________________
श्रुतस्कन्धः - २, अध्ययनं-६,
४३३
मू. (७६८) उई अहेयं तिरियं दिसासु, विनाय लिंगि तसथावराणं।
भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी। वृ. परपक्षं दूषयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासुसस्विपिदिक्षुत्रसानां स्थावराणांचजन्तूनां यत्त्रसस्थावरत्वेन जीवलिङ्गचलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया' जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्धया सर्वमनुष्टानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीहअस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति। मू. (७६९) पुरिसेत्ति विन्नत्तिन एवमत्थि, अनारिए से पुरिसे तहा हु।
को संभवो? पिनगपिडियाए, वायावि एसा बुइया असच्चा ।। वृ. अधुना पिण्याके पुरुषबुद्धया असंभवमेव दर्शयितुमाह-'पुरिसे'त्यादि, तस्यां पिण्याकपिण्डयां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेवनास्ति, तस्माद्यएवं वक्तिसोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमत्वा हतेऽपि नास्ति दोष इत्येवं वदेत, तथाहि-कः संभवः पिन्नाकपिण्डयां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सत्त्वोपघातकत्वात्, ततश्च निशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्याककाष्ठादावपि प्रवर्तमानेन जीवोपमभीरुणा साशङ्केन प्रवर्तितव्यमिति । मू. (७७०) वायाभियोगेण जमावहेज्जा, नो तारिसं वायमुदाहरिजा।
अट्ठाणमेयं वयणं गुणाणं, नो दिक्खिए बूय सुरालमेयं ।। वृ. किञ्चान्यत्-वाचाऽभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न ताद्दशी भाषाभुदाहरेत्-नाभिदध्यायत एवंततोऽस्थानमेतद्वचनं गुणानां, न हि प्रव्रजितोयथावस्थितार्थामिधायी एतद् 'उदारं' सुष्टु परिस्थूरं निसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति । मू. (७७१) लद्धे अढे अहो एव तुब्भे, जीवानुभागे सुविचिंतिए व ।
पुव्वं समुदं अवरं च पुढे, उलोइए पाणितले ठिए चा।। घृ. साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं बिमणिषुराह'लद्धे' इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽथों-विज्ञानं यथावस्थितं तत्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवं भूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरंच स्पृष्टं, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञाना वलोकननावलोकितः पाणितलस्थ इवायं लोक इतिअहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानमिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति । मू. (७७२) जीवानुभागंसुविचिंतयंता, आहारिया अन्नविहीय सोहि ।
न वियागरे छन्नपओपजीवि, एसोऽनुधम्मो इह संजयाणं ।। 728
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org