________________
४३४
सूत्रकृताङ्ग सूत्रम् २/६/-/७७२
वृ. तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह- मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त मार्गानुसारिणो जीवानामनुभागम् अवस्थाविशेषं तदुपमर्द्देन पीडां वा सुष्ठु 'विचिन्तयन्तः' पर्यालोचयन्तोऽनविधी शुद्धिम् 'आहृतवन्तः ' स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितंन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी रून् न व्यागृणीयाद् 'एषः' अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानाद- नन्तरं भवतीत्यनुना विशिष्यते ।
'इह' अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां सत्साधूनां न तु पुनरेवंविधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसाध्श्यं चोद्यते तदविज्ञान लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किंचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा- गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थिति, तथा समानेऽपि स्त्रीत्वे भार्यास्वानादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्टया योऽयं प्राण्डङ्गत्वादिति हेतुर्भवतोपन्यस्यते
तद्यथा
|| 9 11
भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं कश्चिदाहातितार्किकः ॥
सोऽसिद्धानैकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि - निरंशत्वाद्वस्तुनस्तदेव मासं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थैकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यत्वाद्, अथ भिन्नं प्राण्यङ्ग ततः सुतरामसिद्धो व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्ण्यात्, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि किचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यत्वादनैकान्तिकत्वं तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसोदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् ।
मू. (७७३) सिणावगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुगाणं । असंजए लोहियपाणि से ऊ, नियच्छति गरिहमिव लोए ।।
वृ. अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूद्य दूषयितुमाह- 'सिणायगाणं तु' इत्यादि, 'स्नातकानां ' बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहद्वयं भोजयेदित्युक्तं प्राक् तद्दूषयतिअसंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गर्हा' निन्दां जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गति यातीति । एवं तावत्सावद्यानुष्ठानानुमन्तृणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत्
यू. (७७४)
धूलं उरब्धं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥
यू. आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्ऊरणकमिह - शाक्यशासने भिक्षुक संघोद्देशेन 'व्यापाद्य' घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विक वा तमुरभ्रं तन्मांसं च लवगतैलाभ्यामुपस्कृत्य पाचयित्वा सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org