________________
श्रुतस्कन्धः - २, अध्ययनं - ६,
४३१
प्तिनिर्जरालक्षणः स च सादिरनन्तश्च तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथामृत्मेवोदयं साधयित कथयति श्लाघते वा ।
किंभूतो भगवान् ? - 'तायी' 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोण्निप्रत्येय रूपं, मोक्षं प्रति गमनशील इत्यर्थ, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा 'ज्ञाती' ज्ञाताः क्षत्रिया ज्ञातं वा जम्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति ।
मू. (७६२)
अहिंसयं सव्वपयानुकंपी, धम्मे ठियं कम्मविवेगहेडं । तमायदंडेहिं समायरतं, अबोहीए ते पडिरूवमेयं ॥
वृ. साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाद्युपभोगं कुर्वन्नप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्त्तनादतोऽसौ भगवानहिंसकः ।
तथा सर्वेषां प्रजायन्त इति प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंरूपं 'धर्मे' परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वाणिगादिभिरुदाहरणैः, एतच्चाबोधे:- अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति ।
साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुः
मू. (७६३) पिन्नागपिंडीमवि विद्ध सूले, केइ परजा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणि वहेण अम्हं ॥
वृ. यदेतद्वणिग्ध्ष्टान्तदूषेणन् बाह्यमनुष्ठानं दूषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्रायं बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठानं संसामोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धांते चैतदेव व्यावर्ण्यते, इत्येतदाककुमार भो राजपुत्र ! त्वमहितः शृणु श्रुत्वा चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः पिन्नागे "त्यादि, पिण्याकः ' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नशयता प्रावरणं खलोपरि प्रक्षिप्तं । तञ्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्डया सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डीं पुरुषबुद्धया शूले प्रोतां पावके पचेत्,
तथा 'अलाबुकं' तुम्बकं कुमारकोऽ- यमिति मत्वाऽग्नावेव पपाच स चैवं चित्तस्य दुष्टत्वाव्याणिवधजनितेन पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुमा शुभबन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिधातकफलेन युज्यते ।
मू. (७६४) अहवावि विद्धूण मिलक्खु सूले, पिनागबुद्धीइ नरं पएज्जा । कुमारगं वावि अलायंति, न लिप्पइ पाणिवहेण अम्हं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org