________________
४३२
सूत्रकृताङ्ग सूत्रम् २/६/-७६४ वृ. अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुष खलबुद्धया कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽग्नावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति। मू. (७६५) पुरिसंच विभ्रूण कुमारगंवा, सूलंमि केई पए जायतेए।
पिनाय पिंडिं सतिमारुहेत्ता, बुद्धाणं तं कप्पति पारणाए। वृ.किंचान्यत्-'पुरिस'मित्यादि, पुरुषं वा कुमारकंवा विद्धवाशूलेकश्चित्पचेत् 'जाततेजसि' अग्नावारुह्य खलपिण्डीयमिति मत्वा 'सती' शोभनां, तदेतद्बुद्धानामपि पारणाय' भोजनाय 'कल्पते योग्यं भवति, किमुतापरेषाम्?,एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितंपरिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति" पुनरपि शाक्य एव दानफलमधिकृत्याहमू. (७६६) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं ।
ते पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ।। पृ.स्नातका बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः,तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषामहासत्त्वाः श्रद्धालवःपुण्यस्कन्धं महान्तं समावM तेन च पुण्य स्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । मू. (७६७) अजोगरूवं इह संजयाणं, पावंतु पाणाण पसज्झ काउं।
अबोहिए दोण्हवितं असाहु, वयंतिजे यावि पडिस्सुणंति ॥ वृतदेवं बुद्धेन दानमूलः शीलमूलश्च धर्म प्रवेदितः, तद् ‘एहि' आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवंभिक्षुकैरभिहितः सन्नाकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह'अजोगरूव'मित्यादि, 'इह' अस्मिन् भवदीये शाक्यमते 'संयतानां भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यगज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धि फलवती भवति, तद्विपर्यस्तमतेस्तवज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्याभावशुद्धिः?,
अतोऽत्यंतमसाम्प्रतमेतबुद्धमतानुसारिणांयत्खलबुद्धयापुरुषस्य शूलपोतनपचनादिकं, तथा बुद्धस्य पिन्नाकबुद्धया पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्इन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्चतेषांपापाभावव्यावर्णनम् 'अबोध्यै अबोधिलामार्थतयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् ।कयोद्धयोरित्याह-ये वदन्तिपिण्याकबुद्धयापुरुषपाकेऽपि पातकाभावं, येच तेभ्यः शृण्वन्ति, एतयोद्धयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्धया शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकंचानुष्ठानमनर्थकमापद्यते, तस्मानैवंविधया मावशुद्धया शुद्धिरुपजायत इति स्थितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org