________________
४३५
श्रुतस्कन्धः - २, अध्ययनं-६, मू. (७७५) तं जमाणा पिसितं पभूतं, नो उवलिप्पामो वयं रएणं ।
इच्चेवमाहंसु अणजधम्मा, अनारिया बाल रसेसु गिद्धा । वृ.संस्कृत्यच यत्कुर्वन्तितद्दर्शयितुमाह-'तंभुंजमाणा इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्याइवभुआनाअपि प्रभूतं तद्रजसा-पापेन कर्मणा नवयमुपलियामह इत्येवंधाट्योपताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला इव बाला विवेकरहितत्वाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः । मू. (७७६) जे याविभुंजति तहप्पगारं, सेवंति ते पावमजाणमाणा।
मणं न एयं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ।। वृ. इत्येतच्चतेषांमहतेऽनयतिदर्शयतियेचापिरसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति तेऽनार्या 'पापं' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम् --
हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य - यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्राहकप्रमवं नितान्तमलिनं सद्भिः सदा निन्दितं,
को भुङ्कते नरकाय राक्षससमो मांसं तदात्मद्रुहः? || ॥२॥ (अपि च) मांस भक्षयिताऽमुत्र, यस्य मांसमिहद्वयहम् ।
एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः॥ ।।३।। (तथा) योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते।। तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा यथा न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्तामिथ्या, तुशब्दान्मनोऽपितदनुमत्यादौन विधेयमति, तनिवृत्ती चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम् -
श्रुत्वा दुःखपम्परामतिधृणां मांसाशिनांदुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् ।
सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते,
मत्येषूद्भटभोगधर्ममतिषु स्वर्गापगर्गेषु च । (इत्यादि) मू. (७७७) सच्चेसि जीवाण दयट्ठाए, सावज्जदोसं परिवज्जयंता!
तस्संकिणो इसिणो नायपुत्ता, उदिट्टमत्तं परिवज्जयंति ।। धृ. न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षणां परिहर्तव्यमिति दर्शयितुमाह'सव्वेसि' मित्यादि, सर्वेषां जीवानांप्राणार्थिनां, न केवलंपञ्चेन्द्रियाणामेवेतिसर्वग्रहणं, 'दयार्थतया' दयानिमित्तंसावद्यमारम्भमहानयंदोषं इत्येवं मत्वातंपरिवर्जयन्तः साधवस्तछंकिनो-दोषशविनः 'ऋषयो' महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्टं दानाय परिकल्पितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org