निवेसए । अत्थि धम्मे अधम्मे वा, एवं सन्नं निवेसए । वृ. 'धर्मः ' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूती धर्माधर्मो कालस्वभावनियतीश्वरादिमतेन न विद्येते इत्येवं संज्ञां नो निवेशयेत्- कालादय एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम् ॥ १ ॥ "न हि कालादीहिंतो केवलएहिंतो जायए किंचि । इह मुग्गरंधणाइविता सच्चे समुदिया हेऊ ॥ इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मसम्यग्दर्शनादिकोऽधर्मश्चमिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति । मू. (७१९) नत्थि बंधे व मोक्खे वा, नेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेस ॥ वृ. सतोश्च धर्माधर्मयोर्बन्धमोक्षसद्भाव इत्येतद्दर्शयितुमाह-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणं, स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवेशयेत्, तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धेन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते । अमूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति, तदयुक्तम्, आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्वयापित्वमेव न स्याद्, अन्यच्च अस्य विज्ञानस्य ह्यत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ सम्बन्धमृते अतो यत्किञ्चिदेतत् । अपिच संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादत्यन्तिकममूर्त्तत्वं न भवतीति । तथा तव्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, Page #414 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-५, ४११ तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ।। बन्धसद्भावेचावश्यंभावी पुण्यपापसदभाव इत्यतस्तभावं निषेधद्वारेणाहमू. (७२०) नथि पुण्णे व पावे वा, नेवं सन्नं निवेसए। अस्थि पुण्णे व पावे या, एवं सन्नं निवेसए। वृ. 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा पापं तद्विपर्ययलक्षणं'नास्ति' न विद्यते इत्येवं संज्ञांनो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं त्विदं-तत्र केषाञ्चिन्नास्ति पुण्यं, पापमेव ह्युत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्यं कुर्यादिति, अन्येषांतूमयमपिनास्ति, संसारवैचित्र्यंतु नियतिस्वभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप शब्दौ सम्बन्धितशब्दौ सम्बन्धिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुं निर्निबन्धनस्य जगद्वैचित्रस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिईष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्यं तत एव सकलकार्योत्पत्तैरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् । पुण्यपापे चैवंरूपे, तद्यथा॥१॥ "पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने हष्टम। यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम्॥ मू. (७२१) नथि आसवे संवरे वा, नेवं सन्नं निवेसए। अस्थि आसवे संवरे वा, एवं सन्नं निवेसए। वृनकारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरी तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन सप्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तन्निरोधःसंवरः, एतौ द्वावपिनस्तइत्येवं संज्ञांनोनिवेशयेत्, तद भावप्रतिपत्याशङ्काकारणंत्विदं-कायवाझ्नःकर्मयोगः,सआश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव-'उञ्चालियंमिपाए' इत्यादि, ततश्च कायादिव्यापारेणकर्मबन्धो न भवतीति, युक्तिरपिकिमयमाश्रव आत्मनो भिन्न उताभिन्नः? ____ यदि भिन्त्रोनासावाश्रवो घटादिवद्, अभेदेऽपिनाश्रवत्वं, सिद्धात्मनामपिआश्रवप्रसङ्गात, तदभावे च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतोयत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालयंमिपाए'इत्यादिनोक्तं तदस्माकमि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तन्निरोधश्च संवर इति, उक्तंच॥१॥ "योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥ इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञां निवेशयेदिति। आश्रवसंवरसद्भावेचावश्यंभावी वेदनानिर्जरासद्भावइत्यतस्तंप्रतिषेधनिषेधद्वारेणाहमू. (७२२) नस्थि वेयणा निजरा वा, वं सन्न निवेसए। अस्थि वेयणा निजरा वा, एवं सन्नं निवेसए । Page #415 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/५/-/७२२ वृ. वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्येते इत्येवं नो संज्ञां निवेशयत् । तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा- पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम् ॥१॥ "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । नाणी तिहि गुत्तो खवे ऊसासमित्तेणं ॥ ४१२ इत्यादि, तथा क्षपकश्रेण्यां च झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा- 'पुव्विं दुचिण्णाणं दुष्पडिकंताणं कम्माणं वेइत्ता मोक्खो, नत्थि अवेइत्ता' इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति । मू. (७२३) नत्थि किरिया अकिरिया वा, नेवं सन्नं निवेसए । अत्थि किरिया अकिरिया वा, एवं सन्नं निवेस ॥ वृ. वेदनानिर्जरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाहक्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि 'न स्तो' न विद्येते, तथाहि - सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तद्व्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्- "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत्, किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् तथाहि शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः ? अपि च-एकान्तेन क्रियाऽभावेसंसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञांनिवेशयेदिति तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतद्दर्शयितुमाहभू. (७२४) नत्थि कोहे व माणे वा, नेवं सन्नं निवेसए । - अत्थि कोहे व माणे वा, एवं सन्नं निवेसए । वृ. स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, च चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्चलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्व, एतौ द्वावपि 'न स्तो' न विद्येते, तथाहि - क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपक श्रेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमातन्धर्म आहोस्वित्कर्मण उतान्यस्येति तत्रात्मधर्मत्त्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदय-प्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मत्वे त्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो निवेशयेत् । यतः कषायकर्मोदयवर्ती दष्टष्ठः कृतभ्रुकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितत्वाच्चेति, Page #416 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ५. तथा जीवकर्मणोरुभयोरप्ययं धर्म, तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपत्ति, अनभ्युपगमात्, संसार्यात्मनां कर्मणा सार्द्धं पृथग्भवनाभावत्तदुभयस्य च नरसिंहवद्वस्त्वन्तरत्वादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् । भू. (७२५) नत्थि माया व लोभे वा, नेवं सन्नं निवेसए । अत्थि माया व लोभे वा, एवं सन्नं निवेसए । वृ. साम्प्रतं मायालो भयोरस्तित्वं दर्शयितुमाह-अत्रापि प्राग्वन्मायालो भयोरभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति । मू. (७२६) नत्थि पेज्जे व दोसे वा, नेवं सन्नं निवेसए । अत्थि पेज्जे व दोसे वा, एवं सन्नं निवेसए ॥ वृ. साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह - प्रीतिलक्षणं प्रेमपुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपधातकारिणि द्वेषः, तावेतौ द्वावपि न विद्येते, तथाहि केषाञ्चिदभिप्रायो यदुत मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपो रागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति । ४१३ तथाहि अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्यादू घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत्, यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रितिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् । साम्प्रतं कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतप्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाहमू. (७२७) नत्थि चाउरंते संसारे, नेवं सन्नं निवेसए । अत्थि चाउरंते संसारे, एवं सन्नं निवेसए । बृ. चत्वारोऽन्ता - गतिभेदा नरकतिर्यङनरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात्, स च चतुर्विधोऽपि न विद्यते, अपितु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यङ्गनुष्ययोरेव सुख दुःखोत्कर्षतया तद्वयवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्त्वनेकविधः, अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् । यत्तूक्तम्-एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यङ्गनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानमप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, संभवानुमानं तु सन्ति पुण्यपापयोः प्रकृष्टफलमुजः, तन्मध्यफलभुजां तिर्यङनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तद्स्तित्वानुमिति, तदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपाप- फलमुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्तं । यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यञ्चोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्चद्विषष्टियोनिलक्षप्रमाणाः Page #417 -------------------------------------------------------------------------- ________________ ४१४ सूत्रकृताङ्ग सूत्रम् २/५/-1७२७ सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनात्यैकविधत्वेनैवाश्रिताः। मू. (७२८) नस्थि देवो व देवी वा, नवं सन्नं निवेसए। अस्थि देवो व देवी वा, एवं सन्नं निवेसए।। वृ.तथा देवा अपिभवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्नाएकविधत्वेनैव गृहीताः तदेवंसामान्यविशेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितनैकविधत्वं, संसारवैचित्र्य-दर्शनात, नाप्यनेकविधत्वं सर्वेषां नरकादीनांस्वजात्यनतिक्रमादिति । सर्वभावानांसप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाहमू. (७२९) नत्थ सिद्धी असिद्धी वा, नेवं सन्नं निवेसए। अस्थि सिद्धि असिद्धी वा, एवं सन्नं निवेसए॥ वृ.सिद्धि अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्विध्येनान्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति-सम्यग्दर्शनशानचारित्रात्मकस्यमोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम् - ॥१॥ “दोषावरणयोहानिनिःशेषाऽस्त्यतिशायिनी। क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ।। इत्यादि, एवं सर्वज्ञसद्भावोऽपिसंभवानुमानाष्टव्यः, तथाहि-अभ्यस्यमानायाःप्रज्ञाया व्याकरणादि शास्त्रसंस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियानाग्निसाद्भवेत्, तथा॥१॥ “दशहस्तान्तरं व्योम्नि यो नामोस्तु त्यगच्छति । नयोजनमसी गन्तुं, शक्तोऽभ्यासशतैरपि ।। इति, दृष्टान्तदाéन्तिकयोरसाम्यात्, तथाहि-ताप्यमानंजलंप्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथाप्लवनविषयेऽपिपूर्वमर्यादाया अनतिक्रमाद्योजनोतप्लवनाभावः,तत्परित्यागे चोत्तरोत्तरंवृद्धयाप्रज्ञाप्रकर्षगमनवद्योजनशतमपिगच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्यादेतनाशनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावदस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अअनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सिद्धयभावः, तथा चोक्तम् - ॥१॥ "जले जीवाः स्थले जीवा, आकाशे जीवमालिनि। ___जीवमालाकुले लोके, कथं भिक्षुरहिंसकः॥ इत्यादि,तदेवंसर्वस्यैव हिंसकत्वात्सिद्धयभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनोद्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धामावः, सर्वथा ___ Page #418 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-५, ४१५ तस्यानवद्यत्वात्, तथा चोक्तम्-“उच्चालियंमिपाए" इत्यादि प्रतीतंतदेवं कर्मबन्धाभावासिद्धेः सद्भावोऽव्याहतः, सामग्रयभावादसिद्धिसदभावोऽपीति । मू. (७३०) नत्थि सिद्धी नियं ठाणं, नेवं सन्नं निवेसए। अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए।। वृ.साम्प्रतं सिद्धानां स्थाननिरूपणायाह-'नस्थिसिद्धी' त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषयाग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरियोजनक्रोशषड्भागः, तप्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञांनो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति।अपिच-अपगताशेषकल्मषाणांसिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तञ्चतुर्दशरज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सवव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः-तथाहि सिद्धावस्थायां तेषां व्यापित्वमभ्युपगतमुत प्रागपि ?, न तावत्सिद्धावस्थायां, तद्वयापित्वभवनेनमित्ताभावात्, नापिप्रागवस्थायां, तद्भावेसर्वसंसारिणांप्रतिनियतसुखदुःखानुभवो न स्यात्, न च शरीराबहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च कर्मविमुक्तस्योवंगति'रितिकृत्वा भवति, तथा चोक्तम् - ॥१॥ "लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गई पुव्वपओगेणं एवं सिद्धाणवि गईओ।। इत्यादि । तदेवमस्ति सिद्धिस्तस्याश्च निजंस्थानमित्येवंसंज्ञांनिवेशयेदिति।साम्प्रतंसिद्धेः साधकानां साधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाहमू. (७३१) नथि साहू असाहू वा, नेवं सन्नं निवेसए। अस्थि साहू असाहू वा, एवं सन्नं निवेसए । वृ. नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तदभावाच्चतप्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्वयवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, अपितु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात, सिद्धिसत्ताचनसाधुमन्तरेण,अतःसाधुसिद्धि, तत्प्रतिपक्षभूतस्यचासाधोरिति। यश्च संपूर्णरलत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि -- सम्यग्दष्टेरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्धया गृह्णतः क्वचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततयासंपूर्णमेव रत्नत्रयानुष्ठानमिति, यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेनसमभावरूपस्य सामायिकस्याभावः कैश्चिचोद्यतेतत्तेषां चोदनमज्ञानविजृम्भणात, तथाहि-नतेषांसामायिकवतांसाधूनांरागद्वेषतयाभक्ष्याभक्ष्यादिविवेकः, अपितुप्रधानमोक्षाङ्गस्य सच्चारित्रस्यसाधनार्थम्, अपिच-उपकारापकारयोः समभावतयासामायिकंनपुनर्भक्ष्याभक्ष्ययोः समप्रवृत्त्येति। Page #419 -------------------------------------------------------------------------- ________________ ४१६ सूत्रकृताङ्ग सूत्रम् २/५/-/७३२ मू. (७३२) नत्थि कल्लाण पावे वा, नेवं सन्नं निवेसए । अत्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ वृ. तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्श्याधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह - 'नित्थि कल्लाण पावे वा' इत्यादि, यथेष्टार्थफलसंप्राप्ति कल्याणं तत्र विद्यते, सर्वाशुचितया निरात्मकत्वाञ्च पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम् ॥१॥ "विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानाशुचित्वासंभवात्, सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्- "स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व" मिति तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपी दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावानैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् । तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाहमू. (७३३) कल्लाणे पावए वावि, ववहारो न विजइ । जं वेरं तं न जाणंति, समणा बाल पंडिया | वृ. कल्यं सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं तद्यथा सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र सम्बन्धनीयं । तथा वैरं वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीर्थिका बाला इव रागद्वेषकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रय Page #420 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं ५, · ४१७ णादिति । यदिवा यद्वैरं तत्ते श्रणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः किमिति न निसृजेत् ?, यतस्तेऽपि किञ्चिजानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यचैवंभूतं वचस्तन्न वाच्यं यत उक्तम् 119 11 "अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सव्वसो तं न भासेज्जा, भासं अहियगामिणिं ॥ ( इत्यादि) असेसं अक्खयं वावि, सब्वदुक्खेति वा पुणो । वज्झा पाणा न वज्झति, इति वायं न नीसरे ॥ मू. (७३४) वृ. अपरमपि वाक्संयममधिकृत्याह - ' असेस' मित्यादि, अशेषं कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं-नित्यमित्येवं न ब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति 'नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणा' दिति । तथा सर्वं जगद्दुखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथा चोक्तम् 'तणसंधार निसन्नोऽवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ॥ इत्यादि, 119 !! तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् ध्ष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथा चोक्तम्- "मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि”ति, एवमन्योऽपि वाक्संयमो द्रष्टव्यः, तद्यथा अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति । यू. (७३५) दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिट्ठि न धारए । वृ. अयमपरो वाक्यंसयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते- 'दीसंती'त्यादि, 'श्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः 'समयाचार' त्ति सम्यक् - स्वशास्त्रविहितानुष्ठानादविपरीत आचारः-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा- इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते? - भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः । सधाहि ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा ध्ढव्रता युगान्तरमात्रध्ष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति छद्मस्थेन ह्यर्वाग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, तेच स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्य साधुना, यत उक्तम् 227 Page #421 -------------------------------------------------------------------------- ________________ ४१८ सूत्रकृताङ्ग सूत्रम् २/५/-/७३५ ॥१॥ “यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ।। इत्यादि ॥ किंचान्यत्मू. (७३६) दक्खिणाए पडिलंभो, अस्थि वा णस्थि वा पुणो। नवियागरेज मेहावी, संतिमग्गंच वूहए। वृ. दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्ति :स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेघावी मर्यादाव्यवस्थितः। यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न ब्रूयादेकान्तेन, तदानग्रहणनिषेधे दोषोत्पत्तिसंभवात्।। तथाहि-तद्दाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तद्दानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथां तर्हि ब्रूयादिति दर्शयति-शान्तिःमोक्षस्तस्यमार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपबृंहये-वर्धयेत, यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विघप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्'सावजणवजाणं वयणाणं जो न जाणइ विसेस'इत्यादि। मू. (७३७) इच्चेएहिं ठाणेहिं, जिनदिटेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएनासि । तिबेमि।। वृ. साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-'इच्चेएहि मित्यादि, इत्येतैरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैक्सिंयमप्रधानैः समस्ताध्ययनोक्तै रागद्वेषरहितैर्जिनैष्टिः-उपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतः-सत्संयमवानात्मानंधारयन्-एभिः स्थानैरात्मानंवर्तयन्नामोक्षायअशेषकर्मक्षयाय मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजेः गच्छेस्त्वमिति विधेयस्योपदेशः। इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्यमानलक्षणाश्चेति ।। अध्ययनं-५ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलावाचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य पंचममध्ययनटीका परिसमाप्ता। (अध्ययन-६ आर्द्रकीय) १.उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते. अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारश्च, स च येनाचीर्ण परिहतश्वासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारनाचारयोःप्रतिपादितं, तञ्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयलः कार्यों यथाऽऽककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । ___अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकराव्यतिबुद्धः तथाऽत्र सर्व Page #422 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययन-६, ४१९ - प्रतिपाद्यत इति । निक्षेपस्त्रिधा-तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाहनि. [१८४] नामंठवणाअई दव्वदं चेव होइ भावई । एवो खलु अद्दस्स उ निक्लेवो चउविहो होइ ।। वृ. नामस्थापनाद्रव्यभावभेदाश्चतुर्धाऽऽर्द्रकस्यनिक्षेपो द्रष्टव्यः, तत्रनामस्थापनेअनाध्त्य द्रव्याप्रतिपादनार्थमाह-तत्त्र द्रव्याद्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृत्वा नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं । नि. [१८५] उदगई सारदं छवियद्द वसद्द तहा सिलेसई । एवं दव्वदं खलु भावेणं होइ रागई ॥ वृ.यदुदकेन मृत्तिकादिकंद्रव्यमार्दीकृतंतदुदका, सारार्द्रतुयब्दहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते यथा श्रीपर्णीसोवर्चलादिकं छविअई तुयस्निग्धत्वगद्रव्यंमुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषा वज्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकं यदव्यं तल्सिग्धाक रतया श्लेषामित्याभिधीयते, एतत्सर्वमप्युदकादिकं द्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेन्द्रिं यजीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह - नि. [१८६] एगभवियबद्धाउए य अभिमुहए य नामगोए य। एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ।। वृ. एकेन भवेन यो जीवः स्वगदिरागत्याककुमारत्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोः योऽनन्तरसमयमेवाकत्वेन समुत्पत्स्यते, एतेच त्रयोऽपि प्रकारा द्रव्याके द्रष्टव्या इति । नि. [१८७] अद्दपुरे अद्दसुतो नामेणं अद्दसोत्ति अनगारो। तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ।। वृ.साम्प्रतंभावाकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्दोभवति, यद्यपि शङ्गवेरादीनामप्याकसंज्ञाव्यवहारोऽस्तितथापि नेदमध्ययनंतेभ्यः समुत्थितमतोनतैरिहाधिकारः, किंत्वार्द्रककुमारानगारात्समुत्थिमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते। एतदेव नियुक्तिकृदाह-अस्याः समासेनायमर्थ-आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुनोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्यारर्द्रकाभिधाना एव भवन्तीतिकृत्वा, स चानगारः संवृत्तः, तस्य च श्रीमन्महावीर वर्द्धमानस्वामिसमवसरणावसरे गोशालकेनसार्द्ध हस्तितापसैश्व वादोऽभूत,तेन चतेएतदध्ययनार्थोपन्यासेन पराजिताअत इदमभिधीयते-'ततः' तस्मादाकासमुत्थितमिद-मध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थतुस्वत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह । नि. [१८८] कामं दुवालसंगं जिनवयणं सासयं महाभागं । सव्वज्झयणाइंतहा सव्वक्खरसन्निवायाय॥ Page #423 -------------------------------------------------------------------------- ________________ ४२० सूत्रकृतासूत्रम् २/६/-७३८/नि. [१८८] वृ. 'काम'मित्येयतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं महानुभावमाम!षध्यादिऋद्धिसमन्वितत्वात्न केवलमिदंसण्यिप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च मेलापका द्रव्याथदिशान्नित्याएवेति।ननुच मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाह - नि. [१८९] तहविय कोई अत्यो उप्पन्ति तम्मि तंम्मि समयम्मि । पुचमनिओ अनुमतो अहोइइसिभासिएसुजहा।। घृ, 'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रेचकुतश्चिदाईकादेः सकाशादाविर्भावमास्कन्दितसतेन व्यपदिश्यते। तथापूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति।साम्प्रतं विशिष्टतरमध्ययनोत्थानमाह-- नि. [१९०] अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं। जह हस्थितावसाणं कहियं इणमो तहा वुच्छं।। नि. [१९१] गामे वसंतपुरए सामइतो धरणिसहितो निखंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं ।। नि. [१९२] संवेगसमावन्नो माई भत्तं चइत्तु दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ। नि. [१९३] पीती य दोण्ह दूओ पुच्छणमभयस्स पठ्ठवे सोऽवि । तेणाविसम्मद्दिहित्ति होज्ज पडिमा रहंमि गया। नि. [१९४] द₹ संबुद्धो रिक्खिओय आसाण वाहण पलातो। पव्वावंतो धरितोरजंन करेति को अन्नो।। नि. [१९५] अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवन्न वसुहाराओ रन्नो कहणंच देवीए॥ नि. [१९६] तंनेइ पिता तीसे पुच्छण कहणंच वरण दोवारे। जाणाहि पायबिंबं आगमणं कहण निग्गमणं । नि. [१९७] पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुन्ने य निग्गमणं ॥ नि. [१९८] रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो। नि. [१९९] वादे पराइइत्ता सव्वेविय सरणमब्भुवगताते। अद्दगसहिया सवे जिनवीरसगासे निक्खंता॥ नि. [२००] न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं!। जहा उवत्तावलिएणतंतुणा, सुदुक्करं मे पडिहाइ मोयणं॥ वृ.आर्याकेण समवसरणाभिखमुच्चलितेनगोशालकभिक्षोस्तथा ब्रह्मवतिनांत्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥ साम्प्रतं सपूर्वभव Page #424 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययन-६, ४२१ माईककथानकं गाथाभिरेव नियुक्तिकृदाह “गामे' इत्यादिगाथाष्टकं, आसांचा कथानकादवसेयः, तदं-मगधाजनपदेवसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, सचसंसारभयोद्विग्नो धर्मघोषाचार्यन्तिके धर्म श्रुत्वा सपन्तीकःप्रव्रजितः, सच सदाचाररतः संविग्नः साधुभिःसाद्धविहरति, इतरापिसाध्वीमिसहेत। कदाचिच्चासावेकस्मिन्नगरेभिक्षार्थमटन्तीं दृष्ट्वा तामसौतथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायोद्वितीयस्यसाधोर्निवेदितः, तेनापिचतप्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतोममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयोन पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्धन्धनमकारि, मृता चासौ अगाद्देवलोकं। श्रुत्वा चैनं व्यतिकरमसौ परं संवेगुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसी संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापत्रः असावपि भक्तं प्रत्याख्याय दिवंगतः । ततोऽपिचप्रत्यागत्यार्द्रपुरेनगरेआर्द्रकसुतआर्द्रकाभिधानोजात, साऽपिचदेवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोऽपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः । अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानिमहार्हाण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं माहितानिप्राभृतानि भवता तस्य समर्पणीयानीति भणित्वामहार्हाणि प्राभृतानि समर्यामिहितं. वक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात्, गत्वाचराजद्वारपालनिवेदितोराजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिन । यथार्हप्रतिपत्या सन्मानितः । द्वितीये चाह्नयाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तप्रीत्युत्पादकानितत्संदिष्टवचनानि, अभयकुमारेणापिपारिणामिक्या बुद्धया परिणामितं-नूनमसी भव्यः समासन्नमुक्तिगमनश्च तेन मया साईप्रीतिमिच्छतीति तदिदमत्र प्राप्तकालं यदादितीर्थकर प्रतिमासंदर्शनेन तस्यानुग्रहः क्रियतइतिमत्यातथैव कृतं, महार्हाणिच प्रेषितानि प्राभृतानीति, उक्तवासी महत्तमो यथा-माहितप्राभृतमेतदेकान्तेनिरुपणीयं, तेनापि तथैवप्रतिपन्नं, गतश्चासावार्द्रकपुरं, समर्पितं च प्राभृतं राज्ञः।। द्वितीये चाहयाककुमारस्येति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणं, चिन्तितं च तेन यथाममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाकः संजातजातिस्मरणोऽचिन्तयत-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत तस्यामीभिस्तुच्छेर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणा Page #425 -------------------------------------------------------------------------- ________________ ४२२ सूत्रकृताङ्ग सूत्रम् २/६/-/७३८/नि. [२००] रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्चप्रव्रज्या गृह्णन् देवतया सोपसर्गभवतोऽद्यापीति मणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः।विहरनन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितोवसन्तपुरेतया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतयारमन्त्यै मम भर्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणाशोभनं वृतमनयेति भणित्वाहिरण्यवृष्टिर्मुक्ता,तांच हिरण्यवृष्टिं राजागृह्णन्देवतया सद्युत्थानतो विधृतोऽभिहितंचतयायथा-एतद्धिरण्यजातमस्यादारिकायाः नान्यस्य कस्यचिदित्यतस्तपित्रा सर्वं संगोपितम्। आर्द्रककुमारोऽप्यनुकूलोपसर्गइतिमत्वाऽऽश्वेवान्यत्र गतः, गच्छतिच कालेदारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तववरका इति, ततस्तयोक्त-तात! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ताचाहंतस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गृहीतं, ततः सा पित्राऽभाणि-किं त्वंतं जानीषे? तयोक्तं-तत्पादगताभिज्ञानदर्शनतोजानामीति, तदेवमसौतत्परिज्ञानार्थ सर्वस्यभिक्षार्थिनो भिक्षांदापयितुं निरूपिता, ततोद्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैवविहरन् समायातः, प्रत्यभिज्ञानतश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपिदेवतावचनं स्मरंस्तथाविधकर्मोदयात्रावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्न्स्तया सार्द्ध मुनक्ति भोगान्, पुत्रश्चोत्पन्नः। पुनराककुमारेणासावभिहिता-साम्प्रतंतेपुत्रो द्वितीयः अहंचस्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कसकर्तनमारब्धं, पृष्टाचासौ बालकेन-किमम्बैतद्भवत्याप्रारब्धमितरजनाचरितं?, ततोऽसाववोचद-यथा तव पिता प्रव्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचितेनानिन्छन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमा-रब्धमिति। तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं-यावन्तोऽमी बालककुतवेष्टनतन्तवस्तावन्त्येववर्षाणि मया गृहेस्थातव्यमिति, निरूपिताश्चतन्तवोयावद्वादशतावन्त्येववर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषुचद्वादशसुसंवत्सरेषुगृहान्निर्गतः प्रव्रजितश्चेति। ततोऽसौ सूत्रार्थनिष्प न्नएकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्रापित्रा निरूपितानी पञ्च राजपुत्रशतानि तस्मिन्श्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः तत्राटवीदुर्गे चौर्येण वृत्ति कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, तेच तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसा- ब्राह्मणाश्च वादे पराजिताः। तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः,तेचहस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्कान्ताः। राज्ञाच विदितवृत्तान्तेनमहाकुतूहलापूरितहृदयेन पृष्टो-भगवन्! कयंत्वदर्शनतोहस्ती निरर्गलः संवृत्तइति?,महान् भगवतःप्रभाव इत्येवमभिहितः सन्नाककुमारोऽब्रवीत् नवमगाथयोत्तरं। नदुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तुमे प्रतिभातिदुष्करं Page #426 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः - २, अध्ययनं-६, ४२३ यच्चतत्रावलितेनतन्तुना बद्धस्यमम प्रतिमोचनमिति स्नेहतन्तवो हिजन्तूनांदुरुच्छेदाभवन्तीति भावः ।गतमाककथानकम, नामनिष्पन्ननिक्षेपश्च । तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तच्चेदम्मू. (७३८) पुराकडं अद्द! इमं सुणेह, मेगंतयारी समणे पुरासी। से भिक्खुणो उवणेत्ता अनेगे, आइक्खतिहि पुढो वित्थरे। वृ. यथा गोशालकेन सार्द्धवादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तंच राजपुत्रकमार्द्रककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक! यदहं ब्रवीमितच्छृणु-'पुरा' पूर्वंयदनेन भवत्तीर्थकृता कृतं, तच्चेदमितिदर्शयति-एकान्तेजनरहितेप्रदेशे चरितुंशीलमस्येत्येकान्तचारी, तथा श्राम्यतीतिश्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, साम्प्रतं तूप्रैस्तपश्चरणविशेषैनिभर्सितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा 'वहून' भिक्षून 'उपनीय' प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानांचमुग्धजनानामिदानी पृथक्पृथग्विस्तरेणाचष्टे धर्ममिति शेषः। मू. (७३९)साऽऽजीविया पट्टविताऽथिरेणं, सभागओ गणओ भिक्खुमन्झे आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुब्बं । वृ. पुनरपि गोशालक एव 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धाऽऽजीविकाप्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरल्लोकिकैः परिभूयत इतिमत्वा लोकपङ्किनिमित्तं महान् परिकरः कृतः, तथा चोच्यते। ॥१॥ "छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः। वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ तदनेन दम्भप्रधानेन जीविकार्थमिदरभारब्धं । किंभूतेन ? अस्थिरेण, पूर्वं ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात्, न च तथाभूतमनुष्ठानं सिकताकवलवनिरास्वादं यावजीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान्प्रतार्यैवंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति । सभायां गतः' सदेवमनुजपर्षदिव्यवस्थितो गणओ'त्तिगणशो बहुशोऽनेकश इतियावत् भिक्षूणांमध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्योहितःअर्थोबहुजन्योऽर्थस्तमर्थंबहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि-यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकंमोक्षाङ्गमभविष्यत्ततो याप्राक्तन्येकचर्याक्लेशबहुलाऽनेन कृतासा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूताततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्टानयोः-मौनव्रतिकधर्मदेशनारूपयोः परस्परतोविरोध इति । मू. (७४०) पुट्विं च इण्हि च अनागतं वा एगंतमेव पडिसंधयाति । एगंतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा। वृ.अपिच-यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथा चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन Page #427 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/६/-/७४० धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना ?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे ?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह ४२४ 'पूर्वं' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्थत्वाद घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं तप्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासां चौच्चैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनामिति । यदिवा पूर्वं साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वादभेदोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत प्लवत इति । समिच्च लोगं तस्थावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहरसमऽज्झे, एगंतयंसारयती तहच्चे ॥ मू. (७४१) वृ. स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह- 'समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं' षड्द्द्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-त्रसनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः -स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वास एवंभूतो 'निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थाव- स्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासी 'सारयति' प्रख्यातिं नयति साधयतीतियावत् । ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि दर्शयति- 'तथा' प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्च:, यदिवा अर्चा- शरीरंतच्च प्राग्वद्यस्य स तथार्च:, तथाहि असावशोकाद्यष्टप्रातिहार्योपतोऽपि नोत्सेकंच्चयाति, नापि शरीरं संस्कारायत्तं विदधाति, सहि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम् - "रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि ? | ॥ १ ॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् । मू. (७४२) धम्मं कहंतस्स उ नत्थि दोसो, खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य वियज्जगस्स, गुणेय भासाय निसेगवस्स ॥ वृ. अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थाविर्भाविज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्मं कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः । किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य' Page #428 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-६, ४२५ उपशान्तस्यानेन तुमानव्युदास, तथा जितानि स्वविषयप्रवृत्तिनिषेधेनेन्द्रियाणियेन सजितेन्द्रियो वश्येन्द्रियोऽनेनतुलोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासोद्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषाःअसत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य-तत्परिहर्तुस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तन्निषेवकस्य सतो अवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति। मू. (७४३) महव्वएपंच अणुव्वएय, तहेव पंचासव संवरेय। विरति इहस्सामणियमि पन्ने,लवापसक्की समणे-त्तिबेमि। वृ. किंभूतं धर्ममसौ कथयतीत्याह 'महब्बए पंचे'त्यादि, महान्ति च तानि व्रतानिप्राणातिपातविरमणादीनितानिच साधूनांप्रज्ञापितवान्, पञ्चापितदपेक्षयाऽणूनि-लघूनि व्रतानि अणुव्रतानि पञ्चेवतानि श्रावकानुद्दिश्य प्रज्ञापितवान्, पञ्चाश्रवान्प्राणापिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान्तत्संबरंचसप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतोहि विरतिर्भवतीत्यतो विरतिंच प्रतिपादितवान् चशब्दात्तत्फलभूती निर्जरामोक्षौ च । "इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान् महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्णे कृत्स्ने संयमे विघातव्ये 'प्राज्ञ' इति वा क्वचित्पाठः, प्रज्ञावानेत प्रतिपादितवानिति । किंभूतोऽसौ?-लवं-कर्म तस्माद् 'अवसकइत्ति अवसर्पणशीलोऽवसपी श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येदहं ब्रवीमि । स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशंदत्तवानित्येतद्ब्रवीमीति।यदिवाऽऽककुमारवचनमाकासौ गोशालकस्तत्प्रतिपक्षभूतं अर्थं वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहंब्रवीमितच्छृणु! त्वमिति यथाप्रतिज्ञातमेवाह गोशालकः-- मू. (७४४) सीओदगं सेवउ बीयकाय, आहायकम्मं तह इत्थयाओ। एगंतचारिस्सिह अम्ह धम्मे तवस्सिणो नाभिसमेति पावं। इ. भवतेदमुद्ग्राहितं-परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम्-अप्रासुकोदकं तत्सेवन-परिभोगं करोतु, तथा जीवकायोपभोगमाधाकर्माश्रयणंस्त्रीप्रसझंच विदधातु, अनेनचस्वपरोपकारः कृतो भवतीत्यस्मदीये धर्मे प्रवृत्तस्य 'एकान्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्यतपस्विनो नाभिसमेति न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तंभवति-एतानि शीतोदकादीनियद्यपीषत्कर्मबन्धाय तथापिधर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय न भवन्तीति। मू. (७४५) सीतोदगंवा तह बीयकायं, आहायकम्मतह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति॥ वृ.एतत्परिहतुकामआह-'सीतोदग'मित्यादि, एतानि प्रागुपन्यस्तानिअप्रासुकोदकपरभोगादीनि प्रतिसेवन्तोऽगारिणो-गृहस्थास्तेभवन्ति अश्रमणाश्च-अप्रव्रजिताश्चेवंजानीहि, यतःअहिंसा सत्मस्तेयं, ब्रह्मचर्यमलुब्धता इत्येत्तच्छ्रमणलक्षणं, तश्चैषां शीतोदकबीजाऽऽधाकमीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणान परमार्थानुष्ठानत इति। Page #429 -------------------------------------------------------------------------- ________________ ४२६ सूत्रकृताङ्ग सूत्रम् २/६/-1७४६ मू. (४६) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उतंऽवितहप्पगारं ।। वृ. पुनरप्याक एवैतद्दूषणायाह-स्यादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपिडीताश्च तत्कथं ते न तपस्विन इत्येतदाशयाईक आह-यदि बीजाधुपभोगिनोऽपि श्रमणा इत्येवं भगवताऽभ्युपगम्यतेएवं तर्खगारिणोऽपि-गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारित्वं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह 'सेवंति उ तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति। मू. (७४७)जे याविबीओदगभौति भिक्ख, भिक्खं विहं जायति जीवियट्ठी। तेनातिसंजोगमविप्पहाय, कायोवगानंतकराभवंति। पृ.पुनरप्याको बीजोदकादिभोजिनांदोषाभिधित्सयाऽऽह-जे यावी त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकभोजिनःसन्तोद्रव्यतो ब्रह्मचारिणोऽपि भिक्षांचाटन्तिजीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं स्वजनसम्बन्ध विप्रहाय'त्यक्त्वा कायान्कायेषुवोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तत्वात् संसारस्यानन्तकराभवन्तीति, इदमुक्तंभवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः शेषेण तु बीजोदकाधुपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभाव्यते, नैतावता श्रमणभाव इति । __ अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आहमू. (७४८) इमं वयं तु तुम पाउकुव्वं, पावाइणो गिरिहसि सव्व एव । पावाइणो पुढो किट्टयंता, सयं सयं दिहि करेंति पाउ। घृ. 'इमां पूर्वोक्तांवाचंतुशब्दोविशेषणार्थं त्वं प्रादुष्कुर्वन् प्रकाशयन्सर्वानपिप्रावादुकान् 'गर्हसि जुगुप्ससे, यस्मात्सर्वेऽपि तीर्थका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता नाभ्युपगभ्यन्ते, तेतु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टि-प्रत्येकं स्वदर्शन कीर्तयन्तः प्रादुष्कुर्वन्ति' प्रकाशयन्ति ।यदिवा श्लोकपश्चार्द्धमाककुमारआह-सर्वेऽपिप्रावादुका यथावस्थितं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्म, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा को वाऽऽत्मोत्कर्ष इति । मू. (७४९) ते अन्नमन्नस्स उ गरहमाणा, अखंति भो समणा माहणाय। सतोय अत्थी असतो य नत्थी, गरहामो दिहिन गरहामो किंचि॥ वृ.किंच ते अन्नमन्नस्से त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य परस्परेणतुस्वदर्शनप्रतिष्ठाशयापरदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, तुशब्दात्परस्परतोव्याहतमनुष्ठानं चानुतिष्ठन्ति, तेच 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा'द्विजातयः सर्वेऽप्येते स्वकं पक्षसमर्थयन्ति परकीय च दूषयन्ति। तदेव पश्चार्द्धन दर्शयति-'स्वत' इति स्वकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अस्वतश्चपराभ्युपगमाञ्च नास्तिपुण्यादिकमित्येवं सर्वेऽपि तीर्थकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थितत्त्वप्ररूपणतोयुक्ति विकलत्वादेकान्तद्दष्टि For Price Page #430 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययन-६, ४२७ 'गह मो'जुगुप्सामो-न ह्यसावेकान्तो यथावस्थितत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणान कंचिद्गमिः काणकुण्टोद्घट्टनादिप्रकारेण, केवलं स्वपरस्वरूपाविभवनं कर्मों, नच वस्तस्वरूपाविर्भावन परापवादः, तथा चोक्तम्॥१॥नेत्रनिरीक्ष्य विलकण्टककीटसप्पान, सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् । ___ कुज्ञानकुश्रुतिकुमार्गकुष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः।। इत्यादि । यदिवैकान्तवादिनामेव-अस्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगाख्यो दोषो, नास्माकमनेकान्तवादिनां, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धन दर्शयति-'स्वत' इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गमिोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किञ्चिद्गर्हाम इति स्थितम् । मू. (७५०) न किंचि रूवेणऽभिधारयामो, सदिछिमग्गंतु करेसु पाउं । मग्गे इमे किट्टिए आरिएहिं, अनुत्तरे सप्पुरिसेहिं अंजू ॥ वृ. एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणंवा स्वरूपेण-जुगुप्सिताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारामो' गर्हणाबुद्धयोद्घट्टयामः, केवलं स्वदृष्टिमार्ग तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा॥१॥ ब्रह्मा लूनशिरा हरिशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलवनाद्भवन्ति विपतः प्रायः प्रभूणामपि ।। इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाधनार्थं श्लोकपश्चाःनाह-अयं मार्ग' पन्थाः सम्यग्दर्शनादिकः कीर्तितो' व्यावर्णितः, कैः ? आर्यै सर्वज्ञैस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो ? नास्मादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्ययावस्थितजीवादिपदार्थस्वरूपनिरूपणाच, किंभूतैराथै? - सन्तश्चतेपुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो ? अंजू व्यक्तः निर्दोषत्वाप्रकटः ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति । मू. (७५१) उर्ल्ड अहेयं तिरियं दिसासु, तसा यजेथावर जे य पाणा। भूयाहिसंकाभि दुगुंछमाणा, नो गरहती वुसिमं किंचि लोए । वृ. पुनरपि सद्धर्मस्वरूपनिरूपणायाह-'उड्ढं अहेय'मित्यादि, ऊर्ध्वमघस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षुप्रज्ञापकापेक्षया भावदिगपेक्षयावा तासुये साये च स्थावराः प्राणिनः चशब्दी स्वगतानेकभेदसंसूचकी, 'भूत' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशया प्राण्युपमर्दशङ्कया सर्वसावधमनुष्ठानं जुगुप्समानोनैवापरलोकंकञ्चन गर्हति' निन्दति 'बुसिमंतिसंयमवानिति।तदेवंरागद्वेषवियुक्तस्य वस्तुरूपाविर्भवने न काचिद्गहेति, अथ तत्रापि गर्दा भवति न तर्दुष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति। स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह Page #431 -------------------------------------------------------------------------- ________________ ४२८ सूत्रकृताङ्ग सूत्रम् २/६/-/७५२ मू. (७५२ ) आगंतरागेर आरामगारे, समणे उ भीते न उवेति वासं । दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता य लवालवा य ॥ घृ. स विप्रतिपन्नः सन्नार्द्रकमेवमाह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि असावागन्तुकानां कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासी 'श्रमणो' भवत्तीर्थकर, तुशब्द एवकारार्थे, भीत एवासौ तदपध्वंसनमत्वात् 'तत्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति चेत्तदाह'दक्षाः ' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तद्भीतो न वासं तत्र समुपैति न तत्र वासमातिष्ठते । किंभूताः ? -न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महांश्छायाभ्रंश इति । तानेव विशिनष्टि-लपन्तीति लपावाचालाः घोषितानेक तर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठित योगाः गुडिकादियुक्ता वा यद्वशादभिधेयविषया वागेव न प्रवर्तते तस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति मू. (७५३) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्येहि य निच्छयन्ना । पुच्छिंसु मा णे अनगार अन्ने, इति संकमाणो न उवेति तत्थ ॥ वृ. पुनरपि गोशालक एवाह - 'मेहाविणो' इत्यादि, मेघा विद्यते येषां ते मेघाविनोग्रहणधारणसमथा, तथाऽऽचार्यादिः समीपे शिक्षां ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्धयुपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिना इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्षुरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमानः- तेषां बिभ्यन्न 'तत्र' तन्मध्ये उपैति उपगच्छतीति, ततश्च न ऋ जुर्मार्गः, इति भययुक्तत्वातस्य, तथा म्लेच्छविषयं गत्वा न कदाचिद्धर्मदेशना च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद्रागद्वेषवर्त्यसाविति । सू. (७५४) नो कामकिच्चा न य बालकिच्चा, रायाभिओगेण कुओ भएणं । वियागरेज्ज पसिणं नवावि, सकामकिच्चेनिह आरियाणं ॥ वृ. एतद्गोशालकमतं परिहर्तुकाम आर्द्रक आह- स हि भगवान्प्रेक्षापूर्व कारितया नाकामकृत्यो भवति, कमनं कामः इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वर्ततेसोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचित - कारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चिप्रवर्तते । " ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'स्वकामकृत्येन ' Page #432 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं -६, ४२९ स्वेच्छाचारिकारितयाऽसावपि तीर्थकृनामकर्मणः क्षपणायन यथाकथंचिद्, अतोऽसावग्लानः 'इह' अस्मिन्संसारेआर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनांतदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ! किंचान्यत्मू. (७५५) गंता च तत्था अदुवा अगंता, वियागरेज्जा समियासुपने। अनारिया दंसणओ परित्ता, इति संकमाणो न उवेति तत्थ ।। वृ. 'गते' त्यादि, स हि भगवान् परहितैकरतो गत्वापि विनेयासन्नमथवाऽप्यगत्वा यथा वथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदशनां विदधति, उपकारे सति गत्वाऽपिकथयन्त्यसतितुस्थिताअपिन कथयन्तीत्यतोनतेषांरागद्वेषसंभव इति, केवलमाशुप्रज्ञसर्वज्ञः समतया समद्दष्टितया चक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वाधर्मव्यागृणीयात् 'जहापुण्णस्स कत्थइ तहातुच्छस्स कत्थई' इतिवचनादित्यतोन रागद्वेषसद्भावस्तस्येति। यत्पुनरनार्यदशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति-यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति। यदिवा-अविपरीत दर्शनाः-साम्प्रतक्षिणो दीर्घदर्शनिनोन भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान याति, न पुनस्तह्वेदिबुद्धयेति । यदप्युच्यते त्वया-'यथाऽनेकशास्त्रविशारदगुडिकासिद्धविद्यासिद्धादितीर्थिकपराभवभयेननतस्तमाजेगच्छती'त्येतदपि बालप्रलपितप्रायं, यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादुकैर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः?, भगवांस्तु केवलालोकेन यत्रैवस्वपरोपकारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति । पुनरन्येन प्रकारेण गोशालक आहमू. (७५६) पनजहा वणिए उदयट्टी, आयस्स हेउं पगरेति संगे। तऊवमे समणे नायपुत्ते, इच्छेव मे होति मती वियका ।। वृ.यथावणिक्कश्चिद् 'उदयार्थी लाभार्थी'पण्यं व्यवहारयोग्यंभाण्डकपूरागरुकस्तूरिकाम्बरादिकंगृहीत्वा देशान्तरंगत्वा विक्रीणाति,तथा 'आयस्स' लाभस्य हेतो.' कारणान्महाजनसङ्गंविधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणोज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितर्कोमीमांसावेति। मू. (७५७) नवं न कुज्जा विहुणे पुराणं, चिचाऽमइंताइ य साह एवं । एतोवया बंभवतित्ति वुत्ता, तस्सो दयट्ठी समणेत्तिबेमि।। वृ.एवमुक्ते गोशालकेनाईक आह-'नवनकुञ्जा' इत्यादि, योऽयं भवता दृष्टान्त प्रदर्शितः सकिं सर्वसाधम्र्णोत देशतः ?, यदि देशतस्ततो ननः क्षतिमावहति, यतो वणिग्वत् यत्रैवो. पचयं पश्यतितत्रैव क्रियांव्यापारयतिन यथाकथञ्चिदित्योतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्येण तनयुज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवंप्रत्यग्रं कर्म न कुर्यात् तथा विधूनयति अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा त्यक्त्वा 'अमति' विमतिं पायी भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, Page #433 -------------------------------------------------------------------------- ________________ ४३० सूत्रकृताङ्ग सूत्रम् २/६/-/७५७ तायी वा मोक्षं प्रति, अयवयवमयपयचयतयणय गतावित्यस्य रूपं, स एव-भगवानेवाह-यथा विमतिपरित्या- गेन मोक्षगमनशीलो भवतीत्येतावता च संदर्भेण ब्रह्मणो-मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं,- तस्मिंश्चोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थी लाभार्थी श्रमण इति ब्रवीम्यहमिति। मू. (७५८) समारभंते वणिया भूयगाम, परिग्गहं चेव ममायमाणा। ते नातिसंजोगमविप्पहाय, आयस्स हेउं पगरंति संग।। वृ.न चैवंभूता वणिज इत्येतदाककुमार दर्शयितुमाह-ते हि वणिजश्चतुर्दशप्रकारमपि 'भूतग्राम' जन्तुसमूह 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्टमण्डलिकादिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदधनधान्यादिकं ममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्ति ते, हि वणिजो ज्ञातिभि स्वजन सह य संयोगस्तम् अविप्रहाय अपरित्यज्य आयस्य लाभस्य हेतोः निमित्तादपरेण सार्द्ध सङ्ग सम्बन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षःसर्वत्राप्रतिबद्धोधर्माऽऽयमन्वेषयन्गत्वापिधर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं च सर्वसाधर्म्यमस्तीति। . (७५९) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति। वयं तु कामेसुअज्झोववना, अनारिया पेमरसेसु गिद्धा ।। वृ. पुनरपि वणिजां दोषमुद्भावयन्नाह 'वित्तेसिणो' इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषा ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा अध्युपपन्नाः, तथा ते 'भोजनार्थम्' आहारार्थवणिजइतश्चेतश्चव्रजन्तिवदन्तिवा।तांस्तु वणिजोवयमेवंब्रूमो-यथैतेकामेष्वध्युपपन्नागृद्धाः,अनार्यकर्मकारित्वादनार्या रसेषुच-सातगौरवादिषुगृद्धा-मूर्छिताः, नत्वेवंभूता भगवन्तोऽहन्तः, कथं तेषां तैः सह साधर्म्यमिति ? दूरत एव निरस्तैषा कथेति। मू. (७६०) आरंभगं चैव परिग्गहं च, अविउस्सिया निस्सिय आयदंडा। तेसिं च से उदए जं वयासी, चउरंतनंताय दुहाय नेह ।। घृ. किंचान्यत्-'आरम्भं' सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तस्मिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके निश्चयेन श्रिता-अवबद्धा निश्रित वणिजो भवन्ति तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स.उदये लाभोयदर्थतेप्रवृत्ताःयंचत्वं लाभंवदसिसतेषां चतुरन्तः चतुर्गतिको यः संसारोऽनन्तस्तस्मैतदर्थं भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति। म. (७६१) नेगंत नश्चंतिव ओदए सो, वयंति ते दो विगुणोदयंमि। से उदए सातिमनंतपत्ते, तमुदयं साहयइ ताइ णाई ।। पृ. एतदेव दर्शयितुमाह-'नेगतिनचंति' इत्यादि एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्यविपर्ययस्यापि दर्शनात, तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात, सतेषां उदयोलाभोऽनैकान्तिकोऽनात्यनितकश्चेत्येवं तद्विदोवदन्ति।तौचद्वापिभावी विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, यश्चानर्थायेति।यश्चभगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लामोयोवा धर्मदेशनावा Page #434 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ६, ४३१ प्तिनिर्जरालक्षणः स च सादिरनन्तश्च तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथामृत्मेवोदयं साधयित कथयति श्लाघते वा । किंभूतो भगवान् ? - 'तायी' 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोण्निप्रत्येय रूपं, मोक्षं प्रति गमनशील इत्यर्थ, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा 'ज्ञाती' ज्ञाताः क्षत्रिया ज्ञातं वा जम्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति । मू. (७६२) अहिंसयं सव्वपयानुकंपी, धम्मे ठियं कम्मविवेगहेडं । तमायदंडेहिं समायरतं, अबोहीए ते पडिरूवमेयं ॥ वृ. साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाद्युपभोगं कुर्वन्नप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्त्तनादतोऽसौ भगवानहिंसकः । तथा सर्वेषां प्रजायन्त इति प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंरूपं 'धर्मे' परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वाणिगादिभिरुदाहरणैः, एतच्चाबोधे:- अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति । साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुः मू. (७६३) पिन्नागपिंडीमवि विद्ध सूले, केइ परजा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणि वहेण अम्हं ॥ वृ. यदेतद्वणिग्ध्ष्टान्तदूषेणन् बाह्यमनुष्ठानं दूषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्रायं बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठानं संसामोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धांते चैतदेव व्यावर्ण्यते, इत्येतदाककुमार भो राजपुत्र ! त्वमहितः शृणु श्रुत्वा चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः पिन्नागे "त्यादि, पिण्याकः ' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नशयता प्रावरणं खलोपरि प्रक्षिप्तं । तञ्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्डया सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डीं पुरुषबुद्धया शूले प्रोतां पावके पचेत्, तथा 'अलाबुकं' तुम्बकं कुमारकोऽ- यमिति मत्वाऽग्नावेव पपाच स चैवं चित्तस्य दुष्टत्वाव्याणिवधजनितेन पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुमा शुभबन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिधातकफलेन युज्यते । मू. (७६४) अहवावि विद्धूण मिलक्खु सूले, पिनागबुद्धीइ नरं पएज्जा । कुमारगं वावि अलायंति, न लिप्पइ पाणिवहेण अम्हं ॥ Page #435 -------------------------------------------------------------------------- ________________ ४३२ सूत्रकृताङ्ग सूत्रम् २/६/-७६४ वृ. अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुष खलबुद्धया कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽग्नावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति। मू. (७६५) पुरिसंच विभ्रूण कुमारगंवा, सूलंमि केई पए जायतेए। पिनाय पिंडिं सतिमारुहेत्ता, बुद्धाणं तं कप्पति पारणाए। वृ.किंचान्यत्-'पुरिस'मित्यादि, पुरुषं वा कुमारकंवा विद्धवाशूलेकश्चित्पचेत् 'जाततेजसि' अग्नावारुह्य खलपिण्डीयमिति मत्वा 'सती' शोभनां, तदेतद्बुद्धानामपि पारणाय' भोजनाय 'कल्पते योग्यं भवति, किमुतापरेषाम्?,एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितंपरिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति" पुनरपि शाक्य एव दानफलमधिकृत्याहमू. (७६६) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । ते पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ।। पृ.स्नातका बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः,तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषामहासत्त्वाः श्रद्धालवःपुण्यस्कन्धं महान्तं समावM तेन च पुण्य स्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । मू. (७६७) अजोगरूवं इह संजयाणं, पावंतु पाणाण पसज्झ काउं। अबोहिए दोण्हवितं असाहु, वयंतिजे यावि पडिस्सुणंति ॥ वृतदेवं बुद्धेन दानमूलः शीलमूलश्च धर्म प्रवेदितः, तद् ‘एहि' आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवंभिक्षुकैरभिहितः सन्नाकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह'अजोगरूव'मित्यादि, 'इह' अस्मिन् भवदीये शाक्यमते 'संयतानां भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यगज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धि फलवती भवति, तद्विपर्यस्तमतेस्तवज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्याभावशुद्धिः?, अतोऽत्यंतमसाम्प्रतमेतबुद्धमतानुसारिणांयत्खलबुद्धयापुरुषस्य शूलपोतनपचनादिकं, तथा बुद्धस्य पिन्नाकबुद्धया पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्इन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्चतेषांपापाभावव्यावर्णनम् 'अबोध्यै अबोधिलामार्थतयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् ।कयोद्धयोरित्याह-ये वदन्तिपिण्याकबुद्धयापुरुषपाकेऽपि पातकाभावं, येच तेभ्यः शृण्वन्ति, एतयोद्धयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्धया शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकंचानुष्ठानमनर्थकमापद्यते, तस्मानैवंविधया मावशुद्धया शुद्धिरुपजायत इति स्थितम् । Page #436 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-६, ४३३ मू. (७६८) उई अहेयं तिरियं दिसासु, विनाय लिंगि तसथावराणं। भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी। वृ. परपक्षं दूषयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासुसस्विपिदिक्षुत्रसानां स्थावराणांचजन्तूनां यत्त्रसस्थावरत्वेन जीवलिङ्गचलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया' जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्धया सर्वमनुष्टानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीहअस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति। मू. (७६९) पुरिसेत्ति विन्नत्तिन एवमत्थि, अनारिए से पुरिसे तहा हु। को संभवो? पिनगपिडियाए, वायावि एसा बुइया असच्चा ।। वृ. अधुना पिण्याके पुरुषबुद्धया असंभवमेव दर्शयितुमाह-'पुरिसे'त्यादि, तस्यां पिण्याकपिण्डयां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेवनास्ति, तस्माद्यएवं वक्तिसोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमत्वा हतेऽपि नास्ति दोष इत्येवं वदेत, तथाहि-कः संभवः पिन्नाकपिण्डयां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सत्त्वोपघातकत्वात्, ततश्च निशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्याककाष्ठादावपि प्रवर्तमानेन जीवोपमभीरुणा साशङ्केन प्रवर्तितव्यमिति । मू. (७७०) वायाभियोगेण जमावहेज्जा, नो तारिसं वायमुदाहरिजा। अट्ठाणमेयं वयणं गुणाणं, नो दिक्खिए बूय सुरालमेयं ।। वृ. किञ्चान्यत्-वाचाऽभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न ताद्दशी भाषाभुदाहरेत्-नाभिदध्यायत एवंततोऽस्थानमेतद्वचनं गुणानां, न हि प्रव्रजितोयथावस्थितार्थामिधायी एतद् 'उदारं' सुष्टु परिस्थूरं निसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति । मू. (७७१) लद्धे अढे अहो एव तुब्भे, जीवानुभागे सुविचिंतिए व । पुव्वं समुदं अवरं च पुढे, उलोइए पाणितले ठिए चा।। घृ. साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं बिमणिषुराह'लद्धे' इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽथों-विज्ञानं यथावस्थितं तत्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवं भूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरंच स्पृष्टं, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञाना वलोकननावलोकितः पाणितलस्थ इवायं लोक इतिअहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानमिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति । मू. (७७२) जीवानुभागंसुविचिंतयंता, आहारिया अन्नविहीय सोहि । न वियागरे छन्नपओपजीवि, एसोऽनुधम्मो इह संजयाणं ।। 728 Page #437 -------------------------------------------------------------------------- ________________ ४३४ सूत्रकृताङ्ग सूत्रम् २/६/-/७७२ वृ. तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह- मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त मार्गानुसारिणो जीवानामनुभागम् अवस्थाविशेषं तदुपमर्द्देन पीडां वा सुष्ठु 'विचिन्तयन्तः' पर्यालोचयन्तोऽनविधी शुद्धिम् 'आहृतवन्तः ' स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितंन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी रून् न व्यागृणीयाद् 'एषः' अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानाद- नन्तरं भवतीत्यनुना विशिष्यते । 'इह' अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां सत्साधूनां न तु पुनरेवंविधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसाध्श्यं चोद्यते तदविज्ञान लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किंचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा- गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थिति, तथा समानेऽपि स्त्रीत्वे भार्यास्वानादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्टया योऽयं प्राण्डङ्गत्वादिति हेतुर्भवतोपन्यस्यते तद्यथा || 9 11 भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं कश्चिदाहातितार्किकः ॥ सोऽसिद्धानैकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि - निरंशत्वाद्वस्तुनस्तदेव मासं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थैकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यत्वाद्, अथ भिन्नं प्राण्यङ्ग ततः सुतरामसिद्धो व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्ण्यात्, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि किचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यत्वादनैकान्तिकत्वं तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसोदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् । मू. (७७३) सिणावगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुगाणं । असंजए लोहियपाणि से ऊ, नियच्छति गरिहमिव लोए ।। वृ. अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूद्य दूषयितुमाह- 'सिणायगाणं तु' इत्यादि, 'स्नातकानां ' बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहद्वयं भोजयेदित्युक्तं प्राक् तद्दूषयतिअसंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गर्हा' निन्दां जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गति यातीति । एवं तावत्सावद्यानुष्ठानानुमन्तृणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत् यू. (७७४) धूलं उरब्धं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ यू. आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्ऊरणकमिह - शाक्यशासने भिक्षुक संघोद्देशेन 'व्यापाद्य' घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विक वा तमुरभ्रं तन्मांसं च लवगतैलाभ्यामुपस्कृत्य पाचयित्वा सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति । Page #438 -------------------------------------------------------------------------- ________________ ४३५ श्रुतस्कन्धः - २, अध्ययनं-६, मू. (७७५) तं जमाणा पिसितं पभूतं, नो उवलिप्पामो वयं रएणं । इच्चेवमाहंसु अणजधम्मा, अनारिया बाल रसेसु गिद्धा । वृ.संस्कृत्यच यत्कुर्वन्तितद्दर्शयितुमाह-'तंभुंजमाणा इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्याइवभुआनाअपि प्रभूतं तद्रजसा-पापेन कर्मणा नवयमुपलियामह इत्येवंधाट्योपताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला इव बाला विवेकरहितत्वाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः । मू. (७७६) जे याविभुंजति तहप्पगारं, सेवंति ते पावमजाणमाणा। मणं न एयं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ।। वृ. इत्येतच्चतेषांमहतेऽनयतिदर्शयतियेचापिरसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति तेऽनार्या 'पापं' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम् -- हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य - यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्राहकप्रमवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्कते नरकाय राक्षससमो मांसं तदात्मद्रुहः? || ॥२॥ (अपि च) मांस भक्षयिताऽमुत्र, यस्य मांसमिहद्वयहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः॥ ।।३।। (तथा) योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते।। तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा यथा न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्तामिथ्या, तुशब्दान्मनोऽपितदनुमत्यादौन विधेयमति, तनिवृत्ती चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम् - श्रुत्वा दुःखपम्परामतिधृणां मांसाशिनांदुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मत्येषूद्भटभोगधर्ममतिषु स्वर्गापगर्गेषु च । (इत्यादि) मू. (७७७) सच्चेसि जीवाण दयट्ठाए, सावज्जदोसं परिवज्जयंता! तस्संकिणो इसिणो नायपुत्ता, उदिट्टमत्तं परिवज्जयंति ।। धृ. न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षणां परिहर्तव्यमिति दर्शयितुमाह'सव्वेसि' मित्यादि, सर्वेषां जीवानांप्राणार्थिनां, न केवलंपञ्चेन्द्रियाणामेवेतिसर्वग्रहणं, 'दयार्थतया' दयानिमित्तंसावद्यमारम्भमहानयंदोषं इत्येवं मत्वातंपरिवर्जयन्तः साधवस्तछंकिनो-दोषशविनः 'ऋषयो' महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्टं दानाय परिकल्पितं Page #439 -------------------------------------------------------------------------- ________________ ४३६ सूत्रकृताङ्ग सूत्रम् २/६/-७७७ यद्भक्तपानादिकं तत्परिवर्जयन्ति । मू. (७७८) भूयाभिसंकाए दुगुंछमाणा, सब्वेसि पाणाण निहाय दंड। तम्हा न भुंजंति तहप्पगारं, एसोऽनुधम्मो इह संजयाणं ।। वृ. किञ्च-'भूतानां' जीवानां उपमईशङ्कया सावधमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनांदण्डयतीति दण्डः-समुपतापस्तं निधाय' परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्म 'इह' अस्मिन् प्रवचने 'संयतानां' यतीनां, तीर्थकराचरणादनु-पश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽनुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति । मू. (७७९) निग्गंथधम्ममि इमं समाहि, अस्सिं सुठिच्चा अनिहे चरेजा। बुद्धे मुनी सीलगुणोववेए, अञ्चत्थतं पाउणती सिलोगं ।। वृ. किंचान्यत्-'निग्गंथधम्म'मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासी धर्मश्च निर्ग्रन्थधर्म स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवभूतेधर्मेव्यवस्थितः इमंपूर्वोक्तं समाधिमनुप्ताप्तःअस्मिंश्चाशुद्धाहारपरिहाररूपे समाधौ सुष्टु अतिशयेन स्थित्वा अनिहः अमायोऽथवानिहन्यत इति निहो न निहोऽनिहःपरीषहैरपीडितो यदिवा स्निहबंधने अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत, तथा बद्धोऽवगततत्वो मुनिकालत्रयवेदी शीलेन क्रोधाधुपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो युक्त इत्येवं गुणकलितोऽत्यर्थतां सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषामिकां श्लाघां प्रशंसां लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम - ॥१॥ "राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः। संसारान्तरवलंपीहलभते शं मुक्तवन्निर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराधायात्सुरेन्द्रार्चितः ।। (इत्यादि) तदेवमार्द्रककुमारंनिराकृतगोशालकाजीवकबौद्धमतमभिसमीक्ष्यसाम्प्रतंद्विजातयःप्रोचुः, तद्यथा-मो आर्द्रककुमार ! शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्यार्हतं वेदबाह्यमेवातस्तदपिनाश्रयणाहं भवद्विधानं, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणा च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मण सेवैव युक्तिमतीत्येवप्रतिपादनायाहमू. (७८०) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए माहणाणं। तु पुनखंधे सुमहऽजणित्ता, भवंति देवा इति वेयवाओ! वृ.तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणःस्नातकास्तेषां सहस्रद्वयंनित्यं ये भोजयेयुःकामिकाहारेणते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति । मू. (७८१) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए कुलालयाणं। - से गच्छति लोलुवसंपगाढे, तिव्वामितावी नरगाभिसेवी।। वृ. अधुनाऽऽककुमार एतद्दूषयितुमाह-'सिणायगाणं तु' इत्यादि, स्नातकानां Page #440 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं ६, · ४३७ सहस्रद्वयमपि नित्यं ये भोजन्ति, किंभूतानां कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटा:- मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणा पतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् ? - लोलपैः " आमिषगृद्धै रससातागौरवाद्युपपन्नैः जिनेन्द्रियवशगैः संप्रगाढोव्याप्तो, यदिवा किंभूते नरके याति ? -लोलुपैः- आमिषगृघ्नुभिरसुमद्भिर्व्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तद्दर्शयति तीव्रः - असह्योयोऽभितापः क्रकचपाटकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासी स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति । भू. (७८२) दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा । एगंपि जे भोययती असीलं, निवो निसं जाति कुओ सुरेहिं ।। वृ. अपिच दया-प्राणिषु कृपा तया वरः प्रधानो यो धर्मस्तमेवंभूतं धर्मं 'जुगुप्समानो' निन्दन् तथा वधं - प्राण्युपमर्द्दमावहतीति वधावहस्तं तथाभूतं धर्मं 'प्रशंसन्' स्तुवन् एकमप्यशीलं - निरशीलं निर्व्रतं षडजीवकायोपमर्द्देन यो भोजयेत् किं पुनः प्रभूतान् ? नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराकोकायोपमर्द्देन यो भोजयेत्, किं पुनः प्रभूतान् नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराको निवेश नित्यान्धकारत्वान्निशा - नरकभूमिस्तां याति कुतस्तस्यासुरेष्वपि - अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमतां विचित्रजातिगमनाज्जातेरशाश्वतत्वमतो न जातिमदो विधेय इति । यदपि कैश्चिदुच्यते यथा 'ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्यां शूद्राः' इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायं, तदभ्युपगमे च न विशेषो वर्णानां स्याद्, एकस्माठासूतेर्बुघ्न शाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणो वा मुखादेरवयवानां चातुर्वण्यार्वाप्ति स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं जायते ?, अथ युगादावेदित एवं च सति दृष्टहानिरध्ष्टकल्पना स्यादिति । तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्त्तमानकाल- बद्, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थैकदेशासिद्धता नाशङ्कनीयेति । जातेश्चानित्यत्वं युष्मत्सिद्धान्त एवाभिहितं तद्यथा ॥१॥ 119 11 119 11 - - शृगालो वै एष जायते यः सपुरीषो दह्यत इत्यादिना, तथा'सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहेन शृद्रीभवति, ब्राह्मणः क्षीरविक्रयी ॥ -इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम् - "कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम् ॥ -इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा - 'षट् शतानिनियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ Page #441 -------------------------------------------------------------------------- ________________ ४३८ सूत्रकृता सूत्रम् २/६/-/७८१ इत्यादि, वेदोक्तत्वान्नायंदोषइतिचेत्नन्विदमभिहितमेव! 'नहिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा॥१॥ "आततायिनमायान्तमपि वेदान्तगरणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ तथा 'शूद्रं हत्वा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनांशकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसिन रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति। तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्टवा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा । भोआर्द्रककुमार! शोभनंकृतंभवतायदेतेसर्वारम्भप्रवृत्तागृहस्थाःशब्दादिविषयपरायणाः पिशिताशनेने राक्षसकल्पा द्विजायतो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणुश्रुत्वाचावधारय, तद्यथा-सत्त्वरजस्तमसांसाम्यवस्था प्रकृतिः,प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्चषोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वा-हतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञाना-देव मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयानापर इति। मू. (७८३) दुहओवि धम्ममि समुट्ठियामो, असं सुडिया तह एसकालं। आयारसीले बुइएइ नाणी, न संपरायमि विसेसमयि ।। घृ. तथा न युष्पत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि-युष्माकमपि जीवास्तित्वे सति पुण्यापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्ति नापि बौद्धानामिव सर्वाधारभूतस्यान्तरात्मनएवाभावः,तथाऽस्माकमपिपञ्च यमाः अहिंसादयो भवतां चत एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुठु स्थिताः पूर्वस्मिन काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो। न पुरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञान केवलाख्य च यथास्वभावयोर्दर्शने प्रसिद्धं, तथा संपर्यन्ते-स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः-संसारस्तस्मिंश्चावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपियुष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनायाहु:मू. (७८४) अव्वत्तरूवं पुरिसं महतं, सनातनं अक्खयमव्वयंच। - सव्वेसु भूतेसुवि सब्बतो से, चंदो व ताराहिं समत्तरुवे ।। वृ.पुरिशयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतन्तस्तथा वयमपि,तमेव विशिनष्टिअमूर्त्तत्वादव्यक्तं रूपं-स्वरूपमस्यासावव्यक्तरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा 'महान्तं' लोकव्यापिनं तथा 'सनातन' शाश्वतं द्रव्यार्थतया नित्यं, नानाविधगतिसंभवेऽपिचैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः,तथा अक्षयं केनचित्रप्रदेशानांखण्डशः कर्तुमशक्यत्वात्, तथा अव्ययम्' अनन्तेनापि कालेनैकस्यापित प्रदेशस्य व्ययाभावात्, तथा Page #442 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-६, ४३९ सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति । क इव?-'चन्द्र इव' शशीव ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा समस्तरूपः संपूर्ण सम्बन्धमुपयातिएवमसावपि आत्मा प्रत्येकंशरीरैः सह संपूर्णसम्बन्धमपयाति । तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेनसामवादपूर्वकं स्वदर्शनारोपणार्थमार्द्रककुमारोऽभिहितो, यत्रैतानिसंपूर्णानिनिरुपचरितानिपूर्वोक्तानि विशेषणानिधर्मसंसारयोर्विद्यन्तेस एवपक्षः सश्रुतिकेनसमाश्रयितव्यो भवति । एतानिचास्मदीय एव दर्शनेयथोक्तानि सन्ति, नाऽऽर्हते, अतो भवताऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति। म. (७८५) एवं न मिजंति न संसरंती, न माहणा खत्तिय वेस पेसा । कीडाय पक्खी य सरीसिवाय, नराय सव्वे तह देवलोगा। १. तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव' मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेनव्याख्यातव्यः, तथाहि-ते एकमेवाव्यक्तं पुरुषम-आत्मानमहान्तमाकाशमिवसर्वव्यापिनंसनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषुचेतनाचेतनेषु सर्वतः-सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वेष्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-एवं'मित्यादि, -'एव'मिति यथा भवतांदर्शनेएकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यतेइत्येवंपदार्था सर्वेऽपि नित्याः, तथाच सतिकुतो बन्धमोक्षसद्भावः?, बन्धाभावाचन नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाञ्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति। एवंचयदुच्यतेभवता-यथा आवयोस्तुल्योधर्म इति, तदयुक्तमुक्तं,तथासंसारान्तर्गतानां चपदार्थानांनसाम्यं, तथाहि-भवतां द्रव्यैकत्ववादिनां सर्वस्यप्रधानादभिन्नत्वात्कारणमेवास्ति, कार्यंच कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकंचद्रव्यपर्यायोभयवादिनां कारणे कार्य द्रव्यात्मतयां विद्यतेन पर्यायात्मकतया, अपिच-अस्माकमुत्पादव्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतांतुध्रौव्ययुक्ततमेव सदिति, यावप्याविर्भावतिरोभावौ भवतोच्येतेतावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यं । किंच-सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङनरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्-न परिच्छिघेरन् । __नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणान क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेननभिघेरन्, अतोन सर्वव्यापीआत्मा, नाप्यात्माद्वैतवादोज्यायान्, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वकपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोप लब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादिति । एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाहमू. (७८६) लोयं अयाणित्तिह केवलेणं, कहति जे धम्ममजाणमाणा। नासंति अप्पाण परं च नहा, संसार घोरंमि अनोरपारे ।। वृ. लोकं चतुर्दशरज्वात्मकंचराचरंवा लोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन 'इह' Page #443 -------------------------------------------------------------------------- ________________ ४४० सूत्रकृताङ्ग सूत्रम् २/६/-/७८६ अस्मिन्जगतियेतीर्थिका 'अजानाना अविद्वांसो'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति' प्रतिपादयन्ति तेस्वतोनष्टाअपरानपि नाशयन्ति, क्व ? 'घोरे' भयानकेसंसारसागरे अनोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् । मू. (७८७) लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्मसमतं च कहति जे उ, तारंति अप्पाण परं च तिन्ना।। वृ. साम्प्रतं सम्यगज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह-'लोय'मित्यादि, 'लोक' चतुर्दशरञ्वात्मकं केवलालोकेन केवलिनो विविधम्-अनेकप्रकारंजानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तुपरहितैषिणः कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरंतीर्णा, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुननिनत्युक्तं, तद् बौद्धमतोच्छेदेनज्ञानाधार आत्माअस्तीतिप्रतिपादनार्थमिति, एतदुक्तं भवति-यथादेशिकःसम्यगमार्गज्ञआत्मानंपरंचतदुपदेशवर्तिनमहाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारानिस्तारयन्तीति। -पुनरप्याककुमार एवमाहमू. (७८८) जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तंतु समं मईए, अहाउसो विपरियासमेव ।। वृ.असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेता:समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं' पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेवन्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽस्मिन् ‘चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानशोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः-अग्दिर्शिभिः 'सम' सशं तुल्यमुदाहृतं-उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनंतच्छोभनत्वेतरवितरथेति,यदिवा विपर्यास इति मदनोन्मत्तप्रलापवदित्युक्तं भवतीति। मू. (७८९) संवच्छरेणाविय एगमेगं, बाणेण मारेउ महागयतु । सेसाण जीवाण दयट्ठायाए, वासं वयं वित्ति पकप्पयामो । पृतदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदंच प्रोचुरित्याह-संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापस्तास्तेषां मध्ये कश्चिदृद्धतम् एतदुवाच्, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं, तत्रयेअमीतापसाः कन्दमूलफलाशिनस्तेबहूनांसत्त्वानांस्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपधाते वर्तन्ते, येऽपि च भक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपाधाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दातू षण्मासेन चैकैकं हस्तिनं महाकायंबाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनो 'वृत्तिं' वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति । ___ -साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दूषयितुमाह Page #444 -------------------------------------------------------------------------- ________________ ४४१ श्रुतस्कन्धः - २, अध्ययन-६, मू. (७९०) संवच्छरेणावि य एगमेगं, पाणं हणंता अनियत्तदोसा। सेसाण जीवाण वहेण लग्गा, सिया य धोवं गिहिणोऽवितम्हा।। वृ.संवत्सरेणैकैकंप्राणिनंनतोऽपिप्राणातिपातादनिवृत्तदोषास्तेभवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनांतुसूर्यरश्मिप्रकाशितवीथिषु युगमात्रष्टया गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतांलामालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक'मिति स्वल्पं यस्मात् घ्नन्ति ततस्तेऽपि दोषरहिता इति । मू. (७९१) संवच्छरेणाविय एगमेगं, पाणं हणंता समणव्ववासु । आयाहिए से पुरिसे अणजे, न तारिसे केवलिणो भवंति ॥ वृ. साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारंदूषयितुमाह-'संवच्छरेणे त्यादि, श्रमणानां-यतीनांव्रतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकंसंवत्सरेणापि ये मन्ति येचोपदिशन्ति तेऽनार्या, असत्कर्मानुष्ठायित्वात्, तथाआत्मानं परेषांचाहितास्तेपुरुषाः,बहुवचनमार्षत्वात्, न ताशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरणापि घाते तेऽन्ये पिश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसानिराकृत्य भगवदन्तिकं गच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्। __यथाऽयमाककुमारोऽपाकृताशेषतीथिको निष्प्रत्यूहंसर्वज्ञपादपद्मान्तिकंवन्दनायव्रजति तथाऽहमपियद्यपगताशेषबन्धनः स्यांतत एनंमहापुरुषमार्द्रककुमारंप्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमयाभक्त्यैतदन्तिकंगत्वा वन्दामीत्येवंयावदसी हस्ती कृतसंकल्पस्तावत्रटनटदिति त्रुटितसमस्तवन्धनः सन्नाककुमाराभिमुखंप्रदत्तकर्णतालस्तथोर्ध्वप्रसारितदीर्धकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यता धिक् कष्टंहतोऽयमाककुमार महर्षिर्महापुरुषः,तदेवंप्रलपन्तोलोका इतश्चेतश्चप्रपलायमानाःअसावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । __तदेवमाककुमारतपोऽनुभावाब्दन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षिं तत्त्पःप्रभावं चामिनन्द्याभिवन्ध च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताग्विधाच्छाच्छेद्याच्छृङ्खलाबन्धनायुष्मत्तपःप्रभावान्मुक्तइत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज ! नैतद्दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि त्वेतहुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङनियुक्तिगाथया प्रदर्शितं । सा चेयं-- ॥१॥ “न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णभि राय। जहा उ चत्तालिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ।। Page #445 -------------------------------------------------------------------------- ________________ ४४२ सूत्रकृताङ्ग सूत्रम् २/६/-/७९१ एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि पञ्चापि शतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति मू. ( ७९२) बुद्धस्स आणाए इमं समाहिं, अस्सि सुठिया तिविहेण ताई । तरिजं समुद्दे व महाभवोघं, आयाणवं धम्ममुदाहरेजा ॥ - तिबेमि । वृ. साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह- 'बुद्धस्से' त्यादि, 'बुद्धः' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया तदागमेन इमं 'समाधि' सद्धर्मावाप्तिलक्षणं अवाप्यास्मिंश्च समाधौ सुष्ठु स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्याद्दष्टिमनुमन्यते, केवलं तदावणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आत्मनः परेषां च त्रायी त्राणशीलस्तायी वा गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलक्ष्य समुद्रमिव दुस्तरं महाभवौधं मोक्षार्थमादीयत इत्यादानं - सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, सच सम्यग्दर्शनेन सता परतीर्थिकतपः समृध्यादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमा विर्भावयतीति, सम्यकचारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन्तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद् व्यागृणीयात् आविर्भावयेदित्यर्थ । इति परिसमाप्तयर्थे ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र - अध्ययनं -६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीयश्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता । अध्ययनं ७ नालन्दीयं वृ. व्याख्यातं षष्ठमध्ययनम् अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः - इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन स्वसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति । अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदं चैवं व्युत्पाद्यते -प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीनेन नालं ददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यताऽभिलषितं ददातीति नालन्दा - राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावचिज्ज्ञे' इत्यादिगाथया निवेदयिष्यतीति । " साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदी परित्यज्य कर्तुमाहनि. [२०१] नामअलं ठवणअलं दव्वअलं चेव होइ भावअलं । एसो अलसद्दमिउ निक्खेवो चउविहो होइ ॥ Page #446 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं -७, ४४३ घृ. तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य प्रयोगाभावः, माकारस्त्वनागतक्रिया निषेधं विधत्ते, तद्यथामाकार्षीस्त्वमकार्यमा मंस्थाः संस्था नो युष्मदधिष्ठितदिगेववीतायेत्यादि, नोकारस्तुदेशनिषेधे सर्वनिषेधेच वर्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं नकर्म न गुणोऽभावः, तथा नाकार्षन करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं । ॥१॥ न याति न च तत्रासीदस्ति पश्चान्नवांशवत्। जहाति पूर्व नाधारमहो व्यसनसंततिः।। किंचान्यत्-“गतंनगम्यते तावदगतं नैव गम्यते।गतागतविनिर्मुक्तं, गम्यामानंतुगम्यते" इत्यादि । तदेवमत्र नकाराः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिष्वर्थेषुपठ्यते, तथाऽपीह प्रतिषेधवाचकेन ननासाहचर्याप्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामानं यस्य चेतनस्य अचेतनस्य वाऽलमितिनाम क्रियते, स्थापनालंतुयत्र क्वचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरमव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थं दर्शयन्बिभणिषुराहनि. [२०२] पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे। ततितो उ पडिसेहे उलसद्दी होइ नायव्यो।। वृ.पर्याप्तिभावः-सामर्थ्यतत्रालंशब्दोवर्तते, अलंमल्लोमल्लाय, समर्थइत्यर्थः, लोकोत्तरेऽपि "नालं ते तवा ताणाए वा सरणाए वा" ॥ अन्यैरप्युक्तम् । ॥१॥ "द्रव्यास्तिकरथारूढः पर्याद्यतकार्मुकः। ___ युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ अयंप्रथमोऽलंब्दार्थोभवति, खलुशब्दोवाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे-अलङ्कारेविषये भवते, संभावनायां लिङ, तद्यथा-अलंकृतं देव! देवेन स्वकुलंजगच्च नाभिसूनुने' त्यादि । तृतीय स्त्वलंशब्दार्थ प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलंमेगृहवासेन, तथा 'अलंपापेनकर्मणा उक्तंच॥१॥ "अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतः । अलंच मे कामगुणैर्निषेवितैर्भयंकरा ये हि परत्र चेह च ॥ -तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाहनि. [२०३] पडिसेहनगारस्सा इस्थिसद्देण चेव अलसद्दो। रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ वृ सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थ-नालं ददातीति नालन्दा, बाहिरिकायाः स्त्रियोद्देशकत्वेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिंगता, साचसदैहिका-मुष्मिकसुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेन सत्साध्वाश्रयत्वेन च सर्वकामप्रदेति । Page #447 -------------------------------------------------------------------------- ________________ ४४४ सूत्रकृताङ्ग सूत्रम् २/७/-1७९२/ नि. [२०४] नि. [२०४] नालंदाए समिवेमनोरहे भासि इंदभूइणा उ । अज्झयणं उदगस्स उ एयं नालंदइज्जंतु॥ वृ.साम्प्रतंप्रत्ययार्थदर्शीयतुकामआह-नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैवभाषितमिदमध्ययनं । नान्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र “पासावच्चिों" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं, सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं मू. (७९३) तेणं कालेणं तेणं समएणं रायगिहे नामं नरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्या, अनेगभवणसयसन्निविट्ठा जाव पडिरूवा। वृ.अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम्आदानवान्धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्रपूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसम्वन्धस्त्वयं-'बुध्येते'त्येतदादि सूत्रं, किंतत्र बुध्येत?, यदेतद्वक्ष्यतइति । सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्त विशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः संजातायस्मिंस्तपादितमाभोगमद्वा, अतएवदर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं तथाऽप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा-प्रतिबिम्ब वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ'त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिमति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्त। मू. (७९४) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्तेविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए याविहोत्था॥ से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए निम्वितिगिच्छे लढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अटिभिजापेमाणुरागरते। अयमाउसो ! निग्गथे पावयणे अयं अटे अयं परमट्टे सेसे अणटे, उस्सियफलिहे अप्पावयदुवारे वियत्तंतेउरप्पवैसे चाउद्दसट्टमुद्दिद्दपुण्णमासिणीसुपडिपुत्रं पोसहं सम्मअनुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहुहिं सीलव्वयगुणविरमणपञ्चखाणपोसहोववासेहिं अप्पाणं भावमाणे एवं च णं विहरइ। वृ. तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः। तस्यांचलेपोनाम 'गृहपति' कुटुम्बिक आसीत्, स चाढ्यो दीप्तः-तेजस्वी 'वित्तः' सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः-अर्थोपायायानपात्रोष्ट्रमंडलिकादयः तथा Page #448 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ७, ४४५ प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगः संप्रयुक्तः समन्वितः तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविभविन भावसंपदभिधीयते णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपति श्रमणान् साधूनुपास्ते- प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावक श्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः - अनतिलङ्घनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यगज्ञानित्वमावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह'निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आर्हते प्रवचने निर्गता शङ्खा देशसर्वरूपा यस्य स निशङ्कः, 'तदेव सत्यं निशङ्कं यजिनैः प्रवेदित' मित्येवं कृताध्यवसायः, तथा निर्गता काङ्क्षा अन्यान्यदर्शनग्रहणरूपा यस्यासी निराकाङ्क्ष, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुपसा वा यस्यासौ निर्विचिकित्सो, यत एवमतो लब्धः - उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः । तथा गृहीतः स्वीकृतोऽर्थो - मोक्षमार्गरूपो येन स गृहीतार्थः, तथा - विशेषतः पृष्टोऽर्थो येन स पृष्टार्थी, यतएवमतो विनिश्चितार्थः ततोऽभिगतः पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिञ्जा- अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्त्ववासितान्तश्चेता इतियावत्, एतदेवाविर्भावयन्नाह अयमाउसो' इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्र प्रवचनमर्थः सद्भूतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः कषतापच्छेदैरस्यैव शुद्धत्वेन निर्घटितत्वात् शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह- 'उस्सिय' इत्यादि, उच्छृतंप्रख्यातं स्फटिकवत्रिर्मलं यशो यस्यासावुच्छ्रितस्पटिकः, प्रख्यातनिर्मलयशा इत्यर्थः । तथाऽप्रावृतम् - अस्थगितं द्वारं-गृहमुखं यस्य सोऽप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं - सम्यक्त्वाख्यावयितुं शक्यत इतियावत्, तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्णुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यात श्रावकाख्यघगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासुमहाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः एवंभूतेषु पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह- 'समणे निग्गंथे' इत्यादि, सुगमं यावत् 'पडिला भेमाणे' त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह 'बहूहि' मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपः कर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठत चः समुच्चये णमिति वाक्यालङ्कारे मू. (७९५) तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, अनेगखंभसयसन्निविडा पासादीया जाव पडिरूवा, Page #449 -------------------------------------------------------------------------- ________________ ४४६ सूत्रकृताङ्ग सूत्रम् २/७/-१७९५ तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्य णं हत्यिजामे नामं वनसंडे होत्था, किण्हे वन्नओ वनसंडस्स। घृ. तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चउत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत, कृष्णावभास इत्यादिवर्णकः।। मू. (७९६) तस्सिं चणं गिहपदेसंमि भगवं गोयमे विहरइ, भगवंचणंअहे आरामंसि। अहे णं उदए पेढालपुत्ते भगवं पासावच्चिजे नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयमंएवं वयासी आउसंतो! गोयमा अस्थि खलु मे कोइ पदेसे पुच्छियव्वे, तं च आउसो ! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइआउसो सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयम एवं वयासी वृ.तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्रीवर्धमानस्वाभिगणधरोविहरति अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः 'अथ' अनन्तरंणमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः पाश्र्वापत्यस्य' पार्श्वस्वामिशिष्यस्यापत्यं-शिष्यः पाश्वपित्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्या दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्यं च गाथया दर्शयितुमाहनि. [२०५] पासावचिज्जो पुच्छियाइओ अजगोयमं उदगो। सावगपुच्छा धम्मं सोउं कहियंमि उरसंता ।। वृ. पार्श्वनाथशिष्ट उदकाभिधान आर्यगौतमं पृष्टवान्, किं तत् ? -श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते! साधोः श्रावकाणुव्रतदाने सतिस्थूलप्राणातिपातादिविषयते तदन्येषां सूक्ष्मबादराणांप्राणिनामुपघाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मात्र भवति?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयतइवतव्रतभङ्गजनितःकर्मबन्धःकस्मान भवतीत्येतप्रश्नस्योत्तरंगृहपतिचौरग्रहणविमो-क्षणोपमया दत्तवान्, तच्च श्रावकप्रश्नस्यौम्यं गौतमस्वामिना कथितं श्रुत्वोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्त्रियते __'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा-आयुष्मगौतम 'अस्ति मम विद्यते कश्चिादेशःप्रष्टव्यः' तत्र संदेहात, तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि' प्रतिपादय । एवं पृष्टः स चायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सदाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत्, तद्यथा-अपिचायुष्मन्नुदक ! श्रुत्वा भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्॥ ...मू. (७९७) आउसो ! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं Page #450 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-७, ४४७ पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्न एवं पञ्चक्खाति-नन्नत्य अभिओएणं गाहावइचोरग्रहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, एवं ण्हं पञ्चक्खंताणंदुप्पचक्खायं भवइ, एवंण्हं पच्चक्खावेमाणाणंदुपचक्खावियव्वंभवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हेउं ?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुघमाणा तसकायंसि उववझंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति ष तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं। वृ. तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बह्वर्थवृत्तिर्गृहीतः, ततश्चायमर्थ-'सन्ति' विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथागृहपतिश्रमणोपासकमुपसंपन्नं-नियमायोस्थितमेवं प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथास्थूलेषुप्राणिषुदण्डयतीतिदण्ड:-प्राण्युपमर्दस्तं निहाय' परित्यज्य,प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति-नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाधभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति। तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशशावानाह'गाहावई'इत्यादि। __अस्यचार्युमुत्तरत्राविर्भावयिष्यामः । येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह-एवं ण्ह'मित्यादि, एहमिति वाक्यालङ्गारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेनप्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभासद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनांदुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं तेश्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परंप्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति-अतिलमयन्ति ___ 'कस्स णं हेउंति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह'संसारिया' इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणाः' जन्तवः स्थावराः 'प्राणिनः' पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतयाःत्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पद्यन्ते, तथा वसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादी व्यवस्थितं नागरिकं व्यापादयेत् किमेतावता तस्य न भवेप्रतिज्ञाविलोपः। एवमत्रापियेनत्रसवधनिवृत्तिः कृतासयदातमेवत्रसंप्राणिनस्थावरकायस्थितंव्यापादयेत् किंतस्य न भवेप्रतिज्ञाविलोपः?, भवत्येवेत्यर्थः। एवमपित्रसस्थावरकायेसमुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्यात् ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहतु, नच तदस्तीत्येतद्दर्शयितुमाह-'थावरकायाओ' इत्यादि, स्थावरकायात्सकाशाद्विविधम्-अनेकैः प्रकारैः प्रकर्षेणमुच्यमानाः स्थावरकायायुषातयोग्येश्चापरैः कर्मभिःसर्वात्मनात्रसकायेसमुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावाप्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेसिं च णमित्यादि, 'तेषां च' त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं धात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति। Page #451 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रम् २/७/-/७९८ मू. (७९८) एवं हं पञ्चक्खंताणं सुपचक्खायं भवइ, एवं हं पञ्चखावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पद्यक्खावेमाणा नातियरंति सयं पइण्णं, नन्नत्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंड, एवमेव सइ भासाए परक्कमे विज्रमाणे जे ते कोहा वा लोहा व परं पञ्चक्खावेति अयंपि नो उवएसे नो नेआउए भवइ, अवियआई आउसो ! गोयमा ! तुब्भंपि एवं रोयइ ? । वृ. तदेवं व्यवस्थिते नागरिकध्ष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह- 'नन्नत्थे 'त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा ૪૪૮ 'त्रसभूतेषु' वर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः - प्राण्युपभर्दस्तं 'विहाय' परित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपि न प्रतिज्ञाविलोपः तथा 'नान्यत्राभियोगेने 'ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तं, एतदपिनसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति ‘भाषायाः ' प्रत्याख्यानवाचः 'पराक्रमे' भूतविशेषणाद्दोषपरिहारसा मर्थ्ये एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभाद्वा परं श्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको न्यायोपपन्नो भवति ?, इदमुक्तं भवति भूतत्वविशेषणेन हित्रसान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम् ! तुभ्यमपि रोचतेएवमेतद्यथा मया व्याख्यातम् । मू. (७९९) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी- आउसंतो ! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खति जाव परुवेति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अनुतावियं खलु ते भासं भासंति, अब्भाइक्खति खलु ते समणे समणोवासएवा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अब्माइक्खंति, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति थावरावि पाणा तसत्ताए पञ्चायंति तसकायाओविप्पमुच्चमाणा धावरकायंसि उववज्रंति थावरकायाओविष्पमुच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि थावरकायंसि उव्वजंति थावरकायाओ विप्पमुञ्चमाणा तसकायंसि उववज्रंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं । यू. एवमभिहितो गौतमः सद्वाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत्, तद्यथा-नो खल्वायुष्मन्नुदकास्मभ्येतदेवं यद्यथा त्वयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरती भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं, स्वतः कुर्वन्तः कारयन्तश्चैवमिति - सविशेषणं प्रत्याख्यानं भाषन्ते, Page #452 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-७, ४४९ तथैवमेव सविशेषणप्रत्याख्यानप्ररुपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु तेश्रमणा वा निर्ग्रन्था वा यथार्थो भाषांभाषन्ते, अपित्यनुतापयतीत्यनुतापिका तां, तथाभूतांच खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतोऽ. नुतापिकेत्युच्यत इति। पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्बणदोषोद्विभावयिषयाऽऽह-'अब्माइक्खंती'त्यादि, तेहि सविशेषणप्रत्याख्यानवादिनोयथावस्थितंप्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भावनतोऽभ्याख्यानंददति । किंचान्यत्-'जेहिंवि' इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयमं कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह-'कस्स ण मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति ? । यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजोयतस्ततसाःप्राणिनः स्थावरत्वेन प्रत्यायान्ति स्थावराश्च त्रसत्वेनेति । त्रसकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिनाकर्मणा विमुध्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमवात्यम्-अघाताहँ भवति, यस्मात्तेन श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकवाल्लोकगर्हितत्वाच्चेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तन्निवृत्त्याच त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवदभिप्रायेण विशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्ती कृतायामपरपर्यायापन्नं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्व्रतपालनं स्यादित्येवमभ्याख्यातम्-असद्भूतदोषोद्भावनं भवन्तोददति। यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायंभूतशब्द उपादीयतेअसावपिव्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा-देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां-त्रससशानामेव प्राणातिपातनिवृत्तिः कृता स्यात्, न तु सानामिति, अथतादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थ, एवं त्रसभूतास्त्रसत्वं प्राप्ताः, तथाच सतित्रसशब्देनैव गतार्थत्वात्पीनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात्, तथाहि-क्षीरभूतविकृतेः प्रत्याख्यानं करोम्येवं धृतभूतं मे ददस्वैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति । तदेवं निरस्ते भूतशब्देसत्युदक आह मू. (८००) सवार्य उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा! तुब्मेवयह तसा पाणा तसा आउ अन्नहा?, सवार्य भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुब्भे वयह तसभूता पाणा तसाते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुला एगट्ठा, किमाउसो! इमे भे सुप्पनीयतराए भवइ तसभूया पाणा तसा, इमे भे दुष्पनीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिकोसह एवं अभिनंदह, अयंपि भेदो से नो नेआउए भवइ । 229 Page #453 -------------------------------------------------------------------------- ________________ ४५० सूत्रकृता सूत्रम् २/७/-1८०० गवच णं उदाहु-संतेगइआ मणुस्सा भवंति, तेसिंचणं एवं वृत्तपुव्वं भवइ-नो खलु वयं संचाएमोमुंडाभवित्ता अगाराओअनगारियंपब्वइत्तए, सावयंण्हं अनुपुव्वेणंगुत्तस्सलिसिस्सामो, ते एवं संखवेति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्य अभिओएणं गाहावइचोरगहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ । वृ.सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत, तद्यथा-हे आयुष्मन् गौतम्! कतरान्प्राणिनो यूयंवदध, तसा एव ये प्राणाः-प्राणिनस्तएव त्रसाःप्राणा इत्युतान्यथेति, एवं पृष्टोभगवान् गौतमस्तमुदकंसद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथा-आयुष्मन्नुदक!यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसत्वेनाविभूताः प्राणिनो नातीता नाप्येष्याः, किंतु? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसत्वं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषुराह-'जेवय'मित्यादि, यान्वयंवदामस्त्रसाएव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठु प्रणीततरो-युक्तियुक्तः प्रतिभासते? | तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो भवति' प्रतिभासते भवतां ?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकंपक्षमाक्रोशयथ द्वितीयं त्वभिनन्दथ इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां नो नैयायिको'नन्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानत्वात्, केवलंसविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति। यच्च भवताऽस्माकंाग्दोषोद्भावनमकारि, तद्यथा-त्रसानांवनिवृत्तीतदन्येषांवधानुमति स्यात् साधोः, तथा भूतशब्दानुपादानेऽनन्तरमेव त्रसंस्थावरपर्यायापनं व्यापादयतो व्रतम इत्येतत्कुचोद्यजातं परिहर्तुकाम आह-णमिति वाक्यालङ्कारे, भगवान्गौतमस्वामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्ते एकेकेचनलघुकर्माणो मनुष्याः प्रव्रज्यांकर्तुमसमर्थाः, तद्वयतिरेकेणैव धर्मचिकीर्षवः, तेषां चैवमध्यवसायिनांसाधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-भोः साधो नखलुवयं शक्नुमो मुण्डा भवितुं प्रव्रज्यां ग्रहीतुमगाराद्-गृहादनगारतांसाधुभावं प्रतिपत्तुं, वयं त्वानुपूर्वेणं-क्रमशो ‘गोत्रस्येति गां त्रायत इति गोत्रं-साधुत्वं तस्य साधुभावस्य पर्यायण-परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तंभवति-पूर्वदेशविरतिरूपतया श्रावकधर्म गृहस्थयोग्यमनिन्धमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां' व्यवस्था 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन। सदामियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्वेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसंन व्रतमङ्गः तथागृहपतिचोरविमोक्षणतयेत्यस्यायमर्थ:कस्यचिद्गृहपतेः षट्पुत्राः, तैश्चसत्यपि पितृपितामहक्रमायातेमहति वित्तेतथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे त्वन्यथा व्याचक्षते, तद्यथा-रत्नपुरेनगरेरलशेखरोनामराजा, तेनचपरितुष्टेन रलमालाग्रमहिषीप्रमुखान्तः पुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगभ्य नागरलोकेनापि राजानुमत्यास्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञाच नगरेसडिण्डिपशब्दमाघोषितं, तद्यथा-अस्तमनोपरिकौमुदीमहोत्सवे Page #454 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं ७, ४५१ प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः षट्पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च नगरद्वाराणि तेषां च तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयित्वा स्थिताः, ततो निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टाः यथा सम्यक् निरुपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरुपयद्भिरुपलभ्य षट्वणिकपुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्नलोऽकाण्डापतितकुलक्षयोदभ्रान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा यथा मा कृथा देवास्माकं कुलक्षयं, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः क्रियतामयमस्माकमनुग्रह इति । 7 एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानमिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान्, तानप्यसौ राजान मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं तथापि राजा तमनाध्त्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्, तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं पार्थितवान्, तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथा देवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः स तस्माच्च भवन्त एव त्राणायलम्, अतः क्रियतामेकमपुत्रविमोचने न प्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्स्य दान्तिकयोजनेयं, तद्यथा साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थं विज्ञापितोऽपि न षडपि पुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्विसंख्यान् पुत्रानिति, तत एकविमोक्षणेनात्मानं कुतार्थमिव मन्यमानः स्थितोऽसौ एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येत्सूत्रेणैव दर्शयितुमाह 'तसेहि'मित्यादि, त्रस्यन्तीति त्रसाः- द्वीन्द्रियादयस्तेभ्यः सकाशाशिधाय निहाय वा परित्यज्येतियावत् कं ? - दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च ' त्रसप्राणातिपातविरमणव्रतं 'तेषां' दशविरतनां कुशल हेतुत्वात्कुशलमेव भवति ।। यच्च प्रागभिहितं तद्यथा तमेवत्रसंस्थावरपर्यायापन्नं नागरकमिव बहिस्थं व्यापादयतोवश्यंभावी व्रतभङ्ग इत्येतत् परिहर्तुकाम आह मू. (८०१) तसावि वुच्छंति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरतए पञ्चायंति । Page #455 -------------------------------------------------------------------------- ________________ ४५२ सूत्रकृताङ्ग सूत्रम् २/७/-/८०१ थावरावि वृच्छंति थावरा थावरसंभारकडेणं कम्मुणा नामंच णं अब्भुवगयं भवइ, थावराउयं चणं पलिक्खीणं भवइ, थावरकायडिया ते तओ आउयं विप्पजर्हति तओ आउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति ते पाणावि वुश्चंति, ते तसावि वुच्छंति, ते महाकाया ते चिरट्टिइया वृ. 'त्रसा अपि ' द्वीन्द्रियादयोऽपि त्रसा इत्युच्यन्ते च त्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यंतया कर्मणो विपाकानुभवेन वेदनं तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा त्रससंभारकृतेन कर्मणा नसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेश यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तमुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरी पमपरिमाणं, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति, इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति ? ! किंचान्यत्-‘थावराउयं च ण' मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकत्वेन स्थावरकायस्थितेरभावात् त्रसत्वेन सामर्थ्यात्प्रत्यायान्ति तेषां च त्रसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह'ते पाणावी' त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयो' रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात्, तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितनामपीति । यस्तु नागरकष्टान्तो भवतोपन्यस्तः असावपि ष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमाविष्करोति, तथाहि - नगरधर्मैयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिः स्थितं पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मैरुपेतः स बहिःस्थोऽपि नागरिक एव, अतः पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसी वर्तते अतस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्व परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापत्नत्वात्रस एवासौ न भवति, तद्यथा - नागरिकः पल्ल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति ।। पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह मू. (८०२) सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी- आउसंतो गोयमा ! नत्थि णं से केइ परियाए जणं समणोवासगस्स एगपाणातिवायविरएव दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरताए पञ्चायंति, थावरकायाओ विष्पमुच्चमाणा सव्वे तसकायंसिउववज्रंति, तसकायाओविष्पमुच्चमाणा सव्वे धावरकायंसि उववज्जंति, तेसिं च गं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं । Page #456 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं-७, ४५३ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-नो खलु आउसो! अस्माकं वतब्बएणं तुझं चेव अनुष्पवादेणं अस्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हेउं?, संसारिया खलु पाणा, तसावि पाणा थावरताए पञ्चायति, थावराविपाणातसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणासब्वे थावरकार्यसि उववजंति, थावरकायाओ विष्पमुखमाणा सव्ये तसकार्यसि उववजेति, तेसिंच णं तसकार्यसि उववन्नाणं ठाणमेयंअधत्तं, ते पाणावि वुचंति, ते तसाविति , तेमाहाकाया ते चिरहिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपचक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुब्बे वा अन्नो वा एवं वदह-नत्थिणं से केइ परियाए जंसि समणोवासगस्स एगपाणाएवि दंडे निक्खित्ते, अयंपि भेदे से नो नेयाउए भवइ । वृ.सद्वाचंसवादंवोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्, तद्यथा-आयुष्मन् गौतम नास्त्यसौ कश्चित्पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व-परित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण सपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतं, संसारिणा च परस्परगमनसंभवात् ते चत्रसाः सर्वेऽपिकिल स्थावरत्वमुपगतास्ततश्च त्रसानामभावानिर्विषयं तप्रत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउ'मित्यादि, णमिति वाक्यालङ्कारे, कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः। सांसारिकाःप्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति। तदेवं संसारिणां परस्परगमनं प्रदश्याधुंना यत्परेण विवक्षितं तदाविष्कुर्वनाह'थावरकायाओ' इत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्च कर्मभिः सर्वेनिरवशेषस्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते, तेषांचत्रसानांसर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद्घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकणाद, अतः सर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेनिर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा-केनचिाव्रतमेवंभूतं गृहीतं यथामया नगरनिवासीनहन्तव्यः, तच्चोमितनगरम्, अतो निर्विषयंतत्तस्य प्रत्याख्यानम्, एवमत्रापि सर्वेषां त्रसानामभावानिर्विषयत्वमिति। एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह-सद्वाचं सवादं वा तमुदकंपेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नोखल्वायुष्मनुदक! अस्माकमित्येतन्मगधदेशे आगोपालाशनादिप्रसिद्धं संस्कृतमेवोच्चार्यतेतदिहापितथैवोञ्चारितमिति, तदेवमस्माकंसम्बन्धिना वक्तव्येन नैतदशोभनं, किं तर्हि ?, युष्माकमेवानुप्रवादेनैतदशोभनं, इदमुक्तं भवति-अस्मद्वक्तव्येनास्यचोद्यस्यानुत्थानमेव, तथाहि-नैतद्भूतं नचभवति नापिकदाचिद्भविष्यति यदुतसर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्नसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा प्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायणस्थावरकायत्वेन यास्यन्तितथापिअपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन ernational Page #457 -------------------------------------------------------------------------- ________________ ४५४ सूत्रकृताङ्गसूत्रम् २/७/-1८०२ चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिहियते-तदेवपराभिनायेण परिहरति-अस्त्यसौ पर्यायः-स चाय-भवदभ्रिपायेण यदा सर्वेऽपि स्थावरासत्वं प्रतिपद्यन्ते यस्मिन्पर्याय-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभिस्त्रसत्वेन भूतैः-उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषुदण्डो निक्षिप्तः-परित्यक्तः, इदमुक्तं भवति-यदा सर्वेऽपिस्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति। एतदेवप्रश्नपूर्वकंदर्शयितुमाह-'कस्सणं हेउ'मित्यादि, सुगमयावत्रसकायेसमुत्पन्नानां स्थानमेतदधात्यम्-अघातार्ह, तत्रविरतिसद्भावादित्यभिप्रायः।तेच त्रसानरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधियन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान्कायः-शरीरंयेषांतेमहाकायाः,वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति। तथा चिरस्थितिकाःत्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा तेप्राणिनस्त्रसा बहुतमा-भूयिष्ठायैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्यतेनप्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन चसर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाःप्राणिनोयैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ये येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति सम्बन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यधूयंवदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगमं यावत् 'नोनेयाउए भवइत्ति। साम्प्रतंत्रसानां स्थावरपर्यायापनाना व्यापादनेनापिन व्रतमङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह म. (८०३) भगवं च णं उदाहु नियंठा खलु पुछियव्वा-आउसंतो ! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिंच एवं वृत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता आगाराओअनगारियं पब्बइए, एसिंचणं आमरणंताए दंडे निक्खित्ते, जे इमे अगारमावसंति एएसिणं आमरणंताए दंडे नो निक्खित्ते, केईचणं समणा जाव वासाइं चउपंचमाइंछट्टद्दसमाइंअप्पयरोवा भुजयरो वा देसंदुईञ्जित्ता अगारमावसेज्जा ?, हतावसेजा, तस्स णतं गारत्यं वहमाणस्स से पचक्खाणे भंगे भवइ?, नोतिणढे समढे, एवमेव समणोवासगस्सवितसेहं पाणेहिं दंडे निक्खित्ते, थावरेहिं पाणेहिं दंडे नो निक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पञ्चक्खाणे नो भंगे भवइ, से एवमायाणह? नियंठा!, एवमायाणियब्बं । ___ भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा ! इह खलु गाहार्वइ वा गाहावइपुत्तो वातहप्पगारेहिं कुलेहिं आगम्मधम्मंसवणवत्तियंउवसंकमेजा?,हंता उवसंकमेजा, तेसिं चणं तहप्पगाराणं धर्म आइक्खियब्वे?,हंता आइक्खियव्चे, किंतेतहप्पगारं धम्मं सोचा निसम्म एवं वएजा-इणमेव निग्गंथं पावयणं सचं अनुत्तरं केवलियं पडिपुन्नं संसुद्धं नेयाउयं सलकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं पडिपन्नं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज णमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सव्वदु खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसियामो तहा तुयट्टामो तहा भुंजामो तहा भासामोतहाअब्भुट्ठामो तहाउठाए उट्ठेमोत्तिपाणाणंभूयाणंजीवाणंसत्ताणं संजमेणं संजमामोत्ति Page #458 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं -७, एजा ?, हंता वएजा । किं ते तहप्पगारा कप्पंति पव्वावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ?, हंता कप्पंति, तेसिंच णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते हंता निक्खित्ते । ४५५ सेणं एयारूपेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाई छट्ठद्दसमाई वा अप्पयरो वा भुजयरो वा देसं दूइजेत्ता अगारं वएज्जा ?, हंता वएज्जा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते ?, नो इण समट्टे, से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो णिक्खित्ते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहिं दंडे निक्खित्ते, से जे जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खित्ते भवइ, परेणं असंजए आरणं संजए, इयाणि असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खत्ते भवइ, से एवमायाणह ? नियंठा !, से एवमायाणियव्वं । भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो ! नियंठा इह खलु परिव्वाइया वा परिव्वाइआओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मं सवणवत्तियं उवसंकभेज्जा ?, हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे ?, हंता आइक्खियव्वे, तं चेव उट्ठावित्तए जाव कप्पंति ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति संभुंजित्तए ?, हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चैव जाव अगारं वएज्जा ?, हंता वएज्जा, ते णं तहप्पगारा कप्पंति संभुंजित्तए ?, नो इणट्ठे समट्ठे, से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, से जे से जीवे आरेण कप्पंति संभुंजित्तए, से जे से जीवे जे इयाणीं नो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणि अस्समणे, अस्समणेणं सद्धिं नो कप्पंति समणाणं निग्गंथाणं संभुंजित्तए, से एवमायाणह ? नियंठा !, से एवमायाणियव्वं । घृ. णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाहस्वौद्धत्य परिहरणार्थमपरानपि तत्स्थविरान् साक्षिणः कर्तुमिदमाह - 'निर्ग्रन्था' युष्मत्स्थविरा: खलु प्रष्टव्याः, तद्यथा - आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिमतमाहोस्विन्नेति, अवष्टम्मेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा - शान्तिः उपशमस्तठाधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनाराया वा, तेषां चार्यदेशोत्पन्नानामुपशमप्रधानानाम् एतद् उक्तपूर्वं भवति-अयं व्रतग्रहणविशेषो भवति, तद्यथा य इमे मुडा भूत्वाऽगाराद्-गृहान्निर्गत्यानगारतां प्रतपन्नाः प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः परित्यक्तो भवति, इदमुक्तं भवति । कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा- न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारं - गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते तत्र केचन श्रमणाः प्रव्रजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेषं दर्शयति- यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह- अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दूइजित्त' ति विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं गृहवासं वसेयुः गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते ? उतनेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य Page #459 -------------------------------------------------------------------------- ________________ ४५६ सूत्रकृताङ्ग सूत्रम् २/७/-1८०३ तं गृहस्थं व्यापादयतः किंव्रतमङ्गो भवेदुत नेति?, आहुर्नेति, एवमेव श्रमणोपासकस्यापित्रसेषु दण्डोनिक्षिप्तोन स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायापनं व्यापादयतस्तप्रत्याख्यानभङ्गोन भवतीति। साम्प्रतं पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आह-भगवानेव गौतमस्वाम्याह, तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यकत्वंप्रतिपद्यतदुत्तरकालं संजातवैराग्याः प्रवज्यांगृहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति,तेच पूर्वगृहस्थाः सर्वारम्भनवृत्तास्तदारतः प्रव्रजिताः सन्तोजीवोपमईपरित्यक्तदण्डाः पुनः प्रव्रज्यापरित्यागेसतिनोपरित्यक्तदण्डाः, तदेवंतेषांप्रत्ख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवंत्रसस्थावरयोरपिद्रष्टव्यम्, एतच्च भगवंचनमुदाहुरित्याग्रन्थस्य से एवमायानियव्वं' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति स्वबुद्धया कार्या। तदेवं द्वितीयं दृष्टान्तंप्रदाधुना तृतीयं हष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह-'भगवंच णंउदाहुइत्यादि, यावत् से एवमायाणियब्वं तिउत्तानार्थं तात्पर्यार्थस्त्वयं-पूर्वं परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदमावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ।। तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदःप्रदर्शितः तृतीयतष्टान्तेपरतीर्थिकसाधुभा-वोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह मू. (८०४) भगवंचणंउदाहु संतेगइया समणोवासगा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अनगारियं पव्वइत्तए, वयं णं चाउद्दसट्टमुट्ठिपुणिमासिणीसुपडिपन्नं पोसह सम्मं अनुपालेमाणा विहरिस्सामो। थूलगंपाणाइवायं पञ्चस्खाइस्सामो, एवंथूलगंमुसावायंथूलगं अदिन्नादाणंथूलगंमेहुणं धूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु ममहाए किंचि करेह वा करावेह वातत्यवि पञ्चक्खाइस्सामो, तेणंअभोञ्चाअपिञ्चा असिणाइत्ताआसंदीपेढियाओ पञ्चारुहिता, ते तहा कालगया कि वत्तव्वं सिया-सम्मं कालगतत्ति? वत्तव्यं सिया, ते पाणावि वुचंतितेतसाविवुचंति तेमहाकायतेचिरहिइया, तेबहुतरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायंभवइ, इतिसेमहयाओ जण्णंतु वयह तंवजावअयपि भेदेसेनोनेयाउए भवा।। भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ, नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसट्टमुद्दिडपुन्नमासिणीसु जाव अनुपालेमाणाविहरित्तए, घयं णं अपच्छिममारणतियं संलेहणाजूसणाजूसिया भत्तपाणंपडियाइक्खियाजावकालं अनवकंखमाणाविहरिस्सामो, सव्वंपाणाइवायं पच्चक्खाइस्सामोजाव सव्वं परिग्गहं पञ्चक्खाइस्सामोतिविहं तिविहेणं, मा खलुममट्ठाए किंचिवि जाव आसंदीपेढीयाओ पच्चोरुहिता एते तहा कालगया, किं वत्तव्यं सिया संमं कालगयत्ति?, वत्तव्वं सिया, ते पाणावि वुचंतिजाव अयंपि भेदे से नो नेयाउए भवइ । ___भगवं च णं उदा संतेगइया मणुस्सा भवंति, तंजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वाओ परिगहाओ अप्पडिविरया जावजीवाए, जेहिं Page #460 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं - ७, ४५७ समणोवासग्गस आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउसं विप्पजहंति, ततो भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुश्चंति ते तसावि वृश्ञ्चंति ते महाकाय ते चिरझिया ते बहुयरगा आयाणसो, इति से महयाओ णं जण्णं तुम्भे वदह तं चैव अयंपि भेदे से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवति, तंजहा- अनारंभा अपरिग्गहा धम्मिया धम्माया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खिते ते तओ आउगं विप्पजहंति ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्चंति जाव नो नेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउगं विष्पजहंति, ततो भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जाव नो नेयाउए भवइ । भगवं चणंउदाहु संतेगइया मणुस्सा भवंति, तंजहा- आरण्णिया आवसहिया गामनियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते भवइ, नो बहुसंजया नो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति-अहं न हंतव्वो अन्ने हंतब्बा, जाव कालमासे कालं किच्चा अन्नयराइं आसुरियाई किव्विसियाई जाव उववत्तारो भयंति, तओ विप्पमुच्चमाणा भुज्जो एलमुयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणावि वुच्छंति जाव नो नेयाउए भवइ । भगवंचणं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पुव्वामेव कालं करेति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुच्छंति ते तसावि वृचंतंतित महाकाया ते चिरट्टिइया ते दीहाउया ते बहुयरगा, जेहिं समणोवासगस्स सुपचक्खायं भवइ, जाव नो नेयाउए भवइ । भगवं चणं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते सयमेव कालं करेति करित्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वृद्यंति तसावि वुच्छंति ते महाकाया ते समाउया ते बहुयरग जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ जाव नो नेयाउए भवइ । भगवंचगंउदाहु संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पुव्वामेव कालं करेति करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुच्छंति ते तसावि वुद्धंति ते महायाके अप्पाउया ते बहुयरगा पाणे जेहिं समणोवासगस्स सुपञ्चखायं भवइ, जाव नो नेयाउए भवइ । भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुंडे भवित्ता जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसहमुद्दिट्टपुन्नमासिणीसु पडिपुन्नं पोसहं अनुपालित्तए, नो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्या पाईणं वा पडिणं वा दाहिणं वा उदीर्ण वा एतावता जाव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चैव जे तसा पाणा जेहिं समणोवासगस्स Page #461 -------------------------------------------------------------------------- ________________ ४५८ सूत्रकृताङ्ग सूत्रम् २/७/-/८०४ आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपचक्यायं भवइ, ते पाणावि जाव अयंपि भेदे से० । वृ. पुनरपि गौतमस्वाम्युदकं प्रतीदमाह तद्यथा-बहुभि प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशूयन्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति-भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति तेषां चेदमुक्तपूर्वं भवति-संभाव्यते च श्रावकाणामेवं भूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुर्द्दश्यष्टमी पौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो द्विविध मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा त्रिविधेनेति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं पौषधस्थस्य मम कृते मा कार्ष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीत्वा कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उतासम्यगिति ?” कथं वक्तव्यं स्यादिति ?, एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात् सम्यक्का लगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पनश्च त्रस एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितमाहगौतमस्वाम्येवाह - तद्यथा 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्वं भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं नापि चतुर्द्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया सेवनया जोषिताः सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकाल मनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं भवति न वयं दीर्घकाल पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति । एतत्सूत्रेणैव दर्शयति- 'सव्वं पाणाइवाय' मित्यादि, सुगमं, यावत्ते तथा कालगताः किं वक्तव्यमेतस्यात् सम्यक् ते कालगता इति ?, एवं पृष्टथ निर्ग्रन्था एतदुचुः, यथा ते सन्मनसःशोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदाकालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते । पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाहभगवानाह - एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगमं यावद्यैर्येषुव श्रमणोपासकस्यादीयत इत्यादानं प्रथमव्रतग्रहणं, तत आरभ्याऽऽरणान्ताद्दण्डो निक्षिप्तः - परित्यक्तो भवति, ते च ताद्यग्विधास्तस्माद्भवात्कान्तत्यते स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-स्वकृतं किल्विषमादाय गृहीत्वा दुर्गतिगामिनो भवन्ति । एतदुक्तं भवति - महारम्भपरिग्हत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, तेच सामान्यसंज्ञया प्राणिनो विशेषसंज्ञा त्रसा महाकायाः चिरस्थितका इत्यादि पूर्ववद्यावत् 'नो Page #462 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं -७, ४५९ नेयाउए'त्तिपुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह भगवंचणंउदाहुरित्यादि, पूर्वोक्तभ्योमहारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाःसुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमयावत् नो नेयाउए भवइत्ति, एतेच सामान्यश्रावकाः,तेऽपित्रसेष्येवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति । कश्चान्यत्-'भगवं च णं उदाहु'रित्यादि सुगमं यावत् नो नेयाउए भवइ ति एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यं । किञ्चान्यत् भगवंचणं उदाहु रित्यादि-गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषाएव, तथा ग्रामनिमन्त्रिकाः तथा 'कण्हुईरहस्सिय'त्ति क्वचित्कार्ये रहस्यकाः क्वचिद्रहस्यकाः, एवेसर्वेऽपितीर्थिकविशेषाः, तेचनोबहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानात्रणीयावृतत्वातनबहुविरताः सर्वप्राणभूतजीवसत्त्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वादविरता इत्यर्थः। तेतीर्थिकविशेषा बहसंयताः चतोऽविरताआत्मना सत्यामृषाणि वाक्यानि एव मिति वक्ष्यमाणनीत्यावियुञ्जन्ति, एवं विप्पडिवेदेति क्वचित्पाठोऽस्यामर्थः-एवंविधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवं भूतानि वाक्यानि दर्शयति, तद्यथा।। अहं हन्तव्योऽन्ये पनहन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति,ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्छिता गृद्धाअध्युपपन्ना यावर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किञ्चिदज्ञानतपः कारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषेष्वसुन्देवाधमेषु स्थानेषूपपत्तारो भवन्ति, यदिवा प्राण्युपधातोपदेशदायिनो भोगाभिलाषुका असूर्येषु नित्यान्धकारेषुकिल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचर्ति, तेषु च यद्यपि द्रव्यप्राणातिपातो न संभवति तथापितेभावतोयः प्राणातिपातस्तद्विरतेविषयतांप्रतिपद्यन्ते ततोऽपिचदेवलोकाच्युता नरकोझ ताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए तिअन्धवधिरतयाप्रत्यान्ति, ते चोभयोरप्यवस्थयोस्त्रसत्वंन व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषुच द्रव्योऽपि प्राणातिपातः संभवतीति। साम्प्रतंप्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह-भगवंचणंउदाहु रित्यादि, भगवानाहयो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः प्राणाः प्राणिनः, तेच नारकमनुष्यदेवाद्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति?, शेषं सुगमं, यावत् 'नो नेयाउए भव ॥एवमुत्तरसूत्रमपितुल्यायुष्कविषयं समानयोगक्षेमत्वाद्वयाख्येयं ।। तथाऽल्पायुष्कसूत्रमप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो-यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषुवा समुत्पन्नाः सन्तो, विषयतांप्रतिपद्यन्तइति । पुनरपि श्रावकाणामेव दिग्व्रतसमाश्रयणतः प्रत्याख्यानस्यविषयं दर्शयितुमाह-'भगवंचन मित्यादि सुगमं यावत् 'वयंणं सामाइयं देसावकासियं"ति देशेऽवकाशोदेशावकाशःतत्रभवंदेशावकाशिकं, इदमुक्तंभवति-पूर्वगृहीतस्य दिग्रवतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरंयोजनगव्यतितनगृहमर्यादादिकंपरिमाणं विधत्ते तद्देशावकाशिकमित्युच्यते। तदेव दर्शयति-'पुरत्था पायीण मित्यादि, 'पुरस्थि' त्ति प्रातरेव प्रत्याख्यानावसरे ___ Page #463 -------------------------------------------------------------------------- ________________ ४६० सूत्रकृताङ्ग सूत्रम् २/७/-1८०४ दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीन पूर्वाभिमुखं प्राच्या दिश्येतावन्मयाऽद्य गन्तव्यं, तथा प्रतीचीनं' प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं-दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्यपञ्चयोजनमानंतदधिकमूनतरंवा गन्तव्यमित्येवंभूतंस प्रतिदिनं प्रत्याख्यानं विधत्ते, तेनचगृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्योगृहीतपरिमाणात्परेण दण्डो निक्षिप्तःपरित्यक्तो भवति, ततश्चासौ श्रावकः सर्वप्राणभूतजीवसत्त्वेषु क्षेमंकरोऽहमस्मिइत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः-परित्यक्तो भवति। तेच त्रसाःप्राणाः स्वायुष्कंपरित्यज्य तत्रैवगृहीतपरिमाणदेश एव योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति-गृहीतपरिमाणदेशे वसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्चतेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापित्रसत्वसद्भावात्, शेषं सुगम, यावत् 'नो नेयाउए भवति' ॥ मू. (८०५) तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विष्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाएदंडे अनिक्खित्तेअणट्टाएदंडे निक्खित्तेतेसुपच्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते ते पाणावि वुचंति ते तसा ते चिरहिइया जाव अयंपि भेदे से तत्य जे आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आउं विप्पजहंति विष्पजहित्ता तत्थ परेणं जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुंपञ्चायति, तेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, तेपाणाविजावअपि भेदेसे० तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अनट्ठाए निक्खित्तेतेतओआउं विप्पजहंति विपजहित्तातत्यआरेणंचेवजेतसा पाणाजेहिं समणौवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायति तेसु समणोवासगस्स सुपञ्चरखायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०। तत्यजेते आरेणंजे थावरापाणाजेहिंसमणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणद्वाए निक्खित्ते, ते तओ आउं विप्पजहंति विप्पजहिता ते तत्था आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिखित्ते अणट्ठाए निक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणट्ठाए ते पाणाविजाव अयंपि भेदे से णो०। तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणवाए निक्खित्ते तओ आउं विप्पजहंति विप्पजहित्तातत्य परेणंजे तसथावरापाणाजेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुं पञ्चायति तेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से नो नेयाउए भवइ । तत्य जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओआउंविप्पजहंति विप्पजहित्ता तत्थ आरेणंजे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुपञ्चायंति, तेहिं समणोवासगस्स सुपच्चस्खायंभवइ, ते पाणाविजाव अयंपि भेदे से नो नेयाउए भवइ। Page #464 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं-७, ४६१ - - तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता तत्य आरेणंजे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्टाए निक्खित्ते तेसुपञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायंभवइ, ते पाणावि जाव अयंपि भेदे से नो०। भगवंचणंउदाहुनएतं भूयं न एतंभब्वंनएतंभविस्संतिजण्णंतसा पाणा वोच्छिजिहिंति थावरा पाणा भविस्संति, थावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहि तसथावरेहिं पाणेहिंजण्णंतु वा अनोवा एवंवदह-नस्थिणं से केइ परियाएजाव नो नेयाउए भवइ। वृ. एवमन्यान्यप्यष्ट सूत्राणि द्रष्टानि सर्वाण्यपि, नवरंतत्र प्रथमे सूत्रेतदेव यद्वयाख्यातं, तच्चेवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते । तथा द्वितीयं सूत्रं त्वाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषुस्थावरेषूत्पद्यन्तेतृतीये त्वाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाद्वहिर्येत्रसाः स्थावराश्च तेषूत्पद्यन्ते॥तथा चतुर्थसूत्रत्वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव सेषूत्पद्यन्ते। पञ्चमं सूत्रं तुआराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ।। षष्ठं सूत्रं तुपरदेशवर्तिनी ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवत्ति)षुत्रसस्थावरेषूत्पद्यन्ते। सप्तमसूत्रं त्विदं-परदेशवर्तिनोये त्रसस्थावरास्ते आराद्देशवर्तिषुत्रसेषूत्पद्यन्ते। अष्टमसूत्रंतुपरदेशवर्तिनो येत्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ।। नवमसूत्रंतुपरदेशवर्तिनोये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि, तत्र यत्र यत्र त्रसास्तत्रादाशनः-आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्धया विधेयेति । तदेवंबहुभिदृष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतां चौद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवंच णं उदाहु रित्यादि, भगवान् गौतमस्वाम्युदकंप्रत्येतदाह,तद्यथानैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्तेकाले भाव्यं नाप्येतद्वर्तमानकाले भवति येत्रसाः प्राणाःसर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपिनैवसमुच्छेत्स्यन्ति-त्रसा भविष्यन्ति, यद्यपितेषांपरस्परसंक्रमेणगमनमस्ति तथापिनसामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-नह्येवंभूतः संभवोऽस्ति यदुतप्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चां मनुष्यदेवानां च सर्वदाऽप्यभावः एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपिनारकादयस्त्रसाः समुच्छिद्यन्ते, नचास्यप्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानाम- नन्तत्वादेव नासंख्येयेषु त्रसेषूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नस्त्रसैः स्थावरैश्चप्राणिभिर्यद्वदतयूयमन्योवा कश्चिद्वदति, तद्यथा-नास्त्यसौ पर्यायोयत्रश्रमणोपासकस्यैक त्रसविषयोऽपिदण्डपरित्यागइति, तदेतदुक्तनीत्या सर्वमशोभनमिति । सांप्रतमुपसंजिघृक्षुराह मू. (८०६) भगवंचणं उदाहु आउसंतो! उदगाजे खलु समणं वा माहणं वा परिभासेइ मित्ति मनति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा नो परिभासइ मित्ति मन्त्रंति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु Page #465 -------------------------------------------------------------------------- ________________ ४६२ सूत्रकृताङ्ग सूत्रम् २/७/-1८०६ परलोगविसुद्धीए चिट्टइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणादायमाणे जामेव दिसिं पाउन्मूते तामेव दिसिं पहारेत्य गमणाए। भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अनुत्तरं जोगखेमपयं लंभिए समाणे सोवितायतं आढाइ परिजाणेति वंदति नमसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयं चेइयं पञ्जुवासति । तएणंसेउदएपेढालपुत्ते भगवंगोयमंएवं चयासी-एतेसिणंभंते! पदाणंपुचिअनाणयाए असवमयाए अबोहिए अनभिगमेणं अदिवाणं असुयाणं अमुयाणं अविनायाणं अव्वोगडाणं अनिगूढाणं अविच्छिन्नाणं अनिसिट्ठाणं अनिवूढाणं अनुवहारियाणं एयमटुंनो सद्दहियं नो पित्तयं नो रोइयं, एतेसिणं भंते ! पदाणं एम्हि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमई सदहामि पत्तियामि रोएमि एवमेव से जहेयं तुब्भे वदह । तएणंभगवं गोयमे उदयं पेढालपुत्तं एवं वयासी सदहाहि णं अजो! पत्तियाहिणं अञ्जो रोएहिं णं अञ्जो! एवमेयं जहाणं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-इच्छामिणं भंते! तुभं अंतिए चाउजामाओधम्माओ पंचमहव्वइयं सपडिक्कमणं धर्म उपसंपजित्ता णं विहरित्तए। तएणंसेभगवंगोयमे उदयंपेढालपुत्तंगहायजेणेवसमणेभगवंमहावीरे तेणेव उवागच्छइ, उवागच्छइत्तातए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्षुत्तो आयाहिणं पयाहिणं करित्ता चंदई नमसति, वंदित्ता नमंसित्ता एवं वयासीइच्छामिणभंते! तुभं अंतिए चारज्जामाओधम्माओपंचमहब्वइयं सपडिक्कमणधर्मउवसंपजित्ता णं विहरित्तए। तएणंसमणे भगवंमहावीरे उदयं एवं वयासी-अहसुहं देवाणुप्पिया! मा पडिबंधं करेहि, तएणसे उदएपेढालुपुत्ते समणस्स भगवओमहावीरस्स अंतिएचाउज्जामाओधम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मउवसंपनित्ताणं विहरइत्तिबेमि। पृ. 'भगवं च णं उदाहुरित्यादि गौतमस्वाम्याह-आयुष्मन्नुदक ! यः खलु श्रमणं वायथोक्तकारिणंमाहनं वा-सद्ब्रह्मचर्योपेतं परिभाषते' निन्दति मैत्री मन्यमानोऽपि,तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पणिडतंमन्यः परलोकस्य' सुगतिलक्षणस्य तत्कारणस्यवा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्युनगम्य तथा पापानां कर्मणाकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठते, अनेनचपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतोगौतमस्वामिना स्वौद्धत्यं परिहृतं भवति, तदेवंयथावस्थितमर्थं गौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्री यदा भगवन्तं गौतममनाद्रियमाणो यस्याएव दिशःप्रादुर्भूतस्तामेव दिशंगमनाय संप्रघारितवान् तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्वाम्याह, तद्यथा-आयुष्मनुदक ! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके-समीपेएकमपियोगक्षेमायपद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम्?-आर्यम् आर्यानुष्ठानहेतुत्वादाय, तथाधार्मिकंतथाशोभनवचनं सुवचन सद्गतिहेतुत्वात् तदेवंभूतं पदं श्रुत्वा निशम्य-अवगम्य धात्मन एव तदनुत्तरं योगक्षेमपद Page #466 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, अध्ययनं -७, ४६३ मित्येवमवगम्य सूक्ष्मया कुशाग्रीयया वुद्धया 'प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः'प्रापितःसनसावपितावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योऽयमित्येवंजानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् । तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह-तद्यथा-एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाऽवोध्या चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान्, साम्प्रतं तु युष्मदन्तिके विज्ञायैनमर्थं श्रद्दघेऽहं ।। एवमगवगम्य गौतमस्वाभ्युदकमेवाह-यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमत्वा, पुनरप्युदक एवमाह-इष्टमेवैतन्मे, किं त्वमुष्माचातुर्यामिकाद्धर्मात्पञ्चयामिकंधर्मंसम्प्रति सप्रतिक्रमणमुपसंपद्यविहर्तुमिच्छामि। ततोऽसौ गौतमस्वामी तं गृहीत्वा तीर्थकरान्तिकं जगाम । उदकश्च भगवन्तं वन्दित्वा पञ्चयामिकधर्मग्रहणायोस्थितः, भगवताऽपितस्य सप्रतिक्रमणः पञ्चचामोधर्मोऽनुज्ञातः, सचतंतथाभूतं धर्ममुपसंपद्य विहरतीति इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत्, सुधर्मस्वामी स्वशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः। अध्ययन-७ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता द्वीतीयश्रुतस्कन्धस्य सप्तममध्ययनटीका परिसमाप्ता । साम्प्रतं नयाः, ते चामी-नैगम १ संग्रह २ व्यवहार ३ र्जुसूत्र ४ शब्द ५ समभिरूडै ६ 'वंभूता ७ ख्याः सप्तैव, तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तुत्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति । तत्र नैगमस्येदं स्वरूपं, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्रभवो नैगमो, नैकगमो वा नैगमः- महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्य सर्वपदार्थानुयानी सत्ताअपान्तरालसामान्चंद्रव्यत्वजीवत्वाजीवत्वादिकं, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिष्टान्तैरनुयोगद्वारप्रसिद्धैस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषा-त्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टि, भेदेनैव सामान्यविशेषयोराश्रयणात्, तन्मता- श्रितनैयायिकवैशेषिकवत्। तथा संग्रहोऽप्येवंस्वरूपः, तद्यथा-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्गहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव सत्तारूपं वस्त्वसावभ्युपगच्छति,सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, सच संग्रहःसामान्यविशेषात्मकस्य वस्तुनःसामान्यांशस्वैवाश्रयणान्मिथ्याष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथाचशुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतंतथाभूतंवस्तुनभवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ? यथा यथा लोकेन विशिष्टभूयिष्ठ-तयाऽर्थक्रियाकारि वस्तु व्यवहियते तथैव तद्वस्त्वित्याबालगोपालगनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययध्रौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्याष्टिः, तथाविधरथ्यापुरुषवदिति ।। ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच्च विनष्टानत्पन्नतयाऽतीतनागतवक्रपरित्यागादिति. अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति Page #467 -------------------------------------------------------------------------- ________________ ४६४ शब्दनयस्वरूपं त्विदं, तद्यथा-शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गचचनसाधनोपग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्त्वन्यदेव भवति, तद्यथा- पुष्यस्तारका नक्षत्रमेवं संख्याभिन्नं जलमापो वर्षा ऋतु, साधनभेदस्त्वयं- एहि मन्ये रथेन यास्यसि, नहि यातस्ये पिता, अस्यायमर्थः एवं त्वं मन्यसे यथाऽहं रथेन चास्यामीत्यत्र मध्यमोत्तमपुरुषव्योर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्टति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्यायमर्थः अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः णिनिप्रत्ययो भवितेत्यस्य सम्बन्धाद्भूतकालातां परित्यज्य भविष्यत्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति सूत्रकृताङ्ग सूत्रम् २/-/-/८०६ तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाद्यभिन्नांस्तु पर्यायान् अनेकविषयत्वेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि घटना घटः कुटनात्कुटः कौ भातीति कुम्भो नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मव- द्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । 7 एवंभूताभिप्रायस्त्वयं यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निव्यापरः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यक्यवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येकं मिथ्याध्ष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः । तत्रापि ज्ञाननय एहिकामुष्मिकयोर्ज्ञानमेव फलसाधकत्वेनेच्छति न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतफलसिद्धयेऽमिति एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति, उक्तं च"सव्वेसिंपि नयाणं बहुविहवत्तव्वयं नि सामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठओ साहू ॥ - 119 11 श्रुतस्कन्धः - २ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धटीका परिसमाप्ता । २ द्वितीयं अङ्गसूत्रम् सूत्रकृत समाप्तम् - Page #468 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય''માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્કિંગણિ ક્ષમાશ્રમણ સંઘદાસણિ જિનદાસ ગણિ મહત્તર શીલાં કાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી [1] બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભદ્બાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય - ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ û બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્રુત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫૦ જીવરાજભાઈ પ૦ હીરાલાલ Page #469 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा १०. प्रश्नव्याकरण ११. विपाकं श्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी निरयावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० अभदेवसूरि १६६७ अभयदेवसूरि १५७५१ | अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसूरि ९०० अभयदेवसूरि १९२ अभयदेवसूरि १३०० अभयदेवसूरि १२५० अभयदेवसूरि ११६७ अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ मलयगिरिसूरि २३०० मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि ८० विजयविमलयगणि १०० गुणरत्नसूर (अवचूरि) १७६ आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरत्न सूरि (अवचूरि) १७५ विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति लोकप्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #470 -------------------------------------------------------------------------- ________________ • वृत्ति - - १००० आगमसूत्रनाम .मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव __३७५ आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. | मरणसमाधि ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ |३४. निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. | व्यवहार ३७३ | मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूर्णि) २२२५ ३८. जीतकल्प १३० सिद्धसेनगणि (चूणि) ३९. महानिशीथ ४५४८ ४०. | आवश्यक - १३० हरिभद्रसूरि २२००० ४१. ओधनियुक्ति नि.१३५५ । द्रोणाचार्य (?)७५०० - पिण्डनियुक्ति है नि. ८३५ मलयगिरिसूरि ७००० ४२. दशवैकालिक ८३५ | हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० | मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोंध:(१) 6t ४५ मागम सूत्रीमा वर्तमान आणे पडेल १ थी ११ अंगसूत्रो, १२ थी २3 उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी उ८ छेदसूत्रो, ४० थी ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोन नामेट प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 63 वृत्ति-माहि नोध छे ते म २ संपामुनी छे.. सिवायनी ५९५ वृत्ति-चूर्णि मा साहित्य मुद्रित समुद्रित अवस्थामा हाल ५९ब्ध छ ०४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय अनेवीरस्तव प्रकीर्णक आवे छे. हे समे "आगमसुत्ताणि" भां भूण ३थे भने " मी"मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્વ જેના વિકલ્પ રૂપે છે એ Page #471 -------------------------------------------------------------------------- ________________ [4]. પંકજ્યનું માર્ગ અને “કામસુત્ત”િમાં સંપાદીત કર્યું છે. (૫) મોષ અને gિ એ બંને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૂહૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માળની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રકાર સૂત્રો અને મનિશીથ એ પાંચ આગમની કોઈ વૃત્ત આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. બીજ ની સંત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-શા-નિતત્વ એ ત્રણેની આપી છે. જેમાં રાઇ અને નીતા એ બંને ઉપરત્ત મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશથ ઉપર તો માત્ર વીસમા દેશવ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવૃત્તિ = ]ક્રમ નિત્તિ श्लोकप्रमाण | क्रम| नियुक्ति श्लोकप्रमाण आचार-नियुक्ति ४५० _| | મા –નિવૃત્તિ २५०० सूत्रकृत-नियुक्ति ૭.| સોનિવિત્ત १३५५ बृहत्कल्प-नियुक्ति । ૮.| જિનપિત્ત. ८३५ વ્યવહાર-નિત્તિ | - . શનિવા-નિર્યુક્તિ . દશાશ્રુતાનિ | ૮૦ | ૧૦. | 7Tધ્યયન-નિર્યુક્તિ છે. ૭૦૦ નોંધઃ(૧) અહીં આપેલ નવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક' એ પ્રમાણથી નોંધાયેલ સ્તવક પ્રમાણ છે. (૨) * ગૃહત્વ અને વ્યવહાર એ બંને સૂત્રોની નિતિ હાલ માણ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ પાથ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને વિજુનિયુવા સ્વતંત્ર પૂજન સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન નામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી હુંશાશ્રુતત્વ નિવિન ઉપર પૂર્ષિ અને અન્ય પાંચ નિત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિધિત સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તિકર્તા તરીકે અવસ્થામ નો ઉલ્લેખ જ જોવા મળે છે. Page #472 -------------------------------------------------------------------------- ________________ क्रम 9. २. ३. ४. ५. [5] વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ ભાષ્ય श्लोकप्रमाणक्रम भाष्य निशीषभाष्य वृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य ७५०० ७६०० ६४०० ३१८५ ३१२५ ६. ७. ८. ९. १०. भाष्य आवश्यकभाष्य ★ ओघनिर्युक्तिभाष्य ★ पिण्डनिर्युक्तिभाष्य ★ दशवैकालिकभाष्य * उत्तराध्ययनभाष्य (?) - नोंध : (१) निशीष, बृहत्कल्प भने व्यवहारभाष्य न कर्ता सङ्घदासगणि होवानुं भगाय छे. अमारा संपाहनमां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साधे समाविष्ट धयुं छे. (२) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-३८ मां प्राशीत थयुं. ( 3 ) आवश्यकभाष्य भां गाथा प्रभाषा ४८३ च्युं मा १८३ गाथा मूळभाष्य ३ये छे सने 300 गाथा अन्य खेड भाष्यनी छे. हेनी समावेश आवश्यक सूत्र-सटीकं भां छे. [भे } विशेषावश्यक भाष्य पूजन प्रसिध्ध यथुं छे पशु ते समग्र आवश्यक सूत्र- परनुं भाष्य नथी जने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્યક અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] गाथाप्रमाण ४८३ ३२२ (४) ओघनिर्युक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति भां थयो ४ छे. पाश तेन विशेनो उल्टोज समोने भणेस नथी. [ ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માત્ત્વનો ઉલ્લેખ પણ જોવા મળેલ છે.] (4) उत्तराध्ययनभाष्यनी गाथा नियुक्तिभां लजी गयानुं संभनाथ छे (?) (5) आरीते अंग उपांग - प्रकीर्णक चूलिका जे ३५ आगम सूत्रो उपरनो श्रे ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३ये भाष्यगाथा भेवा भणे छे. (७) भाष्यकर्ता तरी भुज्य नाम सङ्घदासगणि भेवा भजेस छे. तेभ४ जिनभद्रगणिक्षमाश्रमण भने सिद्धसेन गणि નો પણ ઉલ્લેખ મળે છે. કેટલાંક માત્ત્વના કર્તા अज्ञात ४छे. ४६ ६३ Page #473 -------------------------------------------------------------------------- ________________ - - [6] वर्तमान आणे ४५मागमभा ५९ चूर्णिः क्रम चूर्णिश्लोकप्रमाण क्रम | चूर्णिश्लोकप्रमाण | | १. आचार-चूर्णि ८३०० ९.। दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ ११. जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि । १५०० १२.| आवश्यकचूर्णि १८५०० जंबूद्वीपप्रज्ञप्ति चूर्णि १८७९ | १३. दशवैकालिकचूर्णि ७००० ६. निशीथचूर्णि २८००० । १४. उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि | १६००० | १५. | नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि १२०० | १६./ अनुयोगदारचूर्णि नोंध:(१) 61 १६ चूर्णिमांथी. निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि अभा२॥२॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ટૂ પૂજ્યપાદ ખામોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે.. (3) दशवैकालिकनी मी0 मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनु प्रशन पूज्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विश AAG R५142 पायित मुं ४३ छे. भगवती चूर्णि तो मजे छ, ५ प्रशीत ५ नथी. तभ४ वृहत्कल्प, व्यवहार, पञ्चकल्प में ततो अनेछ ५९। शीत ययानुराम नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन् । नाम भुण्यत्वे संमाय छे. 3243 मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" मेचिन्त्यमानत" વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी पातो 32ी यिन्य ७. अंग-उपांग-प्रकीर्णक-चूलिका मे ३५ भागमा 6५२ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિવૃત્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. शत स्यां भाष्य, स्यis नियुक्ति सने या चूर्णिन। ममा वतमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वना ५६ लेपछ. Page #474 -------------------------------------------------------------------------- ________________ ?િ ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના - અમે સંપાદીત કરેલ ૩ાાન,ત્તા-સટી૪ માં બેકી નંબરના પૃષ્ઠો. ઉપર જમણી બાજુ ૩ મિસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩ રપ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ઘરમાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ધ્યાનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જે ગદ્ય હોય તો ત્યાં પેરેગ્રાફ ઈલથી કે છૂટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી ! - || ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓક્લિકમાં () પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓક્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - શ્રુતન્ય:/જૂના/અધ્યયનં ઉદ્દેશ: મૂર્ત પૂના નામક પેટા વિભાગ બીજા ભૃતમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) સ્થાન - થાન/વાધ્યય/મૂi (४) समवाय - समवायः/मूलं (૬) ભાવતી - શતાવ-ગંતરશતરદેશ:/Fd અહીં શતના પેટા વિભાગમાં બે નામો છે. (૧) ૩. (૨) સંતશતક કેમકે ત% ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શાવર - રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને અંશતઃ અથવા શતશત્ત નામથી ઓળખાવાય છે. जाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं પહેલા મૃતધામાં ધ્યાન જ છે. બીજા કુતબ્ધ નો પટાવિભાગ યા નામે છે અને તે ના પેટા વિભાગમાં અધ્યાત છે. (७) उपासकदशा- अध्ययन/मूलं (૮) જાદશા- વ ધ્યય/મૂi अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं કાર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને માવદર અને સંવાર કહ્યા છે. (કોઈક HIT ને બદલે કુતરૂચ શબ્દ પ્રયોગ પણ કરે છે) (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (१२) औपपातिक- मूलं (૧૩) રાજા - મૂi Page #475 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीयाभिगम- *प्रतिपत्तिः/* उद्देशकः/मलं આ આગમમાં ફક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે તે પછી એક પેટાવિભાગ नोपनीय छे. 343 प्रतिपत्ति -३.मा नेरइय, तिरिक्खजोणिय, मनुष्य, देव वा यार पेटविला ५. छ.तेवी तिपत्तिा(नेरइयआदि)।उद्देशक:/मूलं ते स्पष्ट ससा पासा छ, मेरी शमी प्रतिपत्ति ना उद्देशकः नवनयी ५६ ते पेटविलास प्रतिपत्तिः नामे ४ छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना पेट विमामi suis उद्देशकः छ, या द्वार छ ५२ ५द-२८न। पेटविल्लामा उद्देशकः અને તેના પેટા વિભાગમાં આજે પણ છે. सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञाप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं भाग १६-१७मा प्रामृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विभाग छ. ५९ उद्देशकः माह મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञाप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं भा१८ ची २३ निरयावलिकादि नामधा सा बामणे छ तने ७५ ५५ वर्ग तरी सूत्रमारे मोगमावला छ.i[-1, निरयावलिका, वर्ग-२ कल्पवतंसिका.., ५३ ४९ (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीय - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं | (३९) महानिशीथ - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक • अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन • अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #476 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र | मूलं | गाथा | क्रम | आगमसूत्र । मूलं | गाथा आचार । ६३ २. सूत्रकृत ७१ । ७० स्थान १४२ | १४२ समवाय ८०६ १०१० ३८३ १०८७ २४१ १७२ । १७२ १६१ । १३९ भगवती ज्ञाताधर्मकथा १३३ । १३३ उपासक दशा ७३ १३७ | १३७ ६२ ८२ । ८२ १३ ३०७ | ३०७ ४७ ३३. ६६४ | ६६४ ४७ १४२० ७७ १४७ | २४. चतुःशरण ७२३ । २५, आतुरप्रत्याख्यान | १६९ | २६. | महाप्रत्याख्यानं । | २७. भक्तपरिज्ञा ११४ । २ तंदुलवैचारिक । ५७ | २९. | संस्तारक गच्छाचार गणिविद्या ३२. देवेन्द्रस्तव मरणसमाधि ३४. निशीष ३५. बृहत्कल्प | ३६. व्यवहार ९३ । ३७. | दशाश्रुतस्कन्ध । | २३१ । ३८. 1 जीतकल्प महानिशीथ १०७ | ४०. आवश्यक १३१ ४१. | ओघनियुक्ति | ४१. पिण्डनियुक्ति १ ४२. दशवकालिक उत्तराध्ययन १ । ४४. । नन्दी ४५. | अनुयोगद्वार २८५ ३९८ ११४ । ५६ ६२२ । अन्तद्दशा अनुत्तरोपपातिक प्रश्नव्याकरण ११. विपाकश्रुत १२. | औपपातिक १३.. | राजप्रश्निय १४. जीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. | कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा १०३ । १०३ २१४ १०३ १५२८ १२ | २१ . ३६५ ११६५ ११६५ ७१२ । ७१२ ५ ५४० | ५१५ | ४३. १७३१ ।१६४० १६८ ३५० १४१ नों५ :- 6 गाथा संन्यानो समावेश मूलं भांप ४ नयछे.ते मूल सिवायनी माग गाथा सम४वी ना. मूल १०६ मे नमो. सूत्र अने गाथा बने भाट नो भादो संयुक्त भनु म छे. गाथा १४ संपानीमा सामान्य घरापती होवाथी तेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #477 -------------------------------------------------------------------------- ________________ [૧] [૨] [3] [૪] [૫] [<] [૯] [૧૦] कृदन्तमाला [s] चैत्यवन्दन पर्वमाला [9] [૧૧] [૧૨] [૧૩] · [૧૪] [૧૫] [૧૬] [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨] [૨૬] [૨૭] [૨૮] [૨૯] [૩૦] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] [10] ~: અમારા પ્રકાશનો : . - अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया - ४ - .. 4 सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी શત્રુીય મત્તિ બાવૃત્તિ-વો] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય – ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) - = સમાધિ મરણ [વિધિ - સૂત્ર – પદ્ય – આરાધના-મરણભેદસંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી. શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો – [આવૃત્તિ – ચાર અભિનવ જૈન પંચાંગ – ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ Page #478 -------------------------------------------------------------------------- ________________ [11] [36] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [३७] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[૩૮] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ ૪િ૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६J विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६]] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं {५१] एण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एमरसमं अंगसुत्तं उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पनवणासुतं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुतं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छह उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तम उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुत्तं [६] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२] एकरसमं उवंगसुत्तं [६४] यहिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं आगमसुत्ताणि-२४ ] पढम पईपणगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] वीअं पईग्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६ ] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्थं पईण्णगं Page #479 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छटुं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्ञा [आगमसुत्ताणि-३१] अट्टमं पईण्णगं [७४] देविंदस्यओ [आगमसुत्तापि-३२ ] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९) ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंध [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुतं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिनुत्ति [आगमसुत्ताणि-४१/१] [८६] पिंडनिजृत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७) दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [C] मायार ગુજરાતી અનુવાદ આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूय3 ગુજરાતી અનુવાદ (આગમદીપ-૧] બીજું અંગસૂત્ર हा ગુજરાતી અનુવાદ (આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय ગુજરાતી અનુવાદ (આાગમદીપ-૧] ચોથું અંગસૂત્ર [५] विचाडपति - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર નાયાધમ્મકા - ગુજરાતી અનુવાદ (આગમદીપ-a] છઠ્ઠ અંગસૂત્ર [८७] पाससा - ગુજરાતી અનુવાદ (આગમદીપ-૩] સાતમું અંગસૂત્ર [ed) संत ગુજરાતી અનુવાદ (આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ (આગમદીપ-3 નવમું અંગસૂત્ર [१००] पापागरक्ष- ગુજરાતી અનુવાદ [આગમદીપ-3 દશમું અંગસૂત્ર बीअं मूलसुत्तं-१ Page #480 -------------------------------------------------------------------------- ________________ [13]. [૧૦૧] વિવાગસૂય[૧૦૨] ઉવવાય [૧૦૩ રાયપૂસેણિય - [૧૦] જીવાજીવાભિગમ - [૧૫ પન્નવણાસુર [૧૦] સૂરપન્નત્તિ - [૧૦૭) ચંદપન્નતિ - [૧૦૮ બુદીવપન્નતિ - [૧૯] નિરયાવલિયા [૧૧૭] કપૂવડિસિયા - [૧૧૧ પુસ્ફિયા - [૧૧૨] પુષ્કચૂલિયા - [૧૧૭] વદિસા - [૧૧] ચઉસરણ - [૧૧] આઉરપચ્ચખાણ - [૧૧] મહાપચ્ચખાણ - [૧૧૭] ભત્તપરિણા - [૧૧૮] તંદુલવેયાલિય - [૧૯] સંથારગ - [૧૨] ગચ્છાધાર - [૧૧] ચંદાવેય - [૧૨] ગણિવિશ્વ૧૨૩] દેવિદત્યઓ - [૧૨૪] વીરથવ - [૧૨૫ નિસહ[૧૨] બુહતકM - [૧૨૭] વવહાર - - [૧૨૮ દસાસુયફખંધ - [૧૨૯ યકપ્પો - [૧૩] મહાનિસીહ[૧૩૧] આવસ્મય - [૧૩૨] ઓહનિન્જત્તિ - [૧૩] પિંડનિસ્તુત્તિ - [૧૩૪ો દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૩] અગિયારમું અંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪ ચોથું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ આઠમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫ નવમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-પ દશમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૬] પહેલો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬) બીજે પત્રો ગુજરાતી અનુવાદ (આગમદીપ-] ત્રીજો પયગ્નો ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમો પડ્યો ગુજરાતી અનુવાદ [આગમર્દીપ-) છઠ્ઠો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૧ ગુજરાતી અનુવાદ (આગમદીપ-૬] સાતમો પયશો-૨ ગુજરાતી અનુવાદ (આગમદપ-કો આઠમો પડ્યો ગુજરાતી અનુવાદ આગમદીપ- નવમો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] દશમો પયત્રો ગુજરાતી અનુવાદ [આગમદીપ-] પહેલું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] ત્રીજું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-s] ચોથું છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] છઠ્ઠ છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ ગુજરાતી અનુવાદ [આગમદીપ-૭ બીજું મૂલસુત્ર-૨ ગુજરાતી અનુવાદ (આગમદીપ-છ ત્રીજું મુલસૂત્ર Page #481 -------------------------------------------------------------------------- ________________ [14] [१3५] 6त्त२४सया - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદસુત્ત - ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલી ચૂલિકા [૧૩૭] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्र सटीक आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पक्तंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #482 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुल वैचारिक प्रकीर्णकसूत्रं सटीक [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [ १७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं निशीथछेदसूत्रं सटीक बृहत्कल्पछेदसूत्रं सटीकं [ १७३ ] [ १७४] [ १७५ ] व्यवहारछेदसूत्रं सटीकं [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७ ] जीतकल्पछेदसूत्रं सटीक [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीक [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीक [१८२] दशवैकालिकमूलसूत्रं सटीक [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक - १४ आगमसुताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं -१५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं- २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं- २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्ड स्थण :'आगम आराधना द्वेन्द्र શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, વ્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #483 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवर समाविष्टा आगमाः | आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग- ५-६ भाग-७ भाग-८ भाग-९ भाग- १०-११ भाग- १२ भाग- १३ भाग-१४ आयार सूत्रकृत स्थान समवाय भगवती (अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण चिपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, | तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७ नीशीथ भाग - १८-१९-२० बृहत्कल्प भाग- २१-२२ व्यवहार भाग- २३ | दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग- २४-२५ आवश्यक भाग- २६ ओघनिर्युक्ति, पिण्डनिर्युक्ति भाग- २७ दशवैकालिक भाग- २८-२९ भाग- ३० उत्तराध्ययन नन्दी, अनुयोगद्वार Page #484 -------------------------------------------------------------------------- ________________ TOUCH